भाषा

ENहिગુ
ग्रंथ पाठ

प्रतापरुद्रीय · अध्याय 3.4

3.4.1

एष गर्भबीजोद्भेदनादाक्षेपः ।
राजा---(सहर्षं) तर्हि वयमपि प्रमदवनद्वारप्रासादमारुह्य गजेन्द्रमवलोकयिष्यामः ।
(इयुत्थाय परिक्रम्य निष्क्रान्ताः सर्वे । ) ॥
इति वीररुद्रविजयो नाम तृतीयो ऽङ्कः ॥
॥ अथ चतुर्थो ऽङ्कः ॥
(ततः प्रविशति धात्री चेटी च । ) धात्री---(सरोषं) ।
हंजे एआरिससहस्सकज्जपज्जाउले राऔलमहूसवे वि सअला वि रअणी केण सम तुए णीदार् ।
इरिसमहग्घाइ भूसणाइ कुदो चोरिआइ ।
कहं ण विण्णादं तुए दासीएउत्तीए---सअला दिसो जेऊण चौरंतसामंतपरिवारो पआवरुद्दो णअरं पविठ्ठो ।
कुंलदेवदाए पसत्तीए महाराअस्स अण्णाए पुरोहिदाणं अणुरोहेण अमच्चाणं अणुवट्टणेण पआणं भाअहेएए खोणीए तवोविसेसेण अंहारिसस्स परिअणस्स सुकअपरिपाएण अब्भुपगअमहारज्जाहिसेओ जुवराओ संजाओ ।
एव्वं वि एआइणिं मं महूसवाउलिअं मोत्तूण कहिं ठिदा ।
( ।हञ्जे एतादृशसहस्रकार्यपर्याकुले राजकुलमहोत्सवे ऽपि सकलापि रजनी केन समं त्वया नीतार् ? इदृशमहार्घाणि भूषणानि कुतश्चोरितानि ? कथं न विज्ञातं त्वया दास्याः पुत्र्या---सकला दिशो जित्वा चतुरन्तसामन्तपरिवारः प्रतापरुद्रो नगरं प्रविष्टः ।
कुलदेवतायाः प्रसत्त्या महाराजस्याज्ञया पुरोहितानामनुरोधेनामात्यानामनुवर्तनेन प्रजानां भागधेयेन क्षोण्यास्तपोविशेषेणास्मादृशस्य परिजनस्य सुकृतपरिपाकेणाभ्युपगतमहाराज्याभिषेको युवराजः संजातः ।
एवमप्येकाकिनीं मां महोत्सवाकुलितां मुक्त्वा कुत्र स्थिता ?) अनेन रोषवशान्नियताप्तिप्रदर्शनमुखेन बीजस्यावमर्शाद्विमर्शसन्धिः ।
चेटीगतदोषप्रख्यापनादपवादो ऽङ्गम् ।
चेटी--- ॥
सामिणि ! अवराहं सहस्स ।
(इति पादयोः पतति । )
( ॥ स्वामिनि ! अपराधं सहस्व ।)
धात्री---(सभ्रूभङ्गं) अ दासीएउत्ति, पटंचलेण सप्पदंसणं पडिमज्जेसि जं पणामेणर् इरिसापराहं सिढिलेसि ।
(अ दास्याः पुत्रि ! पटाञ्चलेन सर्पदंशनं परिमर्जयसि-यत्प्रणामेनेदृशापराधं शिथिलयसि ।
एष रोषसंभाषणरूपः संफेटः ।
चेटीर्--- ।
इरिससहावा एव्व तुमं ।
ता णिक्कारणकोविणिं होदिं अमुवट्टिउं अहं ण पज्जत्तार् ।
( । इदृशस्वभावैव त्वम् ।
तत् निष्कारणकोपिनीं भवतीमनुवर्तितुमहं न पर्याप्ता ।)
धात्री---(सरोषशिरः कम्पं) ॥
वक्कसीलदुल्ललिए ! लूणकण्णासिअं तुमं बन्धिऊण काराघरभाअणं करेमि ।
( ॥ वक्रशीलदुर्ललिते ! लूनकर्णनासिक त्त्वां बद्ध्रवा कारागृहभाजनं करोमि ॥)॥
(इति बाहुबन्धनं नाट्यति । ) एष बन्धनरूपो विद्रवः ।
चेटी---(सभयकम्पं) अ सामिणि ! रक्खोहि रक्खेहि असरणं णिरवराह इमं जणं ।
तुह अत्तिआए हिडिंबस्समं गच्छतीए अहं बलक्कारेण णीदा ।
तद्ध पडिऊलं देव्वं पसादअंतीए विलंबिदं ।
किं करेमि ।
(अ स्वामिनि ! रक्ष रक्ष अशरणं निरपराधमिमं जनम् ।
तवात्तिकया हिडिम्बाश्रमं गच्छन्त्याहं बलात्कारेण नीता ।
तत्र प्रतिकूलं दैवं प्रसादयन्त्या विलम्बितम् ।
किं करोमि ?)
धात्री---(सरोषहुङ्कारं)
अअ एआरिसं राऔलमहूसवं उज्झिअ हिडिंबालअगंडसेलेसु किं त्ति मत्तअं ताडिस्सै मंदभाइणी ?
(अअ एतादृशं राजकुलमहोत्सवमुज्झित्वा हिडिम्बालयगण्डशैलेषु किमिति मस्तकं ताडयिष्यति मन्दभागिनी । )
एष गुरुतिरस्कृतिरूपो द्रवः ।
चेटी---दृ सामिणि ! सहेहि विलंबिअं ।
तुए कादव्वं मंगलोवआरं सिग्घं णिव्वट्टेमि ।
(इति वपुषा प्रणमति । ) (दृ स्वामिनि ! सहस्व विलम्बितम् ।
त्वया कर्तव्यं मङ्गलोपचारं शीघ्रं निर्वर्तयामि । ) धात्री---(सप्रसादं) ।
हंजे ! उठ्ठेहि उट्ठेहि ।
( । सखि ! उत्तिष्ठ उत्तिष्ठ । )
एषा विरोधशमनरूपा शक्तिः ।
चेटी---(सहर्षमुत्थाय हस्तावलम्बं दत्त्वा) अ इदो इदो तत्तहोदी ।
(अ इत इतस्तत्रभवती । )
धात्री---(किंचित् परिक्रम्य पुरो ऽवलोक्य च) अअ कहं एसो पडिहारप्पवरो ससंभमं णिग्गओ ।
ता पच्चासण्णो विअ महाहिसेअसमओ ।
तेण राऔत्तस्स मंगलणीराअणदीवरिंछ्छोलिं णिव्वट्टेदुं अब्भंतरं पविसह्म ।
(अअ कथमेष प्रतीहारप्रवरः ससंभ्रमं निर्गतः ।
तत् प्रत्यासन्न इव महाभिषेकसमयः ।
तेन राजपुत्रस्य मङ्गलनीराजनदीपरिञ्छोलिं निर्वर्तयितुमभ्यन्तरं प्रविशावः । ) (इति निष्क्रान्ते । ) प्रवेशकः ।
(ततः प्रविशति प्रतीहारः । ) प्रतीहारः---(साटोपं परिक्रम्य द्वारि नरपतिकुलकलकलमसहमानः सावमानं कनकवेत्रलतामुद्यम्य) रे रे नरेश्वराः !
दन्तिव्यूहमुपायतीकृतममुं कुर्वन्तु पुर्या बहिर्-
यस्योद्यद्घनबृंहितैर्न घटिकाघण्टाध्वनिः श्रूयते ।
दूरे चास्तु रथाश्वमेतदखिलं यस्यातिसंदर्दतो
निष्क्रामत् प्रविशच्च नागरकुलं न स्वैरमाचेष्टते

3.4.2

एषा तर्जनोद्वेजनरूपा द्युतिः ।
(किंचिदुच्चैः) भो भो कुलामात्यवृद्धाः प्रधानाधिकारिणः परिजनाः पौराश्च संशृणुध्वम् ।
एषा रुद्रदेवस्याज्ञा ।
यथा किल---
पूर्वैः काकतिवंशजैर्नृपतिभिः सम्यग्धृता या चिरं
यस्या मानुषशम्भुना गणपतिक्षोणीभुजाभूत् प्रथा ।
येयं मद्भुजया कुलाद्रिवसतिं विस्मारिता मेदिनी
सेयं संप्रति वीररुद्रभुजयोर्यातु प्रतिष्ठां स्थिराम्

3.4.3

एषा स्ववंशजानां कीर्तनाद् गुरुकीर्तनरूपः प्रसङ्गः ।
(पुनः साटोपं परिक्रम्य) अधिकृताः किमिदानीमारभध्वे ।
किमुपक्रान्तः स्वयंभूदेवसमाराधनविधिः ।
कच्चिद्दत्ताः पुरदेवताभ्यो बलयः ? किमभ्यर्चिताः सर्वे वर्णवृद्धाः ? कच्चित् प्रसाधिता महाभिषेकवेदिः ? किं सज्जीकृतानि कनककलशेषु पुण्यतीर्थसलिलानि ? कच्चिदभ्यर्णमुपनीतान्युत्तमोपकरणानि ? किं मङ्गलमुहूर्ते कृतावधानना ज्योतिर्विदः ? कच्चिदलंकृतास्त्रिलिङ्गनगरीमृगीदृशश्च ? यदिदानीं वसुमतीपाणिग्रहणोचितमङ्गलाचारवेषः प्रतापरुद्रः काकतीयमाराज्यलक्ष्मीमहान्तः पुरे वर्तते ।
तत् त्वरध्वम् ।
(अन्यतो गत्वा सभ्रूक्षेपमवलोक्य) कथं राजानो न विरमन्ति ।
(किंचिदुपसृत्य) भो भो भूपालाः ! यथावकाशमाध्वम् ।
सज्जीकुरुध्वमुपायनजातम् ।
न वृया संमर्दं सहते मम वेत्रयष्टिः ।
एतदवमानरूपं छलनम् ।
(समन्तादवलोक्य सगर्वा तिशयं) अहो ! तृणीकृतजगतां क्षितिभृतामुद्वेलं संमर्दं निवारयतो मम प्रभावः ।
अथवा काकतीयदौवारिकाणां लिखितपठितमेव राजनिवारणम् ।
एष स्वशक्त्याविष्करणरूपो व्यवसायः ।
(प्रविश्य पटाक्षेपेण दौवारिकः । ) दौवारिकः---(साक्षेपं) रे केन खल्वसमयविदा भूपतयो निवारिताः ? महोत्सवदिदृक्षवः सर्वे प्रविशन्तु ।
प्रथमः---(सरोषं) रे काकतीयकुलवृध्दप्रतीहारं मामसमयवेदिनमुदाहरसि ।
द्वितीयः---भवतु यो वा को वा भवान् ।
प्रवेष्टव्या नरपतय इति महाराजस्याज्ञा ।
एतत् प्रतीहारयोरन्योन्यरोषसंरब्धवचनरूपं विरोधनम् ।
प्रथमः---किमनेन समं शुष्ककलहेन ।
यावत् प्रधानागारद्वारवेदिकामध्यमध्यासीनं पुरोहितपुरस्कृतं युवराजमेवोपसर्पामि ।
(इति परिक्रामति । ) द्वितीयः---अहमपि यथानिर्दिष्टमनुतिष्ठामि ।
(इति परिक्रामति । ) (ततः प्रविशति यथानिर्दिष्टः प्रतापरुद्रः पुरोधसो मन्त्रिणश्च । ) पुरोधसः---काकतीयकुलतिलक ! युवराजेन भवता लीलयैव दिशो दश विजिता इत्यमी सम्यगद्य सत्याशिषो वयम् ।
किं च--
अद्यान्वयः काकतिभूपतीनां प्राप्तस्त्रिलोकीप्रथितां प्रतिष्ठाम् ।
राजन्वती भूरियमद्य जाता वीतोपसर्गाः सकलाः प्रजाश्च

3.4.4

एषा सिद्धवद्भाविश्रेयः कथनात् प्ररोचना ।
मन्त्रिणः---
सूर्यसोमान्वयामात्यमहत्ताद्याधरीकृता ।
अस्माभिरधिकुर्वाणैः काकतीयकुलस्थितिम्

मूल पाठ: Pratāparudrīya or Pratāparudrayaśobhūṣaṇa with Kumārasvāmin's commentary Ratnāpaṇa · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc