भाषा

ENहिગુ
ग्रंथ पाठ

प्रतापरुद्रीय · अध्याय 3.3

3.3.1

एष ब्राह्मणक्षत्रियादिवर्णकीर्तनाद्वर्णसंहारः ।
मन्त्रिणः---राजपुत्र ! स्वभावनिरर्गलस्य तव भुजार्गलयोरोजायितस्य कियती भूतलविजयविडम्बना ।
परिजनः--- ।
विअअलच्छीपाणिग्गहणसमअदिण्णा विअ मङ्गलख्खदा जुवराअस्स सीसे दीसंदि ।
( । विजयलक्ष्मीपाणिग्रहणसमयदत्ता इव मङ्गलाक्षता युवराजस्य शीर्षे दृश्यन्ते । )
विप्रः---राजपुत्र ! तत्तद्दिग्विजययात्रावार्ताहारिणः पुरुषा नातिचिरादेव प्रेषणीया इति महाराजस्याज्ञा ।
प्रतापरुद्रः---शिरसि कृतस्तातस्य नियोगः ।
(अमात्यान् प्रति) कतिचन यूयं काकतीश्वरसेवार्थं निवर्तध्वम् ।
कतिपये विजययात्रापराः प्रवर्तध्वम् ।
अमात्याः---(सप्रणामं) यदाज्ञापयति युवराजः ।
विप्रः---स्वस्ति विजयाय शिवाः पन्थानः सन्तु राजपुत्राय ।
प्रतापरुद्रः---(सप्रश्रयं) भगवन्ननुजानीहि ।
वयमितः प्रतिष्ठामहे ।
(इति यथोचितं परिक्रम्य निष्क्रान्ताः सर्वे । )
॥ इति विजययात्राविलासो नाम द्वितीयो ऽङ्कः ॥
(अथ तृतीयो ऽङ्कः)
(ततः प्रविशतो लेखहस्तौ जाङ्घिकौ । )
एतत्पूर्वाङ्कान्तपात्रेण विप्रेण निर्दिष्टयोः पात्रयोरुत्तराङ्के प्रवेशादङ्कास्यम् ।
प्रथमः---(सानुसंधानाश्चर्यं) अहो प्रतापरुद्रस्य महिमानुभावः, यस्य विजययात्रासंभ्रमेणैव व्याकुलीकृतानि द्वयेषामपि भूभृतां कटकानि ।
द्वितीयः---वयस्य, किमुच्यते---
काकतीयप्रदीपो ऽयमंशश्चातुर्भुजः स्वयम् ।
यद्वज्रकवचायन्ते प्रसादाश्च स्वयंभुवः

3.3.2

एष स्वयंभूदेवप्रसादरूपस्य बीजस्यान्वेषणाद् गर्भसन्धिः ।
प्रथमः---(अध्वक्लममभिनीय पुरो ऽवलोक्य) प्राप्तेयमन्ध्रनगरी ।
(किंचित् प्रवेशनाटितकेन समन्ततो निरूप्य) अहो ! निरतिशयमौदार्यं रुद्रनरेश्वरस्य ।
यदेते वैतालिकाः सर्वातो भोगावलीप्रमुखांश्चाटुप्रबन्धानुच्चैः पठन्तः स्वभावरमणीयाः प्रतिरवेण पाठयन्ति च ककुभः ।
द्वितीयः---(सम्यङ्निर्वण्य सप्रत्यभिज्ञाऽश्चर्यमपवार्य) सखे ! पश्य पश्य ।
सम्यङ्मागधवेषधारणतिरोभूता अपि क्षमाभुजः
सूच्यन्ते प्रभुतारहस्यपिशुनैराविष्कृतैलक्षणैः ।
हस्ताग्रैर्ध्वजचक्रलाञ्छिनतलैर्वक्षः स्थलैर्विस्तृतैर्
आकाररैमनुष्यमात्रसुलभैर्वृत्तैरनीचैरपि

3.3.3

प्रथमः---नूनमेते प्रतापरुद्रसमरपराङ्मुखा वक्षः स्थलविरचितवराहलक्ष्माणः प्राणत्राणार्थमनया रीत्या काकतीयमहाराजं प्रसादयितुमध्यवस्यन्तीति तर्कयामि ।
एतत् प्रस्तुतोपयोगिप्रतिराजच्छद्माचरणादभूताहरणम् ।
जाङ्घिकेन पुनस्तैस्तैर्लक्षणैर्नरेश्वराभ्यूहनादनुमानं च ।
द्वितीयः---अहो ! विजययात्राश्रवणकुतूहलिता पौराणाम्, यदावामनुसरन्ति पुनः पुनः प्रश्रमालया ।
तत् सखे ! प्रकाश्यतां प्रतापरुद्रस्य भुजयोर्विजयोदाहरणम् ।
प्रथमः---(किंचिदुच्चैः) भो भोः ! श्रूयतां काकतीयकुलश्लाघाकामधेनुः प्रियोदन्तः ।
जेत्रा काकतिवीररुद्रविभुना सर्वा दिशो निर्जिताः
क्ष्मापालाः करदीकृताः कृतमिदं निर्वीरमुर्वीतलम् ।
यस्योद्यद्भुजवैभवं सरभसारोहद्द्विषत्कामिनी-
मञ्जीरध्वनिपूर्णकन्दरमुखैर्व्याकुर्वते पर्वताः

3.3.4

एष तत्त्वानुकीर्तनरूपो मार्गः ।
द्वितीयः---सखे ! नूनमेषु दिवसेषु काकतीयमहाराजो निरन्तरं पुरस्कृतपुरोधः प्रवरामात्यवृद्धो युवराजविजयमाशंसमानो गमयति वासराणि ।
प्रथमः---उचितमनुचिन्तितं वयस्येन ।
द्वितीयः---(पुरो ऽवलोक्य सहर्षं) कथमस्मदीयं वचनमाकर्ण्य नूनं महाराजाय निवेदयितुममात्यपुत्रः सहर्षसंभ्रमं राजकुलाभ्यन्तरं प्रविशति ।
तदावामपि प्रतीहारभूमिमध्यास्य काकतीश्वरावसरं प्रतिपालयिष्यावः ।
(इति
परिक्रामतः । )
एतद् वितर्कप्रतिपादनाद्रूपम् ।
(ततः प्रविशत्यमात्यपुत्रः । )
अमात्यपुत्रः---(सप्रमोदं) अहो मम धन्यता, यदीदृशानां महोत्सवानां निवेदयितास्मि संवृत्तः ।
यन्मया विज्ञापितैः श्रवणप्रियंकरणैर्वार्तामृतैः स्वप्नसाक्षात्कृतादपि स्वयंभूदेवप्रसादात् प्रमोदयिष्यते काकतीयवृषा ।
एषोत्कर्षवचनरूपोदाहृतिः ।
(पुरो ऽवलोक्य) कथमयं महाराजः पुरोहितैरमात्यैरन्येन परिजनेन च परिवृतो महास्थानमण्टपमधितिष्ठति ।
तदहमुपसर्पामि ।
(इति परिक्रामति । )
(ततः प्रविशति यथानिर्दिष्टो राजा, मन्त्रिणश्च पुरोधसश्च । )
राजा---(सविमर्शाश्चर्यममात्यान् प्रति)---अहो शैशवे ऽप्युचितकारित्वं वत्सस्य वीररुद्रस्य ।
यदस्मदनुरोधार्थमिमानमात्यान् निवर्त्य स्वयमेव जिगीषुः प्रस्थितः ।
मन्त्रिणः---(सबहुमानं) महाराज ! भवता खलु पितृमान् कुमारः ।
पुरोधसः---विजयप्रस्थानात्प्रभृति नक्तंदिवमुन्मिषन्ति कल्याणानि ।
तद्विजिता एव दिशो राजपुत्रेण ।
राजा---भवतामाशिष एव काकतीयकुलश्रेयांसि स्वयं प्रदुहते ।
परिजनः--- ।
काअईअकुलस्स किं णु ण संपुण्णं पुण्णेण, जस्सिं अवैण्णो भुवणेक्कभद्दो पआवरुद्दो ।
(काकतीयकुलस्य किं नु संपूर्णं पुण्येन, यस्मिन्नवतीर्णो भुवनैकभद्रः प्रतापरुद्रः । )
राजा---(सौत्सुक्यं) कथं चिरयति वत्सस्य विजययात्राश्रवणमहोत्सवः ?
अमात्यपुत्रः---(सविनयसंभ्रममुपसृत्य सप्रणामं देव मध्यमलोकपाल ! युवराजप्रष्रेतौ विजयवार्ताहारिणौ प्रघाणप्राङ्गणमधिवसतः ।
एष संचिन्त्यमानार्थप्राप्तिरूपः क्रमः ।
(सर्वे सहर्षातिशयं निरूपयन्ति । )
मन्त्रिणः--भद्र ! शीघ्रं प्रवेशय ।
अमात्यपुत्रः---यदादिशन्ति महामन्त्रिणः ।
(इति निष्क्रम्य सह ताभ्यां पुनः प्रविष्टः । )
पुरुषौ---(प्रणमन्तावुपसृत्य) देव ! विश्वैकविजयिना पुत्रेण वर्धसे ।
बाढमप्रमेयमहिमा प्रतापरुद्रभुजस्थेमा, यच्छैशवे ऽप्यतिशयिततरुणकाकतीयपराक्रमस्तस्य विक्रमः ।
राजा---(सहर्षातिशयममात्यानवलोक्य) मनोरथाभ्यामिव चिन्तितोपगताभ्यां महार्घं पारितोषिकं प्रतिपाद्यताम् ।
द्विगुणीकृतहर्षयोरनयोर्मुखाद्वत्सस्य विजयलक्ष्मीपरिग्रहवृत्तान्तश्रवणमहोत्सवेन चरितार्थयामः श्रोत्रवृत्तिम् ।
मन्त्रिणः---यदाज्ञापयति देवः ।
(इति भौरिकमुखात् तथा कुर्वन्ति)
एष सामदानाचरणरूपः संग्रहः ।
(पुरुषौ सप्रणामं गृहीत्वा मूर्ध्नि निधाय महाराजप्रसादमभिनन्दतः । )
मन्त्रिणः---भद्रावित एत्य युवराजविजयविहृतयः पराक्रमपल्लविता महाराजसदसः कर्णपूरीक्रियन्ताम् ।
पुरुषौ---सावधानमवधारयतु महाराजः ।
प्रथमः---देव ! देवस्य प्रसादेन वाजिनीराजनासमिध्यमानस्य वीतिहोत्रस्य विजयप्रदानेन द्विगुणितोदग्रप्रतापे प्रतापरुद्रे प्रतिष्ठामाने,
यात्रारम्भमहेष्वहंप्रथमिकानिर्यच्चमूडम्बर-
क्षुण्णक्षोणितलोत्थिते ऽतिबहुले पांसौ वियद्व्यापिनि ।
जेतव्याः सकला दिशः स्वविभुतामन्तः पिधायाधिक-
त्रासात् क्वापि पलायिता इव दृशां नैवाभवन् गोचराः

3.3.5

अनन्तरं च---
उद्वेल्लच्चतुरर्णवीकलकलो नायं चमूडम्बरो
नेदं दुन्दुभिगर्जितं त्रिपुरजित्कल्पान्तढक्कारवः ।
इत्याटोपपटीयसीषु परितो धाटीषु भारानम-
च्छेषाशेषफणासु विस्मितमथ त्रस्तं दिगीशैरपि

3.3.6

पुरोधसः---अहो निरङ्कुशमोजायितमन्ध्रचमूपतीनाम् ।
द्वितीयः---अथ युवराजाज्ञया प्रथमं माघवनीं दिशं प्रचलितानि सैन्यानि ।
रथेनाभिमुख्यातं वीररुद्रो विलोक्य माम् ।
मृष्यते नायमित्यर्कः सैन्यरेणौ तिरोहितः

3.3.7

मन्त्रिणः---ततस्ततः ।
द्वितीयः---अनन्तरं सेनाग्रगैरेव पौरस्त्यान् क्षुद्रक्षत्रियान्निर्जित्य सर्वपथीनेनाटोपेन पटीयसि तस्मिन् महति बले प्रचलति,
युद्धाय समनह्यन्त कलिङ्गाः स्फुटपौरुषाः ।
माद्यद्द्विपघटोद्दामसंभ्रमाडम्बरोद्धताः

3.3.8

तैः सार्धमन्ध्रचमूपतीनां पराक्रमधने महत्यायोधने,
पीत्वा मांसोपदंशं द्विरदगलगलद्रक्तमैरेयधारां
मत्तो मस्तिष्कलग्नैर्दलितनृपवपुः कीकसैः सृष्टदंष्ट्रः ।
बिभ्रद्रौद्रान्त्रमालां जनितजनभयो भैरवाकारघोरः
संग्रामोर्व्याः कलिङ्गैर्बलिविधिमकरोद्वीररुद्रस्य खङ्गः

3.3.9

पुरोधसः---मानुषवेषतिरोहितेनापि काकतीयविष्णुना किंचिदाविष्कृतो निजप्रभावः ।
मन्त्रिणः---(सहर्षातिशयाद्भुतं) अहो पराक्रमातिभूमिः प्रतापरुद्रस्य ।
परिजनः--- ।
सरिसं खु एदं, जं महाराअरुद्दणरेसरणंदणेण कादव्वं, जं काऐकुलप्पसवाणं खमं, जं कुलदेवदाए सअंभूदेवस्स प्पसत्तिविसेसाणं जुत्तं, तं खु किअं जुवराएण ।
( ।
सदृशं खल्वेतत्---यन्महाराजरुद्रनरेश्वरनन्दनेन कर्तव्यं, यत् काकतिकुलप्रसवानां क्षमं, यत् कुलदेवतायाः स्वयंभूदेवस्य प्रसत्तिविशेषाणां युक्तं, तत् खलु कृतं युवराजेन । )
राजा---(सप्रमोदगद्गदं) ततस्ततः ।
प्रथमः---अनन्तरम्-
छिन्नोद्यद्वैरिवीरप्रतिभयमुकुटाटोपसंजातराहु-
भ्रान्तिभ्रश्यत्पतङ्गाभयकरपृतनारेणुबद्धान्धकारा ।
आसीत् संग्रामवेला विहरदसिलतोद्भिन्नमत्तेभकुम्भ-
प्रोद्यन्मुक्तौघतारानिकरपरिवृतस्वर्वधूवक्त्रचन्द्रा

3.3.10

अनन्तरं युवराजाज्ञया
वृत्रारातिदिगन्तरालविजयप्रख्यातविक्रान्तयः
पारेपूर्वपयोधि कल्पितजयस्तम्भाः स्फुरत्तेजसः ।
वेलाकाननवासिगीतविभवं देवस्य दोर्विक्रमं
शृण्वन्तो मुहुरन्ध्रसैन्यपतयः प्राप्ता दिशं दक्षिणाम्

3.3.11

तत्र च
मुनौ लोपामुद्रासुहृदि निकटस्थे ऽपि महता
भवन्त्येता नद्यः कलुषपयसः सैन्यरजसा ।
इतीव व्योमाग्रे कलयपवनान्दोलितशिखाः
पताकाः सोत्प्रासाः प्रतिपदमनृत्यन्नतितराम्

3.3.12

अनन्तरं पाण्ड्यप्रमुखान् दाक्षिणात्यान् क्षितीश्वरान् शरणमुपगतान् काकतीयवीररुद्रः स्वचमूपतिनिर्विशेषं संभाव्य तैः सह प्रतीचीं दिशं प्रचलितः ।
मन्त्रिणः---साधु साधु समाचरितमात्मनीनं पाण्ड्यैर्यत् पूर्वमेव देवस्य चरणमूलं प्राप्ताः ।
ततस्ततः ।
द्वितीयः---तत्र च
पाश्चात्त्यानां ध्वजेषु स्थितमधिकभरस्रस्तदण्डेषु गृध्र-
व्रातैर्यच्चण्डतुण्डाहतिविहतपटेष्वाहतक्षिप्तपक्षैः ।
अस्त्रं गारुत्मतं तत् समजनि विजयप्रार्थिनामन्ध्रसैन्य-
प्रष्ठानां जन्यमन्यन्निजनिबिडभुजादण्डकण्डूविडम्बः

3.3.13

अनन्तरं---
जित्वा प्रतीचीमथ वीररुद्रः प्रत्यर्थिनारीनयनाम्बुपूर्णाम् ।
रेवां समुत्तीर्य गजानुबद्धसेतुं विजेतुं गतवानुदीचीम्

3.3.14

तत्राङ्गवङ्गकलिङ्गमालवप्रभृतयः सर्वे भूपाला मिलित्वा युद्धाय बद्धादराः पुरतः प्रादुरभवन् ।
मन्त्रिणः---अहो परमनात्मवेदितोदीच्यानां यत्प्रतापरुद्रस्यापि परिपन्थिनो भवन्ति ।
राजा---ततस्ततः ।
प्रथमः---अनन्तरं सममनीकिनीभिरापतन्तीभिः राजकानि विलोक्य सगर्वमेवमुक्तं सेनापतिभिः---
रे रे घूर्जर जर्जरो ऽसि समरे लम्पाक ! किं कम्पसे
वङ्ग ! त्वङ्गसि किं मुधा बलरजः काणो ऽसि किं कोङ्कण ! ।
प्राणत्राणपरायणो भव महाराष्ट्रापराष्ट्रो ऽस्यमी
योद्धारो वयमित्यरीनभिभवन्त्यन्ध्रक्षमाभृद्भटाः

3.3.15

(।‘वयमन्ध्रनाथसुभटाः प्रत्यर्थिदावानलाःऽ; इति पाठान्तरम् ॥)॥
एतद्रोषसंरब्धवचनरूपं तोटकम् ।
परिजनः--- ॥
साहु साहु चमूवरिणं वअणं ।
एव्वं फणिआ उण कीरिसं उवक्कंदं तेहिं ।
(॥साधु साधु चमूपतीनां वचनम् ।
एतत् भणित्त्वा पुनः कीदृशमुपक्रान्तं तैः ।)
प्रथमः---
किं कथ्यते ? सैनिकानां निरुपमः पराक्रमः ।
यस्तत्राभवदाहवस्तमखिलं जानाति भागीरथी
यात्याक्षीत् सुरभूयकारणनिजाहंकारमुच्छृङ्खलम् ।
आराद्वीक्ष्य समग्रमन्ध्रसुभटप्रोद्घूर्णखड्रगावली-
धारातीर्थमुपेत्य दिव्यनगरीमारोहतो भूपतीन्

3.3.16

अनन्तरं तत्र तत्र प्रलीनात्मनः प्रतिपक्षमूलानन्वेष्टुकामास्त्रिलिङ्गसैनिकास्तत्तद्देशवेषभाषादिकमाविष्कुर्वाणाः सर्वतः पर्यटन्ति स्म ।
जीवग्राहं गृहीत्वा समानयन्ति स्म युवराजान्तिकम् ।
मन्त्रिणः---साधीयान् खलु सैनिकानामुद्यमः ।
एतत् प्रकृतोपयोगित्वेन वञ्चनादधिबलम् ।
राजा---ततस्ततः ।
द्वितीयः---अनन्तरं नरपतयो निजपरिजनेष्वप्यकृतविश्वासाः प्रतापरुद्रस्य पादमूलमेव शरणमुपगताः ।
परिजनः--- ।
अहो णरवरिणं जुज्झकाअरत्तणं ।
( । अहो नरपतीनां युद्धकातरत्वम् । )
एष भयप्रतिपादनादुद्वेगः ।
प्रथमः---किमुच्यते कातर्यमिति ।
अङ्गाः संगरभीरवः समभवंश्चोलाः पलायाकुलाः
काश्मीराः स्मरणीयविक्रमकथा हूणा निरीणश्रियः ।
लम्पाका भयकम्पमानवपुषो वङ्गा निरङ्गीकृता
नेपालाः परिपालनव्यसनिनः सुह्माश्च नीरंहसः

3.3.17

(अ:‘प्रलापाकुलाःऽ; इति पाठान्तरम् ॥)
अपि च
काम्भोजाः क्षतकुम्भिनीपरिचयाः प्राप्तव्रणाः सेवणाः
गौडाः पीडितविग्रहाः श्रितकुलग्रावाङ्कणाः कोङ्कणाः ।
लाटाः पाटितमूर्तयः परिलस(गल) द्भीविह्वलाः सिंहलाः
कर्णाटाः परिपूर्णवेपथुभृतस्तन्द्रालवो मालवाः

3.3.18

किं च
भोजा व्यर्थभुजायुधाः क्षतनिजस्त्रीकेलयः केरलाः
पाण्ड्याः खण्डितविक्रमाः प्रकटितह्रीजर्जरा घूर्जराः ।
पाञ्चालाः प्रणतिप्रपञ्चितभियश्चाटूत्कटाः कीकटाः
काम्पिल्याः श्रितपल्लयः कृतयशोभङ्गाः कलिङ्गा अपि

3.3.19

(सर्वे हर्षातिशयं नाटयन्ति ।)
परिजनः---(साश्चर्यं) ।
अहो वीररुद्दस्स ऐसैदतिहुवणाइ जुज्झावदाणाइ ।
(। अहो वीररुद्रस्यातिशयितत्रिभुवनानि युद्धापदानानि ।)
राजा---(सहर्षं) महतीं प्रतिष्ठामारोपितं खलु काकतीयकुलं विश्वैकविजयिना वत्सेन ।
पुरोधसः---आमूलचूडं फलिताः प्रसत्तयः काकतीयान्वयदेवतानाम् ।
राजा---ततस्ततः ।
प्रथमः---अनन्तरं सकलदिग्विजयसमुत्तेजितेजोविलासः सर्वनरेश्वराणां तानि तान्युपायनानि स्वीकृत्य समग्रसैन्यैः सपक्षैर्महीभृद्गणैराश्रितेन महता बलार्णवेन न्यवर्तत विश्वैकवीरो वीररुद्रः ।
मन्त्रिणः---(सहर्षं) कुत्रेदानीं राजपुत्रः ? द्वितीयः---साम्प्रतं किंकुर्वाणराजलोकः सर्वानपि सेनापतीन् नगरं प्रस्थाप्य कतिपयमौलपरिवृतः काकतीयवीरः स्वैरं गोदावरीपरिसरारण्येषु मृगयाकुतूहली विहरते ।
मन्त्रिणः---(सविमर्शं) महाराज ! नूनं त्वय्येव शासति वसुमतीं यौवराज्यमेव बहुमन्यते राजपुत्रः ।
एषा प्राप्त्याशा ।
दिग्विजयाकृष्टनरेश्वरवृत्तान्तस्य व्यापित्वात् पताका निरूपिता ।
राजा---तदचिरमेव युष्माभिरानेतव्यो वत्सः, अनुनेतव्यश्चराज्याभिषेकाय ।
मन्त्रिणः---यदाज्ञापयति देवः ।
(इति निष्क्रान्ताः । ) नेपथ्ये---(ससंभ्रमं) भो भो नागरिकाः ! सत्वरमपसरत दूरम् ।
यदिदानीम्-
आलानं तरसा निपाट्य निगलान्युच्छिद्य धूताङ्कुशो
वेगोत्पातितधूर्गतः कटतटीनिर्यन्मदाम्बुस्रुतिः ।
भ्रश्यत्पण्यपथं चलद्गजहयं बिभ्यज्जनौघं पुरं
विष्वग्व्याकुलयत्यमन्दरभसः स्वैरं करिग्रामणीः

3.3.20

एष शङ्कात्रासरूपः संभ्रमः ।
राजा---(आकर्ण्य सस्मितं) कथं व्याकुलयति कटकं करीन्द्रः ।
पुरुषः---महाराज ! नूनमिदानीं नगरं प्रविशतां नरेश्वरोपायनानां द्विपानां गन्धानिलाय संक्रु ध्यन् निरर्गलो जातः प्रधानहस्ती ।
पुरोधसः---
पित्रा स्वयंभूपतिनोपदिष्टं प्रतापरुद्रस्य महाभिषेकम् ।
निर्विघ्नमापादयितुं गजास्यः करेणुराजाकृतिरभ्युपैति

मूल पाठ: Pratāparudrīya or Pratāparudrayaśobhūṣaṇa with Kumārasvāmin's commentary Ratnāpaṇa · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc