भाषा

ENहिગુ
ग्रंथ पाठ

प्रतापरुद्रीय · अध्याय 9

9.1

सकलभुवनसारभूतं प्रतापरुद्रं विषयीकुर्वतश्चिरादस्यालङ्कारस्य सार इत्यन्वर्थाभिधानम् ॥
इति श्रीविद्यानाथकृतौ प्रतापरुद्रयशोभूषणे ऽलङ्कार-
शास्त्रे ऽर्थालङ्कारप्रकरणं समाप्तम् ।
॥ अथ मिश्रालङ्कारप्रकरणम् ॥
अथ संसृष्टिसंकरौ निरूप्येते ।
यथा लौकिकानामलङ्काराणां हिरण्मयानां मणिमयानां च पृथक् सौन्दर्यहेतूनामन्योन्यसंबन्धेन चारुत्वातिशयो दृश्यते ; तथैव काव्यालङ्काराणां रूपकादीनां मिथः संबन्धेन सौन्दर्यातिशयः प्रतीयते । स च संबन्धो द्विविधः---संयोगरूपः, समवायरूपश्चेति । संयोगे (मिश्र) तिलतण्डुलन्यायः । समवाये---(मिश्र) क्षीरनीरन्यायः । तिलतण्डुलन्यायेन संबन्धे संसृष्टिः । क्षीरनीरन्यायेन संबन्धे संकरः । अनयोः पृथक् चारुत्वातिशयहेतुत्वादलङ्कारधुरन्धरत्वम् ; न तु पूर्वोक्तालङ्कारशेषता ।
संसृष्टिः ।
तत्र प्रथमं संसृष्टिर्निगद्यते ।
तिलतण्डुलसंश्लेषन्यायाद् यत्र परस्परम् ।
संश्लिष्येयुरलङ्काराः सा संसृष्टिर्निगद्यते

9.2

यत्र तिलतण्डुलन्यायेन परस्परसंबद्धा रूपकादयो भवन्ति सा संसृष्टिः । सा त्रिविधा---शब्दालङ्कारगतत्वेन, अर्थालङ्कारगतत्वेन, उभयालङ्कारगतत्वेन च ।
[इx.1.1-शब्दालङ्कारसंसृष्टिः]
शब्दालङ्कारसंसृष्टिर्यथा---
शुम्भत्संभ्रमगन्धसिन्धुरधुरानिर्दारितोर्वीतला-
स्त्वङ्गत्तुङ्गतुरङ्गमप्रतिभया द्राक्स्यन्दनस्यन्दनाः ।
तीव्रारम्भसमुद्यदुद्भटभटाटोपस्फुरद्दिक्तटा
निः सीमाः प्रसरन्ति रुद्रनृपतेर्जैत्रप्रयाणोद्यमाः

9.3

अत्र च्छेकानुप्रासवृत्त्यनुप्रासयोः संसृष्टिः ।
[इx.1.2-अर्थालङ्कारसंसृष्टिः]
अर्थालङ्कारसंसृष्टिर्यथा---
काकतीन्द्रचमूर्धत्ते महिमानमुदन्वतः ।
ग्रसते या द्विषद्भूपध्वजिनीस्तटिनीरिव

9.4

अत्र निदर्शनोपमायोः संसृष्टिः ।
[इx.1.3-उभयसंसृष्टिः]
उभयसंसृष्टिर्यथा--
प्रतापरुद्रदोर्दण्डो मण्डलाग्रेण मण्डितः ।
दृश्यते समरे वीरैरुत्फणः फणवानिव

9.5

अत्र वृत्त्यनुप्रासोपमायोः संसृष्टिः ।
इx.2सङ्करः ।
अथ सङ्करो निरूप्यते ।
क्षीरनीरनयाद् यत्र संबन्धः स्यात् परस्परम् ।
अलङ्कृतीनामेतासां सङ्करः स उदाहृतः

9.6

यत्र क्षीरनीरन्यायेनालङ्काराणां मिथः संबन्धो भवति स सङ्करः । तस्याङ्गाङ्गिभावेन एकवाचकानुप्रवेशेन संदेहेन च त्रैविध्यम् । तत्राङ्गाङ्गिभावसङ्करो यथा---
उद्यद्बृंहितगर्जितैर्द्विपघटाकादम्बिनीसंभ्रमैः
क्षोणीभृत्कटकोपरोधपटुभिः प्रावृड्विहारा इव ।
शत्रुस्त्रीबहुलाश्रुवृष्टिशमितक्ष्माचक्रतापोदया
यात्राः काकतिवल्लभस्य जगतामानन्दमातन्वते

9.7

अत्र यात्राः प्रावृड्विहारा इवेत्युपमालङ्कारेण द्विपघटाकादम्बिनीत्यत्रोपमा प्रसाध्यत इति सजातीययोरङ्गाङ्गिभावः ; कादम्बिनीव द्विपघटेति समासाश्रयणात् । क्षोणीभृत्कटकोपरोधेत्यत्र
श्लेषमूलातिशयोक्तिः । विजातीयसङ्करो यथा---
प्रतापरुद्रस्य कृपाणधारा प्रत्यर्थिफालेषु पतत्यमन्दम् ।
प्रक्षालनायेव कृतस्य धात्रा तद्वर्तिनो दुर्लिपिकल्मषस्य

9.8

अत्र प्रक्षालनायेवेत्युत्प्रेक्षया दुर्लिपिकल्मषस्येत्यत्र रूपकं प्रसाध्यत इति विजातीययोरङ्गाङ्गिभावः ।
एकवाचकानुप्रविष्टसङ्करो यथा---
विजितारिपुरो मूर्तौ विलसत्सर्वमङ्गलः ।
भुवि शंभुरिवाभाति काकतीयनरेश्वरः

9.9

अत्र विजितारिपुर इत्यर्थसाम्यादुपमा, विलसत्सर्वमङ्गल इति शब्दसाम्यात् श्लेषश्च शम्भुरिवेत्येकस्मिन्निवशब्दे ऽनुप्रविष्टौ ।
संदेहसङ्करो यथा---
जातः प्रतापरुद्रेन्दुः काकतीयान्वयाम्बुधौ ।
धत्ते जनचकोराणां प्रसादज्योत्स्नयामृतम्

9.10

अत्र काकतीयकुलाम्बुधौ इत्यादौ रूपकोपमायोः संदेहसङ्करः । काकतीयान्वय एवाम्बुधिः, काकतीयान्वयो ऽम्बुधिरिवेति समासद्वयसंभवात् । न चात्र साधकं बाधकं वा प्रमाणमन्यतरस्यास्तीति संदेह एव पर्यवस्यति । साधकबाधकप्रमाणसंभवे तु संदेहनिवृत्तिः । अत्र साधकं यथा---
प्रतापरुद्रनृपतेः पारिजातात् समुद्भवाः ।
वतंसयन्ति दिङ्नार्यो मधुराः कीर्त्तिमञ्जरीः

9.11

अत्र कीर्त्तय एव मञ्जर्य इति रूपकालङ्कारे वतंसयन्तीति साधकं प्रमाणम्। (अ) वतंसीकरणेनाभेदप्रतीतिः । बाधकं यथा---
काकतीन्द्रस्य निः साणध्वनौ दिक्षु विजृम्भिते ।
व्याकुलकृतसत्त्वो ऽभूत् प्रतिपक्षबलार्णवः

मूल पाठ: Pratāparudrīya or Pratāparudrayaśobhūṣaṇa with Kumārasvāmin's commentary Ratnāpaṇa · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc