भाषा

ENहिગુ
ग्रंथ पाठ

प्रतापरुद्रीय · अध्याय 5

5.1

इति श्रीविद्यानाथकृतौ प्रतापरुद्रयशोभूषणे ऽलंकारशास्त्रे रसप्रकरणं समाप्तम् ।
व्.1
॥ अथ दोषप्रकरणम् ॥
अथ काव्यजीवितभूतरसनिरूपणानन्तरं तदुपस्कारहेतूनां गुणानां सम्यग्विवेकाय दोषा निरूप्यन्ते ।
[व्.1.1-दोषसामान्यलक्षणम्]
तत्र दोषसामान्यलक्षणम्---
दोषः काव्यापकर्षस्य हेतुः शब्दार्थगोचरः ।
शब्दार्थमयत्वात् काव्यस्य तदपकर्षहेतूनामपि दोषाणां शब्दगतत्वेनार्थगतत्वेन च द्वैविध्यम् ।
शब्दगतानामपि पदवाक्यगतत्वेन च द्वैविध्यम् ।
इपदगतदोषः]
तत्र पदगतदोषाः कथ्यन्ते ।
अप्रयुक्तमपुष्टार्थमसमर्थं निरर्थकम् ।
नेयार्थं च्युतसंस्कारं संदिग्धं चाप्रयोजकम्

5.2

क्लिष्टं गूढार्थकं ग्राम्यमन्यार्थं चाप्रतीतिकम् ।
अविमृष्टविधेयांशं विरुद्धमतिकृत् तथा ।
अश्लीलं परुषं चेति दोषाः सप्तदश स्मृताः

5.3

एषां स्वरूपं निरूप्यते ।
यदप्रयुक्तं कविभिरप्रयुक्तं तदुच्यते ।
प्रकृतानुपयुक्तार्थमपुष्टार्थं तदुच्यते

5.4

योगमात्रप्रसिद्धं यदसमर्थं तदुच्यते ।
पादपूरणमात्रं यत् तन्निरर्थकमुच्यते

5.5

स्वसंकेतप्रसिद्धार्थं नेयार्थं परिकीर्त्यते ।
शब्दशास्त्रविरुद्धं यत् च्युतसंस्कारमुच्यते

5.6

संदिग्धं तन्मतं यत् स्यात् संदिग्धार्थप्रतीतिकृत् ।
तदप्रयोजकं यत् स्यादविशेषविधायकम्

5.7

क्लिष्टं तदर्थावगतिर्दूरदूरा यतो भवेत् ।
प्रयुक्तमप्रसिद्धार्थे गूढार्थं परिकीर्त्यते

5.8

पामरव्यवहारैकप्रसिध्दं ग्राम्यमुच्यते ।
यद्रूढिप्रच्युतं नाम तदन्यार्थमुदाहृतम्

5.9

शास्त्रमात्रप्रसिद्धं यदप्रतीतिकमुच्यते ।
अविमृष्टविधेयांशं गुणीभूतविधेयकम्

5.10

विपरीतार्थधीर्यस्माद् विरुद्धमतिकृन्मतम् ।
अश्लीलं यदमाङ्गल्यजुगुप्साव्रीडधीकरम्

5.11

परुषं नाम तद् यत् स्याद्विहितं परुषाक्षरैः ॥
अत्र वनवृत्तीनां शत्रुस्त्रीणां वचनेषु दोषा उदाह्रियन्ते ।
[व्.2.1-अप्रयुक्तम्]
अप्रयुक्तं यथा---
विमुखा दैवताः सर्वे ते नो दुश्च्यवनादयः ।
अरण्यगृहमेधिन्यो यैर्वयं हन्त कल्पिताः

5.12

अत्र दैवता इति पुंलिङ्गप्रयोगः दोषः ; दुश्चयवन इति च इन्द्रपरत्वेन कविभिर्न प्रयुक्तः ।
[व्.2.2-अपुष्टार्थम्]
अपुष्टार्थं यथा---
व्यर्थाष्टार्धार्धबाहूनाममीषामीदृशां दशाम् ।
कथं सहामहे धिग्धिक् कठिनं हन्त जीवितम्

5.13

अत्र व्यर्थबाहुद्वयानामिति विवक्षिते ऽष्टार्धार्धबाहूनामित्यनुपयुक्तम् ।
एतदेवाविमृष्टविधेयांशस्योदाहरणम् ।
बाहुद्वयस्य वैयर्थ्ये विधेये तस्योपसर्जनत्वं प्रतीयते ।
[व्.2.3-असमर्थम्]
असमर्थं यथा---
विहाय वसुधामेनां चतुरम्बुधरावृताम् ।
क नु गन्तव्यमस्माकमरण्ये ऽप्यसुखा स्थितिः

5.14

अत्र जलधिपरत्वेनाम्बुधरपदमसमर्थम् ।
[व्.2.3-अनर्थकनेयार्थच्चतसंस्कारसंदिग्धानि]
अनर्थकनेयार्थच्युतसंस्कारसंदिग्धानि यथा---
विहाय च गृहांस्तान् वै व्यत्यस्तनववृत्तयः ।
कदा भविष्यते वासः कटकेषु महीभृतान्

5.15

अत्र वै इति निरर्थकम् ।
व्यत्यस्तनवशब्देन वनप्रतीतिः स्वसंकेतमात्रायतेति नेयार्थकम् ।
भविष्यते इति भवतेरात्मनेपदित्वं शब्दशास्त्रविरुद्धमिति च्युतसंस्कारम् ।
महीभृतां कटकेषु वास इत्यनेन राज्ञां नगरेषु वासः ? उत पर्वतानां नितम्बेषु ? इति संदेहात् संदिग्धम् ।
[व्.2.4-अप्रयोजकक्लिष्टे]
अप्रयोजकक्लिष्टे यथा---
हन्त वर्तामहे वज्रघट्टनात् प्राक् चलात्मसु ।
नभस्वदशनारातिध्वजाग्रजविरोधिषु

5.16

अत्र नभस्वदशनाः सर्पाः, तेषामरातिर्गरुडः, स एव ध्वजो यस्येति विष्णुः, तस्याग्रज इन्द्रस्तस्य विरोधिषु पर्वतेषु इत्यर्थप्रतीतेरतिदूरत्वात् क्लिष्टम् ।
पर्वतेषु वर्तनं दुः खावहमिति प्रकृते वज्रघट्टनात् प्राक् चलात्मस्विति पर्वतविशेषणस्यानुपयुक्तत्वादप्रयोजकम् ।
[व्.2.5-गूडार्थान्यार्थग्राम्यर्थानि]
गूढार्थग्राम्यार्थान्यार्थानि यथा---
शोणिताब्जदृशः कामं श्यामगल्लकटिस्थलाः ।
विदग्धहृदयाः शोकवह्निना राजकन्यकाः

5.17

अत्र शोणितशब्दस्य रुधिरे प्रसिद्धस्य पाटलवर्णपरत्वेन प्रयोगाद् गूढार्थम् ।
गल्लकटिशब्दौ कपोलजघनपरत्वेन ग्राम्यप्रयुक्तौ ।
विदग्धहृदया इति विशेषणं दग्धहृदयस्यावाचकत्वादन्यार्थम् ।
[व्.2.6-अप्रतीतिकरम्]
अप्रतीतिकं यथा---
मनूपदेशाः क्व गताः कुलाचार्यैरुदीरिताः

5.18

अत्र मनुशबदो मन्त्रपरत्वेन मन्त्रशास्त्रमात्रप्रसिद्ध इत्यप्रतीतिकम् ।
[व्.2.7-विरुध्दमतिकृत्]
विरुद्धमतिकृद्यथा---
अम्बिकारमणस्याङ्घ्रिसेवा व्यर्था कथं भवेत् ।
राज्ञामकार्यमित्राणां विनाशं समुपेयुषाम्

5.19

अत्राम्बिकारमणशब्दान्मातृसंभोगकारिणः प्रतीतिः ।
अकार्यमित्रशब्दादकार्येषु मित्राणीति प्रतीतिः ।
वियोगदुः खपरतया प्रयुक्ताद्विनाशशब्दान्नशप्रतीतिरिति विरुद्धमतिकृत् ।
[व्.2.8-त्रिविधाश्लीलम्]
अमङ्गलव्रीडाजुगुप्साप्रतीतिकरं त्रिविधमश्लीलं यथा---
अभिप्रेतपदावासः कदा नः संभविष्यति ।
नीचं साधनमेतेषां परोत्सर्गैकजीविनाम्

5.20

अत्राभिप्रेतपदावासशब्दात् प्रेतलोकपदावासप्रतीतेरमङ्गलत्वम् ।
नीचं साधनमित्यनेन तुच्छमोहनप्रतीतेर्व्रीडाकरत्वम् ।
परोत्सर्गौकजीविनामित्यत्रोत्सर्गशब्दादधोवायुप्रतीतेर्जुगुप्साकरत्वम् ।
[व्.2.9-पुरुषम्]
परुषं यथा---
कुतः कान्तारवृत्तीनां कार्तार्थ्यार्थित्वमस्ति नः ।
अत्र कार्तार्थ्यार्थित्वमिति परुषवर्णारब्धत्वम् ।
व्.3
॥ अथ वाक्यदोषाः ॥
शब्दहीनं क्रमभ्रष्टं विसंधि पुनरुक्तिमत् ।
व्याकीर्णं वाक्यसंकीर्णमपूर्णं वाक्यगर्भितम्

5.21

द्वे भिन्नलिङ्गवचने द्वे च न्यूनाधिकोपमे ।
भग्नच्छन्दो यतिभ्रष्टमशरीरमरीतिकम्

5.22

विसर्गलुप्तमस्थानसमासं वाच्यवर्जितम् ।
समाप्तपुनरात्तं च तथा संबन्धवर्जितम्

5.23

पतत्प्रकर्षमधिकपदं प्रक्रमभङ्गवत् ।
चतुर्विंशतिरुच्यन्ते दोषा वाक्यसमाश्रिताः

5.24

एषां स्वरूपमुदाहरणं च ।
[व्.3.1-शब्दहीनम्]
शब्दशास्त्रहतं वाक्यं शब्दहीनं प्रकीर्त्यते ।
यथा शत्रुवाक्येषु---
न संशृणुमहे हन्त हितमाप्तैर्निमन्त्रितम् ।
येन काकतिभूभर्तुः सेवां हित्वा हता वयम्

5.25

अत्र हितं न संशृणुमहे इति पदद्वयप्रयोगे दोषाविष्काराद्वाक्यमेव दुष्टमिति न पददोषशङ्का ।
संपूर्वस्य शृणोतेरात्मनेपदित्वे कर्मणो ऽनुपादाननियमात् ।
अथ क्रमभ्रष्टम् ।
क्रमभ्रष्टं भवेदार्थः शाब्दो वा यत्र न क्रमः

5.26

[व्.3.2-क्रमभ्रष्टम्]
यथा---
प्रभवे काकतीन्द्राय तुरगान् करिणो ऽथवा ।
उपायनमकुर्वाणा वयं दैवेन वञ्चिताः

5.27

अत्र करिणो यद्वा तुरगानिति वक्तव्ये व्युत्क्रमेणोक्तम्, तुरगापेक्षया करिणामुत्कृष्टत्वात् ।
अथवा करिण इत्यर्थक्रमभङ्गः ।
शब्दक्रमभङ्गो यथा---
का नाम गणनास्मासु काकतीयस्य भूपतेः ।
यशः प्रतापयोर्मग्नौ सूर्याचन्द्रमसावपि

5.28

अत्र यशः प्रतापयोश्चन्द्रसूर्यौ मग्नाविति शब्दक्रमे उचिते तथा नोक्तम् ।
यशः प्रतापयोः सूर्याचन्द्रमसौ मग्नाविति समुदायद्वयान्वये यथायोग्यमर्थान्वये सिद्धे नार्थक्रमविरोधः ।
अपि तु शब्दप्रयोग एव क्रमभङ्गः ।
[व्.3.3-विसन्धि]
अथ विसन्धि ।
विसंहितो विरूपो वा यस्य संधिर्विसंधि तत् ।
यथा---
शौर्याणि ईदृशान्यासन् पृथ्वैश्वर्यं क्व वा गतम् ।
अत्र शौर्याणि ईदृशानीति विसन्धि ।
पृथ्वैश्वर्यमिति संधिवैरूप्यम् ।
अथ पुनरुक्तिमत् ।
शब्दार्थपौनरुक्त्ये तु तद्वाक्यं पुनरुक्तिमत्

5.29

[व्.3.4-पुनरुक्तिम्]
यथा---
जीर्णकाननसंकीर्णे विन्ध्ये काननवृत्तयः

5.30

अत्र काननसंकीर्णे काननवृत्तय इति पुनरुक्तिमत् ।
[व्.3.5-व्याकीर्णम्]
अथ व्याकीर्णम् ।
व्याकीर्णं तद्विभक्तीनां व्याकीर्णे च मिथो ऽन्वये ।
यथा---
सुखार्थिनो महीपाला वर्तध्वं काकतीशितुः ।
आज्ञामुरसि बिभ्राणाः शिरसि क्रोडमुद्रिकाम्

5.31

अत्र क्रोडमुद्रिकामुरसि शिरस्याज्ञां बिभ्राणा इति संबन्धः ।
[व्.3.6-वाक्यसंकीर्णम्]
अथ वाक्यसंकीर्णम् ।
वाक्यान्तरपदैः कीर्णं वाक्यसंकीर्णमुच्यते

5.32

यथा---
मानेन महतास्माभिर्वने वक्त्रे न तिष्ठताम् ।
विन्धयस्य जीवितं तन्नो जातमद्य तृणं कृतम्

5.33

अत्र महता मानेन अस्माभिर्यत्तृणं वक्त्रे न कृतं तदद्य विन्ध्यस्य वने तिष्ठतां नो जीवितं जातमिति वाक्यद्वयपदानामन्योन्यसंकीर्णता ।
[व्.3.7-अपूर्णम्]
अथापूर्णम्---
अपूर्णं तद्भवेद् यत्र न संपूर्णः क्रियान्वयः ।
यथा---
शैलेष्वस्माकमावासो वन्यैः सोच्छ्वसिता वयम् ।
मृगैर्बन्धुमतश्चास्मान् पश्यन् धाता प्रमोदताम्

5.34

अत्र शैलवासान् वन्यवृत्तीन् मृगबान्धवान् पश्यन्निति विवक्षितसंबन्धौ न संपूर्णः ।
[व्.3.8-वाक्यगर्भतम्]
अथ वाक्यगर्भितम् ।
तद् वाक्यगर्भि तं यस्य मध्ये वाक्यान्तरं भवेत्

5.35

यथा---
ज्ञात्वाप्यन्ध्रपुरीन्द्रस्य क्रोधाग्निमतिदुः सहम् ।
यद्वा न लङ्घ्यते दैवं तस्मिन्निपतिता वयम्

5.36

अत्रातिदुः सहं क्रोधाग्निं ज्ञात्वापि तस्मिन्निपतिता वयमिति वाक्यमध्ये यद्वा न लङ्घ्यते दैवमिति वाक्यान्तरमनुप्रविष्टमिति वाक्यगर्भितत्वम् ।
[व्.3.9-भिन्नलिङ्गवचने]
अथ भिन्नलिङ्गवचने ।
यत्रोपमा भवेद् भिन्नवचना भिन्नलिङ्गका ।
तद्भिन्नवचनं भिन्नलिङ्गं चाहुर्मनीषिणः

5.37

द्वयोरुदाहरणं यथा---
समुद्रा इव गम्भीरं मनो यादवभूभुजः ।
गिरिणेवान्ध्रनृपतिध्वजिन्या कलुषीकृतम्

5.38

अत्र समुद्रा इव गम्भीरमिति भिन्नवचनम् ।
गिरिणेव ध्वजिन्येति भिन्नलिङ्गम् ।
अथाधिकन्यूनोपमे ।
[व्.3.10-अधिकन्यूनोपमे]
यत्रोपमानमधिकं न्यूनं वा स्याद्विशेषणैः ।
तत्राधिकोपमं पूर्वं न्यूनोपममतः परम्

5.39

द्वयोः यथाक्रममुदाहरणम् ।
क्षामक्षाममुखाः कान्ताः कानने मालवेशितुः ।
ग्रीष्मे नद्य इव ग्लानपद्मोत्पलबिसाविलाः

5.40

अत्र क्षामक्षाममुखानां कान्तानामुपमानभूतासु नदीषु म्लानपद्मत्वमात्रं वक्तव्यम् ।
म्लानोत्पलबिसाविला इत्यधिकम् ।
न्यूनोपमं यथा---
हाराङ्गरागसुभगा नगरेषु यथा वयम् ।
तथैव निर्झराकीर्णा विभान्ति धरणीभृतः

5.41

अत्र हारस्थाने निर्झरा उक्ताः ।
अङ्गरागस्थाने किमपि नोक्तमिति न्यूनोपमत्वम् ।
[व्.3.11-भग्नछन्दोकयतिभ्रष्टे]
अथ भग्नच्छन्दोयतिभ्रष्टे ।
छन्दोभग्नं वचो यत्र तद्भग्नच्छन्द उच्यते ।
यत्र स्थाने यतिभ्रंशस्तद् यतिभ्रष्टमुच्यते

5.42

यथा---
विन्ध्यारण्यकृतकुटुम्बरक्षणस्य किं भद्रं भवति जनस्य मादृशस्य

5.43

अत्र विन्ध्यारण्येति तृतीयवर्णे यतिभङ्गः ।
पादान्तवर्णस्य गुरुत्वाभावाच्छन्दोभङ्गः ।
[व्.3.12-अशरीररम्]
अथाशरीरम् ।
क्रियापदेन रहितमशरीरं प्रकीर्त्यते ।
यथा---
हन्त निष्करुणो धाता क्रीडतो मणिकुट्टिमे ।
कानने कण्टकाकीर्णे स्थितान् पाण्ड्यशिशूनिमान्

5.44

अत्र क्रियापदं न विहितम् ।
एतदेवानन्वयाख्यं दूषणम् ।
[व्.3.13-अरीतिकम्]
अथारीतिकम् ।
रसाननुगुणा रीतिर्यत्रारीति तदुच्यते

5.45

यथा---
अखर्वगर्वदुर्वारदोरर्गलनिरर्गलाः ।
हा बन्धुवर्गाः सर्वे ऽपि कृतान्तातिथयः कृताः

5.46

अत्र करुणे ऽनुचितो वर्णाडम्बरः ।
अथ विसर्गलुप्तम् ।
ओत्वं लोपो विसर्गस्यासकृल्लुप्तविसर्गकम् ।
[व्.3.14-विसर्गलुणतम्]
यत्र विसर्गो बहुधौत्वं लोपं वा प्राप्नोति तद्विसर्गलुप्तम् ।
यथा---
व्यर्थो मनोरथो यातो जातो वासो ध्रुवो मरौ ।
म्लाना दीना हता जीर्णा वनान्तेष्वीदृशा वयम्

5.47

[व्.3.15-अस्थानसमारस्यम्]
अथास्थानसमासम् ।
अपदस्थसमासं तत् समासो यत्र नोचितः

5.48

यथा---
कुतो वैमुख्यमस्मासु ब्रह्मणः परुषात्मनः ।
इत्युदग्रतरभ्राम्यद्भृकुटीकुटिलाननाः

5.49

अत्र वेधसे क्रुध्यतां नृपाणामुक्तौ न समासः ।
किं तु कविवचने समास इत्यपदस्थसमासः ।
[व्.3.16-वाच्चवर्जितम्]
अथ वाच्यवर्जितम् ।
नोक्तं स्याद्यत्र वक्तव्यं तदाहुर्वाच्यवर्जितम् ।
यथा---
दुर्दशां प्रतिपन्नानामस्माकं जीवितं मतम्

5.50

अत्र दुर्दशां प्रतिपन्नानामपीत्यपिशब्दो वक्तव्यो नोक्तः ।
[व्.3.17-समाप्तपुनरान्तकं,पतत्प्रकर्षं च]
अथ समाप्तपुनरात्तकं पतत्प्रकर्षं च ।
समाप्य पुनरादाने समाप्तपुनरात्तकम् ।
पतत्प्रकर्षं तत्प्राहुः प्रकर्षो यत्र विश्लथः

5.51

द्वयोरुदाहरणं यथा---
धावन्मृगेषु संभ्राम्यत्करिषूद्यत्तरक्षुषु ।
विन्ध्यारण्येषु तिष्ठामः क्षुभ्यद्भल्लूकपङ्क्तिषु

5.52

अत्र विन्ध्यारण्येषु तिष्ठामः इति समाप्य क्षुभ्यद्भल्लूकपङ्क्तिष्विति पुनरादानात् समाप्तपुनरात्तकम् ।
अथ भ्राम्यत्करिषूद्यत्तरक्षुषु धावन्मृगेष्विति वक्तव्ये न तथोक्तमिति पतत्प्रकर्षता ।
[व्.3.17-संबन्धवर्जितम्]
अथ संबन्धवर्जितम् ।
संबन्धवर्जितं तत् स्याद् यत्रेष्टेनान्वयो हतः ।
यथा---
भद्रासनानि दृषदः छत्राणि च महीरुहः ।
दुर्दशाराज्यमूर्धाभिषिक्ताः पुनरहो वयम्

5.53

अत्र राज्ये भद्रासनानि दृषद इत्यादिसंबन्धो नोक्तः ।
[व्.3.18-अधिकपदम्]
अथाधिकपदम् ।
यत्राधिकपदोक्तिः स्यात् तत्राधिकपदं मतम्

5.54

यथा---
विमुक्ता वल्लभैरेता वनान्ते घूर्जरस्त्रियः ।
सुधांशुमण्डलाकाररूपक्रमविपाण्डुराः

5.55

अत्र सुघांशुमण्डलाकार इत्येतावता परिपूर्णे मण्डलाकारविपाण्डुरत्वे रूपक्रम इत्यधिकम् ।
[व्.3.19-भग्नप्रक्रमम्]
अथ भग्नप्रक्रमम् ।
प्रक्रान्तनियमत्यागे भग्नक्रममिहोच्यते

5.56

यथा---
गुहा गृहाणि शबरा बान्धवा विन्ध्यभूः पुरी ।
सरितो दीर्घिकाः कष्टमाक्रीडाः काननानि नः

5.57

अत्र बहुवचनतया प्रथमं प्रकम्य विन्ध्यमूः पुरीत्येकवचनोक्तेः प्रक्रमभ्रष्टम् ।
व्.4 ॥
अथार्थदोषाः ॥
अपार्थं व्यर्थमेकार्थं ससंशयमपक्रमम् ।
भिन्नं चैवातिमात्रं च परुषं विरसं तथा

5.58

हीनाधिकोपमे स्यातामसदृक्षोपमं तथा ।
अप्रसिद्धोपमं हेतुशून्यं च निरलंकृति

5.59

अश्लीलं च विरुद्धं च तथा सहचरच्युतम् ।
एवमष्टादश प्रोक्ता दोषा अर्थसमाश्रयाः

5.60

एषां स्वरूपमुदाहरणं च ।
[व्.4.1-अपार्थम्]
समुदायार्थशून्यं यदपार्थं तत् प्रकीर्त्यते ।
यथा---
कुतः शुष्यदपा नद्यः का वार्ता चोलमण्डले ।
फणाः सहस्रं शेषस्य भारः कति कुलाचलाः

5.61

अत्र न कश्चिद्वाक्यार्थः प्रतीयते ।
[व्.4.2व्यर्थम्]
अथ व्यर्थम् ।
यत् प्रयोजनशून्यं स्यात् तद् व्यर्थं परिकीर्त्यते

5.62

यथा---
निर्मलं कुलमुद्वेलं शौर्यं वः प्रथितं यशः ।
किमित्यन्ध्रपतेः पादपीठं पाण्ड्यैर्न सेव्यते

5.63

अत्र निर्मलं कुलमित्यादिप्रशंसा सेवा कर्तव्येत्युपदेशे नोपयुज्यते ।
[व्.4.3-एकार्थम्]
अथैकार्थम् ।
उक्ताभिन्नार्थकं यत् स्यादेकार्थं तन्निगद्यते ।
यथा---
विशीर्णं शतधा चेतो मूर्च्छितान् वीक्ष्य बालकान् ।
शिशून् निश्चेतनान् दृष्ट्वा खण्डितं शतशो मनः

5.64

अत्र पूर्वोत्तरार्धयोरभिन्नार्थत्वम् ।
[व्.4.4-ससंशयम्]
अथ ससंशयम् ।
वाक्यार्थसंशयो यत्र तत् ससंशयमिष्यते

5.65

यथा---
करिकुम्भौ स्तनावद्य जयतां क्षामतां गतौ ।
लता वपुः श्रियः स्त्रीणां हसन्तु म्लानतां गताः

5.66

अत्र करिकुम्भयोः स्तनयोश्च लतानां वपुः श्रियां च कर्तृकर्मत्वसंशयः ।
[व्.4.5-अपक्मम्]
अथापक्रमम् ।
यत्र पूर्वापरीभावविहतिस्तदपक्रमम् ।
यथा---
हन्त व्यादाय वक्त्राणि निद्रान्त्यन्तर्वणं स्त्रियः ।
तृणैस्तत्पतितैरस्मान् शिक्षयन्त्यस्तथाक्रमम्

5.67

अत्र निद्रोत्तरकालीनमुख्यादानस्य पूर्वकालत्वमुक्तमित्यपक्रमत्वम् ।
[व्.4.6-भिन्नम्]
अथ भिन्नम् ।
संबन्धवर्जितं यत् स्यात् तद्भिन्नं परिकीर्त्यते

5.68

यथा---
नूनं फालेषु लाटानां न धात्रा लिखिता लिपिः ।
यदस्माकं कुटुम्बानि विषीदन्ति मरुस्थले

5.69

अत्र मरुस्थलनिवासविषादस्य फालस्थलगतलिप्यभावस्य च न संबन्धः ।
[व्.4.7-अतिमात्रम्]
अथातिमात्रम् ।
यत् सर्वलोकातीतं तदतिमात्रं प्रकीर्त्यते ।
यथा---
मा भूदेकार्णवं विश्वमिति संकोचिताश्रुभिः ।
अरण्ये लाटनारीभिरसंख्या निम्नगाः कृताः

5.70

अत्राश्रुभिर्जगदेकार्णवमित्ययुक्तिः ।
[व्.4.8-पुरुषम्]
अथ परुषम् ।
अतिक्रूरार्थसहितं परुषं परिकीर्त्यते

5.71

यथा---
दावानलेन्धनं सद्यः क्रियन्तामर्भका इमे

5.72

अत्र पलानि याचमानान् शिशूनुद्दिश्यातिपरुषोक्तिः ।
[व्.4.9-विरसम्]
अथ विरसम् ।
अप्रस्तुतरसं यत् तद्विरसं परिकीर्त्यते ।
यथा---
चन्द्राननाः कटाक्षैर्नः पश्यतामृतवर्षिभिः ।
शोचित्वालमिति क्लिष्टाः किरातैश्चोलसुभ्रुवः

5.73

अत्र पुरुषवियोगखिन्नानां स्त्रीणां वनचरैः संभोगप्रार्थनं विरसम् ।
[व्.4.10-हिनोपमम्]
अथ हीनोपमम् ।
हीनं यत्रोपमानं स्यात् तद्धि हीनोपमं मतम्

5.74

यथा---
शुनकैरिव सारङ्गा भवद्भिर्निहता द्विषः ।
क्व गतं पौरुषं तद्वः काननैकनिवासिनाम्

5.75

अत्र शुनकैरिव भवद्भिरिति हीनोपमम् ।
[व्.4.11-अधिकोपमम्]
अथाधिकोपमम् ।
यत्रोपमानमधिकं तद् भवेदधिकोपमम् ।
यथा---
अमी पारेसरस्तीरं बका निश्चलमूर्तयः ।
महर्षय इवास्माभिरद्य सोपद्रवाः कृताः

5.76

अत्र बका महर्षय इवेत्यधिकोपमम् ।
[व्.4.12-असदृशोपमम्]
अथासदृशोपमम् ।
यदतुल्योपमानं तद् भवेदसदृशोपमम्

5.77

यथा---
एष विन्ध्याचलः सान्द्रकुञ्जोच्चलितनिर्झरः ।
फालेक्षणस्फुरद्वह्निशिखाटोप इवेश्वरः

5.78

अत्र कुञ्जोच्चलितनिर्झरस्य विन्ध्याचलस्य फालेक्षणस्पुरद्वह्नेरीश्वरस्य च मिथो न सादृश्यम् ।
[व्.4.13-अप्रसिध्दोपमम्]
अथाप्रसिद्धोपमम् ।
अप्रसिद्धोपमानं यदप्रसिद्धोपमं मतम् ।
यथा---
बाष्पाम्बुक्लिन्ननेत्राणि मुखान्यङ्गमृगीदृशाम् ।
हिमदूषितपत्राणि कुमुदानीव निर्मुदाम्

5.79

अत्र मुखानां कुमुदान्युपमानतया कविलोके न प्रसिद्धानि ।
[व्.4.14-हेतुषून्यम्]
अथ हेतुशून्यम् ।
हेतोर्विनार्थकथनं हेतुशून्यं प्रचक्षते

5.80

यथा---
मुधानुधावनं जातं मार्गे ऽस्मिन् मौक्तिकाङ्किते ।
अन्वेष्टुमन्यतो यामि पदवीयं न सुभ्रुवः

5.81

अत्र सुभ्रुवः पदवीयं न भवतीति हेतुर्नोक्तः ।
[व्.4.15-निरलंकृति]
अथ निरलंकृति ।
अलंकारेण रहितं निरलंकारमुच्यते ।
यथा---
आघ्राय सुरभेर्योनिमुन्मुखैदीर्घमेहनैः ।
महोक्षेर्लम्बमानाण्डैर्विष्वग् व्याकुलितं वनम्

5.82

[व्.4.16-अश्लीलम्]
अत्र न कश्चिदलंकारः ।
श्लाध्यविशेषणाभावात् न स्वाभावोक्तिः ।
अथाश्लीलम् ।
अश्लीलार्थस्य कथनमश्लीलं परिकीर्त्यते

5.83

अस्यापि पूर्वमेवोदाहरणम् ।
[व्.4.17-विरुध्दम्]
अथ विरुद्धम् ।
विरुद्धं देशकालादिविरुद्धं बहुधोच्यते ।
यथा--
दिश्युत्तरस्यां नेदीयानुद्वेलो लवणार्णवः ।
मरुदेशे ऽपि गङ्गा नः पिपासां शामयिष्यति

5.84

अत्र दिश्युत्तरस्यां लवणार्णव इति दिग्विरोधः ।
मरौ गङ्गेति देशविरोधः ।
अरण्यमहिषोदग्रविषाणोदरजन्मनाम् ।
महत्यर्घे ऽपि मुक्तानां स्त्रियो मुक्ताविभूषणाः

5.85

अत्र महिषविषाणेभ्यो मुक्तानां जन्मेति लोकविरोधः ।
एवं विरुद्धान्तरमप्युदाहार्यम् ।
[व्.4.18-सहचरभ्रष्चम्]
अथ सहचरभ्रष्टम् ।
मतं सहचरभ्रष्टमतुल्यानां निबन्धने

5.86

यथा---
शान्त्या श्रुतं ह्रिया नारी मन्मथेन रतोत्सवः ।
श्रुतेन धिषणा वन्यवृत्त्या जीवन्ति शात्रवाः

मूल पाठ: Pratāparudrīya or Pratāparudrayaśobhūṣaṇa with Kumārasvāmin's commentary Ratnāpaṇa · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc