प्रतापरुद्रीय · अध्याय 3.5
एतत् प्रकृतानुगुणप्रशंसनाद् विचलनम् ।
पुरोधसः---राजपुत्र ! सज्जीकृतेयं महाभिषेकसामग्री ।
काकतीयनरेश्वरक्रमाधिष्ठिंत भद्रासनं भवदधिरोहणं प्रतीक्षते ।
तत् परिपालय स्वयंभूदेवानुगृहीतां महाराजस्याज्ञाम् ।
एतत् कार्यसंग्रहरूपमादानम् ।
प्रतापरुद्रः---तर्हि कुलदेवतां स्वयंभूदेवं नमस्कृत्य, गुर्वाज्ञां वोढुमिच्छामि ।
पुरोधसः---सदृशो ऽयमाचारः काकतीयकुलप्रदीपस्य भवतः ।
किं तु प्रत्यासीदति महाभिषेकसमयः ।
तदचिरेणैव विहितकर्तव्येन राजपुत्रेणागन्तव्यम् ।
वयमितः करणीयशेषं प्रति (परि) पालयामः ।
प्रतापरुद्रः---यदादिशन्ति काकतीयान्वयप्रत्याययितारः ।
(इत्युत्थाय यथोचितं परिक्रम्य निष्क्रान्ताः सर्वे । ) ॥ इति त्वरितमहोत्सवो नाम चतुर्थो ऽङ्कः ॥)॥
॥ अथ पञ्चमो ऽङ्कः ॥
(ततः प्रविशन्ति ज्योतिर्विदः । ) ज्योतिर्विदः---(ससंभ्रमं परिक्रम्य) भो भोः ! त्वरध्वम् ।
कुत्र पुरोधसः ।
कुत्र वा मन्त्रियाः ? समानीयतां स्वयंभूदेवसमाराधनासक्तचिततया विलम्बमानो राजपुत्रः ।
येन प्रत्यासन्नतरो वर्तते महाभिषेकमुहूर्तः ।
एतदुत्तराङ्कस्य पूर्वाङ्कार्थानुसंगत्वादङ्कावतरणम् ।
(सविमर्शाश्चर्यं) अहो विश्वातिशायिनी काकतीयकुलप्रतिष्ठा ।
यतः---
आदेष्टा कुलदेवता स भगवान् यस्य स्वयंभूः
शिवो यं सज्ज कुरुते पराक्रमजितः क्षोणीपतीनां गणः ।
यस्मै च स्पृहयत्यशेषजगती तं वीररुद्राकृतेर्
विष्णोर्वीक्ष्य महाभिषेवनविधिं नन्दन्ति सर्वे जनाः
एष स्वयंभूदेवोपदेशनरेश्वरविजयप्रमुखमुखसंध्यादिबीजनानार्थानां महाप्रयोजनीभूतमहाभिषेकार्थतया योजनान्निर्वहणसंधिः ।
(सोल्लासं) नूनमिदानीं
स्वप्ने ऽप्यासूत्रितामाज्ञां पालयन्तं कुलोद्वहम् ।
न मान्त्यन्तर्मुदः शंभोर्विभोरप्यभिनन्दतः
एष मुखसंधौ प्रसिद्धस्य स्वप्नोपदेशरूपस्य बीजस्योपगमात् संधिः ।
(किंचिदुच्चैः)
कल्याणी सकलापि भूतसरणिः क्षेमप्रदा देवताः
श्रेयः प्रस्रवनिर्भरा द्विजनुषामाशीर्गिरो जाग्रति ।
आरूढा पदमुन्नतं ग्रहगणाः श्रेयान् मुहूर्तः शुभैः
नक्षत्राणि शिवंकराणि शुभदाश्चान्ये निमित्तोदयाः
तद्वयमेव राजपुत्रानयनाय प्रयतिष्यामहे ।
एष प्रकृतकार्यमार्गणाद्विरोधः ।
(सत्वरं परिक्रम्य पुरो ऽवलोक्य च सहर्षसंभ्रम्) नन्वागत एव प्रतापरुद्रः !
विप्रैर्मङ्गलसूक्तिपाठमुखरैरालोकशब्दोद्यतैर्
भूपालैः करसंभृतोपकरणैराप्तैरमात्यात्मजैः ।
श्लाघ्यैर्वन्दिजनैर्दिगन्तविजयश्लाघासमुद्घोषणैः
स्त्रीवर्गैश्च यथोचितं परिवृतो नीराजनोद्योगिभिः
तद्वयं चास्थानीमेव गत्वा समुचितमाचरिष्यामः ।
(इति परिक्रामन्ति .) (ततः प्रविशति यथानिर्दिष्टः प्रतापरुद्रो मन्त्रिणश्च । ) मन्त्रिणः---(सविनयमग्रतो भूत्वा) काकतीयकुलतिलक ! इत इतः ।
इदं राज्यलक्ष्मीशुद्धान्तप्रधानागारं प्रविशतु स्वामी ।
न विलम्बार्हाः कुलदेवताया मनोरथाः ।
एतत् पट्टबन्धरूपकार्यस्योपक्षेपणाद् ग्रथनम् ।
ज्योतिर्विदः---(किंचिदुच्चैः) भोः भोः कुलामात्याः !
संनह्यध्वमुपाहरध्वमुचितद्रव्याण्युपाध्वं सुरान्
संप्राप्तः सुमुहूर्त एष विजयी कल्याणसंपत्खनिः ।
यस्मिन् प्राप्य महाभिषेकविभवं क्षोणीं प्रलीनाखिल-
क्ष्मापालां चिरमन्वशाद्गणपतिर्भूभृत्कुलग्रामणीः
एष ज्योतिर्विद्भिरनुभूतार्थख्यापनान्निर्णयः ।
परिजनः---(श्रुत्वा) ।
पच्चासण्णे वि मुहूते किं विलंबिअदि महामच्चेहिं ।
( । प्रत्यासन्ने ऽपि मुहूर्ते किं विलम्ब्यते महामात्यैः । )
मन्त्रिणः---(उपसृत्य) नाथ ! किं विस्मृता गुर्वाज्ञा ।
नायमवसरो नरेश्वरविज्ञापनाकर्णनस्य ।
महास्थान्यामेवानुगृह्यन्ताममी ।
प्रतापरुद्रः---शिरसि धृतैव खलु तातस्याज्ञा ।
किं तु नोपदिश्यते पुनरनन्तरकरणीयम् ।
एतत् प्रकृतानुगुण्येनान्योन्यपरिभाषणात् परिभाषणम् ।
पुरोधसः---(सविनयसंभ्रममुपसृत्य) स्वीकृतमहाभिषेकोचितवेषः कनकवेदिकामारोहतु प्रतापरुद्रः ।
नृपाः---देव ! महाराजपर्यायेण भवद्भुजशिखरमारोहतु मेदिनी ।
प्रतापरुद्रः---तथा भवतु ।
(इति वेदिकामारोहति । ) नृपाः---(सप्रणामं मङ्गलवेदिकां परिवार्य) विजयतां विजयतां काकतीयकुलस्वामी ।
एष नरेश्वरपर्युपासनात् प्रसादः ।
परिजयः---(विलोक्य सामोदकौतुकम्) अ पुव्वपव्वअकणअसाणुं सहस्सरस्सी विअ सुमेरुकणअतडं महेन्द्रो विअ पख्खिवक्कवट्टिणं चक्कधरो विअ कणअवेदिं आरूढो पआवरुद्दो ।
(अ पूर्वपर्वतकनकसानुं सहस्ररशिम रेव, सुमेरुकनकतटं महेन्द्र इव, पक्षिचक्रवर्तिनं चक्रधर इव, कनकवेदिमारूढः प्रतापरुद्रः । ) मन्त्रिणः---काकतीश्वर ! समारुह्यतामिदं भद्रासनम् ।
अमी पुरोधसो महाभिषेकाय तीर्थसलिलपूर्णान् कनककलशान् धारयन्ति ।
प्रतापरुद्रः---तथा भवतु ।
(इति स्वयंभूदेवं काकतीयकुलवृद्धांश्च प्रणमन् सिंहासने समुपविशति । ) पुरोधसः---(त्रयीसमभिमन्त्रणसुरभीकृतसलिलान् कनककलशानमात्यहस्तेषु विधाय सादरम् )
प्रतापरुद्रनृपते ! काकतीयकुलोचितैः ।
प्रजानुरञ्जनैः क्षोणीं पालयाचन्द्रतारकम्
(इत्याशीर्वादसाधुवादायमानं पाणिग्रहणकौतुकत्वरमाणराज्यलक्ष्मीमञ्जीरशिञ्जितानुमोदितं स्वयंभूदेवप्रमोदाट्टहासोपबृंहितं काकतीयकुलश्रेयः प्रस्तावनाडिण्डिमं चिरावलम्बितधरणीभारखिन्नानां फणिपतिप्रभृतीनां प्रहर्षक्ष्वेडाविडम्बितं धर्मप्रतिष्ठामङ्गलकाहलीकोलाहलमनोहरं महाभिषेकमुहूर्तप्रशंसिनं कनकजयघण्टिकानिनादमनुसंदधानाः सत्वरं प्रतापरुद्रमभिषिञ्चन्ति । ) एष वाञ्छितार्थप्राप्तिरानन्दः ।
एकतो वैतालिकाः---(सहर्षातिशयमुच्चैः)
हे लोकाः ! पिबत श्रवः प्रसृतिभिः कल्याणवार्तामृतं
जातः काकतिवीररुद्रनृपते राज्याभिषेकोत्सवः ।
अद्यारभ्य कलिः कृतः कृतयुगं राजन्वती मेदिनी
देवाः पूर्णहविर्भुजस्तदधुना यूयं कृतार्थीकृताः
अन्यतो वैतालिकाः---
आरूढे वरवीररुद्रनृपतौ सिंहासनं शासितुं
तस्याज्ञा क्षितिपालमौलिवलभीः स्वच्छन्दमारोहति ।
लोकांस्त्रीनधिरोहतो निरवधी कीर्त्तिप्रितापौ हठाद्
आरोहन्ति च विन्ध्यभूधरतटान् प्रत्यर्थिनः पार्थिवाः
दक्षिणतो वैतालिकाः---
गायन्तीरनुमोदते निजवधूः शेषः शिरः कम्पनैर्
लक्ष्मीं प्रीणयते ऽद्य कच्छपपतिर्वक्षस्स्थलीदर्शनात् ।
दिङ्नागाश्च करेणुकाशुचमपाकुर्वन्त्यनुव्रज्यया
दोष्णा काकतिवीररुद्रनृपतौ विश्वंभरां बिभ्रति
उत्तरतो वैतालिकाः---
प्रस्थेभ्यः कुलभूभृतामपि हरिद्दन्तावलानां महा-
कुम्भेभ्यो ऽपि फणाभृतामधिपतेर्मूर्ध्नां सहस्रादपि ।
कूर्मेन्द्रस्य च कर्परादपि जगद्विख्यातसारोन्नतौ
बाहौ संप्रति वीररुद्रनृपतेः प्राप्तप्रतिष्ठा मही
एष सर्वदुः खशमनात् समयः ।
मन्त्रिणः---अहो ! प्रभावः काकतीयान्वयस्य ।
यदिदानीं---
प्रतापरुद्रस्य महाभिषेकपयः कणा ये निपतन्ति राज्ञाम् ।
प्रणामनम्रेषु शिरस्सु तेषां तैः कल्पितः स्वस्वपदाभिषेकः
पुरोधसः---काकतीयकुलोत्तंस ! राज्यलक्ष्मीसंवरणस्रगियमुत्तंसीक्रियताम् ।
(इति पट्टबन्धमाचरन्ति । ) सर्वे---(सप्रमोदातिशयं) प्रियं नः प्रियं नः ।
एषा प्रकृतकार्यस्थिरीकरणात् कृतिः ।
मन्त्रिणः---(सर्वतो ऽवलोक्य) कस्को ऽत्र भोः ! आनीयतां छत्रं चामरयुगलं च ।
(प्रविश्य प्रधानप्रतीहारः) प्रतीहारः---यदाज्ञापयन्ति महामात्याः ।
(इति परिक्रम्य तान्युपानयति । ) (प्रान्तवर्तिनो नरपतयो ऽभ्युपेत्य तानि सादरं गृहीत्वा यथोचितमाचरन्ति । ) पुरोधसः---(सहर्षातिशयं)
श्रूयन्ते बहवो महानृपतयः किं तैरनीदृक्क्रमैर्
ईदृग्विश्वजनीनशौर्यगरिमा जागर्ति कः क्ष्मातले ।
बाल्यक्रीडितदिग्जयस्त्रिभुवनक्षेमंकरप्रक्रियः
किंकुर्वाणसमस्तभूपतिगणः श्रीवीररुद्रो यथा
एतदखिलातिशायित्वकथनमुखेन प्रकृतकार्यानुमोदनादाभाषणम् ।
तदिदानीं खलु---
यत् काकतीयनृपराज्यविलासचिह्नं यच्छायया वसुमती विजहाति तापम् ।
छत्रेण तेन कृतलक्ष्मणि वीररुद्रे मुक्तातपत्रविभवाः सुहृदो द्विषश्च
एष राज्यप्राप्तिहेतुभूतच्छत्रारोपणरूपकार्यदर्शनात् पूर्वभावः ।
मन्त्रिणः---(सविनयमुपसृत्य) नाथ ! काकतीयलक्ष्मीपते ! सनाथाः सर्वाः प्रकृतयः सुराजानं त्वां दिदृक्षन्ते ।
तत् सांप्रतं महास्थानीं प्रसाधयतु देवः ।
पुरोधसः---आचारो ऽयं काकतीश्वराणां यन्महाभिषेकानन्तरं प्रजानां योगक्षेमपरीक्षणम् ।
राजा---यदाज्ञापयन्ति धर्मविदः ।
(इत्युत्तिष्ठति । ) काकतीयकुलवृद्धाः (ससंभ्रममुच्चैः)
प्रक्रान्तमुर्वीश्चरमौलिरत्नैः कुर्वन्ति नीराजनमम्बुजाक्ष्यः ।
प्रतापरुद्रस्य लसत्प्रतापप्रदीपनीराजितदिङ्मुखस्य
नृपतयः---(शिरस्यञ्जलिं बद्ध्वा) अहो ! चरितार्था सांप्रतमास्माकी चक्षुष्मत्ता, यया खल्वीदृगनुभूयते ।
यतः
नीराजयन्त्यन्ध्रपुरीरमण्यः प्रदीपजालैर्वरवीररुद्रम् ।
चन्द्रानना गोत्रपतिं रजन्यस्तारागणैर्मेरुमिव स्फुरद्भिः
(सर्वे जयशब्दं कुर्वन्ति । ) मन्त्रिणः---महाराज ! काकतीश्वर ! सज्जीकृतं सिंहासनं सर्वतः परिष्कृतमिदं महास्थानमण्टपं सनाथीक्रियताम् ।
प्रतीहारः---(ससंभ्रमं पुरो भूत्वा) देव ! इत इतः ।
(राजा सगौरवं परिक्रम्य महास्थान्यां सिंहासनमारोहति । ) (सर्वे प्रणम्य यथार्हमुपविशन्ति । ) प्रतीहारः---(समयोचितं परिक्रम्य वन्दमानान् मूर्धाभिषिक्तान् साभिमानं कनकवेत्रलतया निर्दिशन्)
कालिङ्गात्र निषीद, कोङ्कणपते ! दूरे भवाङ्गेश्वर !
प्रान्तं संश्रय, मालवेन्द्र, शनकैः स्वोपायनं प्रापय ।
पाण्ड्याग्रे भव, सेवणक्षितिपते ! पश्चाद्भवाद्यैव वः
स्वामी काकतिवीररुद्रनृपतिः सर्वान् क्रमादीक्षते
(नृपतयः प्रणम्य यथार्हमुपविशन्ति । ) पुरोधसः---स्वस्ति काकतीयकुलावतीर्णाय कुपर्णकेतनाय महामहिम्ने अद्य सुप्रजसा काकतीयान्वयेन सनाथानि त्रीण्यपि जगन्ति ।
शासितर्यविनीतानां नरेन्द्र ! त्वयि शासति ।
मध्यस्थतास्य लोकस्य चिरेणान्वर्थतां गता
राजा---(सविनयं) स्वयम्भूछ देववरानुकूलानां भवदाशीर्वादानां फलमिदं यत्काकतीयक्षात्रं वर्धते ।
मन्त्रिणः---राजन् ! प्रतापरुद्र !
सर्वेषां काकतीयानां भागधेयविभूतयः ।
एवंरूपा विवर्तन्ते यत्कुलप्रभवो भवान्
(। ‘यत्कुलालम्बनं भवान्ऽ; इति पाठान्तरम् । ) पुरोधसः---न केवलं काकतीयानामेष पुण्यपरिपाकः, अपि तु सर्वासामपि प्रजानाम् ।
(प्रविश्य प्रतीहारः) प्रतिहारः---देव ! सर्वाः प्रकृतयो वर्णवृद्धान् पुरस्कृत्य प्रतीहारमध्यासते ।
मन्त्रिणः---शीघ्रं प्रवेश्यन्ताम् ।
प्रतीहारः---यदाज्ञापयन्त्यमात्याः ।
(इति निष्क्रम्य ताभिः सह पुनः प्रविशति । ) (ततः प्रविशन्ति वर्णवृद्धाः । ) वर्णवृद्धाः---(सहर्षं राजानमवलोक्य)
वरः प्रतापरुद्रो ऽयं वधूरेषा वसुंधरा ।
तयोर्घटयिता देवः स्वयंभूः सदृशः क्रमः
एतत् स्वयंभूदेवस्य स्वयं संधातृत्वादद्भुतप्राप्तेरुपगूहनम् ।
(सविनयमुपसृत्य) स्वामिन् विश्वंभरावल्लभ प्रतापरुद्र !
सर्वाशीः फलविश्रमैकवसतेः किं वा तवाशास्महे
यद्वा विश्वविभौ स्वयंभुवि शिवे नस्तन्वतामाशिषः ।
किं चित्रं स विभुर्भवानपि समो गौरीश्रियोर्वल्लभा
वाचन्द्रार्कमिमां क्षमां कृतयशोरक्षौ युवां रक्षतम्
मन्त्रिणः---स्वामिन्नेते स्वायंभुवाः सुधियः ।
(राजा सादरं प्रणमति । ) अन्ये---(सहर्षातिशयमग्रतः स्थित्वा) महाराज काकतीश्वर !
यस्त्वद्गोत्रमहत्तरस्य जगतां त्रातुः स्वयंभूविभोस् तत्तादृक्चरिताद्भुतैर्महिमभिः स्वीयैर्द्वितीयो ऽभवत् ।
देवो ऽसौ गणपेश्वरः प्रतिकलं स्फारप्रसादोन्मुखो
नुप्तुस्ते कुलमण्डनस्य महतीं पुष्णातु राज्यश्रियम्
पुरोधसः---राजन्नेते गाणपेतश्वराः सूरयः ।
(राजा सादरं नमस्करोति । ) अपरे---(सप्रश्रयप्रमोदं)
स्वामिंस्त्रिलिङ्गदेशपरमेश्वर !
यैर्देशस्त्रिभिरेष याति महतीं ख्यातिं त्रिलिङ्गाख्यया
येषां काकतिराजकीर्त्तिविभवैः कैलासशैलाः कृताः ।
ते देवाः प्रसरत्प्रसादमधुराः श्रीशैलकालेश्वर-
द्राक्षारामनिवासिनः प्रतिदिनं त्वच्छ्रेयसे जाग्रतु
पुरोधसः---(सोल्लासं) राजन्नेकशिलानगरवासिनो महाद्विजास्त्वेते ।
(राजा यथोचितं वन्दते । ) मन्त्रिणः---साधीयान् आशीर्वादक्रमः ।
(इति यथोचितं सर्वानुपवेशयन्ति । ) पुरोधसः---(सोल्लासं) राजन्नेकशिलानगरीवल्लभ !
साहस्रांशवमैन्दवं च महती ये द्वे कुले निर्मिते
ते जाते लघुनी गुणैर्विजयिनि श्रीकाकतीयान्वये ।
भूपालेषु भवत्प्रतापयशसोः पूर्णार्कचन्द्रश्रियोः
प्राप्यानुग्रहमूर्जितेषु पुनरप्येते लभेते स्थितिम्
(राजा सर्वान् पश्यति ।
पुरोधसो यथार्हं सर्वानुपवेशयन्ति । ) प्रकृतयः---विजयतां विजयतां प्रतापरुद्रमहाराजः ।
भूपाः सन्तु चिराय संशृणुमहे भास्वत्कुलालंकृती
रामो ऽयं न जगाम लोचनपथं तेनैव खिन्ना वयम् ।
अद्य त्वां वरवीररुद्रनृपते ! तस्यावतारान्तरं
वीक्ष्यैवं चरितार्थतां सुमहतीमह्नाय गाहामहे
मन्त्रिणः---स्वामिन् सांप्रतं यथार्हमर्हणया माननीयाः पौराणां श्रेणयः ।
राजा---(सानन्दौदार्यं)
जागर्तु राजशब्दो ऽयं ममैवाज्ञाफलैकभूः ।
राज्योपभोगविभवः सर्वसाधारणो हि नः
सर्वे---(सप्रमोदं) सदृशो ऽयं प्रसादः काकतीयकुलतिलकस्य भवतः ।
राजा---प्रसीदतु भगवान् स्वयंभूदेवः ।
(इति पुरोहितावर्जितकनककलशससिलधारापुरः सरं सकलभोगसमग्रान् सप्रश्रयादरं विप्रसात् करोति ।
अन्येषामपि नगरवासिनां यथाप्रधानं संभावनामाचरति । ) नृपतयः---(सामात्यानुरोधमुत्थाय महार्घाणि गजतुरगरथाभरणविशेषरूपाण्युपायनानि यथावकाशमुपनीय विरचिताञ्जलयः) स्वामिन् काकतीयमहाराज !
त्रायस्वेत्यनुवाद एव भुवनत्राणैकबद्धव्रते
त्वद्भृत्या इति सिद्धसादनमिदं विश्वैकनाथे त्वयि ।
त्वद्गर्भे वसतिं गताः स्म इति च स्पष्टार्थमंशे हरेः
कुक्षिस्थाखिलविष्टपस्य सदृशं किं वात्र विज्ञाप्यते
(राजा सप्रसादममात्यानवलोकयति । ) मन्त्रिणः---स्वामिन्नेते सोमार्कवंश्या नरपतयो महतीमर्हणामर्हन्ति ।
तेन स्वेषु स्वेषु पदेषु प्रतिष्ठापनीयाः प्रस्थापनीयाश्च ।
राजा---तथा ।
(इति नरपतीन् यथोचितं संभाव्य प्रस्थानमादिशति । ) (राजानः सहर्षातिशयं प्रणम्य काकतीश्वरकृपावलोकननिर्वर्तितप्रयाणमङ्गला दिगन्तविहारणोद्यतया तदाज्ञया कृतसाहाय्या निष्क्रान्ताः । ) प्रकृतयः---चिरमनुवर्तितव्या काकतीयनरेश्वरपरिपालनपरिपाटी महारोजेन ।
(इति निष्क्रान्ताः । ) पुरोधसः---(साश्चर्यप्रत्यभिज्ञानं)
चिह्नान्यस्य पदाब्जयोः पिशुनयन्त्युर्वीश्वरोपास्यतां
पाणी सूचयतः सचापकुलिशावुद्वाहलीलां भुवः ।
नेत्रे शारदपुण्डरीकरुचिनी लीलावतारं हरेर्
आख्यातस्तदितीह सिद्धवचनं प्रत्यक्षमीक्षामहे
राजा---(सविनयव्रीडं) किमसाध्यं स्वयंभूदेवमूर्त्यन्तराणां भूदेवतानां भवतामनुग्रहस्य ।
पुरोधसः---(सादरं) महाराज ! काकतीश्वरकुलवासनावासितया भवदुपासनया परं प्रसेदिवान् परः सहस्रप्रसादोन्मुखः स्वयंभूनाथः किं ते भूयः प्रियमुपकरोतु ।
एषा वाक्यार्थसमाप्तिरूपा संहृतिः ।
राजा---(सप्रणामादरं) काकतीयराज्यधुरायामवहितमेव स्वयंभूदेवेन; तथापीदमस्तु ।
भूरस्तु संपन्नसमस्तसस्या भूदेवताः पूर्णमनोरथाश्च ।
भूपाश्च धर्मप्रवणैकचित्ताः सर्वे जनाः सन्तु निरामयाश्च
मूल पाठ: Pratāparudrīya or Pratāparudrayaśobhūṣaṇa with Kumārasvāmin's commentary Ratnāpaṇa · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0