प्रतापरुद्रीय · अध्याय 7
अत्र पूर्वार्धे दीर्घाक्षरप्रायत्वात् स्वरस्यारोहः । उत्तरार्धे ऽवरोहः । एतेषां गुणानामर्थगतत्वमपि केचिदिच्छन्ति । प्राचामाचार्याणां मतेन संघटनाश्रयत्वमेव गुणानाम् । तदुक्तमलंकारसर्वस्वे---"संघटनाधर्मत्वेन शब्दार्थधर्मत्वेन च गुणालंकाराणां व्यवस्थानम्ऽ; इति । अनयैव भङ्ग्या गुणालंकाराणां निरूपितः स्वरूपभेदः । अन्यथा स्वरूपभेदस्य दुर्निरूपत्वात् । काव्यशोभाकरत्वमेव गुणालंकारस्वरूपत्वम् । तदुक्तं रुद्ऽरभट्टेनऽ---
"यो हेतुः काव्यशोभायाः सो ऽलंकारः प्रकीर्त्यते ।
गुणो ऽपि तादृशो ज्ञेयो दोषः स्यात् तद्विपर्ययः ॥ ऽ; इति ।
अतो गुणानां संघटनाश्रयत्वमेव युक्तम् ।
इति श्रीविद्यानाथकृतौ प्रतापरुद्रयशोभूषणे ऽलंकारशास्त्रे
गुणप्रकरणं समाप्तम् ।
विइ.
॥ अथ शब्दालंकारप्रकरणम् ॥
अलङ्कारस्वरूपनिरूपणम् ।
अथ गुणनिरूपणानन्तरमलङ्कारा निरूप्यन्ते ।
अलंक्रियते ऽनेनेति चारुत्वहेतुरलंकारः ।
तथा चोक्तं ऽकाव्यप्रकाशेऽ---
"उपस्कुर्वन्ति तं सन्तं ये ऽङ्गद्वारेण संश्रिताः ।
हारादिवदलंकारास्ते ऽनुप्रासोपमादयः ॥
ऽ; इति ।
यथा करचरणाद्यवयवगतैर्वलयनू परादिभिस्तत्तदलंकारतया प्रसिद्धैरवयव्येवालंक्रियते तथा शब्दार्थावयवगतैरनुप्रासोपमादिभिस्तत्तदलंकारतया प्रसिद्धैरवयवीभूतं काव्यमुपस्क्रियते ।
आश्रयाश्रयिभावेनालंकार्यालंकारभावो लोकवत् काव्ये ऽपि संमतः ।
चारुत्वहेतुत्वे ऽपि गुणानामलंकाराणां चाश्रयभेदाद्भेदव्यपदेशः ।
संघटनाश्रया गुणाः, शब्दार्थाश्रयास्त्वलंकाराः ।
तत्र प्रथमं शब्दार्थोभयगतत्वेन त्रैविध्यमलंकारवर्गस्य ।
अर्थालंकाराणां चातुर्विध्यम्; केचित् प्रतीयमानवस्तवः ; केचित् प्रतीयमानौपम्याः केचित् प्रतीयमानरसभावादयः; केचिदस्फुटप्रतीयमाना इति ।
समासोक्तिपर्यायोक्त्याऽक्षेपव्याजस्तुत्युपमेयोपमानन्वयातिशयोक्तिपरिकराप्रस्तुतप्रशंसानुक्तनिमित्तविशेषोक्तिषुप्रतीयमानं वस्तु काव्योपस्कारतामुपयाति ।
रूपकपरिणामसंदेहभ्रान्तिमदुल्लेखापह्नवोत्प्रेक्षास्मरणतुल्ययोगितादीपकप्रतिवस्तूपमादृष्टान्तसहोक्तिव्यतिरेकनिदर्शनाश्लेषेष्वौपम्यं गम्यते ।
रसवत्प्रेयऊर्जस्विसमाहितभावोदयभावसंधिभावशबलतासु रसभावादिर्व्यज्यते ।
उपमाविनोक्त्यर्थान्तरन्यासविरोधविभावनोक्तगुणनिमित्तविशेषोक्तिविषसमचित्राधिकान्योन्यकारणमालैकावलीव्याघातमालादीपककाव्यलिङ्गानुमानसारयथासंख्यार्थापत्तिपर्यायपरिवृत्तिपरिसंख्याविकल्पसमुच्चयसमाधिप्रत्यनीकप्रती
पविशेषनिमीलनसामान्यासङ्गतितद्गुणातद्गुणव्याजोक्तिवक्रोक्तिस्वभावोक्तिभाविकोदात्तेषु सहृदयहृदयाह्लादि स्फुटं प्रतीयमानं नास्ति ।
॥ अत्रेत्थमलंकारकक्ष्याविभागः ॥
साधर्म्यं त्रिविधम्---भेदप्रधानमभेदप्रधानं भेदाभेदप्रधानं चेति ।
उपमानोपमेययोः स्वतो भिन्नत्वाच्छाब्दमेतन्न वास्तवम् ।
रूपकपरिणामसंदेहभ्रान्तिमदुल्लेखापह्नवानामभेदप्रवानसाधर्म्यनिबन्धनत्वम् ।
दीपकतुल्ययोगितानिदर्शनादृष्टान्तप्रतिवस्तूपमासहोक्तिप्रतीपव्यतिरेकाः भेदप्रधानसाधर्ग्यनिबन्धनाः ।
उपमानन्वयोपमेयोपमास्मरणानां भेदाभेदसाधारणसाधर्म्यमूलता ।
उत्प्रेक्षातिशयोक्ती अध्यवसायमूले ।
विभावनाविशेषोक्तिविषमचित्रासङ्गत्यन्योन्यव्याघातातद्गुणभाविकविशेषाणां विरोधमूलता ।
यथासंख्यपरिसंख्यार्थापत्तिविकल्पसमुच्चयानां वाक्यन्यायमूलता ।
परिवृत्तिप्रत्यनीकतद्गुणसमाधिसमस्वभावोक्त्युदात्तविनोक्तयो लोकव्यवहारमूलाः ।
काव्यलिङ्गानुमानार्थान्तरन्यासानां तर्कन्यायमूलता ।
कारणमालैकावलीमालादीपकसाराः शृङ्ग्लावैचित्र्यमूलाः ।
व्याजोक्तिवक्रोक्तिमीलनान्यपह्नवमूलानि ।
समासोक्तिपरिकरौ विशेषणवैचित्र्यमूलौ ।
॥ अथालंकाराणां परस्परवैलक्षण्य निरूप्यते ॥
आरोपगर्भत्वे ऽप्यारोप्यमाणस्य प्रकृतोपयोगानुपयोगाभ्यां परिणामरूपकयोर्भेदः ।
आरोपविषयस्यारोप्यमाणरूपसंभवासंभवाभ्यामुल्लेखरूपकयोर्भेदः ।
आरोपविषयस्य संदेहभ्रान्त् यपह्नवैः सन्देहभ्रान्तिमदपह्नवानां परस्परं भेदः ।
साधर्म्यमूलत्वे ऽपि तुल्ययोगितादीपकनिदर्शनाव्यतिरेकदृष्टान्तेभ्यः साधर्म्यस्य वाच्यत्वादुपमानन्वयोपमेयोपमा भिद्यन्ते ।
साधर्म्यस्य वाच्यत्वगम्यत्वाभ्यामुपमेयोपमाप्रतिवस्तूपमयोर्भेदः ।
वस्तुप्रतिवस्तुबिम्बप्रतिबिम्बभावाभ्यां प्रतिवस्तूपमादृष्टान्तयोर्भेदः ।
प्रस्तुताप्रस्तुतानां व्यस्तसमस्तत्वाभ्यां तुल्ययोगितादीपकयोर्भेदः ॥
उपमानस्य प्रसिद्धत्वाप्रसिद्धत्वाभ्यामुपमोत्प्रेक्षयोर्भेदः ।
अर्थसाम्यशब्दसाम्याभ्यामुपमाश्लेषयोर्भेदः ।
उपमानोपमेययोर्भेदाभेदाभ्यामुपमानन्वययोर्भेदः ।
उपमानोपमेयभावस्य पर्याययौगपद्याभ्यामुपमेयोपमानन्वययोर्भेदः ।
अप्रस्तुतस्य वाच्यत्वगम्यत्वाभ्यामप्रस्तुतप्रशंसासमासोक्त्योर्भेदः ।
वाच्यव्यङ्ग्ययोः प्रस्तुतत्वे पर्यायोक्तिः वाच्यस्याप्रस्तुतत्वे ऽप्रस्तुतप्रशंसा ।
व्याप्तिपक्षधर्मताद्यभावात् काव्यलिङ्गस्यानुमानाद्भेदः ।
साधारणगुणयोगाद् भेदानुपलब्धौ सामान्यम् ।
उत्कृष्टगुणयोगान्न्यूनगुणतिरोधाने मीलनम् ।
अन्यव्यवच्छेदे तात्पर्याभावादुत्तरालंकारस्य परिसंख्यातो भेदः ।
काकतालीयतया कार्यसाधने कारणान्तरोपनिपाते समाधिः ।
अहमहमिकया कार्यसाधने बहूनां कारणानामुद्यमे द्वितीयः समुच्चयः ।
निह्नवस्य वाच्यत्वगम्यत्वाभ्यामपह्नवव्याजस्तुत्योर्भेदः ।
अन्येषां भेदः स्पष्ट एव ।
यद्यपि व्याजोक्तिमीलसामान्येषु कथंचित् सादृश्यमस्ति ; तथाप्यविवक्षितत्वान्न सादृश्यमूलेषु गणना ।
शब्दालंकारा निरूप्यन्ते ।
अथालंकारस्वरूपविभागानन्तरं शब्दार्थयोर्मध्ये शब्दस्यार्थं प्रतीत्यन्तरङ्गत्वात् प्रथमं शब्दालंकारा निरूप्यन्ते ।
[विइ.1-छेकानुप्रासः]:
छेकानुप्रासः
भवेदव्यवधानेन द्वयोर्व्यञ्जनयुग्मयोः ।
आवृत्तिर्यत्र स बुधैश्छेकानुप्रास इष्यते
यत्राव्यवहितयोर्व्यञ्जनयुग्मयोर्द्वयोः पौनरुक्त्यं तत्र छेकानुप्रासः ।
यथा---
महीमहीनविभवे धत्ते क्षेमंकरे करे ।
राजन्यजन्यविजयी राजा राजद्गुणोदयः
[विइ.2-वृत्यानुप्रासः]
वृत्त्यनुप्रासः ।
एकद्विप्रभृतीनां तु व्यञ्जनानां यथा भवेत् ।
पुनरुक्तिरसौ नाम वृत्त्यनुप्रास इष्यते
यथा---
रे रे क्षुद्रमहीक्षितः ! क्षणमितः श्रीकाकतिक्ष्मापतेर्- वीक्षध्वं ध्वजिनीं दुरीक्षसुभटां प्रोत्क्षिप्तकौक्षेयकैः ।
योत्स्यध्वे यदि लभ्यमक्षयपदं कान्तारपक्षो वृथा क्ष्माभृत्कुक्षिचरत्तरक्षुनिकरात् तत्रात्मरक्षा कुतः
[विइ.3-यमकम्]
यमकम् ।
यमकं पौनरुक्त्ये तु स्वरव्यञ्जनयुग्मयोः
छेकानुप्रासे वृत्त्यनुप्रासे च स्वरपौनरुक्त्यमानुषङ्गिकम् ।
यमके तु सस्वरयोः व्यञ्जनयुग्मयोः आवृत्तिः ।
तस्यादिमध्यान्तगतत्वेन बहवो भेदाः ।
अत्र दिङ्मात्रमुदाह्रियते ।
प्रतापः काकतीन्द्रस्य महामहिमतेजसः ।
श्रियं दधाति पद्मेष्टमहामहिमतेजसः
यत्रार्थः प्रमुखे किंचित् भासते पुनरुक्तवत् ।
पुनरुक्तवदाभासो ऽलंकारः स सतां मतः
[विइ.4-पुनरीक्तवदाभासः]
यत्रार्थः पुनरुक्तवदाभासते, अन्वयवेलायामन्यथा भवति, स पुनरुक्तवदाभासो ऽलंकारः ।
अर्थालङ्कारत्वे ऽप्यस्य शब्दपौनरुक्त्याश्रितत्वाच्छब्दालंकारप्रस्तावे लक्षणं कृतम् ।
यथा---
जिष्णुरिन्द्रः क्षितिभुजां श्रीपतिः पुरुषोत्तमः ।
भास्वान् सूर्यस्फुरत्तेजाः काकतीन्द्रो विराजते
अथोभयपौनरुक्त्यालंकारः कथ्यते ।
[विइ.5-लराटानुप्रासः]
लाटानुप्रासः ।
शब्दार्थयोः पौनरुक्त्यं यत्र तात्पर्यभेदवत् ।
स काव्यतात्पर्यविदां लाटानुप्रास इष्यते
यत्र शब्दार्थयोस्तात्पर्यभेदमात्रं न स्वरूपभेदस्तत्र लाटानुप्रासः ।
यथा---
गुणा गुणास्ते गण्यन्ते ये रुद्रनृपमाश्रिताः ।
नीतिर्नीतिरसौ तस्य लक्ष्मीर्लंक्ष्मीश्च कथ्यते
[विइ.6-पद्मबन्धादिः]
चित्रालंकारः पद्मबन्धादिः ।
पद्माद्याकारहेतुत्वे वर्णानां चित्रमुच्यते ।
आदिग्रहणाच्चक्रबन्धादयः ।
तत्राष्टदलपद्मबन्धो यथा---
याता यस्यासमग्रानतिमिह कनकास्थानसक्तासनाया
यानासक्तासनस्था सुखयतु कमलाभ्याससुज्ञानमाया ।
या मानज्ञा सुसभ्या क्षितिपतितिलकं ज्ञातिरक्ता सगेया
यागे सक्ता रतिज्ञा सुकृतिषु फलितग्रामसस्यायताया
[विइ.7-चक्रबन्धः]
चक्रबन्धो यथा---
लक्ष्मीवीक्षितवैभवस्य जगतां नाथस्य भद्रश्रियो
दिक्ष्वारब्धनिजप्रतापजनितां भाकृद्धुरां यच्छतः ।
नित्यं रुद्रजनाधिपस्य जयिनो भाति प्रिकाशं स्थिरा
राजत्पालनमोदितात्मनि भुजे योग्याश्रितत्वाद् धरा
अत्र चक्रबन्धे वैजनाथकृतिवीररुद्रयश इति प्रतीयते ।
[विइ.8-नागबन्धः]
नागबन्धो यथा---
ओजस्ये रुद्रदेवे विभवति महिमत्याजितान्यप्रतापे
विद्यावर्ये ऽभिनेतर्युरुहरिचरितं विश्वविस्तारभाजि ।
वैरिव्राता भजन्ते वनमतिमलिनख्यातयो देवविद्धा
वन्यैरध्वन्यवारि क्षतिमति विविधे जन्तुभिः स्थानभाजः
मूल पाठ: Pratāparudrīya or Pratāparudrayaśobhūṣaṇa with Kumārasvāmin's commentary Ratnāpaṇa · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0