भाषा

ENहिગુ
ग्रंथ पाठ

प्रतापरुद्रीय · अध्याय 3.2

3.2.1

राजा---(आकर्ण्य, सर्वान् प्रति) साधयत यूयमभिमताचरणाय ।
अहमपि तावदभ्यन्तरं प्रविशामि ।
(इति यथोचितमुत्थाय परिक्रम्य निष्क्रान्ताः सर्वे)
इति नाटकप्रकरणे कल्याणस्वप्नो नाम प्रथमोङ्कः ॥
(अथ द्वितीयो ऽङ्कः)
नेपथ्ये)--- ।
इदो इदो अज्जो ।
( ।
इत इत आर्यः । )
(ततः प्रविशति वृद्धकञ्चुकी)
कञ्चुकी---(सहर्षं) चिराय यौवनमतिशयानया चरितार्थया जरयानया संचरे ।
यया दीर्घायुषा
प्रतापरुद्रमहाभिषेकमनुभवितास्मि ।
एष मध्याह्नवर्णनया विच्छिन्नस्य प्रकृतार्थस्य पुनरवमर्शाद्बिन्दुः ।
अपि च---
पदे पदे स्खलन्तं मां वाचा गत्याथ चेष्टया ।
अवलोक्य हसन्नास्ते स्वामी रुद्रनरेश्वरः

3.2.2

(सविमर्शाश्चर्यम्)
काकतीयनरेन्द्रस्य राज्यश्रीर्मूलवेश्मनः ।
युवराजगृहानद्य गवाक्षैः स्वैरमीक्षते

3.2.3

एष राज्यलक्ष्म्याः प्रतापरुद्रगताभिलापाद्विलासः ।
(पुरो ऽवलोक्य)
कथमयं राजपुत्रपरिचारको दारकः ससंभ्रमं मामभिवर्तते ।
(प्रविश्य) दारकः--- ।
अय्य पणमामि ।
( ।
आर्थ प्रणमामि । )
कञ्चुकी---भद्र कल्याणास्पदं भूयाः ।
किमनुमतं राजपुत्रस्य दिग्विजयप्रस्थानं रुद्रनरेश्वरेण ।
दारकः---अकहं कहं वि अणुभदम् ।
(अकथं कथमपि अनुमतम् । )
कञ्चुकी---स्वनामानुगुणमिदं राजपुत्रस्य यत् सज्जीकृतसाधनं महाराजं सपादोपग्रहं निवार्य स्वयमेव जैत्रयात्रायामुत्तिष्ठते ।
दारकः---अअअय्य अणणुहूदजुझ्झपरिस्समो जुवराओ ।
दुक्खरो खु दिअंतजओ कहं भविस्सै ।
(अअआर्य, अननुभूतयुद्धपरिश्रमो युवराजः ।
दुष्करः खुलु दिगन्तजयः कथं भविष्यति । )
कञ्चुकी---भद्र, निरङ्कुशाः स्वयंभूदेवप्रवृत्तयः ।
विष्णोरवतारः खल्वयं वीररुद्रो ऽपि अचिन्त्यमहिमा ।
एष दृष्टनष्टबीजानुसरणरूपः परिसर्पः ।
अत्र स्वप्नवृत्तान्तख्यापनाल्लक्ष्यस्य दिग्विजययात्रोद्यमेनालक्ष्यस्य बीजस्योत्पादनादुद्भेद इति प्रतिमुखसंधिरयम् ।
दारकः--- ।
एव्वं एदम् ।
अमाणुसो खु सो पहावो ।
( ।
एवमेतत् ।
अमानुषः खलु स प्रभावः । )
कञ्चुकी---कुत्रेदानीं राजपुत्रः ?
दारकः---अकाअईअकुलदुग्गादेवीसमाराहणेण विअअपत्थाणमंगलं काऊण तत्थ हणुमदअलपेरंतबहिरुज्जाणे णिवेसिअखंधावारो अमच्चपरिवुदो जुवराओ चिट्ठई ।
ता अणुजाणीहि मम तत्थ पत्थाणं ।
(अकाकतीयकुलदुर्गादेवीसमाराधनेन विजयप्रस्थानमङ्गलं कृत्वा तत्र हनुमदचलपर्यन्तबहिरुद्याने निवेशितस्कन्धावारः अमात्यपरिवृतो युवराजस्तिष्ठति ।
तदनुजानीहि मम तत्र प्रस्थानम् । )
कञ्चुकी---भद्र ! साधय ।
अहमपि राजकुलं प्रविशामि ।
(इति यथोचितं परिक्रम्य निष्क्रान्तौ । )
इयं चूलिका ।
(ततः प्रविशति यथानिर्दिष्टः प्रतापरुद्रो मन्त्रिणः परिजनश्च । )
प्रतापरुद्रः---
किं राज्येन शमोन्मुखं रचयता तातं कुलालम्बनं
किं चास्मिन् समुदाहरन्ति महतो दोषान् बहून् सूरयः ।
धर्माध्वा च खिलीकृतो ऽयमधुना कः संचरेदस्खलंस्
तन्नेष्टं किल यौवराज्यमपि मे बाल्योत्सवे क्रीडतः

3.2.4

तद्वयं महाराजभुजपरिघमसृणितेषु दिगन्तेषु विजययात्राविनोदेन विहरामहे ।
एतद्राज्ये ऽनिच्छाभिधानाद्विधूतम् ।
मन्त्रिणः---राजपुत्र ! सर्वपथीनया काकतीयान्वयभाग्यसंपदा त्वां धुरंधुरं लब्ध्वा नरेन्द्रश्चिरमासक्तां धुरं शिथिलयितुमध्यवस्यति ।
आचारश्चायं काकतीश्वराणां यद्धौरेये पुत्रे शमोन्मुखत्वम् ।
कुलस्वामिना स्वयंभुवाप्येवमेवानुशिष्टम् ।
अनतिक्रमणीया राजपुत्रेण गुर्वोर्गरीयसी खल्वाज्ञा ।
कलिकालदोषशिथिलधर्मप्रतिष्ठां निर्वोढुं वोढुं च महतीं महीधुरमवतीर्णस्य काकतीयविष्णोस्तव न सांप्रतं प्रत्याख्यातुम् ।
प्रतापरुद्रः---(सानुरोधं)
स्वयंभूस्तात इत्येतावीश्वरौ दिव्यमानुषौ ।
तयोरन्यतरो राजा युवराजो ऽस्मि सर्वथा

3.2.5

मन्त्रिणः---राजपुत्र ! साधारणो ऽयं विनयः काकतीश्वराणां स्वयंभुवि महाराजे च ।
एष प्रकृतविषयारत्युपशमाच्छमः ।
परिजनः--- ।
काअईअकुलट्ठविरो तत्तभवंतो सअंभूदेवो धुरं धारेदु ।
राऔत्तो उण रज्जसिरिअं अंके आरोवेदु ।
(काकतीयकुलस्थविरस्तत्रभवान् स्वयंभूदेवो धुरं धारयतु ।
राजपुत्रः पुना राज्यश्रियमङ्के आरोपयतु । )
(प्रतापरुद्रः समन्दस्मितं परिजनमवलोकयति । )
एतत् परिहासवचोरूपं नर्म ।
परिजनः---अचिरेण चरिअत्था मेइणी संवुत्ता ।
(अचिरेण चरितार्था मेदिनी संवृत्ता ।
गोत्रगिरिशिखरनिष्ठुरविकटशिलावसतिबर्बराङ्ग्याः ।
क्षोण्या भवतु वासो बाहौ प्रतापरुद्रस्य ॥)॥
गोत्तगिरिसिहराणिठ्ठुरविअडसिलावसैबब्बरंगीए ।
खोणीए होदु वासो बाहुम्मि पआवरुद्दस्स

3.2.6

अजह हरिचंदस्स भुए जह रहुणाहस्स बाहुफलअम्मि ।
काऐलच्छीपैणो बाहुम्मि तहा मही रमदु

3.2.7

(अयथा हरिश्चन्द्रस्य भुजे यथा रघुनाथस्य बाहुफलके ।
काकतिलक्ष्मीपतेर्बाहौ तथा मही रमताम् ॥)॥
(प्रतापरुद्रः सबाहुस्फुरणमधोमुखस्तिष्ठति । )
एषा परिजनवचनोत्था प्रीतिर्नर्मद्युतिः ।
मन्त्रिणः---राजपुत्र ! काकतीयपुरुषोत्तमस्य तव पाणिग्रहणाय स्पृहयन्ती राज्यलक्ष्मीर्विलम्बं न सहते ।
परिजनः--- ।
विज्जावहूणं अहिअं दठ्ठूण पैम्मि पणअविस्संभं ।
खोणी लच्छी अ कहं विलंबिअं सहौ जुवराए

3.2.8

(विद्यावधूनामधिकं दृष्ट्रवा पत्यौ प्रणयविस्रम्भम् ।
क्षोणी लक्ष्मीश्च कथं विलम्बितं सहतां युवराजे) ॥ ॥
मन्त्रिणः---इत्थमेव ।
स्वतेजसा परिष्कृत्य प्रधानागारमुत्सुका ।
प्रतीक्षते ऽद्य राज्यश्रीर्युवराजसमागमम्

3.2.9

एष मन्त्रिणां परिजनस्य च वाक्यैर्बीजानुरागप्रकाशनात् प्रगमः ।
परिदृ--- ॥
कहं अंदरिओ खु एसो महूसओ दिसाविजअजत्ताए ।
( ॥
कथमन्तरितः खल्वेष महोत्सवो दिग्विजययात्रया । )
एतद्दिगन्तयात्रया प्रकृतकार्यविलम्बनान्निरोधः ।
मन्त्रिणः---(सावज्ञं) कथं चिरयन्त्यन्ध्रचमूपतयः ।
अथवा किं तैः ; वयमपि न केवलं मन्त्रशस्त्राः, किंतु बहुशः समरापदानाराधितस्वामिन एव ।
एतन्निष्ठुरवचनरूपं वज्रम् ।
(प्रविश्य) दौवारिकः--- ।
जेदु जेदु जुअरोओ ।
एदे खु चमूपैणो पडिहारभूमिभाअम्मि सज्जीकिअचौरंगबला वट्टन्ति ।
( ।
जयतु जयतु युवराजः ।
एते खलु चमूपतयः प्रतीहारभूमिभागे सज्जीकृतचतुरङ्गबला वर्तन्ते । )
मन्त्रिणः---अचिरं भोः प्रवेशय ।
दौवारिकः---तथा ।
(इति निष्क्रम्य सेनाधिपतिभिः सह पुनः प्रविष्टः । )
सेनापतयः---(यथोचितं प्रणम्य) स्वामिन् काकतीयकुलतिलक ! सर्वतोमुखाटोपा वाहिन्यः शौर्योदन्वन्तं भवन्तमनुप्राप्ता एव ।
तदनुगृहयालुना कटाक्षेण निरीक्ष्यन्ताम् ।
एतदनुनयवचनरूपं पर्युपासनम् ।
मन्त्रिणः---राजपुत्र ! तर्हि समारुह्यतां प्रतिपक्षनिवारणो वारणः ।
आलोक्यन्तां निरन्तरपरिपन्थिप्रमाथिन्यो वरूथिन्यः ।
प्रस्तूयतां सेनापुरः-सराक्रान्तसकलसामन्तविजयस्थानं प्रस्थानम् ।
प्रतापरुद्रः---यथाभिरुचितममात्येभ्यः ।
(इति गन्धगजाधिरोहणं नाटयति । )
मन्त्रिणः---
करोदग्रेण महसा विष्वगाक्रमितुं दिशः ।
आरोहति गजं वीररुद्रो भास्वानिवोदयम्

3.2.10

एतत् प्रकृतानुगुण्येन विशेषबन्धवचनं पुष्पम् ।
(सर्वे युवराजहस्तिनं पुरस्कृत्य ससंबाधं किंचित् परिक्रामन्ति । )
सेनापतयः---(सोत्साहप्रणामं) स्वामिन्नितो दीयतां दृष्टिः ।
धावत्पादातपादाहतिदलितमहीरन्ध्रनीरन्ध्रनिर्यद्-
धूलीजालाम्बुदान्तर्विलसदसिलताविद्युदुद्दामदीप्ताः ।
उद्यन्निस्साणराणस्तनितपटपटद्दिक्तटाः प्रारभन्ते
प्रावृट्लक्ष्मीं ध्वजिन्यः करिकरटतटस्यन्दिदानाम्बुधाराः

3.2.11

(अन्यतो निरूप्य)
बले चलति संभ्रमप्रतिभये विजेतुं दिशः
पुरन्दरहरिज्जयव्यवसिताः सहायोद्धताः ।
चलन्ति चिरमत्सराः शिखरिणो यथा दन्तिनो
भरावनमदुन्नमद्भुजगराजफक्कत्फणाः

3.2.12

परिजनः---(विलोक्य साश्चर्यं) ।
महंतो खु एसो तिलिङ्गसुभडाणं उस्साहो ।
( ।
महान् खल्वेष त्रिलिङ्गसुभटानामुत्साहः । )
(संस्कृतमाश्रित्य)
उद्यत्तोमरडामराः प्रतिपदप्रोत्क्षिप्तकौक्षेयकाः
स्वैरोद्गीर्णभुसुण्ढयः पटुतराकृष्टध्वनत्कार्मुकाः ।
भ्राम्यद्भीमगदाः समग्रविहरत्प्रासाः स्फुरत्पट्टसाः
खेलन्त्यन्ध्रचमूभटाः सवपुषो रौद्रप्रकारा इव

3.2.13

मन्त्रिणः---अहो तुरङ्गतरङ्गास्त्रिलिङ्गाधिपतेः ।
उत्क्षिप्योत्क्षिप्य पादौ रवितुरगशिरस्ताडनायेव पूर्वौ
पाश्चात्त्याभ्यां पदाभ्यामपि धरणिमवष्टभ्य संरब्धनुन्नाम् ।
वालैर्व्याधूयमानैः प्रतिनृपतिहयोत्साहमुन्मार्जयन्तः
क्रामन्त्यश्वाः सहेलक्रमणपरिणमत्पञ्चधाराप्रपञ्चाः

3.2.14

(विलोक्य) अहो विदलितपरबलमनोरथानां रथानां सभ्रंमः ।
तथा हि---
रथाः सरभसं भ्रमन्निबिडहेमनेमिक्षत-
क्षमातलसमुच्चलद्बहुलधूलिजालाम्बुदैः ।
तिरोहितमसूयया सपदि भानवीयं रथं
विधाय मुखरीभवन्त्यनिभृताक्षधूर्निस्वनाः

3.2.15

प्रतापरुद्रः---(सर्वतो ऽवलोक्य सप्रमोदं) कथं समग्रसाधनानि सैन्यानि ।
बृंहमाणगजाकीर्णा ह्रेषमाणहयाकुलाः ।
संक्रीडत्स्यन्दनाः क्ष्वेडसुभटाः सैन्यसंपदः

3.2.16

मन्त्रिणः---युवराजालोकनादुद्वेलः सैन्यसागरो वर्तते ।
अभ्यापतन्तीरभितो महीभृद्वाहिनीर्बहूः ।
काकतीयबलाम्भोधिरेष स्वैरं ग्रसिष्यते

3.2.17

सेनापतयः---यदादिशन्त्यमात्याः ।
(इति सप्रणामं) विजययात्राकुतूहलिन्यो ध्वजिन्यः सांप्रतं युवराजस्याज्ञां प्रतिपालयन्ति ।
(प्रतापरुद्रः सप्रसादममात्यानालोकयति । )
मन्त्रिणः---(सोत्साहं) प्रतिष्ठन्तां प्राचीं प्रति सैन्यानि ।
सेनापतयः---यथाऽदिशन्त्यमात्याः ।
(इति प्रस्थाननाटितकेन समन्तादवलोक्य सहर्षातिशयम्)
पवनेनानुकूलेन प्रसारितपटाञ्चलाः ।
उद्युञ्जन्त इवाक्रष्टुं ध्वजाः सौत्रामणीं दिशम्

3.2.18

(सर्वे शकुनमभिनन्दन्ति । )
एष प्रस्थानानुगुणशकुनगुणकथनादुपन्यासः ।
प्रतापरुद्रः---(पुरो ऽवलोक्य) कथं कराभ्यामुत्क्षिप्तसाक्षतकनकपात्रः समागत एव विप्रवरः ।
विप्रः---(सविनयमग्रतः स्थित्वा प्राध्वं दक्षिणभुजमुद्यम्य) विजयतां विजयतां वीररुद्रः ।
राजपुत्र ! स्वयंभूदेवमहोत्सवाद्यनन्तरं महीसुरवराशीर्वादवासिताः काकतीयमहाराजेन प्रेषिताः खल्विमे मङ्गलाक्षताः ।
प्रतापदृ---(सप्रणामादरं गृहीत्वा तान् निजोत्तमाङ्गे गजमूर्धनि च निधाय)
अमूलात् फलिता प्रसत्तिलतिका पत्युः स्वयंभूप्रभोर्
आज्ञा क्षत्रियमौलिमण्डनमणेस्तातस्य सानुग्रहा ।
विप्राशीर्वचनानि मन्त्रसुरभीण्याकाङ्क्षितान्यन्वहं
पौराणां च जयोत्तराणि तदमूरीषज्जयाः स्युर्दिशः

मूल पाठ: Pratāparudrīya or Pratāparudrayaśobhūṣaṇa with Kumārasvāmin's commentary Ratnāpaṇa · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc