भाषा

ENहिગુ
ग्रंथ पाठ

प्रतापरुद्रीय · अध्याय 4

4.1

एषां शुभाशंसनरूपा प्रशस्तिः ।
(इति निष्क्रान्ताः सर्वे । ) इति प्रतापरुद्रराज्याभिषेको नाम पञ्चमो ऽङ्कः ॥
एवं साङ्गं नाटकमुदाहृतम् ।
इति श्रीविद्यानाथकृतौ प्रतापरुद्रयशोभूषणे ऽलंकारशास्त्रे नाटकप्रकरणं समाप्तम्
॥ अथ रसप्रकरणम् ॥
इव्.1.अथ सर्वेषां प्रबन्धानां जीवितभूतस्य रसस्य स्वरूपं निरूप्यते ।
[इव्.1.1-रसस्वरूपम्]
विभावानुभावसात्त्विकव्यभिचारिसामग्रीसमुल्लासितः स्थायी भावो रसः ।
तथा चोक्तं ऽदशरूपकेऽ---
"विभावैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः ।
आनीयमानः स्वादुत्वं स्थायी भावो रसः स्मृतः" ॥
इति ।
भावस्य स्थायित्वं नाम सजातीयविजातीयानभिभूततया यावदनुभवमवस्थानम् ।
तथा चोक्तं ऽदशरूपकेऽ---
"सजातीयैर्विजातीयैरतिरस्कृतमूर्तिमान् ।
यावद्रसं वर्तमानः स्थायी भाव उदाहृतः" ॥
[इव्.1.2-रसविशेषः]
अथ रसविशेषाः---
शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः ।
बीभत्साद्भुतशान्ताश्च रसाः पूर्वैरुदाहृताः ॥
[इव्.1.3-स्थायीभावः]
एषां स्थायिभावाः---
रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।
जुगुप्साविस्मयशमाः स्थायिभावा नव क्रमात्

4.2

[इव्.1.4-विभावः]
अथ विभावः---
विभावः कथ्यते तत्र रसोत्पादनकारणम् ।
आलम्बनोद्दीपनात्मा स द्विधा परिकीर्त्यते

4.3

रससमवायिकारणमालम्बनविभावः । इतरत् कारणजातमुद्दीपनविभावः ।
स चतुर्विधः । तथा चोक्तं शृङ्गारतिलके---
"आलम्बनगुणश्चैव तच्चेष्टा तदलंकृतिः ।
तटस्थश्चेति विज्ञेयश्चतुर्धोद्दीपनक्रमः ॥
आलम्बनगुणो रूपयौवनादिरुदाहृतः ।
तच्चेष्टा यौवनोद्भूतहावभावादिका मताः ॥
नूपुराङ्गदहारादि तदलङ्करणं मतम् ।
मलयानिलचन्द्राद्यास्तटस्थाः परिकीर्तिताः ॥
[इव्.1.5-अनुभावः]
अथानुभावः--
कार्यभूतो ऽनुभावः स्यात् कटाक्षादिः शरीरजः

4.4

[इव्.1.6-सात्त्विकभावाः]
अथ सात्त्विकभावाः---
परगतसुखादिभावनाभावितान्तः करणत्वं सत्त्वम् । ततो भवाः सात्त्विकाः ।
स्तम्भः प्रलयरोमाञ्चौ स्वेदो वैवर्ण्यवेपथू ।
अश्रु वैस्वर्यमित्यष्टौ सात्त्विकाः परिकीर्तिताः

4.5

अथ व्यभिचारिभावाः---
निर्वेदग्लानिशङ्काख्यास्तथासूयामदश्रमाः ।
आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिर्धृतिः

4.6

व्रीडा चपलता हर्ष आवेगो जडता तथा ।
गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च

4.7

सुप्तिर्विबोधो ऽमर्षश्चाप्यवहित्थमथोग्रता ।
मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च

4.8

त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः ।
त्रयस्त्रिंशदमी भावा रसस्य सहकारिणः

4.9

तथा चोक्तं काव्यप्रकाशे---
"कारणान्यथ कार्याणि सहकारीणि यानि च ।
रत्यादेः स्थायिनो लोके तानि चेन्नाट्यकाव्ययोः ।
विभावाश्चानुभावाश्च कथ्यन्ते व्यभिचारिणः" ॥
इति।
लोके कार्यकारणसहकारिशब्दवाच्या नायिकानायककटाक्षभ्रूविक्षेपनिर्वेदादयः, काव्यनाट्ययोस्तु विभावानुभावव्यभिचारिशब्दव्यपदेश्या भवन्ति । शृङ्गारवीररौद्राद्भुतानां लोकोत्तरनायकाश्रयत्वेन परिपोषातिशयः । अत एव शृङ्गारस्य म्लेच्छादिविषयत्वे त्वाभासत्वम् । तथा चोक्तम्---
"एकत्रैवानुरागश्चेत् तिर्यङ्म्लेच्छगतो ऽपि वा ।
योषितो बहुसक्तिश्चेद्रसाभासस्त्रिधा मतः" ॥
इति।
व्यभिचारिभावानामुदयेन, प्रशाम्यदवस्थया, परस्परविरुद्धरसाश्रितयोर्भावयोः स्पर्धया संबन्धेन अन्योन्योपमर्दकतया बहूनां समावेशेन च चातुर्विध्यम् । तथा चोक्तं दशरूपके---
"भावस्य शान्तिरुदयः संधिः शबलता तथाऽ; ।
इति ।
॥ रत्यादिस्थायिभावलक्षणोदाहरणानि ॥
अथ यथाक्रमं स्थायिभावानां स्वरूपमुदाहरणं च ।
[इव्.1.8-रतिः]
तत्र संभोगविषय इच्छाविशेषो रतिः ।
यथा---
शृङ्गारैकरसः स्मरो ऽस्तु जगदानन्दैकनिष्यन्दभू-
रिन्दुस्तिष्ठतु विभ्रमैकवसतिर्जागर्तु पुष्पाकरः ।
सन्त्वन्ये ऽपि गुणप्रिसादितदृशः किं तैरशेषोन्नतो
जातः काकतिवल्लभो मम पतिः कामस्य कामोत्सवः

4.10

[इव्.1.9-हासः]
विकृतिदर्शनादिजन्यो मनोविकारो हासः ।
यथा---
बिभ्राणान् कबरीर्धृताञ्जनदृशः कृत्वा कुचौ कृत्रिमौ
स्त्रीवेषान् निशि काकतीन्द्रनगरे प्रच्छन्नरूपान् नृपान् ।
दृष्ट्वा क्षौममपास्य वक्षसि कुचावाकृष्य नीवीस्पृशो
ही ही कष्टमिति त्यजन्ति विपणिश्रेणीषु धूर्ता विटाः

4.11

[इव्.1.10-शोकः]
इष्टजनवियोगादिनाऽत्मनि दुः खातिभूमिः शोकः ।
यथा---
धातर्निष्करुणो ऽसि शिक्षयसि किं वन्यां शरीरस्थितिं
तत्तादृग्विभवा गृहाः क्व नु गताः स्थानं मरुः कल्पितम् ।
हा नाथाः पतिताः प्रतापनृपतेः क्रोधार्चिषीति द्विषद्-
योषाणां तदनूपमश्रुभिरहो जातं स्थलं मारवम्

4.12

[इव्.1.11-क्रोधः]
शत्रुकृतापचारेण मनः प्रज्वलनं क्रोधः ।
यथा---
रे रे सेवण ! कस्तवायमनिदंपूर्वो ऽद्य गर्वो महान्
उत्तीर्णा किल येन गौतमनदी प्राप्तो ऽसि मृत्योर्मुखम् ।
एषा काकतिवीररुद्र इति किं नाश्रावि सप्ताक्षरी
प्रक्षुभ्यत्प्रतिपक्षपार्थिवमहाभूतग्रहोच्चाटनी

4.13

[इव्.1.12-उत्साहः]
लोकोत्तरेषु कार्येषु स्थेयान् प्रयत्न उत्साहः ।
यथा---
क्षुब्धेष्वब्धिषु संभ्रमात् त्रिभुवनग्रासेच्छया सर्वतः
संनद्धेष्वपि पर्वतेषु परितो गण्डोपलान् वर्षितुम् ।
शक्ता एव वयं निवारणविधौ क्षुद्रक्षमाभृज्जये
श्लाघा नः कियतीति काकतिविभोर्गर्जन्ति सैन्ये भटाः

4.14

[इव्.1.13-भयम्]
रौद्रसंदर्शनादिभिरनर्थाशङ्कनं भयम् ।
यथा---
दूरादाकर्ण्य विश्वप्रसृमरमहसो वीररुद्रस्य जैत्र-
प्रस्थानारनमेरीनिनदमरिनृपाः पूर्णकर्णज्वरार्ताः ।
आरुह्याद्रीन् विशन्तो गहनमतिमहत् कण्टकाकृष्टकेशास्
त्रायध्वं मुञ्चतेति प्रतिनृपतिधिया पादपान् प्रार्थयन्ते

4.15

[इव्.1.14-जुगिप्सा]
अर्थानां दोषसंदर्शनादिभिर्गर्हणा जुगुप्सा ।
यथा---
विष्वङ्मस्तिष्कपङ्के महति निपतितोच्छूनमातङ्गदेह-
श्रेणीलब्धप्रचाराः प्रवहदुरुवसामज्जरक्तप्रवाहाः ।
राशीभूतास्थिकूटस्थपुटितनिकटा निस्सरद्विस्रगन्धाः
कुर्वन्त्यायोधनोर्व्यो भयमवनिभृतां वीररुद्रेण सृष्टाः

4.16

[इव्.15-विस्मयः]
अपूर्वार्थसंदर्शनाच्चित्तविस्तारो विस्मयः ।
यथा---
औन्नत्यं महदन्यदेव महितः को ऽप्येष गम्भीरिमा
काप्यन्या सरणिः प्रतापयशसोरन्यैव बाह्वोः प्रथा ।
सर्वं नूतनमेव रुद्रनृपतेर्जाने न तन्निर्मितौ
सामग्री चतुराननेन कियती कीदृक्क्रमा कल्पिता

4.17

[इव्.16.-शमः]
शमो वैराग्यादिना निर्विकारचित्तत्वम् ।
यथा---
किं लब्धं चतुराननेन महतीमायुष्प्रथां गच्छता
लब्ध्वा संपदमप्यनन्यसुगमामिन्द्रेण किं वा कृतम् ।
इत्यस्तान्तरुपप्लवाः सुकृतिनो नो जानते बाह्यम्
अप्यद्योपप्लवमन्ध्रनाथतिलके विश्वंभरां बिभ्रति

4.18

अथ शृङ्गारस्यालम्बनविभावो यथा---
लावण्यैकखनिर्विधातृरचनाशिल्पप्रतिज्ञावधिः
शृङ्गारप्रतिभूर्विलासविपणिः कन्दर्पघण्टापथः ।
नारीणांमधिदेवता च तरुणी सेयं किमन्यैर्गुणैर्
अस्या मन्मथमन्मथः प्रियतमः श्रीवीररुद्रो नृपः

4.19

उद्दीपनविभावो यथा---
उरोमात्रोत्सेधं भवदपि विलासैरभिनवै-
मृगाक्ष्यास्तरुण्यं त्रिभुवनमिदं व्याकुलयति ।
स्तनाभोगस्फीतं यदि किल भवेत् का खलु कथा
भवित्री किं वान्यद्विजितमखिलं पुष्पधनुषा

4.20

अनुभावो यथा---
स्मरस्मेरान् मन्दस्मितमधुरसौरभ्यसुभगान्
मनाग्व्रीडाजाड्यान् प्रणयरसकल्लोलभरितान् ।
कृतानेकस्कन्धान् मनसिजसहस्राणि सृजतः
कटाक्षान् वामाक्षी किरति परितो रुद्रनृपतिम्

4.21

॥ सात्त्विकानां स्वरूपोदाहरणानि ॥
[इव्.2]अथ सात्त्विकानां स्वरूपमुदाहरणं च ।
[इव्.2.1-स्तम्भः]
स्तम्भः स्यान्निष्क्रियाङ्गत्वं रागभीत्यादिसंभवम् ।
यथा---
काऐपुरेत्थिआओ पेख्खंतीओ णरेंदकंदप्पं ।
मअणसरुक्किणणाओ विअ ट्ठिआ णिच्चळंगीओ

4.22

(काकतिपुरस्त्रियः पश्यन्त्यो नरेन्द्रकन्दर्पम् ।
मदनशरोत्कीर्णा इव स्थिता निश्चलाङ्ग्यः ॥)
[इव्.2.2-प्रलयः]
प्रलयः सुखदुःखाद्यैर्गाढमिन्द्रियमूर्च्छनम्

4.23

यथा---
जिअमअणरूवसारो सहि एसो वीररुद्दणिवचंदो ।
जं दठ्ठूण णिमज्जै मुच्छाए इंदिअग्गामो

4.24

(जितमदनरूपसारः सखि एष वीररुद्रनृपचन्द्रः ।
यं दृष्ट्वा निमज्जति मूर्च्छायामिन्द्रियग्रामः ॥)
[इव्.2.3-रोमाञ्चः वेपथुश्च]
सुखाद्यतिशयाञ्जाता रोमाञ्चो रोमविक्रिया ।
रागरोषभयादिभ्यो वेपथुर्गात्रकम्पनम्

4.25

द्वयोरुदाहरणं यथा---
अदैआलिङ्गणणिभ्भकंपा अ वहू विओअजिण्णंगी ।
उग्गिरै अंतरट्ठिदमअणसरे पुलअचम्मेण

4.26

(अदयितालिङ्गननिर्भरकम्पा च वधूर्वियोगजीर्णाङ्गी ।
उद्गिरत्यन्तरस्थितमदनशरान् पुलकच्छद्मना ॥)
[इव्.2.4-स्वेदः]
वपुर्जलोद्गमः स्वेदो रतिधर्मश्रमादिभिः ।
यथा---
शृण्वती प्रियसंदेशं प्रेयसः काकतीशितुः ।
स्मरराज्याभिषिक्तेव स्विन्नाङ्गी वामलोचना

4.27

[इव्.2.5-विवर्णाता]
विषादमदरोषादेर्वर्णान्यत्वं विवर्णता

4.28

यथा---
णरणाह चंदधवले तुज्झ गुणे साहु सह्मरंतीए ।
अंगाइ पांडुराइं एह्णिं जाआइ सामाए

4.29

(नरनाथ चन्द्रधवलान् तव गुणान् साधु संस्मरन्त्याः ।
अङ्गानि पाण्डुराणि इदानीं जातानि श्यामायाः ॥)
[इव्.2.6-अशृः]
अश्रु नेत्रोद्भवं वारि दुः खरोषप्रहर्षजम् ।
यथा---
वीररुद्रनृपाद्भीतं पाण्ड्यं मग्नं पयोनिधौ ।
अन्वेष्टुमिव तद्योषिदश्रुधाराऽपगायते

4.30

[इव्.2.7-वेश्वर्यम्]
मतं गद्गदभाषित्वं वैस्वर्यं प्रमदादिजम्

4.31

यथा--
अविअणम्मि पिएण समं खामक्खामक्खरं भणंतीए ।
एक्को मुणै अणंगो अत्थं बहुआए भणिआणं

4.32

(अविजने प्रियेण समं क्षामक्षामाक्षरं भणन्त्याः ।
एको जानात्यनङ्गो ऽर्थं वध्वा भणितानाम् ॥)
इव्.3.॥ व्यभिचारिभावानां स्वरूपोदाहरणे ॥
अथ व्यभिचारिणां निर्वेदादीनां स्वरूपमुदाहरणं च ।
[इव्.3.1-निवेदः]
दुः खेर्ष्यातत्त्वबोधादेर्निर्वेदो निष्फलत्वधीः ।
तत्र चिन्ताश्रुनिः श्वासदीनताः संभवन्ति च

4.33

यथा---
सहि कप्पूरेण किअं किं कत्थूरीए मलअजो ठाउ ।
गुणसिसिरं जससुरहिं आणेहिअपआवरुद्दं अ

4.34

(सखि कर्पूरेण कृतं किं कस्तूर्या मलयजस्तिष्ठतु ।
गुणशिशिरं यशः सुरभिमानय प्रतापरुद्रं च ॥)
(अ ठपआवरुद्दणिवचंदंऽ---प्रतापरुद्रनृपचन्द्रम् इति पाठान्तरम् ।)
[इव्.3.2-ग्लानिः]
ग्लानिर्बलस्यापचयो वैवर्ण्यारतिकारणम् ।
यथा---
अअतेऌळोक्कं वहै मही तं धरै भुओ पआवरुद्दस्स ।
तं हिअएण धरंती साहसिई दुब्बलंगि म्हि

4.35

(अअत्रैलोक्यं वहति मही तां धरति भुजः प्रतापरुद्रस्य ।
तं हृदयेन धरन्ती साहसिकी दुर्बलाङ्ग्यस्मि ॥)
[इव्.3.3-शङका]
अथ शङ्का ।
अनिष्टाभ्यागमोत्प्रेक्षा शङ्का रोषादिकारणम्

4.36

यथा---
ण मुणदु अण्णो त्ति मए हिअए परिचओ पिअस्स किदो ।
किं पअढ म्हि जणाणं सव्वंगीणेहिं पुलएहिं

4.37

(न जानात्वन्य इति मया हृदये परिचयः प्रियस्य कृतः ।
किं प्रकटास्मि जनानां सर्वाङ्गीणैः पुलकैः ॥)
[इव्.3.4-असुया]
अथासूया ।
परोत्कर्षासहिष्णुत्वमसूया परिकीर्तिता ।
यथा---
अअहिआईए गुणेहिं रूवेण अ मज्झ किं मही अहिआ ।
जं तं पआवरुद्दो बहुमण्णै भाअहेअं तं

4.38

(अअभिजात्य गुणै रूपेण च मत्तः किं मही अधिका ?।
यत्तां प्रतापरुद्रो बहुमन्यते भागधेयं तत् ॥)
[इव्.3.5-मदः]
अथ मदः ।
मदिरादिकृतो मोहहर्षव्यतिकरो मदः

4.39

यथा---
अअभणै अ असंगअत्थं हसै अमंदं अ राअभरिअच्छी ।
पिअचिंतामैराए परवसा उवै सामंगी

4.40

(अअभणति चासंगतार्थं हसत्यमन्दं च रागभरिताक्षी ।
प्रियचिन्तामदिरया परवशा पश्यत श्यामाङ्गी ॥)
[इव्.3.6-श्रमः]
अथ श्रमः ।
श्रमः खेदो ऽध्वरत्यादेर्जातः स्वेदातिभूमिकृत् ।
यथा---
आअच्छै एव्व पिए कीस करेंती गआगआआसं ।
तम्मसि सेदजलेहिं सुंदरि लुलिअंगराआसि

4.41

(आगच्छत्येव प्रिये कस्मात्कुर्वती गतागतायासम् ।
ताम्यसि स्वेदजलैः सुन्दरि लुलिताङ्गरागासि ॥)
[इव्.3.7-आलस्यम्]
अथालस्यम् ।
मन्दोद्यमत्वमालस्यं कर्तव्येषु प्रकीर्त्यते

4.42

यथा---
आस्तां मृगाक्ष्या गृहकृत्यवार्ता स्वाङ्गोपचारेष्वपि यत्नमान्द्यम् ।
कर्तव्यमग्रे दयितस्य यत् स्यान्नूनं बलात्कारयति स्मरस्तत्

4.43

[इव्.3.8-दैन्यम्]
अथ दैन्यम् ।
सत्त्वत्यागादनौद्धत्यं दैन्यं कार्पण्यसंभवम् ।
यथा---
आणेदुं णरणाहं गदो क्खु सहीजणो विलंबेइ ।
मम्मह णमामि चंदं सिक्खअ चिरेह ईसि त्ति

4.44

(आनेतुं नरनाथं गतः खलु सखीजनो विलम्बते ।
मन्मथ नमामि चन्द्रं शिक्षय चिरय ईषदिति ॥)
[इव्.3.9-चिन्ता]
अथ चिन्ता ।
इष्टानभिगमात् ध्यानं चिन्ता शून्यत्वतापकृत्

4.45

यथा---
असण्णिहिअं वि गुरुअणं ण अ पेख्खै पुच्छिआ वि णआळवै ।
एसा वि मग्गै गैं हिअअस्स पिआणुबंधस्स

4.46

(असंनिहितमपि गुरुजनं न च प्रेक्षते पृष्टापि नालपति ।
एषापि मार्गते गतिं हृदयस्य प्रियानुबन्धस्य ॥)
[इव्.3.10-मोहः]
अथ मोहः ।
मोहस्तु मूर्च्छनं भीतिदुः खावेशानुचिन्तनैः ।
यथा---
कथमपि गमयित्वा वासरं दीर्घदीर्घं
विरचितनववेषा प्रेषयित्वाथ दूतीः ।
चिरयति हृदयेशे प्रांशुभिश्चन्द्रपादैर्
अभिहतसकलाङ्गी मूर्च्छिता कोमलाङ्गी

4.47

[इव्.3.11-स्मृतिः]
अथ स्मृतिः ।
पूर्वानुभूतविषयं ज्ञानं स्मृतिरुदाहृता

4.48

यथा---
प्रतापरुद्रस्य भुजे वसन्त्या क्षोण्यातपः कीदृशमार्जितं स्यात् ।
स्पृष्टं सकृद् येन मदीयमङ्गं प्राप्नोति विष्वक् सुखवज्रलेपम्

4.49

[इव्.4.12-धृतिः]
अथ धृतिः ।
धृतिश्चित्तस्य नैस्स्पृह्यं ज्ञानाभीष्टागमादिभिः ।
यथा---
वीररुद्रनृपतौ हृदय ! त्वद्वल्लभे त्रिभुवनैकधुरीणे ।
साधु साधु कृतकृत्यमसि त्वं मन्यसे जगदशेषमसारम्

4.50

[इव्.4.13-व्रीङा]
अथ व्रीडा ।
चेतः संकोचनं व्रीडानङ्गरागस्तवादिभिः

4.51

यथा---
तथा समालोकनकौतुकानां मनोरथैरन्ध्रपुराङ्गनानाम् ।
विलोकिते रुद्रनृपे भवन्ति पर्यस्तपक्ष्माणि विलोचनानि

4.52

[इव्.4.14-चपलता]
अथ चपलता ।
चापलं त्वनवस्थानं रागद्वेषादिसंभवम् ।
यथा---
दृष्ट्वा रुद्रनरेन्द्रं तरलतराक्षी विलासमृदुहासा ।
कलयति मौक्तिमहारं स्पृशति च कर्णोत्पलं बाला

4.53

[इव्.4.15-हर्षः]
अथ हर्षः ।
प्रसत्तिरुत्सवादिभ्यो हर्षः स्वेदाश्रुकम्पकृत्

4.54

यथा---
यत् पूर्वं सरसीषु पद्ममुकुलव्याजात् तपः संचितं
वक्षोजौ युवयोस्तदद्य फलितं जातौ कृतार्थौ युवाम् ।
दत्ता काकतिवल्लभेन भवतोरेषा स्ववक्षः स्थली-
कस्तूरीद्विगुणभवत्परिमला कल्हारमाला यतः

4.55

[इव्.4.16-आवेगः]
अथावेगः ।
इष्टानिष्टागमाञ्जात आवेगश्चित्तसंभ्रमः ।
यथा---
निस्साणध्वनिमाकलय्य सहसा हेलाविहारोद्यतं
द्रष्टुं काकतिवीररुद्रनृपतिं प्रत्यग्रकौतूहलाः ।
अर्धालम्बितमण्डनाः प्रतिपदं व्यत्यस्तभूषा जवाद्
आरोहन्ति सुवर्णसौधवलभीशृङ्गाणि पौरस्त्रियः

4.56

[इव्.4.17-जडता]
अथ जडता ।
जाड्यमप्रतिपत्तिः स्यादिष्टानिष्टागमोद्भवा

4.57

यथा---
समायाते नाथे प्रमहसि गृहान् रुद्रनृपतौ
वपुः सौन्दर्यश्रीविजितमदनोदारयशसि ।
वधूरन्तस्तोषव्यतिकरवशान्नोपचरितुं
पुरस्तादालीनां न चलति तथा नो विरमति

4.58

[इव्.4.18-गर्वः]
अथ गर्वः ।
अन्यधिक्करणादात्मोत्कर्षो गर्वो बलादिजः ।
यथा---
को वा शस्त्रग्रहणसमयो मादृशामीदृशानां
कीदृग्वैरं प्रतिधरणिभृत्खेटकीटेष्वमीषु ।
इत्यावेशप्रतिभयभुजाटोपदुर्वारगर्वाः
संक्रीडन्ते रणभुवि भटाः काकतीन्द्रस्य जेतुः

4.59

[इव्.4.19.विषादः]
अथ विषादः ।
विषादश्चेतसो भङ्ग उपायापायचिन्तनैः

4.60

यथा---
पेसेमि मण त्ति मुहा तं मं मोक्खूण वल्लहे लग्गं ।
मं उज्झिअ णो गच्छै मअणो सहि किं णु कादव्वं

4.61

(प्रेषयामि मन इति मुधा तन्मां मुक्त्वा वल्लभे लग्नम् ।
मामुज्झित्वा नो गच्छति मदनः सखि किं नु कर्तव्यम् ॥)
[इव्.4.20-औत्सुक्यम्]
अथौत्सुक्यम् ।
कालाक्षमत्वमौत्सुक्यं मनस्तापत्वरादिकृत् ।
यथा---
अअंधवुरभामिणिजणो अंगाइ पसाहिऊण तुवरंतो ।
रुद्दणरेंदागमणे विलंबिअं सहै किच्छेण

4.62

(अअन्ध्रपुरभामिनीजनो ऽङ्गानि प्रसाध्य त्वरमाणः ।
रुद्रनरेन्द्रागमने विलम्बितं सहते कृच्छ्रेण ॥)
[इव्.4.21-निद्रा]
अथ निद्रा ।
निद्रा चित्तनिमीलनम् ।
यथा---
सिविणे दिट्ठं दैअं वहुआ आलिङ्गिदुं किदोज्जोआ ।
उवह दरमीलिअच्छी गअणम्मि करे पसारेइ

4.63

(।स्वप्ने दृष्टं दयितं वधूरालिङ्गितुं कृतोद्योगा ।
पश्यत दरमीलिताक्षी गगने करौ प्रसारयति ॥)
[इव्.4.22-अपस्मारः]
अथापस्मारः ।
आवेशो मोहदुः खाद्यैरपस्मारो ऽङ्गतापकृत्

4.64

यथा---
दृष्ट्वा स्वप्ने कुपितवदनं काकतीयक्षितीन्द्रं
हा हा रक्षेत्यसकलगिरः संभ्रमोत्थानभाजः ।
धावन्त्यन्तर्वर्णभुवि लुठन्त्याह्वयन्त्यात्मबन्धून्
आराद्भूतानपि रिपुगणा व्यस्तनामग्रहेण

4.65

[इव्.4.23-सामृतिः]
अथ सुप्तिः ।
सुप्तिर्निद्रासमुद्रेकः ।
यथा---
विश्वैकरक्षाजुषि काकतीन्द्रे निश्चिन्ततां प्राप्तवतो मुरारेः ।
तत्कीर्त्तिचन्द्रातपवर्धितो ऽपि दुग्धाम्बुधिर्नैव भिनत्ति निद्राम्

4.66

[इव्.4.24-विबोधः]
अथ विबोधः ।
विबोधश्चेतनावाप्तिर्जृम्भाक्षिपरिमार्गकृत् ।
यथा---
प्रतापरुद्रे नृपमौलिरत्ने विश्वंभरां रक्षति शिक्षितारौ ।
विजृम्भमाणाः परितः प्रजानां भाग्यश्रियस्तत्क्षणमुन्मिषन्ति

4.67

[इव्.इव्.4.25-अनर्षः]
अथामर्षः ।
अमर्षः सापराधेषु चेतः प्रज्वलनं मतम्

4.68

यथा---
अरे ! भूपाश्चापान् नमयत शिरांस्युन्नमयत
प्रवृत्ताः स्वस्त्रीणामहमहमिका वीरवरणे ।
त्वरन्ते नः खङ्गाः प्रविदलनकेल्यामिति भटा
रणाग्रे गर्जन्ति प्रकटितरुषो रुद्रनृपतेः

4.69

[इव्.4.26-अविहित्या]
अथावहित्था ।
हर्षाद्याकारसंगुप्तिरवहित्थेति कथ्यते ।
यथा---
गोट्ठीए महिलाणं सोऊण पआवरुद्दचरिआइ ।
आलिहै ओणअमुही मुद्धा चलणेण महिपट्ठं

4.70

(गोष्ठ्यां महिलानां श्रुत्वा प्रतापरुद्रचरितानि ।
आलिखत्यवनतमुखी मुग्धा चरणेन महीपृष्टम् ॥)
[इव्.4.27-उग्रता]
अथोग्रता ।
दृष्टे ऽपराधे चण्डत्वमुग्रता तर्जनादिकृत्

4.71

यथा---
प्रियमानीय मानिन्या विरहार्तिर्निवार्यताम् ।
यदेतस्याः कटाक्षोल्कापातैरिन्दुर्मषीकृतः

4.72

[इव्.4.28-मतिः]
अथ मतिः ।
तत्त्वमार्गानुसंधानादर्थनिर्धारणं मतिः ।
यथा---
को संसओ महिअलं चंदो एव्व वीररुद्दणरणाहो ।
जस्स (खु) करप्पस्सादो अंगाइ मिअंकरअणंति

4.73

(कः संशयो महीतले चन्द्र एव वीररुद्रनरनाथः ।
यस्य (खलु) करस्पर्शादङ्गानि मृगाङ्करत्नन्ति ॥)
[इव्.4.29-व्याधिः]
अथ व्याधिः ।
मनस्तापाद्यभिभवाज्ज्वरादिर्व्याधिरिष्यते

4.74

यथा---
प्रतापरुद्रस्य दिशां जिगीषोः प्रत्यर्थिनारीजनदेहजन्मा ।
स्मरज्वरोष्मा हिमवत्प्रदेशान् स्मर्तव्यनीहारकथान् करोति

4.75

[इव्.4.30-उन्मादः]
अथोन्मादः ।
उन्मादस्तुल्यवर्तित्वं चेतनाचेतनेष्वपि ।
यथा---
प्रतापरुद्रस्य जयप्रयाणभेरीध्वनौ मूर्च्छति दिङ्मुखेषु ।
त्रासाकुला भ्रान्तिमुपेत्य वृक्षान् पृच्छन्ति मार्गं रिपुभूमिपालाः

4.76

[इव्.4.31-मरणम्]
अथ मरणम् ।
मरणं मरणार्थस्तु प्रयत्नः परिकीर्तितः

4.77

यथा--
पिअविरहं असहंती वहुआ णिअजीविअं उवेक्खंती ।
सेव्वै जोह्णं दख्खिणपवणस्स तणुं समप्पेइ

4.78

(।प्रियविरहमसहमाना वधूर्निजजीवितमुपेक्षमाणा ।
सेवते ज्योत्स्नां दक्षिणपवनस्य तनुं समर्पयति ॥)
साक्षान्मरणस्यामङ्गलत्वान्नोदाहरणत्वमुचितम् ।
[इव्.4.32-त्रासः]
अथ त्रासः ।
आकस्मिकभयाच्चित्तक्षोभस्त्रासः प्रकीर्त्यते ।
यथा---
अपणअकुविआ चिरेण वि वहुआ सोऊण घणघणत्थणिअं ।
दैअं सरहसवलिआ आलिङ्गै वेवमाणंगी

4.79

(अप्रणयकुपिता चिरेणापि वधूः श्रुत्वा घनघनस्तनितम् ।
दयितं सरभसवलिता आलिङ्गति वेपमानाङ्गी ॥)
[इव्.4.33-वितर्कः]
अथ वितर्कः ।
संदेहात् कल्पनाऽनन्त्यं वितर्कः परिकीर्तितः

4.80

यथा---
गुणैस्तत्रासक्तं मम हृदयमन्यन्न गणितं
सखीभिर्नालोचि क्षितिपतिरसौ दुर्लभ इति ।
उपायः को वा स्यात् तदभिगमने मुह्यति मनः
कियान् को ऽयं कीदृक् कियदवधिरन्तर्व्यतिकरः

4.81

तत्र सात्त्विकानां व्यभिचारिणां चानेकरससाधारणत्वान्न विशेषमपेक्ष्योदाहरणं कृतम् । तथा हि शृह्गारे सर्वेषामनुप्रवेशः संभवति । हास्ये ग्लानिश्रमचपलत्वहर्षावहित्थानां संभवः । करुणे मदधृतिव्रीडाहर्षगर्वौत्सुक्योग्रताभिर्विनान्ये संभवन्ति । रौद्रे ग्लानिशङ्काऽलस्यदैन्यचिन्ताव्रीडावेगजडताविषादसुप्तिनिद्रापस्मारावहित्थाव्याध्युन्मादशमत्रासाः न संभवन्ति । वीरे रौद्रान्निर्वेदो ऽधिकः । भयानके ऽसूयामदधृतिव्रीडाहर्षगर्वनिद्रासुप्त्यमर्षावहित्थोग्रतामतिभिर्विनान्ये संभवन्ति । बीभत्से ऽद्भुते च चिन्तात्रासादयो यथासंभवमूह्याः । शान्ते निर्वेदधृती संभवतः ।
शृङ्गारचेष्टाः
इव्.5अथ शृङ्गारचेष्टा निरूप्यन्ते ।
भावो हावश्च हेला च माधुर्यं धैर्यमित्यपि ।
लीला विलासो विच्छित्तिर्विभ्रमः किलकिञ्चितम्

4.82

मोट्टायितं कुट्टमितं बिब्बोको ललितं तथा ।
कुतूहलं च चकितं विहृतं हास इत्यपि

4.83

एवं शृङ्गारचेष्टाः स्युरष्टादशविधा मताः ।
तत्रासां स्वरूपमुदाहरणं च ।
[इव्.5.1-भावःग]
भावः ।
रसाभिज्ञानयोग्यत्वं भाव इत्यभिधीयते

4.84

यथा---
रुद्दणरेंदस्य गुणे गाऐ बालत्तणम्मि विस्सद्धं ।
लज्जै दरपुलैओ जुवैजणो जोव्वणे गाउं

4.85

(।रुद्रनरेन्द्रस्य गुणान् गायति बालत्वे विस्रब्धम् ।
लज्जते दरपुलकितो युवतिजनो यौवने गातुम् ॥)
[इव्.5.2-हावः]
अथ हावः ।
ईषद्दृष्टविकारः स्याद्भावो हावः प्रकीर्त्यते ।
यथा---
अत्रैवेषत्पुलकित इति ।
[इव्.5.3-हेला]
अथ हेला ।
सुव्यक्तविक्रियो भावो हेलेति प्रतिपाद्यते

4.86

यथा---
मा होदु कस्स वि फ्फुडं इअ मुद्धे कुणसि वल्लहं हिअए ।
घोसिज्जै तुह भाओ सव्वंगीणेहि पुलएहिं

4.87

(मा भवतु कस्यापि स्फुटमिति मुग्धे करोषि वल्लभं हृदये ।
घोष्यते तव भावः सर्वाङ्गीणैः पुलकैः ॥)
[इव्.5.4-माधुर्यम्]
अथ माधुर्यम् ।
अभूषणे ऽपि रम्यत्वं माधुर्यमिति कथ्यते ।
यथा---
जितत्रैलोक्यलावण्या प्रकृत्या हरिणेक्षणा ।
किं तु भूषयितुं धत्ते भूषणानीति मे मतिः

4.88

[इव्.5.5-धैर्यम्]
अथ धैर्यम् ।
शीलाद्यलङ्घनं नाम धैर्यमित्यभिधीयते

4.89

यथा---
अकुलवहुआणं ण जुज्जै मज्जाआलंघणं खु विसमे वि ।
रुद्दणरिंदगुणा उण हिअअहरा किं णु कादव्वं

4.90

(अकुलवधूनां न युज्यते मर्यादालङ्घनं खलु विषमे ऽपि ।
रुद्रनरेन्द्रगुणाः पुनर्हृदयहराः किं नु कर्तव्यम् ॥)
[इव्.5.6-लीला]
अथ लीला ।
प्रियानुकरणं लीला वाग्भिर्गत्याथ चेष्टितैः ।
यथा---
अअपेछ्छह सहिओ एसा लच्छी रण्णो पआवरुद्दस्स ।
चरिआइ अणुकुणंती रण्णीसु पैव्वआ जाआ

4.91

(अअप्रेक्षध्वं सख्य एषा लक्ष्मी राज्ञः प्रतापरुद्रस्य ।
चरितान्यनुकुर्वती राज्ञीषु पतिव्रता जाता ॥)
[इव्.5.7-विलासः]
अथ विलासः ।
तात्कालिको विकारः स्याद्विलासो दयितेक्षणे

4.92

यथा---
सहेलं पश्यन्त्याः प्रकृतिसुभगं रुद्रनृपतिं
तदात्वप्रत्युद्यद्विविधललिताटोपमधुरम् ।
रसप्रादुर्भावाद् युगपदुदयत्सात्त्विकमहो
मृगाक्ष्यास्तारुण्ये कुसुमशरशिल्पं विजयते

4.93

[इव्.5.8-विच्छित्तिः]
अथ विच्छित्तिः ।
विच्छित्तिरतिरम्यत्वं स्वल्पैरपि विभूषणैः ।
यथा---
कस्स किए केण किअं काऐपुरैत्थिआण सुंदेरं ।
साहारणभूसाए जं सहि तेऌळोक्करमणिज्जं

4.94

(कस्य कृते केन कृतं काकतिपुरस्त्रीणां सौन्दर्यम् ।
साधारणभूषया यत्सखि त्रैलोक्यरमणीयम् ॥)
[इव्.5.9-विभ्रमः]
अथ विभ्रमः ।
विभ्रमस्त्वरया काले भूषास्थानविपर्ययः

4.95

यथा---
असोऊण सहिमुहादो दिअहो विरतो त्ति संभमेण वहू ।
हत्थेसु णोउराइं चरणेसु अ कुणै वलआइं

4.96

(अश्रुत्वा सखीमुखाद्दिवसो विरत इति संभ्रमेण वधूः ।
हस्तयोर्नूपुरे चरणयोश्च करोति वलयानि ॥)
[इव्.5.10-किलकिञचितम्]
अथ किलकिञ्चितम् ।
रोषाश्रुहर्षभीत्यादेः संकरः किलकिञ्चितम् ।
यथा---
गेह्णै काऐणाहे विअणंमि पडंचलं मिअछ्छीए ।
वेवै तणू वि णच्चै भिउडी अवि गग्गआ वाआ

4.97

(गृह्णति काकतिनाथे विजने पटाञ्चलं मृगाक्ष्याः ।
वेपते तनुरपि नृत्यति भ्रुकुट्यपि गद्गदा वाचः ॥)
[इव्.5.11-मोट्टायितम्]
अथ मोट्टायितम् ।
मोट्टायितं स्यादिष्टस्य कथादौ भावसूचनम्

4.98

यथा---
अमहुराइ रुद्दणरवैचरिआइ वहूए णं सुणंतीए ।
तणुगोवणएण पअडो जह भाओ ण तह पुलएहिं

4.99

(अमधुराणि रुद्रनरपतिचरितानि वध्वा ननु शृण्वत्याः ।
तनुगोपनेन प्रकटो यथा भावो न तथा पुलकैः ॥)
[इव्.5.12-कुटट्टमितम्]
अथ कुट्टमितम् ।
संमर्दे ऽपि सुखाधिक्यं रतौ कुट्टमितं मतम् ।
यथा---
निर्मर्यादमनोभवोत्सवकथाविस्रम्भकर्णेजपै-
रङ्गेर्विस्मितमानसां प्रियसखीमालोक्य जातत्रपा ।
वैयात्यं निजमात्मवल्लभकृतां रागान्धतां जानती
सद्यो नम्रमुखेन्दुरिन्दुवदना क्षोणीं लिखन्ती स्थिता

4.100

[इव्.5.13-बिब्बोकः]
अथ बिब्बोकः ।
मनाक् प्रियकथालापे बिब्बोको ऽनादरक्रिया

4.101

यथा---
लक्ष्मीः सद्मनि निर्भरं विहरतां, क्षोणी भुजालम्बन-
क्रीडां नैव जहातु, किं च सततं वाणी मुखे तिष्ठतु ।
ज्ञातं रुद्रनरेश्वरस्य बहुभिर्विज्ञातपूर्वैः प्रिय-
व्याहारैः कृतमेव दूति ! मदनश्चापाय संनह्यतु

4.102

[इव्.5.14-ललितम्]
अथ ललितम् ।
सुकुमारो ऽङ्गविन्यासो ललितं परिकीर्त्यते ।
यथा---
पदन्यासक्रीडारणितमणिमञ्जीररशनं
सहेलं व्यावल्गत्करवलयनिक्वाणसुभगम् ।
स्मितज्योत्स्नावीचीतरलवचनं रुद्रनृपतेः
पुरन्ध्रीणामासीदनुरहससेवाविलसितम्

4.103

[इव्.5.15-कुतूहलम्]
अथ कुतूहलम् ।
कुतूहलं रम्यदृष्टौ चापलं परिकीर्त्यते

4.104

यथा---
वीररुद्रमधिरूढसिन्धुरं द्रष्टुमन्ध्रनगरीपुरन्ध्रयः ।
कुर्वते रचितसंक्रमत्वरास्तुङ्गसद्मशिखराधिरोहणम्

4.105

[इव्.5.16-चकितम्]
अथ चकितम् ।
चकितं भयसंभ्रमः ।
यथा---
अविज्ञातायातं स्वमकथितमाल्यापि हसितुं
हठादुत्पश्यन्त्याश्चकितचकितोदञ्चितदृशः ।
विलासानुद्वेलानुदितमदनान् वीक्ष्य सुतनोस्
तथैव प्रत्येतुं पुनरवनिपालः स्पृहयति

4.106

[इव्.5.17-विहृतम्]
अथ विहृतम् ।
विहृतं प्राप्तकालस्य वाक्यस्याकथनं ह्रिया ।
यथा---
प्रतापरुद्रस्य भुजान्तरस्थां कल्हारमालाममुना स्पृशेति ।
स्तनद्वये पत्रलिपिं लिखन्तीं सखीं वधूः पश्यति साभिमानम्

4.107

[इव्.5.18-हसितम्]
अथ हसितम् ।
आकस्मिकं तु हसितं यौवनादिविकारजम्

4.108

जह जह हसै मिअच्छी जोव्वणलच्छीए सिख्खिआ महुरं ।
तह तह कुसुमेसुसरा विअसंति पिअस्स आसा अ

4.109

(यथा यथा हसति मृगाक्षी यौवनलक्ष्म्या शिक्षिता मधुरम् ।
तथा तथा कुसुमेषुशरा विकसन्ति प्रियस्य आशा च ॥)
मन्मथावस्थाः
इव्.6.॥ अथ मन्मथावस्था द्वादश निरूप्यन्ते ॥
अथ शृङ्गारस्याङ्कुरितत्वपल्लवितत्वकुसुमितत्वफलीतत्वहेतवो द्वादशावस्था निरूप्यन् ते ।
चक्षुः प्रीतिर्मनः सङ्गः संकल्पो ऽथ प्रलापिता ।
जागरः कार्श्यमरतिर्लज्जात्यागो ऽथ संज्वरः

4.110

उन्मादो मूर्च्छनं चैव मरणं चरमं विदुः ।
अवस्था द्वादश मताः कामशास्त्रानुसारतः

4.111

केचित्तु दशावस्था इति कथयन्ति ।
आसां स्वरूपमुदाहरणं च ।
[इव्.6.1-चक्षुः प्रीतिः]
आदराद्दर्शनं चक्षुः प्रीतिरित्यभिधीयते ।
यथा---
सहि एसो रुद्दणिओ णअणाण अतक्किओस्सओ जाओ ।
मअणो व मुत्तिमंतो चंदो विअ मुक्कलञ्छणो पुण्णो

4.112

(सखि ! एष रुद्रनृपो नयनयोरतर्कितोत्सवो जातः ।
मदन इव मूर्तिमान् चन्द्र इव मुक्तलाञ्छनः पूर्णः ॥)
[इव्.6.2-मनः सङः]
अथ मनः सङ्गः ।
मनः सङ्गः प्रियतमे नित्यं चित्तस्य विश्रमः

4.113

यथा---
सह मह मणो विलग्गै रुद्दणरेन्दम्मि कीस कुविआओ ।
तेणाहं वि विमुक्का सहिओ तुह्मेसु का वत्ता

4.114

(सदा मम मनो विलगति रुद्रनरेन्द्रे कस्मात् कुपिताः ।
तेनाहमपि विमुक्ता सख्यो युष्मासु का वार्ता ॥)
[इव्.6.3-संकल्पः]
अथ संकल्पः ।
संकल्पो नाथविषयो मनोरथ उदाहृतः ।
यथा---
अदरहसिअगब्भिणाइं सिणेहसिणिद्धाइ राअभरिआइ ।
रुद्दणिवविलोइआइं काहे णु मम्मि णिवदंति

4.115

(अदरहसितगर्भितानि स्नेहस्निग्धानि रागभरितानि ।
रुद्रनृपविलोकितानि कदा नु मयि निपतन्ति ॥)
[इव्.6.4-प्रलापः]
अथ प्रलापः ।
प्रालपः प्रियसंश्लिष्टगुणालाप उदाहृतः

4.116

यथा---
तह णिउणो तह महुरो तह सुहओ तह अ सोम्मसब्भाओ ।
एक्को रुद्दणिवो विअ इदि गोट्ठी पोढमहिलाणं

4.117

(तथा निपुणस्तथा मधुरस्तथा सुभगस्तथा च सौम्यस्वभावः ।
एको रुद्रनृप एवेति गोष्ठी प्रौढमहिलानाम् ॥)
[इव्.6.5-जागरः]
अथ जागरः ।
जागरस्तु विनिद्रत्वम् ।
यथा---
अगमिअं कह कह वि दिणं चंदादवदूसहा णिसा दीहा ।
मअणो वि पुंखिअसरो णिद्दा वि णिवो वि णोवेइ

4.118

(अगमितं कथं कथमपि दिनं चन्द्रातपदुः सहा निशा दीर्घा ।
मदनो ऽपि पुङ्खितशरो निद्रापि नृपो ऽपि नोपैति ॥)
[इव्.6.6-कार्श्यम्]
अथ कार्श्यम् ।
कार्श्यमङ्गस्य तानवम् ।
यथा---
चन्द्रास्ये ! कथमङ्गुलीयकमिदं केयूरितं ते सखि !
प्रेम्णां प्रेयसि वैभवैः स खलु को भूमेः सपत्नी यतः ।
ज्ञातं मानिनि ! काकतीयनृपतौ सक्ताऽलि ! सत्यं शुभे !
श्यामाङ्गीं स खलु स्थिरां रमयते त्वां तां च शैलस्तनीम्

4.119

[इव्.6.7-अरतिः]
अथारतिः ।
अन्यत्राप्रीतिररतिः ।
यथा---
दूसेइ चंदसिट्टिं णिंदै मलआणिलस्स माहप्पं ।
ऊसवपरंमुही सा सुहअ ! तुमं किं णु मंतेसि

4.120

(दूषयति चन्द्रसृष्टिं निन्दति मलयानिलस्य माहात्म्यम् ।
उत्सवपराङ्मुखी सा सुभग ! त्वं किं नु मन्त्रयसे ।)
[इव्.6.8-लज्जात्यागः]
अथ लज्जात्यागः ।
यथा--
अलंघिअमहिलासमअं तह भणिअं मअणदुव्विणीदाए ।
जह सोऊण गुरुअणो ओसरै विलज्जिओ दूरं

4.121

(अलङ्घितमहिलासमयं तथा भणितं मदनदुर्विनीतया ।
यथा श्रुत्वा गुरुजनो ऽपसरति विलज्जितो दूरम् ॥)
[इव्.6.9-ज्वरः]
अथ ज्वरः ।
तापाधिक्यं ज्वरो मतः

4.122

यथा---
अमोहसिसिरोवआरा वहुआ विरहज्जरेण गुरुएण ।
दाणिं रुद्दणरेसर ! कांखै तुह दंसणामिअअं

4.123

(अमोघशिशिरोपचारा वधूर्विरहज्वरेण गुरुणा ।
इदानीं रुद्रनरेश्वर ! काङ्भति तव दर्शनामृतम् ॥)
उन्मादमरणयोः प्रागेवोदाहरणं दर्शितम् ।
[इव्.6.10-मूर्च्छा]
अथ मूर्च्छा ।
मूर्च्छा त्वभ्यन्तरे ऽवृत्तिर्बाह्येन्द्रियनिमीलनात् ।
यथा---
अअचिंतंतीए णरेन्दं दट्ठुं हिअअठ्ठिदं मिअच्छीए ।
करणाइ बाहिराइं विसंति अब्भंतरं वि सुण्णाए

4.124

(अअचिन्तयन्त्या नरेन्द्रं द्रष्टुं हृदयस्थितं मृगाक्ष्याः ।
करणानि बाह्यानि विशन्ति अभ्यन्तरमपि शून्यायाः ॥)
अथ शृङ्गारः । स द्विविधः । संभोगो विप्रलम्भश्चेति । "संयुक्तयोस्तु संभोगो विप्रलम्भो वियुक्तयोः ऽ; इति ऽशृङ्गारतिलकेऽ; । संभोगस्य परस्परावलोकनसंभाषणाऽलिङ्गनचुम्बनाद्यनेकव्यापारमयत्वेनानन्त्यादेकविधत्वेन गणना कृता ।
यथा--
रहः प्रत्यासन्ने हृदयदयिते रुद्रनृपतौ
निवृत्ता मानाज्ञा विरलमपि लज्जाविलसितम् ।
किमन्यत् ते गोप्यं बहिरबहिरानन्दमसृणः
स्मरावेशः को ऽपि प्रियसखि ! नृपेणैकयति माम्

4.125

विप्रलम्भः पुनरभिलाषेर्ष्याविरहप्रवासहेतुकत्वेन चतुर्विधः ।
[इव्.6.11-संभोगशृङ्गारः]
अभिलाषो नाम संभोगात् प्रागनुरागः ।
यथा---
अन्योन्यभाषणमनङ्गविलासगोष्ठी
शय्या च सार्धमपदानि मनोरथानाम् ।
प्रेमानुविद्धमुदयद्बहुलानुरागं
लभ्यते रुद्रनृपतेरवलोकितं वा

4.126

[इव्.6.12-ईर्ष्याशृङ्गारः]
ईर्ष्या नाम नायकस्यान्यासक्तभावात् चित्तविक्रिया ।
[इव्.6.13-विप्रलम्भशृङ्गारः]
तया विप्रलम्भो यथा---
लक्ष्मीरस्य विलोचनाब्जवसतिः सोर्ष्या त्वदालोकने
वक्त्रस्था च सस्स्वती न सहते साकं त्वया भाषणम् ।
लीलाकर्षणविघ्नकृत् त्वयि मही बाहुस्थिता काकति-
क्षोणीन्द्रे न हि कैतवानि सुभगे मानेन किं ताम्यसि

4.127

[इव्.6.14-विरहविप्रलम्भशृङ्गारः]
विरहो नाम लब्धसंयोगयोर्नायकयोः केनचित् कारणेन पुनः समागमकालातिक्षेपः ।
यथा---
अङ्गेषु जीर्णेषु विभूषणानां व्यत्यासमार्गो ऽपि मुहूर्तशोभी ।
सख्यस्तदास्तां परिकर्मरीतिरानीयतां रुद्रनृपः किमन्यत्

4.128

[इव्.6.15-प्रवासविप्रलम्भः]
यूनोर्देशान्तरवृत्तित्वं प्रवासः ।
तेन विप्रलम्भो यथा---
सेव्यो ऽस्तु रुद्रनृपतिर्निखिलैर्नृपालै-
रभ्युत्सवेषु सुलभा न हि वल्लभा नः ।
इत्थं कलिङ्गसुदृशां विरहार्तितापा-
दङ्गानि यान्ति तनुतां दिवसा युगन्ति

4.129

[इव्.6.16-रसाभासः]
रसाभासो यथा---
प्रासादगर्भवलभीषु कपोतपाल्यां
पारावतीं रमणचुम्बितचञ्चुकोटिम् ।
आविर्भवत्सुरतकूजितरक्तकण्ठी-
मालोक्य काकतिविभुः स्मितमातनोति

4.130

[इव्.6.17-भावोदयः]
भावोदयो यथा---
मुग्धे ! कस्तव वर्तते हृदि मनोजन्मैव नान्यः शपे
सख्येतस्य किमत्र कार्यमपरं किं जन्मसद्मादरात् ।
को ऽन्यस्तत्प्रतिबिम्ब एव निपुणे ! जानासि कामाधिकः
प्रेयान् रुद्रनृपस्तवेति कथिता नम्राननाभूद् वधूः

4.131

अत्र लज्जाया उदयः ।
[इव्.6.18-भावशमः]
भावशमो यथा---
लक्ष्मीस्त्वं पुरुषोत्तमस्तव पतिः श्रीवीररुद्रो नृपः
सृष्ट्यामम्बुजविष्टरस्य सदृशोर्योगश्चि रात् संभृतः ।
तस्मात् कृत्रिममप्यसाम्प्रतिमिदं वां वैमनस्यं मना-
गित्यालिं प्रणतां विलोक्य विकसद्वक्त्राम्बुजा मानिनी

4.132

अत्र कोपस्य प्रशमः ।
[इव्.6.19-भावसन्धिः]
भावसन्धिर्यथा---
प्रतापरुद्रस्य दिगन्तजैत्रयात्राप्रभूतैः पटहप्रणादैः ।
प्रियानुलापैश्च तथा भटानां रौमाञ्चवर्मावृतमङ्गमासीत्

4.133

अत्र वीरशृङ्गारकृतयोर्हर्षयोः सन्धिः ।
[इव्.6.20-भावशबलता]
भावशबलता यथा---
निन्दन्त्वद्य कुलस्त्रियः प्रियतमो लभ्यः सुखं केन वा
भाग्येनानुमतं न किं गुरुजनैः का वा सखी प्रेष्यते ।
किं लोकस्य भवेत् प्रसिद्धमचिरात् स्वच्छन्दमङ्कं कदा-
रोक्ष्यामि स्थिरता कदा हृदि भवेद् यातव्य एव प्रियः

4.134

अत्रौत्सुक्यादीनां शबलता ।
अथ रससंकरस्योदाहरणम् ।
[इव्.6.21-श्रुङ्गारकरुणयोः सङ्करः]
तत्र शृङ्गारकरुणयोः संकरो यथा---
आसन्ने ऽपि महोत्सवे कथमितस्त्यक्त्वा प्रवासं व्रजे-
र्धिगू धिक् साहसमावयोर्विघटनं को वा विधिः काङ्क्षति ।
इत्थं स्वप्ननिवारितप्रियतमप्रस्थानबुद्धिस्ततो
बुद्ध्वा मूर्च्छति काकतीयनृपते ! त्वद्वैरिनारीजनः

4.135

अथ रौद्रबीभत्सयोः संकरो यथा---
[इव्.6.22-रौद्रबीभत्सयोः सङ्करः]
पीत्वा मांसोपदंशं द्विरदगलगलद्रक्तमैरेयधारां
मत्तो मस्तिष्कलग्नैर्दलितनृपवपुः कीकसैः स्पष्टदंष्ट्रः ।
बिभ्रद् रौद्रान्त्रमालां जनितजनभयो भैरवाकारघोरः
संग्रामोर्व्याः कलिङ्गैर्बलिविधिमकरोद् वीररुद्रस्य खड्गः

4.136

एवमन्यदपि यथासंभवमुदाहार्यम् ।
अत्र रसो नायकाश्रय एव । यदिपरं निपुणनटचेष्टया तथाविधकाव्यश्रवणबलेन च सामाजिकैः साक्षाद् भाव्यते, तदा परगतस्यापि रसस्य सम्यग्भावनया परत्र निरतिशयानन्दजननमविरुद्धम् । अथवा मालत्यादिशब्देभ्यो योषिन्मात्रप्रतीतौ (रावणादिशब्देभ्यः शत्रुमात्रप्रतीतौ च) स्मृत्यारूढेन तत्तद्योषिद्विशेषेण अनुकार्येण सामाजिकाश्रयत्वमपि न विरुद्धम् । नटस्यानुकरणमात्रपरतया नैव रसाश्रययोग्यता । तस्य भावुकत्वाभ्युपगमे ऽपि सामाजिकत्वमेव । अनुभावादीनां प्रकाशनं तु शिक्षाभ्यासपाटवेनैव घटते । रसादीनां परस्परविरोधे ऽपि कविप्रौढोक्तिसमाश्रयणेनैकत्र समावेशो न विरुद्धः । विरोधक्रमः ऽशृङ्गारतिलकेऽ; कथितः---
"शृङ्गारबीभत्सरसौ तथा वीरभयानकौ ।
रौद्राद्भुतौ तथा हास्यकरुणौ वैरिणौ मिथः" ॥
इति।
रसाद् रसोत्पत्तिरपि मता । तथा चोक्तं ऽशृङ्गारतिलकेऽ---
"हास्यो भवति शृङ्गारात् करुणो रौद्रकर्मणः ।
अद्भुतश्च तथा वीराद् बीभत्साच्च भयानकः" ॥
व्यभिचारिभावानां तत्तद्रसानुगुण्यमेवं प्रतिपादितं ऽशृङ्गारतिलकेऽ; । तथा हि---
"शङ्कासूया भयं ग्लानिर्व्याधिश्चिन्ता स्मृतिर्धृतिः ।
औत्सुक्यविस्मयावेगा व्रीडोन्मादौ मदस्तथा ॥
विषादो जडता निद्रावहित्थं चापलं मृतिः ।
इति भावाः प्रयोक्तव्याः शृङ्गारे व्यभिचारिणः ॥
श्रमश्चपलता निद्रा स्पप्नो ग्लानिस्तथैव च ।
शङ्कासूयावहित्थं च हास्ये भावा भवन्त्यमी ॥
संत्रासो मरणं दैन्यं ग्लानिश्चैव भयानके ।
अपस्मारो विषादश्च भयं वेगो मृतिर्मदः ॥
उन्मादश्चेति विज्ञेया भावा बीभत्ससंभवाः ।
आवेगो जडता मोहो हर्षणं विस्मयः स्मृतिः ॥
इति भावा निबद्धव्या रसज्ञैरद्भुते रसे ।
दैन्यं चिन्ता तथा ग्लानिर्निर्वेदो जडता स्मृतिः ॥
व्याधिश्च करुणे वाच्या भावा भावविशारदैः ।
हर्षो ऽसूया तथा गर्व उत्साहो मद एव च ॥
चापल्यमुग्रता चैव रौद्रे भावाः प्रकीर्तिताः ।
अमर्षः प्रतिबोधश्च वितर्को ऽथ मतिर्धृतिः ॥
क्रोधो ऽसूयाथ संमोह आवेगश्चोपहर्षणम् ।
गर्वो मदस्तथोग्रत्वं भावा वीरे भवन्त्यमी" ॥
इति।
"रसः सर्वो ऽपि संपूर्णस्तिरोधत्ते रसान्तरम् ॥ः
इति भारतीयोक्तप्रक्रीयया यद्यप्येक एव रसः, तथापि महाकविप्रसिद्ध्या रससङकरः स्वीक्रियते ।
तत्र रसादेरप्राधान्ये रसवदाद्यलंकारा भवन्ति । अन्याङ्गत्वेन रसनिबन्धने रसवदलंकारः । भावनिबन्धने प्रेयो ऽलंकारः । रसाभासभावाभासनिबन्धने ऊर्जस्विदलंकारः । भावशान्तिनिबन्धने समाहितालंकारः । तथा भावोदयादयो ऽपि ।
एतद् अलङ्कारसर्वस्वे प्रपञ्चेनोक्तम्---
"रसभावतदाभासतत्प्रशमननिबन्धने रसवत्प्रेयऊर्जस्विसमाहितानि । भावोदयभावसन्धिभावशबलताश्च पृथगलंकाराः ऽइति । एतेषामुदाहरणमलंकरणे भविष्यति ।
गुणालंकारश्रीकृतपरिकरो भावविभवः
स्फुरत्प्रादुर्भावः क्रमगलितवेद्यान्तरमतिः ।
सुखं वा दुः खं वा निबिडयतु यूनोः सहृदये
त्वमन्दानन्दात्मा परिणमति पूर्णो रसभरः

4.137

रसो वाक्यार्थः सन् विलसति पदार्थाः पुनरमी
विभावाद्या यस्मिन् किल दधति विश्रान्तिमुचिताम् ।
अतो भावा एव क्रमसमुदितान्योन्यविभवा
रसीभावं बिभ्रत्यथ च पटतां तन्तव इव

4.138

भावे स्थायिनि वर्धमानविभवे रत्यादिके सिन्धुवत्
कल्लोला इव संभवन्ति विलयं चायान्ति भावा मुहुः ।
निर्वेदाद्युपभोगभावितनिजास्वादातिरेको रसो
लोके स्यादनुकार्य एव कथितो नाट्ये तु सामाजिके

मूल पाठ: Pratāparudrīya or Pratāparudrayaśobhūṣaṇa with Kumārasvāmin's commentary Ratnāpaṇa · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc