प्रतापरुद्रीय · अध्याय 8
इति श्रीविद्यानाथकृतौ प्रतापरुद्रयशोभूषणे ऽलंकारशास्त्रे
शब्दालंकारप्रकरणं समाप्तम् ।
विइइ. ॥ अथ अर्थालंकाराः ॥
तत्र प्रथममनेकालंकारबीजभूतत्वादुपमा निरूप्यते ।
[विइइ.1.उपमाविभागः]
स्वतः सिद्धेन भिन्नेन संमतेन च धर्मतः ।
साम्यमन्येन वर्ण्यस्य वाच्यं चेदेकदोपमा
यत्र स्वतः सिद्धेन स्वतो भिन्नेन सहृदयसंमतेनाप्रकृतेन सह प्रकृतस्य धर्मतः सादृश्यमेकदा वाच्यं चेद् भवति तत्रोपमा । स्वतः सिद्धेनेत्यनेनोत्प्रेक्षाव्यावृत्तिः । उत्प्रेक्षायामप्रसिद्धस्याप्युपमानत्वसंभवात् ।
यथा---
कीर्त्तिः काकतिवीरुद्रनृपतेः सिंहासनाध्यासिनः
प्राचां भुमीभुजां यशः पिदधती कोटीन्दुतुल्यद्युतिः ।
रक्षादक्षिणराजलाभजनितामन्दप्रमोदोत्थिता
रैलोक्याट्टहासप्रभवे ककुभां प्रान्तेषु विद्योतते
अत्र प्रभाशब्दो जातिवचनः । त्रैलोक्याट्टहासप्रभायाः कविप्रौढोक्तिसिद्धत्वान्नोपमाशङ्कावकाशः । स्वतो भिन्नेनेत्यनेनानन्वयन्यावृत्तिः । अनन्वये एकस्यैवोपमानोपमेयत्वसंभवात् । तथा हि---
सन्तु लोके सुवर्णाद्रिरत्नाकरसुधाकराः ।
तथापि वीररुद्रो ऽयं वीररुद्र इव स्वयम्
संमतेनेत्यनेन न्यूनोपमादिव्यावृत्तिः । यथा---
उदन्वानिव गम्भीरः सुवर्णाद्रिरिवोन्नतः ।
दिङ्महेभ इव क्षोणीधौरेयः काकतीश्वरः
अत्र समुद्रसुवर्णाद्रिदिग्गजानामुपमानत्वं योग्यमित्युपमैवेयम् । धर्मत इत्यनेन श्लेषालंकारवैलक्षण्यम् । श्लेषे शब्दसाम्यमात्रमभ्युपगतं न गुणक्रियासाम्यम् । तथा हि ---
नीराजयन्त्यध्रपुरीरमण्यः प्रदीपजालैर्वरवीररुद्रम् ।
चन्द्रानना गोत्रपतिं रजन्यस्तारागणैर्मेरुमिव स्फुरद्भिः
अत्र प्रतापरुद्रं पुरस्त्रियो नीराजयन्ति मेरुं रजन्य इवेति नोपमा । गोत्रपतिमिति विशेषणार्थस्य साम्याभावात् ।
गोत्रशब्देन राजपक्षे कुलप्रतीतिः, मेरुपक्षे पर्वप्रतीतिः । तथा चन्द्रानना इति स्त्रीपक्षे चन्द्र इव आननं यासामिति समासः । रात्रिपक्षे चन्द्र एवाननं यासामिति शब्दमात्रसाम्येन नोपमाप्राप्तिः । किं तु श्लेष एव । अन्येन वर्ण्यस्य साम्यमित्यनेन प्रतीपालंकारो व्यावर्त्यते । तथा हि---
लोको ऽयमविशेषज्ञः किं कुर्मः कस्य कथ्यते ।
यत् काकतिनरेन्द्रेण सुमेरुरुपमीयते
अत्राप्रकृतस्य मेरोः प्रकृतेन राज्ञा सादृश्यमिति प्रतीपालंकारो नोपमा ।
एकदा साम्यमित्यनेन उपमेयोपमाव्यावृत्तिः । उपमेयोपमायामुपमानोपमेययोरनेकदा साम्यप्रतिपादनम् ।
धर्मो ऽर्थ इव पूर्णश्रीरर्थो धर्म इव स्थितः ।
कामस्ताविव तौ काम इव रुद्रनरेश्वरे
अत्र धर्मो ऽर्थ इव अर्थो धर्म इवेत्यनेकदा इवशब्दद्वयेन धर्मार्थकामानां सादृश्यं प्रतिपाद्यत इत्युपमेयोपमा । वाच्यमित्यनेन प्रतीयमानौपम्यानां रूपकसंदेहभ्रान्तिमदुल्लेखापह्नवतुल्ययोगितादीपकप्रतिवस्तूपमादृष्टान्तसहोक्तिव्यतिरेकनिदर्शनानां वैलक्षण्यम् । तथा हि---
प्रतापरुद्रनृपतेर्मण्डलाग्रविधुंतुदः ।
अखण्डविक्रमोद्दामो ग्रसते राजमण्डलम्
अत्र मण्डलाग्रविधुंतुदयोः सामानाधिकरण्यान्यथानुपपत्त्या सादृश्यं लक्ष्यत इति नोपमा ; किं तु रूपकालङ्कारः ।
[विइइ.2-रीपकालरङ्कारः]
किमेष नवमो हरित्पतिरमन्दसंपत्पदं
किमेष दशमः प्रजापतिरपूर्वसर्गक्रमः ।
किमेष हरिरुर्वरोद्धरणचुञ्चुरेकादशश्
चिरादिति वितर्क्यते जगति काकतीन्द्रो जनैः
अत्र काकतीश्वरस्य हरित्पतिप्रभृतीनां च परस्पराभेदप्रतीतेः संदेहनिबन्धनान्यथानुपपत्त्या सादृश्यमाक्षिप्यते; ततः संदेहालंकारः ।
काकतीयविभोः कीर्त्तिविभवे व्याप्तरोदसि ।
दिवापि चन्द्रिकाबुद्ध्या चकोरा यान्ति निर्वृतिम्
अत्र कीर्त्तिविभवे चन्द्रिकाबुद्धिः चन्द्रिकासादृश्यं विना न संभवतीति सादृश्याक्षेपात् भ्रान्तिमदलङ्कारः ।
[विइइ.3-भ्रान्तिमदलङ्कारः]
लक्ष्मीनिवासगृहमित्यखिला नरेन्द्राः
शौर्यातिभूमिखनिरित्यरिवीरवर्गाः ।
विद्याविहारपदवीति च लब्धवर्णाः
श्रीकाकतीन्द्रनगरीमनिशं स्तुवन्ति
अत्र नगर्यां तत्तत्पदार्थतारोपः सादृश्यादृते न संभवतीति सादृश्यकल्पनादुल्लेखालंकारः ।
वीररुद्रस्य भूपालजयहोमं वितन्वतः ।
धूमरजिरियं भाति न चमूरेणुरुत्थिता
अत्रोत्थितां चमूरेणुमवलोक्य धूमपङ्क्तिरित्यपह्नवेनारोपः सादृश्यमूल एवेति सादृश्याक्षेपादपह्नवः । एवं तुल्ययोगितादिष्वपि सादृश्यस्य गम्यत्वान्नोपमाशङ्का । अतः सर्वेभ्यः सादृश्यमूलेभ्यो विलक्षणेयमुपमा ।
सा प्रथमं द्विधा - पूर्णा लुप्ता चेति । उपमानोपमेयसाधारणधर्मसादृश्यप्रतिपादकानां चतुर्णां प्रयोगे पूर्णा । एकस्य द्वयोस्त्रयाणां वा लोपे लुप्ता । पूर्णा द्विविधा---श्रौती आर्थी चेति । साक्षात्सादृश्यप्रतिपादकयथेवादिशब्दानां प्रयोगे श्रौती । धर्मिव्यवधानेन सादृश्यप्रतिपादकानां
सदृशसंकाशनीकाशप्रतीकाशादिशब्दानां प्रयोगे आर्थी । द्वे अपि वाक्यसमासतद्धितगतत्वेन त्रिवेधे । एवं
पूर्णोपमा षट्प्रकारा । लुप्तोपमा एकोनविंशतिभेदा । "तेन तुल्यं क्रिया चेद् वतिःऽ; इति सदृशार्थे विहितस्य वतेरुपादाने आर्थी । "तत्र तस्येवऽ; इति इवार्थे विहितस्य वतेरुपादाने श्रौती । अत एव सादृश्यार्थे विहितस्य वतेः प्रयोगे धर्मोपादान एवान्वयसौकर्यादनुक्तधर्मा तद्धितगा श्रौती लुप्ता नास्ति । कल्पबादिप्रयोगे त्वार्थ्येव । अथोदाहरणानि । वाक्यगा पूर्णा श्रौती यथा---
उद्दामोद्यतविक्रमे कृतयुगे बाहौ ययातेर्यथा
त्रेतायां रघुनायकस्य महितख्यातौ भुजायां यथा ।
दोर्दण्डे च युधिष्ठिरस्य विलसच्छौर्ये यथा द्वापरे
विस्रब्धाद्य कलौ तथैव रमते क्षोण्यन्ध्रभर्तुर्भुजे
समासगा पूर्णा श्रौती यथा---
भास्वानिवोद्यन्नुदयाद्रिलम्बी भद्रासनस्थो वरवीररुद्रः ।
उत्पश्यतामन्ध्रपुरीजनानां नेत्राब्जजाड्यं शमयत्यशेषम्
अत्र भास्वानिवेति इवेन सह नित्यसमासः । तद्धितगा पूर्णा श्रौती यथा---
कूर्मवच्छेषवद् गोत्रगिरिवद्दिङ्महेभवत् ।
भुजे प्रतापरुद्रस्य धुरीणे भाति मेदिनी
वाक्यगा पूर्णार्ऽऽथी यथा---
तैस्तैर्महीपालनसंविधानैस्तैस्तैः प्रजारञ्जनवैभवैश्च ।
विराजते संप्रति काकतीयलक्ष्मीपतिर्दाशरथेः समानः
समासगा पूर्णार्थी यथा---
तादृक्पालनसामर्थ्यसंपदा काकतीश्वरः ।
हरिदीश्वरसंकाशः शास्ति मध्यमविष्टपम्
तद्धितगा पूर्णार्थी यथा---
हेमाचलवदौन्नत्ये गाम्भीर्ये क्षीरसिन्धुवत् ।
प्रतापे भानुवद् भाति वीररुद्रनरेश्वरः
एषूदाहरणेषूपमेयोपमानसाधारणधर्मसादृश्यप्रतिपादकानि चत्वारि निबद्धानीति पूर्णत्वम् ।
अथ लुप्तोपमाया उदाहरणानि ।
अनुक्तधर्मा वाक्यगा श्रौती लुप्ता यथा---
यथा रुचां स्वामिनि चक्रवाक्यो यथा च नीहाररुचौ चकोर्यः ।
यथा प्रसूनस्तबके भ्रमर्यस्तथा प्रजाः काकतिवीररुद्रे
अनुक्तधर्मा समासगा श्रौती लुप्ता यथा---
प्रतापरुद्रदेवस्य पादपीठीमनारतम् ।
आराधयन्ति भूपालाः प्रणता देवतामिव
अनुक्तधर्मा वाक्यगा आर्थी लुप्ता यथा---
काकतिक्ष्मापतेर्जैत्रप्रस्थानपटहध्वनिम् ।
तुल्यं दम्भोलिनिर्घोषैः शृण्वन्त्यरिमहीभृतः
अनुक्तधर्मा समासगा आर्थी लुप्ता यथा---
शश्वत्पुरीमेकशिलाभिधानां वस्वोकसारासदृशीमवेक्ष्य ।
नमन्ति भूपा भुवि काकतीयराज्यप्रतिष्ठां बहुमन्यमानाः
अनुक्तधर्मा तद्धितगा आर्थी लुप्ता यथा---
प्रतापरुद्रनृपतेर्जगन्महिततेजसः ।
कन्दर्पकल्पमाकारं पश्यन्त्यन्ध्रपुरन्ध्रयः
एषूदाहरणेषु धर्मस्यानुपादानम् ।
अनुक्तधर्मेवादिः कर्मक्यचा लुप्ता यथा---
दुग्धार्णवीयत्वम्भोधीन् कैलासीयति भूधरान् ।
प्रतापरुद्रदेवस्य यशोवैशद्यवैभवम्
अनुक्तधर्मेवादिराधारक्यचा लुप्ता यथा---
क्रीडाद्रीयति गोत्रशैलशिखरेष्वास्थानसद्मीयति
द्वीपेष्वब्धिषु दीर्घिकीयति हरित्स्वेकान्तगेहीयति ।
उद्यानीयति सीमपर्वततटारण्ये सुपर्वाचले
प्रासादीयति वीररुद्रनृपतेः स्फारः प्रतापोदयः
अनुक्तधर्मेवादिः कर्मणमुला लुप्ता यथा---
पश्यन्त्यात्मजदर्शमिन्दुममरस्रोतस्विनीं सत्सवी-
दर्शं क्षीरपयोनिधिं प्रियसुहृद्दर्शं गिरिं राजतम् ।
लीलादर्पणदर्शमन्यदमलं तारादि हारावली-
दर्शं खेलति वीररुद्रनृपतेः कीर्त्तिर्जगद्व्यापिनी
अनुक्तधर्मेवादिः कर्तृणमुला लुप्ता यथा---
नृपेषु शिक्षाविधिदण्डचारं कान्तासु पुष्पायुधधन्वचारम् ।
प्रजासु चालम्बनयष्टिचारं चरत्ययं रुद्रनरेन्द्रखड्गः
अनुक्तधर्मेवादिः क्विपा लुप्ता यथा---
सुधाप्रवाहति सतामसतां कालकूटति ।
वीररुद्रनरेन्द्रस्य गुणज्योत्स्नाविजृम्भितम्
एषूदाहरणेषु द्वयोरनुपादानम् । अम्भोधीन् दुग्धार्णवीयतीत्यत्र कर्मक्यचि दुग्धार्णवानिव करोतीति, गोत्रशिखरेषु क्रीडाद्रीयतीत्याधारक्यचि क्रीडाद्रीष्विव वर्तत इति, चन्द्रमात्मजदर्शं पश्यन्तीति कर्मणमुलि आत्मजमिव पश्यन्तीति, शिक्षाविधिदण्डचारं चरतीति कर्तृणमुलि शिक्षाविधिदण्ड इव चरतीति इवशब्दो ऽन्तर्गत इति तस्य लुप्तत्वम् । अनुक्तधर्मीवदिः कर्तृक्यचा लुप्ता यथा---
ज्योत्स्नीयन्ति सुधीयन्ति चन्दनीयन्ति सर्वतः ।
प्रतापरुद्रनृपतेः शुभ्राः कीर्त्तेर्महोर्मयः
अत्र कीर्त्तीनां स्वरूपमुपमेयम् ।
अनुक्तधर्मेवादिः कर्तृक्यङा लुप्ता यथा---
शेषायते महीं वोढुं कल्पशाखायते ऽर्थिनाम् ।
प्रतापरुद्रदोर्दण्डः कालदण्डायते द्विषाम्
अनुक्तोपमाना वाक्यगा लुप्ता यथा---
वदान्यो नान्यो ऽस्ति त्रिजगति समो रुद्रनृपतेर्-
गुणश्रेणीश्लाघापिहितहरिदीशानयशसः ।
समन्तादुद्भूतैर्द्विरदमदगन्धैः सुरभयः
क्रियन्ते यद्विद्वज्जनमणिगृहप्राङ्गणभुवः
अनुक्तोपमाना समासगा लुप्ता यथा---
वीररुद्रसमो राजा नास्ति नास्त्येव भूतले ।
यस्य धर्मानुबन्धेन कलिः कृतयुगीकृतः
अनुक्तधर्मोपमाना वाक्यगा लुप्ता यथा---
लोके काकतिवीररुद्रनृपतेरुद्दामभूमश्रियः
कीर्त्त्या कार्त्तिककौमुदीधवलया तुल्यं न किंचित् क्वचित् ।
यन्माधुर्यविजृम्भितक्षतविषां ग्रीवां विलोक्याधुना
कण्ठालिङ्गनमीशितुर्वितनुते नीरन्ध्रमद्रेः सुता
अनुक्तधर्मोपमाना समासगा लुप्ता यथा---
प्रतापश्रीतुल्यं क्वचिदपि न भूतं न च भवेत्
न भावि त्रैलोक्ये किमपि जयिनः काकतिविभोः ।
यथा लोकालोकक्षितिधरतटेष्वर्कदृषदः
प्रकाशन्ते नक्तंदिवमुदितरोचिः परिचयाः
पूर्वोदाहरणद्वये वदान्यो नान्यो ऽस्तीति राजेति शब्दाभ्यां वितरणशीलत्वं प्रजारञ्जकत्वं च साधर्म्यमुक्तम् । अनन्तरोदाहरणद्वये धर्मस्याप्यनुपादानमिति भेदः । एषु चतुर्षूदाहरणेषु न प्रतीपालंकारशङ्का । उपमानस्याक्षेपाभावात् ; उपमेयस्याधिक्याविवक्षणाच्च । यत्रोपमेयस्याधिक्यविवक्षयोपमानत्वमुच्यते तत्रैव प्रतीपालंकारः । अनुक्तेवादिः समासगा लुप्ता यथा---
असतामुष्णभानूष्णं सतां शीतांशुशीतलम् ।
प्रतापरुद्रदेवस्य चरितं विश्वमङ्गळम्
अनुक्तधर्मेवाद्युपमाना समासगा लुप्ता यथा---
काकतीन्द्रो रणे भाति भीमसेनपराक्रमः ।
किंत्वदुः शासनाः सर्वे यस्य प्रत्यर्थिपार्थिवाः
अत्र भीमसेनस्य पराक्रम इव पराक्रमो यस्य सः भीमसेनपराक्रम इति धर्मेवाद्युपमालुप्ता । इति लुप्तोपमा दर्शिताः ।
अथ साधारणधर्मोपादाने द्वैविध्यम् । धर्मस्य सकृदुपमानोपमेयगतत्वेन निर्देशः, उभयगतत्वेन पृथगुपादानं च । पृथगुपादानं च वस्तुप्रतिवस्तुभावेन बिम्बप्रतिबिम्बभावेन च द्विविधम् । एकस्यार्थस्य शब्दद्वयेनाभिधानं वस्तुप्रतिवस्तुभावः । द्वयोरर्थयोर्द्विरुपादानं बिम्बप्रतिबिम्बभावः । सकृन्निर्देशो यथा---
नृपाः प्रणतमूर्धानः सेवन्ते काकतीश्वरम् ।
असाधूनां विनेतारं गुरुं शिष्या इवाभितः
अत्र नरेश्वराणां शिष्याणां च प्रणतमूर्धान इति सकृदेव साधर्म्यमुक्तम् । यथा असाधूनां विनेतारमिति राज्ञो गुरोश्च तुल्यधर्मत्वं सकृदेवोक्तम् । वस्तुप्रतिवस्तुभावेन द्विधा निर्देशो यथा---
वंशो ऽयं काकतीयानां वीररुद्रेण भूषितः ।
अन्ववायः ककुत्स्थानां रामेणेव परिष्कृतः
अत्र भूषितपरिष्कृतशब्दाभ्यामेकार्थप्रतीतेर्वस्तुप्रतिवस्तुभावः ।
बिम्बप्रतिबिम्बभावो यथा---
स्फुरच्छ्रवेतातपत्रश्रीः काकतीयनरेश्वरः ।
हाटकाद्रिरिवाभाति शृङ्गसङ्गीन्दुमण्डलः
अत्र श्वेतातपत्रचन्द्रमण्डलयोः सादृश्येन काकतीन्द्रसुवर्णाचलयोः सादृश्यमिति बिम्बप्रतिबिम्बभावः ।
अपरमपि द्वैविध्यमस्यालंकारस्य---समस्तवस्तुविषया एकदेशवर्तिनी चेति । यथाक्रमं द्वयोरुदाहरणम्---
विभाति भूर्द्यैरिव काकतीन्द्रपुरी विराजत्यमरावतीव ।
पौराः प्रथन्ते त्रिदशा इवर्द्धि धत्ते मरुत्वानिव वीररुद्रः
एषा समस्तवस्तुविषया । एकदेशवर्तिनी यथा---
द्विपैश्चरद्भिर्धरणीधरैर्वा तुरङ्गमश्रेणिभिरूर्मिभर्वा ।
नानायुधैर्व्यालजलग्रहैर्वा बलं त्रिलिङ्गाधिपतेर्दुरापम्
अत्र त्रिलिङ्गाधिपतेर्बलं समुद्र इवेत्यर्थात् प्रतीतेरेकदेशवर्तित्वम् । मालारूपेणाप्ययमलंकारो दृश्यते । यथा---
कुन्दति कुमुदति हंसति हारति हरति क्षपाकरति ।
कैलासति च यशः श्रीवैशद्यं वीररुद्रस्य
अत्रैकस्योपमेयस्यानेकोपमानदर्शनात् मालात्वम् । उपमायां भेदाभेदसाधारणस्य साधर्म्यस्य प्रयोजकत्वम् । एवं भेदान्तरं यथासंभवमुदाहार्यम् ॥
अनन्वयालंकारः ।
एकस्यैवोपमानोपमेयत्वे ऽनन्वयो मतः
यत्र द्वितीयसब्रह्मचारिनिवृत्त्यर्थमेकस्यैवोपमानोपमेयभावो निबध्यते असावनन्वयालंकारः । यथा---
सन्तु लोके सुवर्णाद्रिरत्नाकरसुधाकराः ।
तथापि वीररुद्रो ऽयं वीररुद्र इव स्वयम्
[विइइ.4-उपमेयापमालङ्कारः]
उपमेयोपमालङ्कारः ।
पर्यायेण द्वयोस्तस्मिन्नुपमेयोपमा मता
तस्मिन्नित्युपमानोपमेयत्वपरामर्शः । यथा---
धर्मो ऽर्थ इव पूर्णश्रीरर्थो धर्म इव स्थितः ।
कामस्ताविव तौ काम इव रुद्रनरेश्वरे
[विइइ.5-स्मरणालङ्कारः]
स्मरणालंकारः ।
सदृशानुभवादन्यस्मृतिः स्मरणमुच्यते
यत्र सदृशस्य पदार्थस्यानुभवेन सदृशवस्त्वन्तरपरामर्शो जायते तत्र स्मरणालंकारः । यथा---
राज्ञा प्रतापरुद्रेण पालितेयं वसुंधरा ।
हरिश्चन्द्रनलादीनां प्राचां स्मरति भूभुजाम्
अत्र नलनहुषादितुल्यपालनप्रवीणतया प्रतापरुद्रं रक्षितारं
प्राप्तवत्याः मेदिन्याः पूर्वराजस्मरणम् ।
भेदाभेदसाधारणसाधर्म्यनिबन्धनालंकाराः प्रदर्शिताः । संप्रत्यारोपगर्भालंकारप्रस्तावः । तत्रापि प्राधान्यात् प्रथमं रूपकं निरूप्यते ।
[विइइ.6-रूपकालङ्कारः]
रूपकालङ्कारः ।
आरोपविषयस्य स्यादतिरोहितरूपिणः ।
उपरञ्जकमारोप्यमाणं तद्रूपकं मतम्
अत्रारोपविषयस्येत्यनेन अध्यवसायगर्भस्य उत्प्रेक्षादेः अनारोपमूलानां चोपमादीनां व्यावृत्तिः । अतिरोहितरूपिण इत्यनेन संदेहभ्रान्तिमदपह्नुतिप्रमुखानां व्यावृत्तिः । संदेहालंकारे विषयस्य संदिह्यमानतया तिरोधानम् । भ्रान्तिमदलंकारे भ्रान्त्या विषयतिरोधानम् । अपह्नुत्यलंकारे ऽपह्नवेनारोपविषयतिरोधानम् । उपरञ्जकमित्यनेन परिणामालंकारव्यावृत्तिः । परिणामे आरोप्यमाणस्य प्रकृतोपयोगित्वेनान्वयो न प्रकृतोपरञ्जकत्वेन । अतः सादृश्यमूलेभ्यः सर्वेभ्यो विलक्षणं रूपकम् ।
तस्य प्रथमं त्रैविध्यम्---सावयवं, निरवयवं परम्परितं चेति । सावयवं द्विविधम्---समस्तवस्तुविषयम्, एकदेशविवर्ति चेति । निरवयवं द्विविधम्---केवलं मालारूपं चेति । परम्परितस्यापि श्लिष्टनिबन्धनत्वेनाश्लिष्टनिबन्धनत्वेन च द्वैविध्यम् । तयोरपि प्रत्येकं केवलमालारूपतया चतुर्विध्यम् । एवमष्टविधो रूपकालंकारः । अथोदाहरणानि ।
यत्रावयवानामवयविनश्च सामस्त्येन निरूपणं निबध्यते, तत् समस्तवस्तुविषयं रूपकम् ।
यथा---
यात्राप्रावृषि वीररुद्रनृपतेर्निस्साणधाराधरे
वैरिक्ष्मापतिगर्वपर्वतभिदाभीमं मुहुर्गर्जति ।
शत्रुस्त्रीनयनाम्बुवृष्टिरसकृज्जातानया सर्वतो
वर्धन्ते हरिदन्तरेषु जगदानन्दा यशः कन्दलाः
यत्रावयवनिरूपणादवयविनो रूपणं गम्यते, तदेकदेशविवर्ति रूपकम् ।
यथा---
प्रसाधिताशावलयान्तरालः शौर्याकरः काकतिवीररुद्रः ।
विकस्वरैर्वासनया त्रिलोकीं गुणप्रसूनैः सुरभीकरोति
अत्रावयवानां गुणानां प्रसूनस्वरूपणेन नृपतेः कल्पशाखित्वं निरूप्यते । तस्मादेकदेशविवर्तित्वम् । यथा वा---
मथिताद् वैरिवारशेर्भुजामन्दरभूभृता ।
जाता प्रतापरुद्रस्य कीर्त्तिर्लोकान् धिनोत्यमून्
अत्र वैरिजनस्य वाराशित्वरूपणेन भुजस्य मन्दराद्रित्वरूपणेन च जातायाः कीर्त्तिः सुधात्वमर्थादापतति, लोकानाममरत्वं चेत्येकदेशविवर्त्ति रूपकम् ।
यत्रावयविरूपणमात्रे कविसंरम्भविश्रान्तिस्तन्निरवयवं रूपकम् । अवयवरूपणमात्रे ऽपि तदेव ।
तत्र केवलं यथा---
यात्रारम्भविजृम्भमाणसुभटप्रक्ष्वेडिताम्रेडितैर्
निस्साणध्वनिभिः स्फुटं प्रतिदलद्रोदः कटाहान्तरैः ।
क्षुब्धेष्वब्धिषु कम्पितेषु गिरिषु श्रुत्यैव मुञ्चन्त्यसून्
भीताः काकतिवीररुद्रनृपतेः प्रत्यर्थिनः पार्थिवाः
अत्र रोदसः कटाहत्वं रूप्यते । मालानिरवयवं यथा---
राज्ञां मौलिविभूषणस्रगमला दिक्कुञ्जरश्रोत्रयोः
स्फारं चामरभूषणं धरणिभृच्छृङ्गेषु गङ्गासरित् ।
व्योम्नः क्षौमवितानमुज्ज्वलतरं मुक्ताकलापो भुवः
स्फारः काकतिवीररुद्रयशसां जागर्ति विस्फूर्जितम्
रूपकहेतुरूपकं परम्परितरूपकम् ।
रूपकद्वयमात्रव्यवस्थितत्वादस्य न समस्तवस्तुविषये ऽन्तर्भावः । श्लिष्टकेवलपरम्परितं यथा---
प्रतापरुद्रदेवस्य मण्डलाग्रविधुन्तुदः ।
अखण्डविक्रमोद्दामो ग्रसते राजमण्डलम्
श्लिष्टमालापरम्परितं यथा---
पद्मोल्लाससहस्रभानुरसकृत्सन्मार्गचर्याबुधः
क्ष्माभृत्पक्षभिदाशनिः कुवलयालंकारराकाशशी ।
नित्योद्यत्सुमनोविकाससुरभिः कल्याणसंपत्सुर-
क्षोणीभृद्भुवनाश्रयाम्बुधिरयं श्रीवीररुद्रो नृपः
अश्लिष्टकेवलपरम्परितं यथा---
काकतीयस्य दुग्धाब्धेर्यशोलीलामहोर्मयः ।
दिक्कूलमुद्रुजाटोपाः खेलन्त्यब्भ्रंकषोच्छ्रयाः
अश्लिष्टमालापरम्परितं यथा---
दोराशीविषजिह्वया रिपुवनश्रेणीमहावात्यया
शौर्योग्रानलधूम्यया जयरमायोषाविलासभ्रुवा ।
संहृष्यद्धरणीविलासशिखिनीसंवासयष्ट्या जगत्-
प्रसादार्गलया कृपाणलतया रुद्रो नृपः क्रीडति
अश्लिष्टमालापरम्परितं वैधर्म्येणापि संभवति । यथा---
त्रासान्धकारमध्याह्नाः कैतवातपरात्रयः ।
जयन्ति वीररुद्रस्य रणप्राङ्गणकेलयः
एवमष्टविधस्यापि रूपकस्य वाक्यसमासगतत्वेन षोडश रूपकभेदाः संभवन्ति ॥
[विइइ.7-परिणामालङ्कारः]
परिणामालङ्कारः ।
आरोप्यमाणमारोपविषयात्मतया स्थितम् ।
प्रकृतस्योपयोगित्वे परिणाम उदाहृतः
आरोप्यमाणं प्रकृतोपयोगीत्यनेन सर्वालङ्कारव्यावृत्तिः । तस्य
सामानाधिकरण्यवैयधिकरण्याभ्यां द्वैविध्यम् । सामानाधिकरण्येन परिणामो यथा---
शश्वत् प्रसाधनविधानकृताभिलाषा
नम्रैर्भजन्ति मकुटैरवनीपवर्गाः ।
श्रीवीररुद्रनृपतेः ककुभां विजेतु-
राज्ञामयीं स्रजममन्दविलासलक्ष्मीम्
वैयधिकरण्येन परिणामो यथा---
किरीटमाणिक्यमयूखजालैर्विधाय पुष्पाञ्जलिमर्चयन्ते ।
फलार्थिनो रुद्रनरेन्द्रपादपीठान्तसीमानमरिक्षितीन्द्राः
समासोक्तावारोप्यमाणस्य प्रकृतोपयोगित्वे ऽप्यवाच्यत्वान्न परिणामे ऽन्तर्भावः ।
[विइइ.8-सन्देहालङ्कारः]
संदेहालङ्कारः ।
विषयो विषयी यत्र सादृश्यात् कविसंमतात् ।
संदेहगोचरौ स्यातां संदेहालङ्कृतिश्च सा
सा त्रिविधा । शुद्धा, निश्चयगर्भा, निश्चयान्ता चेति ।
संदेहमात्रपर्यवसायिनी शुद्धा यथा---
किमेष नवमो हरित्पतिरमन्दसंपत्पदं
किमेष दशमः प्रजापतिरपूर्वसर्गक्रमः ।
किमेव हरिरुर्वरोद्धरणचुञ्चुरेकादश-
श्चिरादिति विलोक्यते जगति वीररुद्रो जनैः
निश्चयगर्भो यथा---
कालाहिः किमयं मृणालमृदुलं भोगं स धत्ते पुनः
कालभ्रूकुटिरेष किं नु मुख एवोज्जृम्भते सा पुनः ।
कालोग्रानलधूमपद्धतिरसौ किं सा पुनर्धूयते
वातेनेति विकल्प्यते प्रतिभटै रुद्रस्य कौक्षेयकः
निश्चयपर्यवसाना यथा---
किं कल्पद्रुममञ्जरीस्रज इमे किं वा पयोराशयः
स्वर्धेनोरथवा किमुज्ज्वलतराश्चिन्तामणेः स्फूर्तयः ।
किं वा सिद्धरसोर्मयश्चिरमिति व्यामृश्य निश्चिन्वते
सन्तः काकतिवीररुद्रनृपतेः स्मेराः कटाक्षा इति
[विइइ.9-भ्रान्तिमदलङ्कारः]
भ्रान्तिमदलङ्कारः ।
कविसंमतासादृश्याद्विषये पिहितात्मनि ।
आरोप्यमाणानुभवो यत्र स भ्रान्तिमान् मतः
यथा---
काकतीयविभोः
कीर्त्तिविभवे व्याप्तरोदसि ।
दिवापि चन्द्रिकाबुद्ध्या चकोरा यान्ति निर्वृतिम्
[विइइ.10-अपह्नवालङ्कारः]
अपह्नवालङ्कारः ।
निषिध्य विषयं साम्यादन्यारोपे ह्यपह्नुतिः
तस्यास्त्रैविध्यम्---अपह्नुत्यारोपः, आरोप्यापह्नवः, छलादिशब्दैरसत्यत्वप्रतिपादनं च । आद्यद्वयस्योदाहरणम्---
उद्वेल्लच्चतुरर्णवीकलकलो नायं चमूडम्बरो
नेदं दुन्दुभिगर्जितं त्रिपुरजित्कल्पान्तढक्कारवः ।
इत्थं रुद्रनरेन्द्रधाटिषु महीभारावनम्रीभव-
च्छेषाशेषशिरस्सु विस्मितमथ भ्रष्टं दिगीशैरपि
छलादिशब्दैरसत्यत्वप्रतिपादनं यथा---
सर्वां काकतिवीररुद्रधरणीनाथच्छलेन क्षितिं
पातुं मध्यमलोकपालपदवीं प्राप्तः स्वयंभूः शिवः ।
नैवं चेद् विषमावलोकनकलामात्रेण भस्मीकृतैर्-
जातं वैरिपुरैः कथं कथमवाग्भूतं च भूभृद्गणैः
अर्थयोगरुचिश्लेषैरुल्लेखनमनेकधा ।
ग्रहीतृभेदादेकस्य स उल्लेखः सतां मतः
रुच्यर्थयोगाभ्यां यथा---
लक्ष्मीनिवासगृहमित्यखिला नरेन्द्राः
शौर्यातिभूमिखनिरित्यरिवीरवर्गाः ।
विद्याविहारपदवीति च लब्धवर्णाः
श्रीकाकतीन्द्रनगरीमनिशं स्तुवन्ति
श्लेषेण यथा---
उग्रः सपत्नेषु, गुणेषु भास्वान्, रामः प्रतीकेषु, रणेषु भीमः ।
लीलासु लक्ष्म्याः पुरुषोत्तमश्चेत्याचक्षते रुद्रनृपं कवीन्द्राः
[विइइ.11-उत्प्रेक्षालङ्कारः]
उत्प्रेक्षालङ्कारः ।
अथाध्यवसायगर्भालंकारद्वयं निरूप्यते । विषयविषयिणोरन्यतरनिगरणेनाभेदप्रतिपत्तिरध्यवसायः । स द्विविधः---विषयिनिगरणेन विषयनिगरणेन च ।
यत्रान्यधर्मसंबन्धादन्यत्वेनोपतर्कितम् ।
प्रकृतं हि भवेत् प्राज्ञास्तामुत्प्रेक्षां प्रचक्षते
यत्राप्रकृतगुणक्रियासंबन्धादप्रकृतत्वेन प्रकृतस्य संभावनम् उत्प्रेक्षा । सा द्विविधा---वाच्या, प्रतीयमाना च ।
संभावनाप्रतिपादकानां "नूनं (ध्रुवं) प्रायऽ; इत्येवमादीनां प्रयोगे वाच्या । अप्रयोगे तु प्रतीयमाना । जातिक्रियागुणद्रव्याणां
चतुर्णामध्यवसायविषयत्वेन सा द्विविधा ; प्रत्येकं चतुर्विधा । तेषां भावाभावरूपतया द्वैविध्ये ऽष्टविधा । अध्यवसायस्य गुणनिमित्तत्वेन क्रियानिमित्तत्वेन च द्वैविध्ये प्रत्येकं षोडशप्रकारा । निमित्तस्य वाच्यत्वगम्यत्वाभ्यां द्वैविध्यं वाच्योत्प्रेक्षायामेव । प्रतीयमानोत्प्रेक्षायामिवाद्यनुपादाने निमित्तस्य चाप्रयोगे उत्प्रेक्षाया निरवलम्बनत्वात् । तथा जात्यादीनां स्वरूपेण हेतुरूपेण फलरूपेण चाध्यवसायविषयत्वे बहुविधत्वम् । वाच्योत्प्रेक्षायामपि हेतुफलयोरुत्प्रेक्षाविषयत्वे निमित्तस्योपादानमेव । तथा हि---यथा साध्ये ऽनुपात्ते साधनत्वेन निर्देशो नान्वयं पुष्णाति, तथा साधने ऽनुपात्ते साध्यत्वेन निर्देशो ऽपि । तयोरन्योन्यापेक्षित्वात् । हेतूत्प्रेक्षायां फलं निमित्तम् । तस्यानुपादाने कं प्रति फलत्वेन संघटते । तथाहि---
प्रतापरुद्रनृपतेरपारे कीर्त्तिसागरे ।
मग्ना दुरीशदुष्कीर्त्तिसङ्गादिव जगन्त्रयी
अत्रोत्प्रेक्षानिमित्तस्य मज्जनस्यानुपादाने सङ्गादिति हेतूत्प्रेक्षा न शोभामावहति । यथा वा---
जयश्रीवासपद्मस्य विकासायेव भानुमान् ।
प्रतिबिम्बमिषात् खड्गं प्रविशत्यन्ध्रभूभुजः
अत्रोत्प्रेक्षानिमित्तस्य भानुमत्प्रवेशस्यानुपादाने जयश्रीवासकमलविकासायेवेति फलोत्प्रेक्षणमसमीचीनम् । अतः स्वरूपोत्प्रेक्षायामेव निमित्तस्योपादानानुपादानाभ्यां द्वैविध्यम् । अतश्चेत्थं वाच्योत्प्रेक्षाया भेदगणना ।
उपात्तगुणनिमित्तजातिभावस्वरूपोत्प्रेक्षा । 1 ।
उपात्तगुणनिमित्तजात्यभावस्वरूपोत्प्रेक्षा । 2 ।
उपात्तक्रियानिमित्तिजातिभावस्वरूपोत्प्रेक्षा । 3 ।
उपात्तक्रियानिमित्तजात्यभावस्वरूपोत्प्रेक्षा । 4 ।
अनुपात्तनिमित्तिजातिभावस्वरूपोत्प्रेक्षा । 5 ।
अनुपात्तनिमित्तिजात्यभावस्वरूपोत्प्रेक्षा । 6 ।
उपात्तगुणनिमित्तजातिभावहेतूत्प्रेक्षा । 7 ।
उपात्तगुणनिमित्तजात्यभावहेतूत्प्रेक्षा । 8 ।
उपात्तक्रियानिमित्तजातिभावहेतूत्प्रेक्षा । 9 ।
उपात्तक्रियानिमित्तजात्यभावहेतूत्प्रेक्षा । 10 ।
उपात्तगुणनिमित्तजातिभावफलोत्प्रेक्षा । 11 ।
उपात्तगुणनिमित्तजात्यभावफलोत्प्रेक्षा । 12 ।
उपात्तक्रियानिमित्तजात्यभावफलोत्प्रेक्षा । 13 ।
एवं चतुर्दशभेदा जात्युत्प्रेक्षा ।
अनेनैव क्रमेण गुणक्रियाद्रव्योत्प्रेक्षापि परिगणनीया ।
एवं च वाच्योत्प्रेक्षायाः षट्पञ्चाशद् भेदाः ।
प्रतीयमानोत्प्रेक्षायस्त्वष्टाचत्वारिंशद् भेदाः ।
अत्र स्वरूपोत्प्रेक्षायामपि निमित्तोपादाननियमात् निमित्तस्य गम्यत्वे गुणरूपत्वेन क्रियारूपत्वेन च चारुत्वविशेषाभावादेक एव भेदो गण्यते ।
गुणक्रिययोरुत्प्रेक्षाविषयत्वमुत्प्रेक्षानिमित्तत्वं
चाभ्युपगतम् ।
प्राचामलङ्कारप्रबन्धेषु षण्णवतिभेदोत्प्रेक्षेति गणनामात्रम् ।
चारुत्वातिशयस्तु षट्पञ्चाशत् एव भेदानाम् ।
तत्र यथासंभवमुदाहरणानि ।
उपात्तगुणनिमित्तजातिभावस्वरूपोत्प्रेक्षा यथा---
कीर्त्तिः काकतिवीररुद्रनृपतेः सिंहासनाध्यासिनः
प्राचां भूमिभुजां यशः पिदधती कोटीन्दुतुल्यद्युतिः ।
रक्षादक्षिणराजलाभजनितामन्दप्रमोदोत्थिता
त्रैलोक्याट्टहसप्रभेव ककुभां प्रान्तेषु विद्योतते
अत्र प्रभाशब्दो जातिवचनः । त्रैलोक्याट्टहसप्रभायाः कविप्रौढोक्तिसिद्धत्वान्नोपमाशङ्कावकाशः ।
उपात्तक्रियानिमित्तजातिभावस्वरूपोत्प्रेक्षा यथा---
वीरस्य रुद्रनृपतेः प्रियवल्लभस्य
राज्याभिषेकसलिलैः सरसीकृतायाः ।
सद्यः समुच्छ्वसितसान्द्रपरागरेखाः
क्षोण्याः प्रमोदपुलकाङ्कुरमञ्जरीव
अत्र पुलकाङ्कुरमञ्जरीवेत्युत्प्रेक्षायां सरसीकरणं क्रियारूपं निमित्तम् ।
अनुपात्तनिमित्तिजातिभावस्वरूपोत्प्रेक्षा यथा---
प्रतापरुद्रस्य नखेन्दुकान्तिः प्रणामभाजां पदयोर्नृपाणाम् ।
ललाटलग्ना विधिनिर्मिताया वर्णावलेर्वाचनदीपिकेव
अत्र दीपिकेवेति जातिवचनाज्जातिरुत्प्रेक्ष्यते ।
उपात्तगुणनिमित्तजात्यभावस्वरूपोत्प्रेक्षा यथा---
प्रतापरुद्रस्य गुणामृतोर्मिधौता विराजन्त्यमलीकृताङ्गाः ।
प्रक्षालितात्युद्धतभूमिपालाः खड्गाम्बुभिः स्वच्छतरा भवन्ति
अनुपात्तनिमित्तजात्यभावस्वरूपोत्प्रेक्षा यथा---
दिशां जेतुर्विश्वप्रसृतमहसो रुद्रनृपतेर्-
जयप्रस्थानोद्यत्करितुरगसंमर्दजनितम् ।
रजः कृत्वा ग्रस्तप्रतिबलमसूर्यामिव दिवं
प्रतापाख्यान् अन्यान् दिशि दिशि विधत्ते दिनकरान्
अत्रासूर्यामिति जात्यभावः । जातिहेतूत्प्रेक्षा यथा---
उदाररीत्या भुजया प्रतापरुद्रस्य विश्वैकदुरन्धरस्य ।
विश्वंभरा कोमलशय्ययेव विस्मारिता गोत्रमहीध्रवासम्
अत्र शय्येवेति जातिहेतुत्वम् । जात्यभावहेतूत्प्रेक्षा यथा---
भूमेरकल्पवृक्षत्वादिति धाता विचिन्तयन् ।
सृष्टवान् काकतीशानं निर्व्याजत्यागवैभवम्
अत्राकल्पवृक्षत्वादिति जात्यभावस्य हेतुत्वम् ।
जातिफलोत्प्रेक्षा यथा---
नूनं विश्वंभराधारस्तम्भीभवितुमायतौ ।
वीररुद्रनरेन्द्रस्य भुजावाजानुलम्बिनौ
अत्र स्तम्भीभवितुमिति जातेः फलत्वम् ।
जात्यभावफलोत्प्रेक्षा यथा---
पशूनवध्यानालोक्य शत्रवः काकतीशितुः ।
प्रायेणामानुषत्वाय तृणवृत्तिं समाश्रिताः
अत्रामानुषत्वायेति जात्यभावस्य फलत्वम् ।
क्रियास्वरूपोत्प्रेक्षा यथा---
श्रीकाकतीयनृपतेर्द्विषदङ्गनानां
श्वासोर्मिभिः सपदि मर्मरितान्तरालाः ।
तासां निवासविषये कृतयाचनानां
प्रत्युत्तराणि ददतीव मरौ वनान्ताः
क्रियास्वरूपाभावोत्प्रेक्षा यथा---
विमुखे सति काकतिक्षितीन्द्रे वनसीमापि कठोरकण्टकाग्रा ।
चिकुरेषु विकर्षति प्रतीशान् अददानेव निजान्तरप्रवेशम्
अत्राददानेति क्रियास्वरूपाभावः । क्रियाहेतूत्प्रेक्षा यथा---
राज्ञां गर्वाङ्कुरोद्भेदाः परिम्लाना दिने दिने ।
काकतीन्द्रप्रतापार्कतीव्रोष्माभिभवादिव
अत्रभिभवादिवेति क्रियाहेतुत्वम् । (क्रियाहेत्वभावोत्प्रेक्षा यथा---
कपोलफलकावस्याः कथं भूत्वा तथाविधौ ।
अपश्यन्ताविवान्योन्यमीदृशीं क्षामतां गतौ
क्रियाफलोत्प्रेक्षा यथा---
दम्भोलिसंरम्भमहाजिगोपः प्रस्थानभेरीनिनदो ऽन्ध्रभर्तुः ।
लीनानिवान्वेष्टुमरातिवर्गान् विगाहते शैलगुहान्तराणि
क्रियाभावफलोत्प्रेक्षा यथा---
सीमाद्रिकुञ्जेषु विहारभाजः सिद्धाङ्गना कल्पितचन्द्रिकार्धान् ।
श्रीवीररुद्रस्य यशोविलासान् गायन्त्यसंस्प्रष्टुमिवान्धकारम्
अत्रासंस्प्रष्टुमिवेति क्रियाभावस्य फलत्वम् ।
गुणस्वरूपोत्प्रेक्षा यथा---
चकास्ति काकतीन्द्रस्य कृपालोकनविभ्रमः ।
प्रकृतिष्वपि सर्वासु प्रसाद इव मूर्तिमान्
गुणाभावस्वरूपोत्प्रेक्षा यथा---
प्रतापरुद्रस्य महाभिषेकपयः कणैः शीतलिताखिलाङ्गा ।
प्रशान्तभारार्तफणीन्द्रगाढश्वासानिलोष्मेव विभाति पृथ्वी
अत्र प्रशान्तोष्मेति गुणाभावः । गुणहेतूत्प्रेक्षा यथा---
जयश्रियामाश्रयतामुपेतः (ति) श्रीवीररुद्रस्य रणे कृपाणः ।
जयश्रियं वैरिमहीपतीनां समुत्सुको हर्तुमसूययेव
अत्रासूययेवेति गुणस्य हेतुत्वम् । गुणाभावहेतूत्प्रेक्षा यथा---
जाता वयं संप्रति वीररुद्रनरेन्द्रगम्भीरिमगुल्फदन्घाः ।
इत्यप्रमोदादिव जीवनेषु मालिन्यमम्भोनिधयो भजन्ति
अत्राप्रमोदादिवेति गुणाभावस्य हेतुत्वम् । गुणफलोत्प्रेक्षा यथा---
आशिषां विषधूम्राणां नैर्मल्यार्थमिवोत्सुकाः ।
भुजङ्ग्यः काकतीन्द्रस्य गुणान् गातुं सुधामुचः
अत्र नैर्मल्यार्थमिति गुणस्य फलत्वम् । गुणाभावफलोत्प्रेक्षा यथा---
अरण्यवासार्जितबान्धवासु मृगीष्ववैरार्थमिवाशरण्याः ।
त्रिलिङ्गदेशेश्वरवैरिनार्यः पराङ्मुखा लोचनविभ्रमेषु
अत्रावैरार्थमिति गुणाभावस्य फलत्वम् । द्रव्यस्वरूपोत्प्रेक्षा यथा---
न नित्यमस्मिन् परिपूर्णतेति त्यक्त्वा नभः क्षोणितलावतीर्णः ।
आनन्दयन्निन्दुरिव स्वधाम्ना विभाति लोके नवकाकतीन्द्रः
द्रव्यस्वरूपाभावोत्प्रेक्षा यथा---
अनन्यसाधारणदानशौण्डे सद्यः कृतार्थीभवदर्थिसार्थे ।
श्रीकाकतीन्द्रे भुवि राजमाने द्यौः पारिजातेन विनाकृतेव
अत्र दिवः पारिजाताभाव उत्प्रेक्ष्यते । द्रव्यहेतूत्प्रेक्षा यथा---
प्रतापरुद्रदेवेन क्ष्माभृत्पक्षविजृम्भितम् ।
समुन्मूलितमामूलादपरेणेव वज्रिणा
द्रव्यहेत्वभावोत्प्रेक्षा यथा---
काकतीयप्रतापोष्मविलीनाङ्गेन मेरुणा ।
असुवर्णाचलेनेव विरिञ्चिर्व्याकुलीकृतः
अत्रासुवर्णाचलेनेति हेत्वभावः । द्रव्यफलोत्प्रेक्षा यथा---
दुग्घार्णवशतायेव कैलासाचलकोटये ।
नूनं प्रतापरुद्रेण यशो दिक्षु प्रसारितम्
अत्र दुग्घार्णवशतायेति द्रव्यस्य फलत्वम् ।
द्रव्याभावफलोत्प्रेक्षा यथा---
वीररुद्रनरेन्द्रस्य जयप्रस्थानसंभवम् ।
रजः पिहितदिग्गोलं निराकाशमिव स्थितम्
अत्र निराकाशमित्याकाशाभावाय इत्यर्थः । एवं भेदान्तरं यथासंभवमुदाहार्यम् ।
इत्यौपम्यगर्भालंकारविवेचनम् ।
[विइइ.12-अतिशयौक्त्यलङ्कारः]
अतिशयोक्त्यलङ्कारः ।
विषयस्यानुपादानाद्विषय्युपनिबध्यते ।
यत्र सातिशयोक्तिः स्यात् कविप्रौढोक्तिजीविता
यत्र कविप्रौढोक्त्या विषयतिरोधानेन विषयी निबध्यते सातिशयोक्तिः । तस्याश्चातुर्विध्यम्---भेदे ऽभेदः, अभेदे भेदः, संबन्धे ऽसंबन्धः, असंबन्धे संबन्धश्चेति । कार्यकारणयोः पौर्वापर्यविपर्ययरूपा त्वनध्यवसायमूलत्वाद् व्यतिरिक्तैव । किं तु प्रौढोक्तिमूलत्वादतिशयोक्तिरिति कथ्यते । तत्र भेदे ऽभेदो यथा---
स्थाने कल्पतरुर्जातः काकतीयकुलोदधेः ।
लक्ष्मीपतिरसौ चित्रं मर्त्यलोकमहोत्सवः
अत्र प्रतापरुद्रकल्पवृक्षयोरभेदाध्यवसायः । अभेदे भेदो यथा---
औन्नत्यं महदन्यदेव महितः को ऽप्येष गम्भीरिमा
काप्यन्या सरणिः प्रतापयशसोरन्यैव बाह्वोः प्रथा ।
सर्वं नूतनमेव रुद्रनृपतेर्जाने न तन्निर्मितौ
सामग्री चतुराननेन कियती कीदृक्क्रमा कल्पिता
अत्रौन्नत्यादेर्वास्तवाभेदे ऽपि भेदः कल्पितः । ततः स्वतः सिद्धकविप्रौढोक्तिसिद्धयोरौन्नत्ययोर्भेदे ऽपि अभेदाध्यवसायः ।
संबन्धे ऽसंबन्धो यथा---
शिला चिन्तारत्नं, तरुरमरशाखी, पशुरसौ
वियद्धेनुः, सर्वं जगदपि तथा दोषविधुरम् ।
न सृष्टिवैधात्रो तदिह चतुरश्रीः कथमियं
स्पृशेद्देवं रुद्रं सकलगुणसाम्राज्यनिलयम्
अत्र विधातृसृष्टिसंबन्धे ऽप्यसंबन्ध उक्तः । अतीतब्रह्मसृष्टिनेश्वरेणात्राभेदाध्यवसायः । असंबन्धे संबन्धो यथा---
ब्रह्मन् ! मेरुगिरौ कृते ऽपि किमिदं नैवंविधास्ते मुदः
स्वामिन् ! सत्यमधिक्रियाद्य फलिता यद्वीररुद्रः कृतः ।
मिथ्या किं नु विकत्थसे त्रिजगतस्त्राणाय मत्प्रार्थितः
शंभुः क्ष्मामवतीर्णवानिति कथा जाता हरिब्रह्मणोः
अत्र हरिब्रह्मणोरेवंविधगोष्ट्यसंबन्धे ऽपि संबन्ध उक्तः । शंभुना सह काकतीन्द्रस्याभेदाध्यवसायः । कार्यकारणयोः पौर्वापर्यविपर्ययरूपातिशयोक्तिर्यथा---
मातः ! कथं काकतिनाथदृष्टेरग्रेसराः कामशराः पतन्ति ।
तद्रूपलावण्यजितः स्मरो ऽपि नूनं गतः किंकरताममुष्य
अत्र कार्यभूतस्य स्मरशरपातस्य कारणभूतात् प्रियदृष्टिपातात् पूर्वकालत्वमुक्तम् ।
[विइइ.13-सहोक्त्यलङ्कारः]
सहोक्त्यलङ्कारः ।
अथोक्तिसाम्यालंकारनिरूपणे ऽतिशयोक्तिहेतुका
सहोक्तिर्निरूप्यते ।
सहार्थेनान्वयो यत्र भवेदतिशयोक्तितः ।
कल्पितौपम्यपर्यन्ता सा सहोक्तिरितीष्यते
यत्र भेदे ऽभेदरूपया कार्यकारणपौर्वापर्यविपर्ययरूपया वातिशयोक्त्या एकस्य प्राधान्येनान्वये ऽपरस्य सहार्थेन
संबन्धे उपमानोपमेयभावः कल्प्यते तत्र सहोक्तिः । प्राकरणिकाप्राकरणिकविषयत्वादुपमानोपमेयभावस्य सहार्थसंबन्धेन द्वयोरपि प्रकृतत्वान्न तदात्मता ।
कार्यकारणपौर्वापर्यविपर्ययरूपातिशयोक्तिमूला सहोक्तिर्यथा-
अन्ध्रक्षमाभृत्सुभटासिधारा रणेषु नीलोत्पलपत्रभासः ।
पतन्ति कण्ठेष्वरिभूपतीनां साकं सुरस्त्रीजनमुक्तमाल्यैः
अत्र कृपाणपतनोत्तरकालभाविनो दिव्यमाल्यपतनस्य सहकालत्वमुक्तमिति पौर्वापर्यविपर्ययः । भेदे ऽभेदरूपातिशयोक्तिः श्लेषगर्भाभेदाध्यवसायरूपा चारुत्वातिशयहेतुः । तन्मूला यथा---
दिने दिने रुद्रनराधिपस्य प्रतापलक्ष्मीरुदयं प्रयाति ।
प्रकाशिताशेषदिगन्तराला विवस्वता सार्धमनिन्द्यभासा
अत्रोदयं प्रयातीति श्लेषेणोदयपर्वताभ्युदययोरभेदाध्यवसायः ।
[विइइ.14-विनोक्त्यलङ्कारः]
विनोक्त्यलङ्कारः ।
अथ सहोक्तिप्रतिपक्षरूपा विनोक्तिर्निरूप्यते ।
विना संबन्धि यत्किंचिद्यत्रान्यस्य पराभवेत् ।
अरम्यता रम्यता वा सा विनोक्तिरिति स्मृता
यत्र कस्यचिदसंनिधानाद्वस्तु रम्यमरम्यं वा भवेत् सा विनोक्तिः । सा द्विविधा---अरम्यता, रम्यता चेति । अरम्यता यथा---
प्रतापरुद्रदेवस्य गुणवर्णनया विना ।
कीदृशी काव्यरचना संशृणुध्वं कवीश्वराः
अत्र प्रतापरुद्रगुणवर्णनेन विना काव्यश्रियो ऽशोभनत्वमुक्तम् । अनेन काव्यशोभामिच्छद्भिः कविभिः प्रतापरुद्रगुणा वर्णयितव्या इति विधिरेव प्रकाश्यते । रम्यता यथा---
कलापूर्णे नित्यं जयति जगतीन्दौ त्रिजगतो
वपुष्मत्यानन्दे विमलविभवे रुद्रनृपतौ ।
विना लक्ष्म प्राप्य प्रतिदिवसपूर्णां निजतनुं
प्रकाशः स्यादिन्दुर्यदि दिवि भवेत् सो ऽपि सुभगः
अत्र प्रतापरुद्रे चन्द्रमसः कलङ्केन विना शोभनत्वमुक्तम् । सकलगुणशालिनः प्रतिपक्षस्य पुरस्तात् तादृशगुणवत्तयैव रम्यता, नान्यथेति ।
[विइइ.15-समासोक्त्यलङ्कारः]
समासोक्त्यलङ्कारः ।
विशेषणानां
तौल्येन यत्र प्रस्तुतवर्तिनाम् ।
अप्रस्तुतस्य गम्यत्वं सा समासोक्तिरिष्यते
यत्र प्रकृतविशेषणसाम्यादप्रस्तुतं गम्यते सा समासोक्तिः । तत् त्रिविधम्---श्लिष्टविशेषणसाम्यं, साधारणम्, औपम्यगर्भं चेति ।
श्लिष्टविशेषणसाम्यं यथा---
सद्यो विश्लथमेखलां पुलकितामृज्वीं तनुं बिभ्रती
रागादन्ध्रपतेः कृपाणलतिका गृह्णाति कण्ठेष्वरीन् ।
तद्योगादनुरक्तभावविवशाः संमीलिताक्षाश्चिरं
शून्यान्तः करणा भजन्ति खलु ते भावस्थितिं कामपि
अत्र विश्लथमेखला पुलकितामिति श्लिष्टविशेषणमहिम्ना कृपाणलतिकाया नायिकात्वप्रतीतिः । अनुरक्तभावविवशा इत्यादिविशेषणद्वारा रिपूणां नायकत्वप्रतीतिः । साधारणविशेषणेन यथा---
वीतव्रीडमपास्तमानमुदयद्वैस्वर्यमाविर्भवत्-
स्वेदं निर्भरगात्रवेपथु मिलन्मूर्च्छं गलद्बाष्पकम् ।
संजातप्रलयं च काकतिममीनाथ ! स्मरोद्वेजिता
भूपाः शैलगुहासु यान्ति विजनं भीत्या समालिङ्गिताः
अत्र शृङ्गारभयानकसाधारणविशेषबलाद् भीत्या समालिङ्गिता इति नृपाणां नायकत्वप्रतीतिः । औपम्यगर्भविशेषणेन यथा---
भृतात्मा गुणरत्नौघैः पूर्णः सौजन्यवारिणा ।
प्रतापरुद्रनृपतिर्धत्ते विश्वंभराश्रियम्
अत्र समासोक्तौ सर्वत्र व्यवहारसमारोप एव जीवितम् । स चतुर्विधः । लौकिके वस्तुनि लौकिकव्यवहारसमारोपः, शास्त्रीयवस्तुव्यवहारसमारोपश्चेति द्विविधः ; तथा शास्त्रीयवस्तुनि शास्त्रीयवस्तुव्यवहारसमारोपः, लौकिकवस्तुव्यवहारसमारोपश्चेति । एवं चतुर्विधः । यथाक्रममुदाहरणानि ।
सप्ताङ्गस्फुरदुद्दामदानलक्ष्मीविराजितः ।
प्रतापरुद्रो भद्रात्मा तनुते सार्वभौमताम्
अत्र लौकिके प्रकृतवस्तुनि लौकिकस्य सार्वभौमनामधेयस्य दिग्गजस्य व्यवहारप्रतीतिः । तथा---
गुरुप्रमाणेन निजेन सद्यस्तिरस्कृतोद्यत्प्रतिपक्षहेतौ ।
प्रतापरुद्रस्य समित्युदग्रे खड्गे महत्खण्डनपण्डितत्वम्
अत्र लौकिके खड्गे तर्कशास्त्रप्रसिद्धवस्तुव्यवहारसमारोपः ।
तथा---
अपूर्वार्थश्लाघागुरुभणितसारस्यपदवी
श्रुतिग्राह्यं तत्त्वं किमपि कलयन्ती प्रतिपदम् ।
प्रबन्धश्रीर्वीरक्षितिभुजि कवीनां विजयते
बुधश्रेणी यस्यां निपुणमधिकर्तुं प्रभवति
अत्रालंकारशास्त्रीये वस्तुनि तन्त्रशास्त्रप्रसिद्धवलस्तुव्यवहारसमारोपः ।
तथा---
सालंकारा
लसद्वर्णा सगुणा रसनिर्भरा ।
भावानुबन्धिनी भाति भारती काकतीश्वरे
अत्रालंकारशास्त्रीये वस्तुनि भारत्याख्ये लौकिकनायिकाव्यवहारसमारोपः । समासोक्तौ विशेषणविशेष्ययोर्द्वयोरुपादानाभावाच्छ्लेषाद्विशेषः ।
[विइइ.16-वक्रोक्त्यलङ्कारः]
वक्रोक्त्यलङ्कारः ।
अन्येषामप्यलंकाराणामुक्तिसाम्ये ऽपि श्लेषगर्भत्वविशेषात् वक्रोक्तिरुच्यते---
अन्यथोक्तस्य वाक्यस्य काक्वा श्लेषेण वा भवेत् ।
अन्यथा योजनं यत्र सा वक्रोक्तिर्निगद्यते
यत्र कयाचिद्विवक्षया प्रयुक्तस्य वाक्यस्य अन्यथा विवक्षया योजना क्रियते सा वक्रोक्तिः । उक्तिवक्रत्वे कथंचित् संभवत्यप्येवंविधलक्षणाभावात् सर्वालंकारेभ्यो भिद्यते । काक्वा यथा---
बहुवऌळहो खु राआ सहि तस्स सिरिंमि णिभ्भरासत्ती ।
णूणा सिरिए वि तुमं अप्पाणं किं णु ळहुवसि
(।बहुवल्लभः खलु राजा सखि तस्य श्रियां निर्भरासक्तिः ।
न्यूना श्रियो ऽपि त्वमात्मानं किं नु लघयसि ॥)
अत्र त्वमपि श्रियो न्यूनगुणा न भवति । अतस्त्वय्यपि नृपतिरासक्त एव, किमित्यात्मानं लघूकरोषीति काक्वा
प्रतीयते । श्लेषेण यथा---
कस्ते सुन्दरि वर्तते हृदि सदा ? किमिन्दुर्न हि
क्षोणीभृत्तिलकः; सुमेरुरयि किं ? नो रुद्रदेवो विभुः ।
ईशः किं सखि ! सत्यमात्थ सुभगे ! त्वं गोत्रसारोद्भवे-
त्याल्यां खल्वपहासवाचि विरहं किंचिद्वधूर्व्यस्मरत्
[विइइ.17-स्वभावोक्तिः]
अथ स्वभावोक्तिः ।
स्वभावोक्तिरसौ चारु यथावद्वस्तुवर्णनम्
यत्र चारुतया वस्तुनो यथावद्वर्णनं निबध्यते सा स्वभावोक्तिः ।
यथा---
मदश्च्युता नर्तितकर्णतालमुद्धूतमूर्ध्ना त्रिपदस्थितेन ।
लोलाग्रहस्तेन गजेन जातो नित्योत्सवः काकतिवीररुद्रः
[विइइ.18-व्याजोक्त्यलङ्कारः]
व्याजोक्त्यलङ्कारः ।
अथोक्तिसाम्याद् व्याजोक्तिरुच्यते ।
व्याजोक्तिः सा समुद्भूतं वस्तु यत्र निगूह्यते
यत्र प्रकाशं वस्तु साम्यगर्भत्वेन निगूहनार्हत्वात् केनचित् व्याजेन प्रच्छाद्यते सा व्याजोक्तिः । यथा---
क्षोणीपाणिग्रहणसमये संमदाद्रोमहर्षे
सर्वाङ्गीणे नृपतितिलकः काकतीयान्वयेन्दुः ।
धीरोदात्तः शिशिरसलिलैः किं नु राज्याभिषेकः
कर्तव्यः स्यादिति मृदु हसन् वीक्षते मन्त्रिवृद्धान्
अत्र क्षोणीपाणिग्रहणजनितं रोमहर्षणं धीरोदात्ततया प्रतापरुद्रदेवेन महाभिषेकसलिलशैत्यव्याजेन प्रच्छादयता मन्त्रिणो वीक्ष्यन्ते ।
[विइइ.19-मीलनालङ्कारः]
मीलनालङ्कारः ।
व्याजोक्त्युत्तरं किंचित्साम्यान्मीलनमुच्यते ।
मीलनं वस्तुना यत्र वस्त्वन्तरनिगूहनम्
यत्र वस्तुना वस्त्वन्तरं प्रच्छादितं भवति स मीलनालंकारः । स द्विविधः---सहजेनागन्तुकतिरोधानम्, आगन्तुकेन सहजतिरोधानं चेति । यथाक्रममुदाहरणे---
उग्रैः काकतिवीररुद्रनृपतेर्देर्दण्डविस्फूर्जितैर्-
युद्धप्राङ्गणवर्जितेषु पतिषु क्वापि प्रलीनात्मसु ।
विष्वक्तीव्रतरस्मरज्वरजुषामङ्गे द्विषद्योषितां
संक्रान्तो ऽपि न लक्ष्यते पथि महानूष्मा चिरं मारवः
अत्र सहजेन रिपुकामिनीगतेन स्मरानलोष्मणा मार्गवशादागन्तुको मरूष्मा तिरोधीयते । तथा---
प्रतापरुद्रस्य भुजप्रभावादन्तर्भयाद् भूमिभुजामजस्रम् ।
स्वेदाश्रुकम्पाद्युदये ऽप्यनङ्गगोष्ठ्यां स्त्रियः प्रेम्णि न विश्वसन्ति
अत्र भयजनितेन कम्पादिनाऽगन्तुकेन सहजस्य प्रेमजनितस्य कम्पादेस्तिरोधानम् ।
[विइइ.20-सामान्यालङ्कारः]
सामान्यालङ्कारः ।
सामान्यं गुणसाम्येन यत्र वस्त्वन्तरैकता
यत्र एवस्य वस्तुनो गुणसाम्येन वत्स्वन्तरैकात्म्यं भवति, स सामान्यालंकारः । यथा--
कैलासदुग्धार्णवयानहंसेष्वलक्षितेष्वन्ध्रनरेन्द्रकीर्त्तौ ।
त्रयः पुमांसः प्रथमे स्मयन्ते स्वसेवकान् संभ्रमतो विलोक्य
अत्र प्रतापरुद्रकीर्त्त्यां जगत्सु विजृम्भितायां कैलासप्रभृतीनां विमलवस्तूनां तदैकात्म्यम् ।
[विइइ.21-तद्गुणालङ्कारः]
तद्गुणालङ्कारः ।
इतरगुणसंनिधानातिशयसाम्यात् तद्गुण उच्यते ।
तद्गुणः स्वगुणत्यागादन्योत्कृष्टगुणाहृतिः
यत्र न्यूनं
स्वगुणं विहाय संनिहितवस्तुनः सकाशादुत्कृष्टगुणः स्वीक्रियते स तद्गुणालङ्कारः । यथा---
प्रतापरुद्रदेवाङ्घ्रिनखज्योत्स्नाविजृम्भितैः ।
नमन्नृपतिमाणिक्यमौलयः शुचयः कृताः
अत्र प्रणमतां भूपतीनां पद्मरागमुकुटाः स्वां शोणप्रभां मुक्त्वा काकतिवीररुद्रपदनखज्योत्स्नागतं धवलिमानमुद्वहन्ति स्म ।
[विइइ.22-अतद्गुणालङ्कारः]
अतद्गुणालङ्कारः ।
तत्प्रातिपक्ष्यादतद्गुणो निरूप्यते ।
सति हेतावन्यगुणास्वीकारः स्यादतद्गुणः
यत्र संनिधानरूपे हेतौ सत्यप्यन्यगुणस्वीकारो नास्ति असावतद्गुणालंकारः । यथा---
ईशानं समया जगत्यटति तल्लीलाट्टहासोज्ज्वले
दैत्यारिं परितस्तदङ्गविलसन्नीलद्युतिद्योतिते ।
ब्रह्माणं निकषा च तत्तनुमिलत्स्वर्णप्रभाभास्वरे
पुष्णन् रुद्रनरेन्द्रकीर्त्तिविभवः स्वामेव शुभ्रां छविम्
अत्र हरिहरविरिञ्चीनां समीपवर्तिषु जगत्सु तत्तन्नानाप्रभासमग्रेष्वपि निरन्तरं विहरमाणस्य प्रतापरुद्रयशसो निरङ्कुशः स्वकीय एव धवलिम् विजृम्भते ।
[विइइ.23-विरोधालङ्कारः]
विरोधालङ्कारः ।
अतद्गुणे किंचित्प्रक्रान्तत्वाद् विरोधस्य विरोधालंकारो निरूप्यते ।
आभासत्वे विरोधस्य विरोधालंकृतिर्मता
यत्र प्रथममाभासतया प्रतीतो विरोधः पर्यवसाने परिह्रियते स विरोधालंकारः । तत्र जातेर्जात्यादिना सह विरोधे चत्वारो भेदाः । क्रियायाः क्रियागुणद्रव्यैः सह विरोधे त्रयो भेदाः । गुणस्य गुणद्रव्याभ्यां विरोधे द्वौ भेदौ । द्रव्यस्य द्रव्येण सह विरोधे एको भेदः । एवं दश विरोधे भेदाः । जातेर्जात्या क्रियया च विरोधो यथा---
पद्माकरो ऽपि विलसति नितरामजडाशयो ऽयमुर्वीशः ।
विमलतरवारिधाराप्यासीद्वैरिक्षितीशतापकरी
अत्र पूर्वार्धे जात्योर्विरोधः, कमलाकरो ऽप्यजडाशय इति विरोधात् । उत्तरार्धे जातिक्रिययोर्विरोधः, विमलतरवारिधारायाः संतापकरणविरोधात् । अत्र श्लेषमूलो विरोधः ।
जातेर्गुणद्रव्याभ्यां विरोधो यथा---
अमदः सार्वभौमो ऽपि भास्वानपि कलानिधिः ।
वीररुद्रनरेन्द्रो ऽयमद्भुतानां विहारभूः
अत्र सार्वभौमो ऽप्यमद इति जातिगुणयोर्विरोधः । भास्वानपि कलानिधिरिति जातिद्रव्ययोर्विरोधः । कलानिधेरेकत्वात् द्रव्यत्वम् । अत्रापि श्लेषमूलता । क्रियायाः क्रियया विरोधो यथा---
धर्मद्विषामर्थमुषां च भङ्गमुत्पादयन् काकतिवीररुद्रः ।
त्रिवर्गसाधारणगोचरो ऽपि करोति कामद्विषि भावमार्द्रम्
अत्र त्रिवर्गसाधारणवृत्तेर्धर्मार्थविरोधिषु भङ्गकरणं कामारौ स्नेहकरणं च विरुद्धम् । क्रियाया गुणद्रव्याभ्यां विरोधो यथा---
एष जिष्णुविहारो ऽपि गोत्रवात्सल्यलालसः ।
करोति कमलोल्लासं राजाप्यन्ध्रनरेश्वरः
अत्र जिष्णुविहारस्य गोत्रवात्सल्यमिति क्रियागुणयोर्विरोधः । कमलोल्लासं कुर्वन्नपि राजेति क्रियाद्रव्ययोर्विरोधः । अत्रापि श्लेषमूलतैव । गुणस्य गुणेन विरोधो यथा---
रज्जंतो भुवणमिअं राएत्ति जए सलाहणिज्जो सि ।
रुद्दणरिंद ! कहं सा रत्ता वि अ पंडुरा जाआ
(रञ्जयन् भुवनमिदं राजेति यथा श्लाघनीयो ऽसि ।
रुद्रनरेन्द्र ! कथं सा रक्तापि च पुण्डुरा जाता ॥)
अत्र रक्तत्वपाण्डुरत्वयोर्विहोधः । गुणस्य द्रव्येण विरोधो यथा---
ज्वलत्प्रतापरौद्रो ऽपि काकतीयनरेश्वरः ।
भूत्वा जैवातृको भाति शश्वद्विश्वप्रियंकरः
अत्र प्रतापरौद्रो ऽपि जैवातृक इति गुणद्रव्ययोर्विरोधः ।
द्रव्यस्य द्रव्येण विरोधो यथा---
विभाति काकतीन्द्रो ऽयं रुद्रो ऽपि चतुराननः ।
तथा च जिष्णुरित्येष कथ्यते पुरुषोत्तमः
एवं दश भेदा दर्शिताः । अयमश्लेषेणापि भवति । यथा---
स्वभावशिशिरा दृष्टिरपि काकतिभूभुजः ।
सर्वाङ्गतापिनी जाता प्रतिपक्षमहीभृताम्
अत्र स्वभावशिशिरापि तापिनीति विरोधः ।
[विइइ.24-विशेषालङ्कारः]
विशेषालङ्कारः ।
अथ विरोधगर्भालंकारा निरूप्यन्ते ।
आधाररहिताधेयमेकं चानेकगोचरम् ।
अशक्यवस्तुकरणं विशेषालंकृतिस्त्रिधा
यत्राधारमन्तरेणाधेयो निबध्यते स एको विशेषः । एकस्यानेकगोचरत्वे द्वितीयो विशेषः । प्रकृतादशक्यवस्त्वन्तरकरणे तृतीयः । यथाक्रममुदाहरणानि--
नलनहुषदिलीपधर्मपुत्रप्रभृतिनरेश्वरसंश्रिता यशः श्रीः ।
अनुदिनमधुनाभ्युपेत्य मैत्रीं विलसति काकतिवीररुद्रकीर्त्त्या
अत्र प्राचां भूपतीनामाधारभूतानां तिरोधाने ऽप्याश्रितायाः कीर्त्तेरवस्थानम् । यथा च---
पश्यन्तो भयविह्वलाः प्रतिनृपाः पश्चात् पुरः पार्श्वयोर्
रप्यन्तर्बहिरन्ध्रपार्थिवपतिं प्रोत्क्षिप्तकौक्षेयकम् ।
निः सीनोत्बणधावनव्यतिकरप्रभ्रष्टदोरायुधाः
शैलाच्छेलमटन्ति कम्पविलसद्गाम्भीर्यशौर्यश्रियः
अत्र भयभ्रान्तानां शत्रुनृपतीनां प्रतापरुद्रनृपतिरेको ऽप्यनेकत्र प्रतीयते । तथा च---
अपारकरुणानिधेः सदसि वीररुद्रप्रभोः
प्रसादमधुरक्रमा लगति यत्र दृष्टिर्जने ।
अतीन्द्रमतिकिंनराधिपमशेषलोकोन्नतं
न किं मिमधितिष्ठति त्रिभुवने स सर्वाधिकः
अप्र साधारणो जनः प्रतापरुद्रदृष्टिप्रसादपात्रीकृतः किं किं न लभत इत्यशक्यवस्त्वन्तरकरणम् ।
[विइइ.25-अधिकालङ्कारः]
अधिकालङ्कारः ।
आधाराधेयवैचित्र्यादधिकालंकारो निरूप्यते ।
आधाराधेययोरानुरूप्याभावो ऽधिको मतः
यत्राश्रयाश्रयिणोरानुरूप्यं नास्ति सो ऽधिकालंकारः । स द्विविधः, आश्रयस्याल्पत्वमहत्त्वाभ्याम् ।
स्तोके ब्रह्माण्डरन्ध्रे विपुलतरतया स्वैरसंचारहेला-
संकोचादेकराशीभवदतनुरुचौ काकतीन्द्रस्य कीर्त्तौ ।
एतैः प्रालेयपृथ्वीधररजतगिरिस्वर्णदीशीतभानु-
क्षीरम्भोराशिमुख्यैः प्रकटितमधुना तद्धनीभावरूपम्
अत्राश्रयस्य रोदः कुहरस्याल्पत्वमाश्रितस्य प्रतापरुद्रयशसो वैपुल्यम् । द्वितीयो यथा---
क्वापि क्वापि कलिङ्गमालवमहाराष्ट्राङ्गवङ्गादयो
भूपास्तादृशसैन्यवैभवसमाक्रान्ताखिलाशान्तराः ।
लीनाः काकतिवीररुद्रनृपतेर्व्यूहप्रपञ्चश्रिया
निः सीमे बलवारिधौ विदधते पूर्तिं न कोणे ऽप्यहो
अत्राश्रयस्य प्रतापरुद्रसैन्याम्बुधेर्वैपुल्यम् । आश्रितानामङ्गवङ्गकलिङ्गप्रभृतिराजकानीकिनीनामल्पत्वम् ।
अथ विभावना विशेषोक्तिश्च ।
कारणेन विना कार्यस्योत्पत्तिः स्याद्विभावना ।
तत्सामग्रयामनुत्पत्तिर्विशेषोक्तिर्निगद्यते
यत्र प्रसिद्धकारणपरित्यागेन कार्यस्योत्पत्तिर्निगद्यते सा विभावना । यत्र साकल्ये सत्यपि कार्यस्यानुत्पत्तिः सा विशेषोक्तिः ।
यथा---
प्रतापरुद्रेण पराजितानां प्रत्यर्थिनां विन्ध्यगुहागतानाम् ।
तमांस्यरात्रीणि समुद्भवन्ति तेजांसि धस्रेष्वपि नोद्भवन्ति
अत्र तमः
प्रादुर्भावस्य प्रसिद्धकारणं रात्रिः । तया विनापि तस्योत्पत्तिर्निबद्धा । अप्रसिद्धं कारणं शोकाद्यस्त्येव । तथा अहस्सु रविकिरणेषु सत्स्वपि तेजसो ऽनुत्पत्तिरिति अत्र निष्प्रतापत्वादि निमित्तमस्त्येव ।
[विइइ.26-असंगत्यलङ्कारः]
असंगत्यलङ्कारः ।
कार्यकारणविरोधप्रस्तावाद् असंगतिरुच्यते ।
कार्यकारणयोर्भिन्नदेशत्वे सत्यसंगतिः
यत्रैकदेशवर्तिनोरपि कार्यकारणयोर्भिन्नदेशस्थितिर्निबध्यते ऽसावसंगत्यलंकारः । यथा---
बिभ्रत्युर्वीधुरां गुर्वी वीररुद्रनरेश्वरे ।
भवन्त्यतितरां शश्वन्नम्राः सामन्तमौलयः
अत्र राज्ञि भूभारः शत्रुषु नमनमिति ।
[विइइ.27-विचित्रालङ्कारः]
विचित्रालङ्कारः ।
विरोधप्रस्तावाद्विचित्रं निरूप्यते ।
विचित्रं स्वविरुद्धस्य फलप्राप्त्यर्थमुद्यमः
यत्र स्वविरुद्धफलप्राप्त्यर्थमुद्योगः क्रियते स विचित्रालंकारः ।
यथा---
प्रतापरुद्रनृपतेरग्रे दूरान्नरेश्वराः ।
अवरोहन्ति हस्तिभ्यस्तानारोढुमनर्गलम्
अत्रारोढुमवरोहन्तीति विपरीतफलप्राप्त्यर्थं प्रयत्नः ।
अन्योन्यालंकारः ।
अथान्योन्यं निरूप्यते ।
अस्यापि विरोधमूलता ।
तदन्योन्यं मिथो यत्रोत्पाद्योत्पादकता भवेत्
यत्र परस्परं क्रियाद्वारकमुत्पाद्योत्पादकत्वं तदन्योन्यालंकारः ।
यथा---
आरोहता रुद्रनरेश्वरेण विराजते काकतिराजपीठम् ।
आरुह्य तेनोज्ज्वलरत्नभाजा राजापि लक्ष्मीमधिकां बिभर्ति
अत्र प्रतापरुद्रभद्रासनयोरन्योन्यालंकार्यत्वम् ।
विषमालंकारः ।
अथ विरोधमूलो विषमालंकारः कथ्यते ।
विरुद्धकार्यस्योत्पत्तिर्यत्रानर्थस्य वा भवेत् ।
विरूपघटना चासौ विषमालंकृतिस्त्रिधा
यत्र कारणाद्विरुद्धकार्यस्योत्पत्तिस्तदेकं विषमम् । अकार्यभूतस्यानर्थस्योत्पत्तिर्द्वितीयम् । विरूपयोर्वस्तुनोः संघटने तृतीयम् । तत्र प्रथमं यथा---
राज्ञः काकतिवीररुद्रनृपतेः खड्गात् तमालप्रभाद्
उद्भूतां शरदिन्दुकान्तिधवलां कीर्त्तिश्रियं पश्यताम् ।
लोकानां मुरवैरिपादकमलाज्जातां वियन्निम्नगां
श्रुत्वा संप्रति विस्मयाद्विरमति प्राप्तानुभावं मनः
अत्र नीलवर्णात् खड्गादिन्दुघवलस्य यशसः समुत्पत्तिः ।
द्वितीयं यथा---
आस्तां जयाशा रिपुभूपतीनां संग्रामसीमाममुपागतानाम् ।
प्रतापरुद्रस्य विलोकनेन भ्रश्यन्ति जीवैः सममायुधानि
अत्र समरोद्योगफलस्य न केवलं जयस्यानुत्पत्तिर्यावज्जीवितभ्रंशरूपानर्थोत्पत्तिरपि । तृतीयं यथा---
क्व भूपालास्तादृग्विभवमहनीयप्रकृतयः
क्व चेयं कान्तारस्थितिरशिववृत्त्येकनिलया ।
इति प्रेक्षंप्रेक्षं वनभुवि रिपून् रुद्रनृपतेः
प्रतापं श्लाघन्ते शबरपुरवीराः प्रतिदिशम्
अत्र महानगरनिवासयोग्यानां राज्ञामशिवानां वनप्रदेशानां विरूपाणां संघटनम् ।
एवं विरोधगर्भालङ्कारा निर्णीताः ।
[विइइ.28-समालङ्कारः]
समालङ्कारः ।
अधुना विषमवैधर्म्यात् समालंकारो निरूप्यते ।
सा समालंकृतिर्योगे वस्तुनोरनुरूपयोः
यत्रान्योन्यानुरूपपदार्थसंघटना क्रियते स समालङ्कारः । यथा---
विज्जाओ सकलाओ लच्छीए समं पआवरुद्दंमि ।
संघटिऊण सुसरिसं होइ कअच्छो सअं बह्मा
(विद्याः सकला लक्ष्म्या समं प्रतापरुद्रे ।
संघटय्य सुसदृशं भवति कृतार्थः स्वयं ब्रह्मा ॥)
अत्र प्रतापरुद्रे सकलविद्यानां लक्ष्म्याश्च योगः ।
[विइइ.29-तुल्ययोगितालङ्कारः]
तुल्ययोगितालङ्कारः ।
अथ गम्यमानोपम्यालंकारवर्गप्रस्तावः ।
प्रस्तुतानां तथान्येषां केवलं तुल्यधर्मतः ।
औपम्यं गम्यते यत्र सा मता तुल्ययोगिता
यत्र केवलप्रस्तुतानां केवलाप्रस्तुतानां वा समानधर्मसंबन्धादौपम्यं गम्यते सा तुल्ययोगिता । प्रस्तुतानां यथा---
भद्रासनाध्यासिनि रुद्रदेवे तत्कीर्त्तयस्तद्द्विषदङ्गनाश्च ।
अनारतं भ्रान्तिविशेषभाजः प्रतिक्षणं पाण्डुरतां भजन्ते
अत्र कीर्त्तीनां द्विषदङ्गनानां च प्राकरणिकत्वम् । पाण्डुरतां भजन्त इति समानधर्मः । अप्राकरणिकानां यथा---
कूर्मेन्द्रपन्नगाधीशहरित्करिकुलाद्रयः ।
मिथो निः सारतां प्राप्ताः काकतीन्द्रे महीभृति
अत्र कूर्मेन्द्रप्रभृतीनामप्राकरणिकत्वम् । निः सारतां प्राप्ता इति समानधर्मः । अत्र गम्यमानौपम्यं न वास्तवम् ; किं तु वैवक्षिकम् ।
[विइइ.30-दीपकालङ्कारः]
दीपकालङ्कारः ।
प्रसुताप्रस्तुतानां तु सामस्त्ये तुल्यधर्मतः ।
औपम्यं गम्यते यत्र दीपकं तन्निगद्यते
यत्र प्रस्तुताप्रस्तुतानां समस्तानामेव समानधर्मसंबन्धेनौपम्यं गम्यते तद्दीपकम् । तस्य धर्मस्यादिमध्यान्तगतत्वेन त्रैविध्यम् । आदिदीपकं यथा---
भाइ णलेण किअजुअं रहुउलदीवेण सोरिणा तेता ।
दावारो तवजणिणा कलीजुअं वीरुद्देण
(भाति नलेन कृतयुगं रघुकुलदीपेन शौरिणा त्रेता ।
द्वापरस्तपोजनिना कलियुगं वीररुद्रेण ॥)
अत्र यथा नलरामधर्मपुत्रैः कृतत्रेताद्वापराः शोभन्ते, तथा वीररुद्रेण कलियुगं शोभत इत्यौपम्यं गम्यते । मध्यदीपकं यथा---
भाईरहिए जलणिही राअई जोण्हाए पुण्णिमाचंदो ।
सुत्तीए कमलहवो कित्तीए पआवरुद्दो वि
(भागीरथ्या जलनिधी राजते ज्योत्स्नया पूर्णिमाचन्द्रः ॥
श्रुत्या कमलभवः कीर्त्त्या प्रतापरुद्रो ऽपि ॥)
अत्र भागीरथ्यादिभिः समुद्रादयो यथा राजन्ते तथा कीर्त्त्या प्रतापरुद्रो राजत इत्यौपम्यं गम्यते । अन्तदीपकं यथा---
असुरलोअं सुरणाहो णरलोअं वीररुद्दणरणाहो ।
फणिलोअं फणिणाहो रक्खै णिरुपद्दवोज्जेअं
(असुरलोकं सुरनाथो नरलोकं वीररुद्रनरनाथः ॥
फणिलोकं फणिनाथो रक्षति निरुपद्रवोद्वेगम् ॥)
अत्र यथा सुरलोकफणिलोकौ सुरनाथफणिनाथाभ्यां रक्षितौ, तथा वीररुद्रेण नरलोको रक्षित इत्यौपम्यं गम्यते ।
अथ पदार्थगतालंकारद्वयानन्तरं वाक्यार्थगतमलंकारद्वयं निरूप्यते ।
प्रतीवस्तूपमालङ्कारः ।
यत्र सामान्यनिर्देशः पृथग्वाक्यद्वये यदि ।
गम्यौपम्याश्रिता सा स्यात् प्रतिवस्तूपमा मता
यत्र वस्तुप्रतिवस्तुभावेन सामान्यं वाक्यद्वये निर्दिश्यते तेन गम्यौपम्या प्रतिवस्तूपमा । सा साधर्म्यवैधर्म्याभ्यां द्विविधा ।
प्रथमा यथा---
मन्थानाचल एवैकः क्षमः सिन्धुविलोडने ।
प्रतापरुद्र एवैकः शक्तः शत्रुविलोडने
अत्र यथा समुद्रविलोडने मन्थानाचलः क्षमस्तथा शत्रुविलोडने प्रतापरुद्रः शक्त इत्यौपम्यं गम्यते । द्वितीया यथा---
प्रतापरुद्र एवैकः पटीयान् जनरञ्जने ।
चन्द्रादृते क्षमो नान्यश्चकोरपरितोषणे
अत्र चन्द्रेण यथा चकोरपरितोषणं क्रियते, तथा वीररुद्रेण जनरञ्जनं क्रियत इति वैधर्म्येणौपम्यं गम्यते ।
अथ दृष्टान्तः ।
[विइइ.31-दृष्टान्तालरङ्कारः]
दृष्टान्तालङ्कारः ।
यत्र वाक्यद्वये बिम्बप्रतिबिम्बतयोच्यते ।
सामान्यधर्मो वाक्यज्ञैः स दृष्टान्तो निगद्यते
यत्र बिम्बप्रतिबिम्बभावेन सामान्यं वाक्यद्वये निर्दिश्यते, स दृष्टान्तालंकारः । सो ऽपि साधर्म्यवैधर्म्याभ्यां द्विविधः । आद्यो यथा---
क्षोणीं बिभ्रतु भूभृतः कतिपये कापि प्रतिष्ठा पुनः
स्वर्णाद्रेर्दिगधीशवासनगरीसंदिग्धकुञ्जश्रियः ।
राजानौ जनरञ्जनं विदधतां श्रीवीररुद्रप्रभोः
को ऽप्यन्यो महिमा जगत्त्रयधुराधौरेयदोः शालिनः
अत्र प्रतापरुद्रस्य मेरोश्च बिम्बप्रतिबिम्बभावादौपम्यं गम्यते । वैधर्म्येण यथा--
काकतीन्द्रकृपादृष्टिमात्राज्जाग्रति संपदः ।
तावदब्जानि निद्रान्ति यावन्नोदेति भानुमान्
अत्र यथा भास्वदुदयमात्रेण पद्मानि समुन्मीलन्ति तथा प्रतापरुद्रदयाविलोकनमात्रेण संपदः संभवन्तीति वैधर्म्येण बिम्बप्रतिबिम्बनम् ।
[विइइ.32-निदर्शनालङ्कारः]
निदर्शनालङ्कारः ।
अथ गम्यमानौपम्यप्रस्तावान्निदर्शनालंकारो निरूप्यते ।
असंभवद्धर्मयोगादुपमानोपमेययोः ।
प्रतिबिम्बक्रिया गम्या यत्र सा स्यान्निदर्शना
यत्रोपमानधर्मस्योपमेयगतत्वेन निबद्धस्यान्वयासंभवात् तत्सम्बन्धार्थं बिम्बप्रतिबिम्बकरणमाक्षिप्यते, सैका निदर्शना । तद्विपर्यये द्वितीया निदर्शना । प्रथमा यथा---
रिपुतिमिरमुदस्यन् रत्नसिंहासनस्थ-
स्त्रिभुवनमहनीयः काकतीयक्षितीशः ।
वहति महितविश्वोल्लासिलीलामभिख्या-
मुदयशिखरिचूडाचुम्बिनस्तीव्रभानोः
अत्र तीव्रभानोरभिख्यायाः प्रकृते ऽसंभवादभिख्यासदृशीमभिख्यां वहतीति बिम्बप्रतिबिम्बकरणाक्षेपः । उपमेयधर्मस्योपमाने ऽसंभवाद् यथा---
वीररुद्रनरेन्द्रस्य यशोवैशद्यसंपदः ।
लक्ष्यन्ते क्षीरवाराशिलीलादर्पणमण्डले
अत्र यशोवैशद्यस्य दुग्घार्णवादौ असंभवात् सादृश्योपगमेन बिम्बप्रतिबिम्बनं गम्यते । क्वचिन्निषेधवशादाक्षिप्तया प्राप्त्या बिम्बप्रतिबिम्बकरणाक्षेपो यथा---
यथा---
काकतीन्द्रद्विषत्कान्ता धावन्त्यः प्रतिकाननम् ।
पद्भ्यां मुञ्चन्त्यलाक्षाभ्यां स्थले रक्तोत्पलश्रियम्
अत्र मुञ्चन्तीति निषेधात् पूर्वं रक्तोत्पलश्रीप्राप्तिराक्षिप्ता ।
[विइइ.33-व्यतिरेकालङ्कारः]
व्यतिरेकालङ्कारः
अथ व्यतिरेकः ।
भेदप्रधानसाधर्म्यमुपमानोपमेययोः ।
आधिक्याल्पत्वकथनाद् व्यतिरेकः स उच्यते
यत्रोपमानादुपमेयस्याधिक्येन न्यूनत्वेन वा प्रतिपादनेन भेदप्रधानं साधर्म्यमुपगम्यते स व्यतिरेकालंकारः । यथा---
दिनकृति कुमुदैर्धृतो न रागः शशिनि पराञ्चि परं सरोरुहाणि ।
कुवलयकमलादृतप्रकाशः प्रभवति विश्वसुहृत् प्रतापरुद्रः
अत्र रविशशिनोरसंभवेन सर्वप्रियंकरत्वेनोपमेयभूतस्य प्रतापरुद्रस्याधिक्यं कुवलयकमलादृतप्रकाश इत्युक्तमिति श्लेषसमुत्थापितो व्यतिरेकः ।
अथ श्लेषालङ्कारो निरूप्यते ।
प्रकृताप्रकृतोभयगतमुक्तं चेच्छब्दमात्रसाधर्म्यम् ।
श्लेषो ऽयं श्लिष्टत्वं सर्वत्राद्यद्वये नान्त्ये
यत्र केवलप्रकृतयोः केवलाप्रकृतयोश्च श्लेषः कथ्यते; तत्र प्रकारद्वये विशेषणविशेष्यश्लिष्टता । प्रकृताप्रकृतविषये ऽन्त्यभेदे विशेषणमात्रश्लिष्टता । विशेष्ययोरपि श्लिष्टत्वे शब्दशक्तिमूलध्वनिप्रसङ्गात् । केवलप्रकृतयोः केवलाप्रकृतयोश्चैकशब्दगोचरत्वे तु न ध्वनिशङ्का । अत्रार्थद्वयप्रतिपादने ऽप्रस्तुतत्वेन प्रस्तुतत्वेन वा वैमग्याभावादभिधैव समर्था । प्रस्तुताप्रस्तुतविषये तु अभिधायाः प्रस्तुतैकपरतन्त्रत्वादप्रस्तुतार्थप्रतिपत्तिर्व्यञ्जनव्यापारायत्तैव । तथा चोक्तं काव्यप्रकाशे---
"अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते ।
संयोगाद्यैरवाच्यार्थधीकृद् व्यापृतिरञ्जनम् ॥ऽ; इति ।
तदेवं त्रिधा श्लेषः । तत्र केवलप्राकरणिकयोर्यथा---
राज्ञः पूजाविधिं धत्ते सकलोमाधवे तिथिः ।
नीलकण्ठकलापाङ्के स्फुरदब्जमणित्विषि
अत्र पूजाविषयतया हरिहरयोः प्राकरणिकत्वम् । अप्राकरणिकयोर्यथा---
सदृशः काकतीन्द्रो ऽयं महाकुलमहीभृताम् ।
शिरोगृहीतसन्मार्गस्फुरत्कटकसंपदाम्
अत्र महाकुलानां हरिश्चन्द्रप्रभृतीनां कुलपर्वतानां चोपमानत्वेनाप्राकरणिकत्वम् । प्राकरणिकाप्राकरणिकयोर्यथा---
विजितारिपुरो
मूर्तौ विलसत्सर्वमङ्गलः ।
राजमौलिः प्रतापाङ्करुद्रो रुद्र इव स्थितः
अत्र प्रतापरुद्ररुद्रयोः प्राकरणिकाप्राकरणिकत्वम् ।
[विइइ.34-परिकरालङ्कारः]
परिकरालङ्कारः ।
विशेषणवैचित्र्यमूलत्वात् परिकर उच्यते ।
यत्राभिप्रायगर्भा स्याद् विशेषणपरम्परा ।
तत्राभिप्रायविदुषामसौ परिकरो मतः
यत्र विशेषणानि साभिप्रायाणि निबध्यन्ते स परिकरालंकारः । यथा---
राज्ञो यादववंशपार्थिवमणेः प्रख्यातशौर्यश्रियस्
त्वङ्गत्तुङ्गतुरङ्गसैन्यमहतो मानैकवित्तस्य च ।
सद्यो रुद्रनरेन्द्रनायकचमूनाथेन केनाप्यधि-
क्षिप्तस्याचरितानि सेवणपतेर्जानाति सा गौतमी
अत्र राज्ञ इत्येवमादिविशेषणानि उत्प्रासगर्भाणि ।
[विइइ.35-आक्षेपालङ्कारः]
आक्षेपालङ्कारः ।
अथाक्षेपालंकारः
विशेषबोधायोक्तस्य वक्ष्यमाणस्य वा भवेत् ।
निषेधाभासकथनमाक्षेपः स उदाहृतः
यत्र विशेषप्रतिपत्त्यर्थमुक्तवक्ष्यमाणयोः प्राकरणिकयोर्निषेधाभासः कथ्यते, स आक्षेपालंकारः । उक्तविषये वस्तु वा कथनं वा निषिध्यते । वक्ष्यमाणविषये कथनमेव निषिध्यते । तत्रापि सामान्यरूपेण प्रतिज्ञाय विशेषरूपेण निषेधः । अंशोक्तावंशान्तरस्य वा निषेधः । एवं चतुर्विधो ऽयमाक्षेपः । क्रमेणैषामुदाहरणानि ।
नरेन्द्रमौले ! न वयं तव संदेशहारिणः ।
जगत्कुटुम्बिनः कश्चिन्न शत्रुरिति कथ्यते
अत्र राजसन्धिविग्रहकारिणामुक्तौ न वयं संदेशहारिण इति वस्तुनिषेधः । स चानुपपद्यमानः संधिविग्रहकालोचितकैतववचनपरिहारेण तत्त्ववादित्वे पर्यवसितः, सर्वजगत्पालकस्य तव शत्रुभावेन नालोकनीया राजानः, किं तु भृत्यरूपेण संरक्षणीया इत्येवमादिविशेषमाक्षिपति । कथननिषेधो यथा---
वयमशरणा इत्येषोक्तिः कथं घटते जगत्-
त्रितयशरणे त्रायस्वास्मानिति स्फुटमज्ञता ।
सकलजनतारक्षादक्षे त्वयि प्रणता इति
त्रिभुवननमस्कार्ये सिद्धं प्रतापमहीपते
अत्र वयमशरणा इत्येवमाद्युक्तिकथननिषेधा (दा) भासरूपादवश्यपरिपालनीयत्वादिविशेषः प्रतीयते । वक्ष्यमाणविषये सामान्यं प्रतिज्ञाय कथननिषेधो यथा---
विज्ञापयामस्ते किंचित् काकतीयकुलोद्वह ।
विज्ञाप्यते किमथवा सर्वज्ञे रक्षके त्वयि
अत्र विज्ञापयाम
इति सामान्यं प्रतिज्ञाय कथननिषेधाभासात् सर्वथा वयं रक्षणीया इति विशेष आक्षिप्यते । अंशोक्तावंशान्तरस्य निषेधो यथा---
प्रतापरुद्रः स्वयमिद्धतेजा दैवं च तद्विक्रमदत्तहस्तम् ।
यूयं च तूलोपमसारभाजस्तद् युक्तमेवं यदि वा किमुक्तैः
अत्र प्रतापरुद्रो महीयान्, यूयमल्पा इत्यंशोक्त्या यदि वा किमुक्तैरित्यंशान्तरनिषेधाभासेन सर्वथा प्रणामैः प्रसादनीयो ऽयम्, न तु प्रातिपक्ष्यमवलम्बनीयं युष्माभिरिति शत्रुस्त्रीवचनभङ्ग्या विशेष आक्षिप्यते ।
समानार्थतयानिष्टविध्याभासो ऽप्याक्षेप इत्यभ्युपगम्यते
यथा च इष्टनिषेधस्यानुपपद्यमानतया आभासत्वं तथा अनिष्टविधेरप्यनुपपद्यमानतया आभासत्वम् । यथा---
नाथ ! प्रतापरुद्रस्य सेवां त्यजसि चेत् त्यज ।
अरण्यगृहमेधिन्या रीतिरभ्यस्यते मया
अत्रानिष्टभूतं प्रतापरुद्रपादसेवात्यजनं तद्रिपुकामिन्या विधीयते । स विधिरनुपपद्यमान आभासे पर्यवस्यति । अरण्यगृहमेधिन्या रीतिरभ्यस्यत इत्यनेन विध्याभास एव उपबृंहितः ।
[विइइ.36-व्याजस्तुत्यलङ्कारः]
व्याजस्तुत्यलङ्कारः ।
अथ गम्यप्रस्तावात् व्याजस्तुतिरुच्यते ।
निन्दया वाच्यया यत्र स्तुतिरेवावगम्यते ।
स्तुत्या वा गम्यते निन्दा व्याजस्तुतिरसौ मता
यत्र निन्दाकथनमुखेन स्तुतिर्गम्यते---एका सा । यत्र स्तुतिमुखेन निन्दा गम्यते---सा द्वितीया व्याजस्तुतिः । क्रमेण यथा---
काकतीयविभोः कीर्त्त्या किं वाद्य धवलीकृतम् ।
यत्तदीयारिवक्त्रेषु दृश्यते कालिमा महान्
स्तुत्या निन्दा यथा---
प्रतापरुद्रनृपतेरहो साहसिका द्विषः ।
यद्विशन्त्युदधीन् शैलानारोहन्ति समन्ततः
[विइइ.37-अप्रस्तुतप्रशंसालङ्कारः]
अप्रस्तुतप्रशंसालङ्कारः ।
अथ गम्यत्वप्रस्तावादप्रस्तुतप्रशंसोच्यते ।
अप्रस्तुतस्य कथनात् प्रस्तुतं यत्र गम्यते ।
अप्रस्तुतप्रशंसेयं सारूप्यादिनियन्त्रिता
यत्र सारूप्येण सामान्यविशेषभावेन कार्यकारणभावेन चाप्रस्तुतकथनात् प्रस्तुतप्रतीतिस्तत्राप्रस्तुतप्रशंसा । अप्रस्तुतात् प्रस्तुतप्रतीतिरित्यनेन समासोक्तेर्व्यावृत्तिः । न च कार्यात् कारणप्रतीतावनुमानाविर्भावशङ्का ; अनुमानालंकारे प्रत्याय्यप्रत्यायकयोर्द्वयोरपि प्राकरणिकत्वाभ्युपगमात् । अनेन पर्यायोक्तस्य व्यावृत्तिरपि । न चायं ध्वनिः । प्रतीयमानस्य वाच्यसिद्ध्यङ्गत्वात् । तत्र सारूप्येण यथा---
आशासु प्रशमितवासनोदयेभ्यः किं लब्धं भ्रमरगणैर्जरत्तरुभ्यः ।
पुन्नागो नवनवसौरभप्रसूनैरामोदं दिशति विवासमारभध्वम्
अत्र भ्रमरवृत्तान्तेनाप्रस्तुतेन सर्वान् असंपूर्णविभवान् उर्वीश्वरान् विहाय सकलगुणपरिपूर्णः सर्वजनानन्दी प्रतापरुद्र एक एव सर्वेषां विदुषां सेव्य इति प्रस्तुतं प्रतीयते । सामान्याद्विशेषप्रतीतिर्यथा---
यशस्विनी पद्मभवस्य सृष्टिरुत्पादयित्री नृपशेखराणाम् ।
तत्पालनाल्लालनभाग्ययोग्यो जातश्चिरान्मध्यमलोक एषः
अत्र प्रतापरुद्रस्य गुणमहत्त्वे प्रस्तुते सामान्यमभिहितम् । विशेषात् सामान्यप्रतिपत्तिर्यथा---
दट्ठुमणा वि ण पेक्खै ण भणै वत्तुं सकोदुहलआ वि ।
परिसासआ वि ण प्पसै वणिआए कीरिसी सिट्टी
(द्रष्टुमना अपि न पश्यति न भणति वक्तुं सकौतूहलापि ।
स्पर्शाशयापि न स्पृशति वनितायाः कीदृशी सृष्टिः ॥)
अत्र मुग्धानां नवसंगमे महती लज्जेति सामान्ये प्रस्तुते विशेषो ऽभिहितः । कार्यात् कारणप्रतीतिर्यथा---
गाधा इवार्णवा जाता नीचा इव महाद्रयः ।
महीमवतरत्यस्मिन् काकतीयकुलेश्वरे
अत्रार्णवादीनां गाधत्वादिभिः कार्यभूतैरप्रस्तुतैः कारणभूतं प्रतापरुद्रगाम्भीर्यादि प्रतीयते । कारणात् कार्यप्रतीतिर्यथा---
प्रतापरुद्रनृपतेर्धरित्रीकल्पशाखिनः ।
जाता मयि कृपादृष्टिः किं वा विस्मयसे सखे
अत्र कथमीदृशमहाविभवभाजनमधुना भवसीति कार्यं पृच्छते सविस्मयाय सुहृदे कारणभूता प्रतापरुद्रकृपादृष्टिरभिहिता ।
वाच्यसंभावसंभवोभयरूपतया यथासंभवं भेदाः स्वयं द्रष्टव्याः ।
[विइइ.38-पर्यायोक्तालङ्कारः]
पर्यायोक्तालङ्कारः ।
गम्यत्वप्रस्तावात् पर्यायोक्तमुच्यते ।
कारणं गम्यते यत्र प्रस्तुतात् कार्यवर्णनात् ।
प्रस्तुतत्वेन संबद्धं तत् पर्यायोक्तमुच्यते
यत्र प्रस्तुतस्यैव कार्यस्य वर्णनात् प्रस्तुतमेव कारणं गम्यते, तत् पर्यायोक्तम् । यथा---
प्रतिभूपालशुद्धान्तदीर्घिकास्वाजिधूसरः ।
प्रक्षालयन्ति गात्राणि काकतीयचमूचराः
अत्र रिपुनगरीदीर्घिकावारिविहारेण प्रतापरुद्रचमूचरकर्तृकेण कार्यभूतेन समरप्रारम्भ एव स्वपुराणि विहाय पलायिता प्रतिनृपाः इति कारणं प्रतीयते ।
[विइइ.39-प्रतिपालङ्कारः]
प्रतीपालङ्कारः
।
अथ प्रतीपम् ।
आक्षेप उपमानस्य कैमर्थक्येन कथ्यते ।
यद्वोपमेयभावः स्यात् तत्प्रतीपमुदाहृतम्
यत्रोपमेयस्य लोकोत्तरत्वादुपमानाक्षेपः क्रियते, तदेकं प्रतीपम् । यत्रोपमानस्योपमेयत्वं कल्प्यते, तत् द्वितीयम् । आद्यं यथा---
कीर्त्तौ प्रतापरुद्रस्य विलसन्त्यां दिगन्तरे ।
किमर्थमुदयत्येष निर्लज्जः शशलाञ्छनः
द्वितीयं यथा---
काकतीयकुले लक्ष्मीपतिरेष न संशयः ।
अनेन कथमल्पज्ञैः सुमेरुरुपमीयते
[विइइ.40-अनुमानालङ्कारः]
अनुमानालङ्कारः ।
अथ तर्कन्यायमूलालंकारा निरूप्यन्ते ।
साध्यसाधननिर्देशे त्वनुमानमुदीर्यते
रूपकहेतुकत्वेन तर्कानुमानवैलक्षण्यम् । यथा---
रजोधूमः सेनाव्यतिकरभवो यत् प्रसरति
स्फुलिङ्गा दृश्यन्ते भटघटितकौक्षेयकभुवः ।
ततो मन्ये यात्राशुचिसमयजो रुद्रनृपतेः
प्रभूतः कोपाग्निर्दहति रिपुभूपालनगरीः
काव्यलिङ्गालंकारः ।
अथ काव्यलिङ्गम् ।
हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम्
यत्र हेतुर्वाक्यगतत्वेन पदगतत्वेन वा प्रतिपाद्यते तत् काव्यलिङ्गम् ।
यथा---
प्रतापरुद्र इत्येषा कापि पञ्चाक्षरी शुभा ।
हृदि यां बिभ्रतो भूपा वशीकुर्वन्ति संपदः
अत्र वाक्यार्थगतो हेतुः । पदार्थगतो यथा---
म्लानापि भूभृतां फाललिपिरुच्छ्वसिता पुनः ।
प्रतापरुद्रदेवाङ्घ्रिनखज्योत्स्नामृतोक्षिता
अत्र पूर्वं परिम्लानाया भूपालफाललिपेः पुनरुच्छ्वासे प्रतापरुद्रनरेन्द्रचरणनखचन्द्रिकासेचनं हेतुः । तस्य विशेषणगतत्वात् पदार्थगतत्वोक्तिः ।
अर्थान्तरन्यासालङ्कारः ।
अथार्थान्तरन्यासः ।
कार्यकारणसामान्यविशेषाणां परस्परम् ।
समर्थनं यत्र सो ऽर्थान्तरन्यास उदाहृतः
यत्र कार्यकारणभावेन, सामान्यविशेषभावेन वा प्रकृतसमर्थनं क्रियते, सो ऽर्थान्तरन्यासः । कार्यकारणभावेन यथा---
भूपाः ! प्रतापरुद्रस्य नता भवत, नोन्नताः ।
उन्नतान् नमयत्येष नतानुन्नमयत्यपि
अत्र फलरूपेणौन्नत्येन नम्रत्वकारणं समर्थितम् ।
सामान्याद्विशेषसमर्थनं यथा---
उद्वेजिता रुद्रनरेश्वरस्य रणापदानैः प्रतिपक्षभूपाः ।
बिभ्रत्यमी चित्रमचेतनेभ्यो भीतस्य सर्वं भयकारि नूनम्
अत्र भीतस्य सर्वं भयकारीति सामान्यमचेतनेभ्यो रिपुभूपा बिभ्यतीति विशेषं समर्थयति । विशेषात् सामान्यसमर्थनं यथा---
दुष्टो ऽपि महतां संगाद्भवत्येव हि सज्जनः ।
प्रतापरुद्रमभ्येत्य कलिः कृतयुगायते
अत्र प्रतापरुद्रसंगतिमहिम्ना कलिः कृतयुगसदृश इति विशेषेण सामान्यसमर्थनम् । कार्यकारणभावे ऽपि कारणात् कार्यसमर्थनं काव्यलिङ्गे ऽन्तर्भूतमिति तन्नोक्तम् । अतः प्रकारत्रयमर्थान्तरन्यासस्य ।
[विइइ.41-यथासंख्यालङ्कारः]
यथासंख्यालङ्कारः ।
तर्कन्यायमूलालंकारानन्तरं वाक्यन्यायमूलालंकारा निरूप्यन्ते ।
उद्दिष्टानां पदार्थानां पूर्वं पश्चाद् यथाक्रमम् ।
अनूद्देशो भवेद् यत्र तद्यथासंख्यमिष्यते
यत्र येन क्रमेणोद्दिष्टाः पदार्थास्तेनैव क्रमेणानूद्दिश्यन्ते ; तत्र यथासंख्यालंकारः । यथा---
गाम्भीर्यमौन्नंत्यमनर्गलत्वं प्रतापरुद्रे समवेक्ष्य धाता ।
अम्भोनिधिष्वद्रिषु दिग्गजेषु सृष्टिं प्रयासैकफलाममंस्त
[विइइ.42-अर्थाप्यलङ्कारः]
अर्थापत्त्यलङ्कारः ।
एकस्य वस्तुनो भावाद्यत्र वस्त्वन्यद् आपतेत् ।
कैमुत्यन्यायतः सा स्यादर्थापत्तिरलंक्रिया
यत्र कस्यचिदर्थस्य निष्पत्तौ तत्समानन्यायात् कैमुत्येनार्थान्तरमापतति सो ऽर्थापत्तिरलंकारः । न चात्रानुमानशङ्का, कैमुत्यन्यायसंबन्धरूपत्वात् । यथा---
समन्तादुद्वेलैर्वि विधहयधाटीकलकलैर्-
जगत्यां क्रामन्नप्यजनि विधुरः सेवणपतिः ।
मनाक् क्रोधोदञ्चद्भ्रुकुटिकुटिले रुद्रनृपतौ
नृपाणामन्येषां विफलितरुषां कैव गणना
अपि च---
त्रैलोक्यसारो ऽपि सुवर्णशैलः प्रतापरुद्रेण नृपेण तुल्यम् ।
तुलां समारोढुमपूर्ण एव महीभृतां का गणनेतरेषाम्
अत्र प्रतापरुद्रापेक्षया मेरावप्यसारे ऽन्येषां महीभृतामर्थादसारत्वं कैमुत्यादापतति ।
परिसंख्यालङ्कारः ।
अथ परिसंख्या ।
एकस्य वस्तुनः प्राप्तावनेकत्रैकदा यदि ।
एकत्र नियमः सा हि परिसंख्या निगद्यते
यत्रैक वस्तु युगपदनेकत्र संभाव्यमानमेकत्रैव नियम्यते, सा परिसंख्या सा प्रथमं द्विविधा, प्रश्नपूर्विका, तदन्यथा चेति । तयोर्द्वर्जयोर्वर्जनीयस्य शाब्दत्वार्थत्वाभ्यां द्वैविध्ये चातुर्विध्यम् । तत्र शाब्दवर्जनीया प्रश्नपूर्विका यथा---
किं मण्डनं त्रिलोक्याः काकतितिलको न हाटकक्षितिभृत् ।
स्तोतव्यः कः सुधियां रुद्रनरेन्द्रो न मन्दरः क्षितिभृत्
आर्थवर्जनीया प्रश्नपूर्विका यथा---
किं वा क्षौमवितानं लोकानां ? काकतीयकुलकीर्त्तिः ।
किं सौख्यं वसुमत्या ? रुद्रनरेन्द्रस्य भुजवासः
शाब्दवर्जनीया अप्रश्नपूर्विका यथा---
रागो धर्मे न विषयसुखे, संगतिः सत्सभायां
न स्त्रीगोष्ठ्यां, व्यसनमनिशं नीतिशास्त्रे न चाक्षे ।
कीर्त्त्यां नित्यार्जनचतुरता नार्थजाते, विनोदो
विद्याभ्यासे न च परिजने रुद्रदेवस्य राज्ञः
आर्थवर्जनीया अप्रश्नपूर्विका यथा---
भूरेव भुवनं देवः स्वयंभूरेव पार्थिवः ।
प्रतापरुद्र एवैकशिलैव नगरी शुभा
क्षोणीं रुद्रनराधीशे रक्षति क्षतविद्विषि ।
बलिसद्मन्यहिभयं त्रिदिवे गोत्रभित्कथा
अलङ्कारस्य श्लेषेण चारुत्वातिशयः ।
[विइइ.42-उत्तरालङ्कारः]
उत्तरालङ्कारः ।
उत्तरात् प्रश्न उन्नेयो यत्र प्रश्नोत्तरे तथा ।
बहुधा च निबध्येते तदुत्तरमुदीर्यते
यत्रोत्तरान्निबध्यमानात् प्रश्न उन्नीयते तदेकमुत्तरम् । चारुत्वार्थमसकृल्लोकोत्तरं प्रश्नप्रतिपादनपूर्वमुत्तरं द्वितीयमुत्तरम् । क्रमेण यथा---
किमद्य व्युत्पत्तिस्तव सुजनलोकव्यवहृतौ
यदद्य ज्ञातव्यं प्रभवति यदा रुद्रनृपतिः ।
तदारभ्योन्मूर्धा जयति विशदो धर्मविभवो
महीदेवाश्चोद्यद्विविधविभवारम्भमुदिताः
अत्र प्रतापरुद्रो यदा प्रभवति तदारभ्य पूर्णधर्मप्रतिष्ठा मही । महीदेवा अपि तथाविधसंतोषभाजः । किमधुना पृच्छसीत्युत्तरात् किं प्रतापरुद्रराज्ये धर्मप्रतिपालनमस्ति किं सुखिनो भूसुरा इत्युन्नीयते प्रश्नः । द्वितीयं यथा---
किं णु धणं ? कुलविज्जा ; को लोहो ? सज्जणेण सहवासो ।
का णअरी ? एअसिला ; को राआ ? वीररुद्दणरणाहो
(कि नु धनं ? कुलविद्या ; को लाभः ? सज्जनेन सहवासः ।
का नगरी ?
एकशिला ; को राजा ? वीररुद्रनरनाथः ॥)
[विइइ.43-विकल्पालङ्कारः]
विकल्पालङ्कारः ।
वाक्यन्यायमूलालङ्कारप्रस्तावाद्विकल्प उच्यते ।
विरोधे तुल्यबलयोर्विकल्पालंकृतिर्मता
यत्र तुल्यप्रमाणानुशिष्टयोर्विरुद्धयोर्युगपत्प्राप्तौ एकस्यासंभवस्तत्र विकल्पः ।
औपम्यगर्भत्वाच्चारुत्वम् । यथा---
भूपालाः क्रियतां मूर्ध्नां धनुषां वा विनम्रता ।
पादच्छायान्ध्रनाथस्य विन्ध्याद्रेर्या निषेव्यताम्
अत्र प्रतापरुद्रे प्रभवति राज्ञां संधिविग्रहाभ्यां तुल्यबलप्रमाणाभ्यां शिरोनमनधनुर्नमने युगपदेव प्राप्ते, तयोर्विरुद्धत्वाद्यौगपद्यासंभवे विकल्पः ।
समुच्चयालङ्कारः ।
विकल्पप्रतिपक्षभूतः समुच्चयो निरूप्यते ।
गुणक्रियायौगपद्यं समुच्चय उदाहृतः
यत्र गुणानां वैमल्यादीनां क्रियाणां च दर्शनादीनां युगपदवस्थानं तत्र समुच्चयालंकारः । यथा---
प्रतापरुद्रनृपतौ भद्रासनमुपेयुषि ।
सतां प्रसन्नं हृदयमसतां कलुषं मनः
क्रियासमुच्चयो यथा---
पेच्छै इमं णरिन्दो पविसै मअणो अ गलै माणो अ ।
घुण्णै मणो अ सुण्णं किं एदं उवह सहिआओ
(प्रेक्षते इमां नरेन्द्रः प्रविशति मदनश्च गलति मानश्च ।
घूर्णते मनश्च शून्यं किमेतत् पश्यत सख्यः ॥)
एते भिन्नविषयत्वे उदाहरणे । एकविषयत्वे यथा---
त्रैलोक्यप्रथमानकीर्त्तिमहितश्रीवीररुद्रप्रभोः
सेवार्थं चिरयत्सु काकतिपुरे भूपेषु तद्योषितः ।
द्वारं यान्ति विलोकयन्ति पुरतो निः श्वासमातन्वते
शुष्यन्ति प्रलपन्ति यान्ति तनुतां मुह्यन्ति मूर्च्छन्ति च
गुणक्रियासामस्त्येन यथा---
देवे काकतिवीररुद्रनृपतौ जैत्रप्रयाणोन्मुखे
माद्यद्दन्ति चलत्पदाति विचलद्वाजि प्रधावद्रथम् ।
विच्छायाननमाकुलाक्षमुदयत्कार्पण्यमाविर्भवत्
कम्पं भ्राम्यति सर्वतः प्रतिवनं प्रत्यर्थिभूभृद्गणः
द्वितीयः समुच्चयः ।
खलेकपोतन्यायेन बहूनां कार्यसाधने ।
कारणानां समुद्योगः स द्वितीयः समुच्चयः
यत्रैकं कार्यं
साधयितुमहमहमिकया बहूनां कारणानामुद्यमः, सो ऽपि समुच्चय एव, युगपदनेकेषामवस्थानात् ।
यथा---
शुभ्रं यशः शौर्यमहच्च वृत्तं विद्यानवद्या विमलं कुलं च ।
प्रतापरुद्रस्य नरेश्वरस्य लोकोत्तरां रीतिमुदञ्चयन्ति
अत्र यशः प्रभृतीनां लोकोत्तररीतिसंपादने प्रत्येकं हेतुत्वे ऽपि युगपत्खलेकपोतन्यायेन संबन्धः ।
समाध्यलङ्कारः ।
अथ समाधिरुच्यते ।
एकस्मिन् कारणे कार्यसाधने ऽन्यत् परापतेत् ।
काकतालीयनयतः स समाधिरुदीर्यते
यत्रैकस्मिन् कारणे कार्यसाधनाय प्रवृत्ते काकतालीयतयान्यत् कारणमागत्य तत्कार्यं सुकरं करोति स समाध्यलङ्कारः ।[विइइ.44-समाध्यलङ्कारः]यथा---
रणाङ्गणे रुद्रनरेन्द्ररोषशमाय राज्ञां विहितस्तुतीनाम् ।
वक्त्रेषु यद्वायुवशात् पतन्ति तृणानि देवस्य स पक्षपातः
अत्र प्रतापरुद्रनरेन्द्रक्रोधशान्त्यर्थं रणाग्रे प्रक्रान्तस्तुतीनां राज्ञां वक्त्रेषु वायुवशात् काकतालीयतया पतितैस्तृणैः कोपशान्तिलक्षणकार्यस्य सुकरत्वम् ।
[विइइ.45भाविलङ्कारः]
भाविकालङ्कारः ।
अथ लोकन्यायमूलालंकारा निरूप्यन्ते ।
अतीतानागते यत्र प्रत्यक्षे इव लक्षिते ।
अत्यद्भुतार्थकथनाद्भाविकं तदुदाहृतम्
यत्राद्भुतचरितोपवर्णनाद् भूतभाविनोर्वस्तुनोः प्रत्यक्षायमाणत्वं भवति स भाविकालङ्कारः । न च भूतभाविनोः प्रत्यक्षवदवभासो विरुद्धः । अत्यद्भुतवस्तुवर्णनया भावुकानां हृदि भावनोदयात् । तथा च भावनायाः (पुनः) पुनश्चेतसि निदर्शनात् प्रत्यक्षायमाणत्वं घटत एव । यथा पान्थस्य कामिनीभावनया तस्याः प्रत्यक्षायमाणत्वम् । न चेयं स्वभावोक्तिः ; तस्यां वस्तुस्वभावस्य यथावद्वर्णनया प्रत्यक्षायमाणता । इह त्वत्यद्भुतत्वेन । नापि रसवदाद्यलङ्कारः ; तत्र विभावाद्यनुसंधानेनैव रसादेर्भाव्यत्वम्, न त्वत्यद्भुतत्वेन । न चेयमुत्प्रेक्षा, अतीतानागतयोः प्रत्यक्षत्वेनाध्यवसायाभावात्, न चायं भ्रान्तिमदलङ्कारः, भावनाया अभ्रान्तिरूपत्वात् । अतः सर्वोत्तीर्ण एवायमलङ्कारः । यथा---
ध्वजाग्रे काकतीन्द्रस्य भाति क्रोडाकृतिर्हरिः ।
मृद्बिन्दुरिव दंष्ट्राग्रे यस्यालक्ष्यत मेदिनी
अत्राष्टादशद्वीपयुक्ताया मेदिन्या दंष्ट्राग्रे मृद्बिन्दुरूपतेति अत्यद्भुतवर्णनया तथाविधभावनायां प्रत्यक्षवत् प्रतीतिसंभवः ।
[विइइ.46-प्रत्यनीकालङ्कारः]
प्रत्यनीकालङ्कारः ।
अथ प्रत्यनीकालङ्कारः प्रतिपाद्यते ।
बलिनः प्रतिपक्षस्य प्रतीकारे सुदुष्करे ।
यस्तदीयतिरस्कारः प्रत्यनीकं तदुच्यते
यत्र प्रबलस्य प्रतिपक्षस्य प्रतीकारासामर्थ्यात् तदीयतिरस्कारो भवति तत् प्रत्यनीकम् । यथा---
काकतीयपतिशौर्यमहोष्मन्यक्कृतस्वमहिमा बडबाग्निः ।
तद्गभीरिमसनाभिमजस्रं बाधते निधिमपां बहिरन्तः
अत्र सादृश्यहेतुकं तदीयत्वमित्यलंकारत्वम् ।
[विइइ.47व्यघातालङ्कारः]
व्याघातालङ्कारः ।
अथ व्याघातः ।
येन यत् साधितं वस्तु तेनैव क्रियते ऽन्यथा ।
अन्येन तदलंकारो व्याघाता इति कथ्यते
यद्वस्तु येन केनचित् कर्त्रा येन साधनेन साधितं, तद्वस्तु तेनैव साधनेनान्येन कर्त्रा यदन्यथा क्रियते स व्याघातः । यथा---
काकतीयाभिजातो ऽयं नाभिजाताधिकस्थितिः ।
दोर्भ्यां लब्धोदयान् भूपांस्ताभ्यामनुदयान् सृजन्
[विइइ.48-पर्यायालङ्कारः]
पर्यायालङ्कारः ।
अथ लोकन्यायमूलालङ्कारनिरूपणप्रस्तावात् पर्यायालंकारो निरूप्यते ।
क्रमेणैकमनेकस्मिन्नाधारे वर्तते यदि ।
एकस्मिन्नथवानेकं पर्यायालङ्कृतिर्मता
यत्र क्रमादेकमाधेयमनेकस्मिन्नाधारे वर्तते स एकः पर्यायः । न चात्र विशेषालंकारः, तत्रैकस्यानेकत्र युगपद्वर्तनम्, अत्र क्रमेण । तथैकस्मिन्नाधारे ऽनेकमाधेयं वर्तते स द्वितीयः पर्यायः । न चात्र समुच्चयालंकारः, तत्राप्येकत्रानेकेषां युगपद्वर्तनम्, अत्र क्रमेण । यथा---
दंष्ट्रायां कुहनाकिटेर्भगवतो देवस्य शौरेः पुरा
पश्चान्मस्तकमण्डले फणभृतः पाताललोकेशितुः ।
अद्योर्वीपतिशेखरस्य महतः श्रीकाकतीयप्रभोर्-
बाहौ सर्वधुरीणसारमहिते बद्धोत्सवा मेदीनी
अत्रैकस्या मेदिन्याः क्रमादनेकत्र वर्तनम् । द्वितीयः---
येषां मुखे निजवधूसविधे नृपाणां
शौर्योक्तयः समभवन्नभिमानगर्भाः ।
तेषां प्रतापनृपवीक्षणकातराणां
तत्रैव दीनवचनानि समुद्भवन्ति
[विइइ.49-सूक्ष्मालङ्कारः]
सूक्ष्मालङ्कारः ।
अथ सूक्ष्मालङ्कारो निरूप्यते ।
असंलक्षितसूक्ष्मार्थप्रकाशः सूक्ष्म उच्यते
विदग्धमात्रज्ञेयस्यार्थस्य यत्राकारेङ्गिताभ्यां प्रकाशनं स सूक्ष्मालङ्कारः ।
यथा---
गुरुअणसविहम्मि वहू दठ्ठूण णरेंदपेसिआं दूइं ।
सव्वंगेशु सहासं कत्थूरिविलेवणं कुणै
(गुरुजनसविधे वधूर्दृष्ट्वा नरेन्द्रप्रेषितां दूतीम् ।
सर्वाङ्गेषु सहासं कस्तूरीविलेपनं करोति ॥)
अत्र कस्तूरीविलेपनेन तिमिरसमयः संकेतकाल इति प्रकाशितम्
[विइइ.50-उदात्तालङ्कारः]
उदात्तालंकारः ।
अथोदात्तालंकारः कथ्यते । तस्यापि लोकन्यायमूलतैवानन्तर्यकारणम् ।
तदुदात्तं भवेद् यत्र समृद्धं वस्तु वर्ण्यते
यत्र महासमृद्धिशालिनो वस्तुनो वर्णनं क्रियते, तत्र उदात्तालङ्कारः ।
यथा---
रम्यामेकशिलाभिदाननगरीमासेदिवांसो बुधाः
सौवर्णेषु गृहेषु रत्नरचितद्वास्तोरणेषु स्थिताः ।
आरुह्याङ्गणमेदिनीषु कलभान् क्रीडोत्सुकानर्भकान्
मोदन्ते यदवेक्ष्य रुद्रनृपतेस्तत्त्यागलीलायितम्
अथ समानन्यायात् परिवृत्तिर्निरूप्यते ।
समन्यूनाधिकानां च यदा विनिमयो भवेत् ।
साकं समाधिकन्यूनैः परिवृत्तिरसौ मता
समन्यूनाधिकानां समाधिकन्यूनैर्विनिमयः परिवृत्तिः । समेन समपरिवृत्तिः, न्यूनेनाधिकपरिवृत्तिः, अधिकेन न्यूनपरिवृत्तिश्चेति । समेन समपरिवृत्तिर्यथा---
साधारसमुचो वाचो दत्त्वा काकतिभूभुजे ।
अतो लभन्ते कवयः सहस्रं गन्धसिन्धुरान्
अत्र वचसां गन्धसिन्धुराणां च समत्वम् ।
न्यूनेनाधिकपरिवृत्तिर्यथा---
उपायनं गजाश्वादि कृत्वा सर्वे ऽपि भूभुजः ।
प्रतापरुद्रदेवस्य लभन्ते सुस्थिरां कृपाम्
अत्र त्यज्यमानादुपायनादेरादीयमानस्य प्रतापरुद्रकृपाविलसितस्यैवाधिक्यम् । अधिकेन न्यूनपरिवृत्तिर्यथा---
प्रतापरुद्रेण रणे जिताः प्रत्यर्थिभूभुजः ।
दत्त्वा भूषां किरातेभ्यो लभन्ते वल्कलादिकम्
अत्र
त्यज्यमानादाभरणजातादादीयमानस्य वल्कलादेर्न्यूनत्वम् ।
[विइइ.51-कारणमालालङ्कारः]
कारणमालालङ्कारः ।
अथ शृङ्खलान्यायमूलालङ्कारा निरूप्यन्ते ।
पूर्वपूर्वं प्रति यदा हेतुः स्यादुत्तरोत्तरम् ।
तदा कारणमालाख्यमलङ्करणमुच्यते
यदा पूर्वपूर्वं क्रमेणोत्तरोत्तरं प्रति हेतुतां भजते, स कारणमालाख्यो ऽलङ्कारः । यथा--
विद्यया विनयोत्कर्षो विनयेन गुणार्जनम् ।
गुणैः प्रजानुरागश्च क्रमो ऽयं काकतीश्वरे
[विइइ.52-एकावल्यलङ्कारः]
एकावल्यलङ्कारः ।
यत्रोत्तरोत्तरेषां स्यात् पूर्वं पूर्वं प्रति क्रमात् ।
विशेषणत्वकथनमसावेकावली मता
यत्र पूर्वपूर्वं प्रति क्रमेणोत्तरोत्तरं विशेषणत्वं भजते, स एकावल्यलङ्कारः ।
यथा---
प्रतापरुद्रनगरी सुजनैरुपशोभिता ।
सुजनाः स्फीतविभवैर्विभवाः स्थैर्यशालिनः
एतत् स्थापनेनोदाहरणम् । अपोहनेनापि भवति ; यथा---
न तद्राज्यं प्रजा यत्र न भवन्त्यूर्जितश्रियः ।
न ताः प्रजाः प्रभुर्यासां न स्वयं काकतीश्वरः
[विइइ.53-मालादीपकालङ्कारः]
मालादीपकालङ्कारः ।
यदा तु पूर्वपूर्वस्य संभवेदुत्तरोत्तरम् ।
प्रत्युत्कर्षावहत्वं तन्मालादीपकमुच्यते
यत्र पूर्वपूर्वस्योत्तरोत्तरगुणावहत्वं स मालादीपकालङ्कारः ।
यथा---
भाग्यभूमा महीं प्राप्तः काकतीन्द्रभुजं मही ।
भुजः प्रतापमतुलं प्रतापश्च जगत्त्रयम्
[विइइ.54-सारालङ्कारः]
सारालङ्कारः ।
उत्तरोत्तरमुत्कर्षः सारालङ्कार उच्यते
यथा---
जगत्सु वसुधा भाति तस्यामेकशिलापुरी ।
काकतीयान्वयस्तत्र तस्मिन् रुद्रनरेश्वरः
मूल पाठ: Pratāparudrīya or Pratāparudrayaśobhūṣaṇa with Kumārasvāmin's commentary Ratnāpaṇa · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0