भाषा

ENहिગુ
ग्रंथ पाठ

प्रतापरुद्रीय · अध्याय 6

6.1

अत्र श्रुतधिषणाभ्यां नारीरतोत्सवयोरपकृष्टत्वात् सहचरभ्रष्टम् ।
एवं दोषान्तराणि यथासंभवमूह्यानि ।
रसभावादीनां स्वशब्दवाच्यता दुष्टैव ॥
इति श्रीविद्यानाथकृतौ प्रतापरुद्रयशोभूषणे ऽलंकारशास्त्रे
दोषप्रकरणं समाप्तम् ।
वि.
॥ अथ गुणप्रकरणम् ॥
अथ गुणा निरूप्यन्ते ।
श्लेषः प्रसादः समता माधुर्यं सुकुमारता ।
अर्थव्यक्तिरुदारत्वं तथा कान्तिरुदात्तता

6.2

ओजः सुशब्दता प्रेयानौर्जित्यमथ विस्तरः ।
समाधिः सौक्ष्म्यगाम्भीर्ये संक्षेपो भाविकं तथा

6.3

संमितत्वं तथा प्रौढी रीतिरुक्तिर्गतिस्तथा ।
चतुर्विंशतिरेते स्युर्गुणाः काव्यप्रकाशकाः

6.4

[वि.1-गुणानामुदेशः]
एषां मध्ये केषांचिद् दोषपरिहारकत्वेन गुणत्वम् । केषांचित् स्वत एवोत्कर्षहेतुत्वाद् गुणत्वम् । तत्र ये स्वत एव चारुत्वातिशयहेतवस्ते परमुत्कृष्टाः । दुष्टत्वपरिहारहेतूनां गुणत्वं न सर्वसंमतम् । ये तु दोषाभावतया गुणत्वमिच्छन्ति तेषामेव सौकुमार्यादयो गुणत्वेन संमताः । श्रुतिकटुरूपदोषनिराकरणाय सौकुमार्यं संमतम् । ग्राम्यदोषनिराकरणाय कान्तिः स्वीकृता । अपुष्टार्थनिराकरणायार्थव्यक्तिर्मता । न्यूनाधिकपदनिराकरणाय संमितत्वं मतम् । अनुचितार्थनिराकरणार्थमुदात्तता स्वीकृता । विसंधिनिराकरणाय और्जित्यं मतम् । पतत्प्रकर्षनिराकरणाय रीतिरिष्टा । क्लिष्टपरिहाराय प्रसादो मतः । अश्लीलपरिहारार्थमुक्तिः स्वीकृता । च्युतसंस्कारपरिहारार्थं सौशब्द्यमिष्टम् । प्रक्रमभङ्गनिराकरणाय समता मता । परुषदोषनिवृत्त्यर्थं प्रेयान् मतः । एवं यथासंभवं केषांचिद्दोषपरिहारकत्वेन गुणत्वम् । एषां गुणानां स्वरूपमुदाहरणं च ।
[वि.2-श्लेवः]
मिथः संश्लिष्टपदता श्लेष इत्यभिधीयते ।
बहूनां पदानामेकपदवदवभासमानत्वं श्लिष्टत्वम् ।
यथा---
श्रीमत्काकतिवीररुद्रमखिलक्ष्मापालमौलिस्फुर-
न्माणिक्यद्युतिरञ्जिताङ्घ्रिमखिलप्रख्यातशौर्योदयम् ।
विश्वत्राणविनिद्रमक्षयगुणज्योत्स्नावितानावृत-
व्योमागारमनल्पवैभवममुं स्तोतुं वयं नेश्महे

6.5

अत्र पाठसमये पदानामेकवदवभासमानत्वात् श्लेषः ।
[वि.3-प्रसादः]
अथ प्रसादः ।
प्रसिद्धार्थपदत्वं यत् स प्रसादो निगद्यते

6.6

यथा---
प्रतापरुद्रदेवो ऽयं भाति लक्ष्मीपतिः स्वयम् ।
येनाम्य लोचने फुल्लपुण्डरीकमनोहरे

6.7

अत्र झटित्यर्थसमर्पकपदत्वात् प्रसादः ।
[वि.4-समता]
अथ समता ।
अवैषम्येण भणनं समता सा निगद्यते ।
यथा---
वदान्यतरुमञ्जरीसुरभ्यः श्रवः पारणं
गुणा विदधते सतां जगति वीररुद्रप्रभोः ।
सुधामधुरिमाधरीकरणचातुरीचुञ्चवो
वियच्चरतरङ्गिणीविहरदूर्मिमर्मस्पृशः

6.8

अत्र पादचतुष्ट्ये ऽपि तुल्यवद्भणनात् समत्वम् ।
[वि.5-माधुर्यम्]
अथ माधुर्यम् ।
या पृथक्पदता वाक्ये तन्माधुर्यं प्रकीर्त्यते

6.9

यथा---
यशः श्रियः काकतिभूपतेर्दिशां नितम्बबिम्बेषु दुकूलरीतयः ।
उरोजयोर्मौक्तिकहारविभ्रमाः शिरस्सु जातीकुसुमस्रगुज्ज्वलाः

6.10

अत्र वाक्ये पाठसमये ऽपि पृथक्पदत्वप्रतीतेर्माधुर्यम् ।
[वि.6-सुकुमारत्वम्]
अथ सुकुमारत्वम् ।
सुकुमाराक्षरप्रायं सौकुमार्यं तदुच्यते ।
सुकुमारत्वं नाम सानुस्वारकोमलवर्णत्वम् ।
यथा---
अमन्दानन्दनिष्यन्दसुन्दरीवदनेन्दुभिः ।
नगरे काकतीन्द्रस्य दिवाप्याभाति चन्द्रिका

6.11

[वि.7-अर्थव्यक्तिः]
अथार्थव्यक्तिः ।
यत्तु संपूर्णवाक्यत्वमर्थव्यक्तिं वदन्ति ताम्

6.12

यथा---
भाग्यं मध्यमलोकनिघ्नमधुना येनास्य संरक्षिता
जातः खेलति वीररुद्रनृपतिर्निः सीमशौर्योदयः ।
यद्वा त्रीण्यपि विष्टपानि दधते धन्यत्वमंशो हरेर्-
यत् साक्षादवतीर्य काकतिकुले स्वैरं समुज्जृम्भते

6.13

अत्रार्थप्रतिपादने वाक्यस्य निराकाङ्क्षतया परिपूर्णत्वादर्थव्यक्तिः ।
[वि.8-कान्तिः]
अथ कान्तिः---
अत्युज्ज्वलत्वं बन्धस्य काव्ये कान्तिरितीष्यते ।
यथा---
जेतुः काकतिवीररुद्रनृपतेर्जैत्रप्रयाणोत्थिते
क्षोणीरेणुभरे नभस्यतिभृशं भूविभ्रमं बिभ्रति ।
जाता मर्त्यनदी विशङ्कटतटीदीर्घा वियद्दीर्धिका
गाढं गूढतमा च गौतमनदी पातालगङ्गायते

6.14

[वि.9-औदार्यम्]
अथौदार्यम् ।
विकटाक्षरबन्धत्वमार्यैरौदार्यमिष्यते

6.15

यथा---
जग्ध्वा भूयांसि मांसान्यहमहमिकया बद्धागार्ध्यान् सपीत्या-
मस्रस्योच्चैस्तरास्थ्युत्कषणभवकटत्काररौद्राग्रदंष्ट्रान् ।
संबिभ्राणाः क्षपाटान् द्विपगलितवसानिर्झरान्तर्नदीष्णान्
कुर्वन्त्यायोधनोर्व्यो भयमवनिभृतामन्ध्रसैन्येन सृष्टाः

6.16

[वि.10-उदात्तता]
अथोदात्तता ।
श्लाघ्यैर्विशेषणैर्योगो यस्तु सा स्यादुदात्तता ।
यथा---
बृंहमाणगजाकीर्णा ह्रेषमाणहयाकुला ।
संक्रीडत्स्यन्दना क्ष्वेडभटा रुद्रविभोश्चमूः

6.17

[वि.11-औजः]
अथौजः ।
ओजः समासभूयस्त्वम्

6.18

यथा---
उद्दामद्विरदौघदानलहरीसौरभ्यलोभभ्रमद्-
भृङ्गश्रेणिनिबद्धझंकृतिकलावाचालितप्राङ्गणाः ।
निः सीमप्रथमानभूमविभवारम्भप्रियंभावुका
मोदन्ते भुवि वीररुद्रनृपतेर्विद्वद्गृहश्रेणयः

6.19

[वि.12-सुशब्दाता]
अथ सुशब्दता ।
सुपां तिङां च व्युत्पत्तिः सौशब्द्यं परिकीर्त्यते ।
यथा---
आशामण्डलकूलमुद्वहकथैरब्भ्रङ्कषैर्वैभवै
रक्षन् सुप्रजसः प्रजास्त्रिभुवनक्षेमङ्करप्रक्रियः ।
दुष्टानां भुवि निप्रहन्तुमतुलैराढ्यंभविष्णुर्गुणैर्-
भूम्ना संचरते ऽद्य काकतिकुले रुद्रावतारो हरिः

6.20

[वि.13-प्रेयः]
अथ प्रेयः ।
प्रेयः प्रियतराख्यानं चाटूक्तौ यद्विधीयते

6.21

यथा---
दाक्षिण्यं त्वयि, दक्षता त्वयि, दया त्वय्युन्नतत्वं त्वयि
प्रागल्भ्यं त्वयि, पौरुषं त्वयि, कलासंपत्त्वयि, श्रीस्त्वयि ।
औदार्यं त्वयि, धीरता त्वयि, जगद्धौरेयता च त्वयि
श्रीमत्काकतिनाथ ! पालय भुवं वैरिञ्चकल्पान् शतम्

6.22

[वि.14-और्जित्यम्]
अथैर्जित्यम् ।
और्जित्वं गाढबन्धत्वम् ।
यथा---
क्षोणीरक्षणदक्षिणाः क्षतजगत्क्षोभा दुरीक्षक्रमाः
क्षुद्रक्षत्रियपक्षशिक्षणविधौ प्रोत्क्षिप्तकौक्षेयकाः ।
उद्दामोद्यमनस्य रुद्रनृपतेर्देर्दण्डयोश्चण्डयोर्-
गर्जद्दुर्जनगर्वपर्वतभिदादम्भोलयः केलयः

6.23

इक्ष्ज्.15समाधिः]
अथ समाधिः ।
समाधिरन्यधर्माणां यदन्यत्राधिरोपणम्

6.24

यथा---
पृच्छन्ती दुग्धसिन्धुं कुशलमनुसरन्त्यादराच्छङ्कराद्रिं
चाटूक्त्या मानयन्ती मुहुरमरनदीं चन्द्रमग्रे हसन्ती ।
वैधात्रीं यानहंसावलिमनुकृपया स्वागतं व्याहरन्ती
लोकेषु त्रिष्वमीषु प्रभवति महती वीररुद्रस्य कीर्त्तिः

6.25

[वि.16-विस्तरः]
अथ विस्तरः ।
समर्थनप्रपञ्चोक्तिरुक्तस्यार्थस्य विस्तरः ।
यथा---
लोकेषु त्रिषु काकतीश्वरगुणान् स्तोतुं मुहुर्वीक्षितुं
श्रोतुं बह्वभिनन्दितुं च फणिनामेकः क्षमो नायकः ।
यद्वक्त्राणि सहस्रमस्य कृतिनो यद् द्वे सहस्रे दृश-
स्ता एव श्रुतयः फणा दशशतान्यत्यद्भुतान्दोलने

6.26

[वि.17-संमितत्वम्]
अथ संमितत्वम् ।
यावदर्थपदत्वं तु संमितत्वमुदाहृतम्

6.27

यथा----
काकतीयनरेन्द्रस्य कीर्त्तिचन्दनचर्चनम् ।
दिगङ्गना वितन्वन्ति वतंसीकृततद्गुणाः

6.28

[वि.18-गाम्भीर्यम्]
अथ गाम्भीर्यम् ।
ध्वनिमत्ता तु गाम्भीर्यम् ।
यथा---
विषं कौक्षेयके गङ्गा कीर्त्तौ दिग्वसनं रिपौ ।
इन्दुर्मुखे च रुद्रस्य काकतीयस्य दृश्यते

6.29

अत्र शङ्करस्य कण्ठे विषं, मौलौ गङ्गा, कटिस्थले दिग्वस्त्रं, शिरसि चन्द्र इति ध्वन्यते ।
[वि.19-संक्षेपः]
अथ संक्षेपः ।
संक्षिप्तार्थाभिधानं यत् तत् संक्षेपः प्रकीर्त्यते

6.30

यथा---
वंशो ऽस्ति काकतीयानां तत्रासन् बहवो नृपाः ।
तेषां भाग्यविवर्तो ऽयं वीररुद्रो नरेश्वरः

6.31

अत्रातिविस्तरकथनयोग्यार्थस्य संक्षेपोक्तेः संक्षेपः ।
[वि.20-सौक्ष्म्यम्]
अथ सौक्ष्म्यम् ।
अन्तः संजल्परूपत्वं शब्दानां सौक्ष्म्यमुच्यते ।
यथा---
अध्यधः परिसंश्लिष्टाः ष्ठाकृञ्भूधातवः सदा ।
वर्तन्ते काकतीयेन्द्रे कर्तर्यन्यत्र कर्मणि

6.32

अत्राधितिष्ठत्यधः करोति परिभवतीत्यन्तः संजल्परूपत्वात् सौक्ष्म्यं भवति ।
[वि.21-प्रौढः]
अथ प्रौढिः ।
प्रौढिरुक्तेः परीपाक इति काव्यविदो विदुः

6.33

यथा---
वीप्सा पद्मभवस्य चन्द्रमुकुटस्यावृत्तिराम्रेडितं
दैत्यारेः प्रतिबिम्बनं सुरगिरेरिन्दोः समुत्तेजनम् ।
कर्णादेः पुनरुद्भवः सुरतरोः सर्वस्वमाविष्क्रिया
स्वर्धेनोरिति तर्कयन्ति कवयः श्रीवीररुद्रप्रभुम्

6.34

[वि.22.-उक्तिः]
अथोक्तिः ।
विदग्धभणितिर्या
स्यादुक्तिं तां कवयो विदुः ।
यथा---
दिट्ठा कमलासत्ती रण्णो तुह सुहअ चित्तचरिअत्स ।
भासन्तो वि तुमं तं कुवलअलच्छिं पसाहेसि

6.35

(।दृष्टा कमलासक्ती राज्ञस्तव सुभग चित्रचरितस्य ।
भास्वानपि त्वं तां कुवलयलक्ष्मीं प्रसाधयसि ॥)
[वि.23-रीतिः]
अथ रीतिः ।
यथोपक्रमनिर्वाहो रीतिरित्यभिधीयते

6.36

यथा---
षड् गुणान् सेवते राजा षड् रिपूनवमन्यते ।
षड् दर्शनान्युपादत्ते षड् बलानि च वीक्षते

6.37

[वि.24-भाविकम्]
अथ भाविकम् ।
भवतो वाक्यवृत्तिर्या भाविकं तदुदाहृतम्

6.38

यथा---
स्वामिंस्तात कुलोत्तंस वीररुद्र जगत्प्रभो ।
पुत्रिणां धुरमेषो ऽहं पुत्रेणारोपितस्त्वया

6.39

अत्र प्रेमरूपभाववशात् स्वमिंस्तातेति वाक्यवृत्तिः ।
[वि.25-गतिः]
अथ गतिः ।
गतिर्नाम सुरम्यत्वं स्वरारोहावरोहयोः

6.40

यथा---
प्रकाश्ये त्रैलोक्ये सततमतुलैः काकतिविभोर्-
महोभिर्निः सीमैर्दिनकरकराटोपपटुभिः ।
तमः कृत्स्नं शोकज्वलदनलरोचिः परिचयं
दधत्स्वप्युद्वेलत्यरिनृपमनस्स्वेव सततम्

मूल पाठ: Pratāparudrīya or Pratāparudrayaśobhūṣaṇa with Kumārasvāmin's commentary Ratnāpaṇa · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc