प्रतापरुद्रीय · अध्याय 3.1
एष प्रक्रिया दशरूपकोक्तरीत्यनुसारेण ।
[इइइ.10-नाटकोदाहरणम्]
नाटकोदाहरणप्रारम्भः ।
तत्र साङ्गं नाटकमुदाह्रियते ।
भद्रां कौतुकवेदिमागतवतोरन्योन्यमासेदुषोः
शैलैर्मेरुहिमाचलप्रभृतिर्भिर्देवैर्हरीन्द्रादिभिः ।
व्याप्तां पार्श्वयुगे पुरो ऽम्बुजभुवा पश्चाच्च मेनादिभिः
साध्वीभिः शिवयोरपाङ्गसरणिर्वैवाहिकी पातु वः
एषा द्वाविंशतिपदा नान्दी ।
अस्यां विवाहप्रवृत्तयोः शिवयोः वर्णनया सकलनरेन्द्रपरिकरस्य प्रतापरुद्रस्य काकतीयराज्यलक्ष्मीप्राप्तिर्नाटकप्रयोजनरूपा किंचिदर्थशक्त्या सूच्यते ।
देयात् सिद्धिं महालक्ष्मीर्जगद्रक्षाधुरंधरा ।
विष्णुवक्षः स्फुरन्मालाविहितालयतोरणा
एषा च नान्दी प्रतापरुद्रराज्यलक्ष्मीमङ्गलविधिलक्षणा ।
नान्द्यन्ते सूत्रधारः (समन्तादवलोक्य सहर्षम्)---
कथमासूत्रित एव समन्ततो रङ्गमङ्गलविधिः !
तथाहि---
आविष्कुर्वन्ति मुरजाः सर्वतः शब्दमाधुरीम् ।
सङ्गीतोपनिषद्विद्यां वीणाः प्रस्तावयन्त्यमूः
एतद्रङ्गप्रसाधनम् ।
(सप्रहर्षम्)---
भूभृत्सुतामहादेवौ पितरौ यस्य विश्रुतौ ।
नरनागाकृतिः श्रीमान् स देवः श्रेयसे ऽस्तु वः
(ऊर्ध्वमवलोक्य)---चिरादनुकूलेन कालेनापगतदुर्दिनानि दिङ्मुखानि ।
यतः---
विहरद्राजहंसश्रीर्विलसन्मित्रमण्डलः ।
प्रसाधयति सन्मार्गं प्रसन्नः शरदागमः
काव्यार्थसूचकाभ्यां श्लोकाभ्यामृतुसमाश्रणेन संस्कृतप्रायनराश्रितवाग्व्यवहाररूपा भारती वृत्तिः कथिता ।
(सविनयमुपसृत्य सभाभिमुखमञ्जलिं बद्ध्वा)
भो भो मध्यमभुवनभागधेयविवर्तस्यैकशिलानगरपुण्यराशेः काकतीयकुलदेवतायाः स्वयम्भूदेवस्य सततमहोत्सवमासेदिवांसो विद्धांसः ! कलार्णवनाट्यवेदाचार्यस्य पुत्रमभिनयदर्पणं मामभिमतरूपकप्रयोगानुज्ञया परमनुगृह्णीत ।
(आकाशे कर्णं दत्त्वा) किं ब्रूथ ?
"यस्मिञ्जगन्मङ्गलमस्ति वस्तु यस्मै स्वयंभूः स्पृहयत्यजस्रम् ।
तच्छ्रोत्रयोर्लोचनयोः पथां नः शृङ्गाटकं नाटकमाविरस्तु
ऽ; इति ।
(सहर्षम्) अस्मन्मनोरथसंवाद्येव परिषदादेशः ।
यत् प्रतापरुद्रचरितानुबन्धः प्रबन्धः सामाजिकानां मनसि वर्तते ।
अहो सर्वं सुघटितमनुविधात्रा विधात्रा ! यतः
सभा स्वयंभूपरमेश्वरस्य प्रतापरुद्रस्य गुणा महार्घाः ।
अहं च नाट्यश्रुतिपारदृश्वा सुधामुचस्तस्य कवेश्च वाचः
एषा प्रशंसयाभिमुखीकरणरूपा भारतीवृत्तेरङ्गं प्ररोचना ।
(सविमर्शम्) कथमस्मत्प्रेयसी संगीतशारिका चिरयति ?
(प्रविश्य) नटी---(पुरो ऽवलोक्य सस्पृहम्)---
किं भारईए सुव्वै मंजीररवो सहाए विहरंतीए ।
अह संगीअसुइ व्वा विण्णादं णट्टप्पमुहतूरणिणाओ
( ।किं भारत्याः श्रूयते मञ्जीररवः सभायां विहरन्त्याः ।
अथ संगीतश्रुतिर्वा विज्ञातं नाट्यप्रमुखतूर्यनिनादः ॥)॥
(अपसृत्य)---अअज्ज इअम्हि ।
आणवेदु को णिओओ अणुट्ठीअदु त्ति ।
(अआर्य इयमस्मि ।
आज्ञापयतु को नियोगो ऽनुष्ठीयतामिति । )
सूत्रधारः---आर्ये,
यद् गेहे कलकण्ठनादमधुरं गास्यामि गीतिं ध्रुवां
लास्यं चारुभिरङ्गहारललितैराविष्करिष्यामि यत् ।
रम्यं यत् किल रङ्गमङ्गलविधिं संपादयिष्याम्यहं
प्रागित्युक्तवती तदद्य निपुणे निर्व्यूढमेवं त्वया
एतत् प्रियसदृशैरप्रियैर्वाक्यैरुपालम्भनाच्छलम् ।
नटी---(सभयम्)अअणट्टसामग्गिं सज्जीकादुं विलंबिअं ।
सज्जीकिआ क्खु एसा ।
केण उण रुव्वएण पओओ उअक्कमीअदु ।
(अअनाट्यसामग्रीं सज्जीकर्तुं विलम्बितम् ।
सज्जीकृता खल्वेषा ।
केन पुना रूपकेण प्रयोग उपक्रम्यताम् । )
सूत्रधारः---नन्विदमेव रूपयतु ।
(इति पत्रिकां ददाति । )
नटी---(गृहीत्वा संस्कृतमाश्रित्य वाच्यति । )
तेजः पर्यायहरयोः किं किं संबोधनं मतम् ।
किमाशीर्वादविषयो विद्यानाथकृतिश्च का
समन्दस्मितं)अणिगूढत्थं खु एदं छेआणं वअणं पडिभादि ।
कीरिसं उत्तरं ? णिरूवेदु अज्जो ।
(अनिगूढार्थं खल्वेतच्छेकानां वचनं प्रतिभाति ।
कीदृशमुत्तरम् ? निरूपयत्वार्यः । )
सूत्रधारः---अयि सुव्यक्तमेतत् ।
प्रतापरुद्रकल्याणमिति प्रतीयत एव
एषा निगूढार्था नालिका ।
नटी--- ।
कहं कहाणाअअणआमहेआणुबंधमणोहरं क्खु नाडअम् ।
पआवोववदंकिअं तस्स रण्णो णाम कहं जाअं ति पुच्छीअदि ।
( ।कथं कथानायकनामधेयानुबन्धमनोहरं खलु नाटकम् ।
प्रतापोपपदाङ्कितं तस्य राज्ञो नाम कथं जातमिति पृच्छ्यते । )
सूत्रधारः---प्रिये श्रूयताम् ।
तं सुजातं समुद्वीक्ष्य क्षोण्यां रविमिवोदितम् ।
प्रतापरुद्र इत्याख्यामकरोत् काकतीश्वरः
अन्यच्च---
विष्णोर्विश्वैकवीरस्य काकतीयकुले स्थितम् ।
अवतारममुं ज्ञात्वा वीररुद्रं प्रचक्षते
नटी---अलोआणं कण्णजुअलस्य भाअहेएण एदं णामजुअलं सुणीअदि ।
चिरस्स णट्टविज्जणुवट्टणं फलिअं, जेण लोअमंगलं काकैमरिंदचरिअं अभिणिज्जै ।
(अलोकानां कर्णयुगलस्य भागधेयेन एतन्नामयुगलं श्रूयते ।
चिरस्य नाट्यविद्यानुवर्तनं फलितं, येन लोकमङ्गलं काकतिनरेन्द्रचरितमभिनीयते ॥)॥
एतन्नाट्यप्रसङ्गेन प्रकृतकार्यावलगनादवलगितं द्वितीयम् ।
सूत्रधारः---अहो प्रज्ञासंवादो ऽयमायुष्मत्याः, यदियं कवीनां प्रश्नोत्तरमालिका ।
यथा किल---
किं लोकश्रवसोर्भाग्यं मङ्गलश्रवणं मुहुः ।
किं मङ्गलं प्रतापाङ्करुद्रस्य चरिताद्भुतम्
एतत्प्रश्नो त्तरमालारूपमुद्धात्यकम् ।
नटी--- ।
अय्यपरिअणेण सव्वं संपद्दीअदि ।
( ।
आर्यपरिजनेन सर्वं संपाद्यते । )
सूत्रधारः---आर्ये,
त्वया दारैरुदारश्रीर्नाट्यसंपदियं मम ।
प्रबन्धलक्ष्मी रीत्येव विदर्भफणितिस्पृशा
एष मिथः स्तोत्ररूपः प्रपञ्चः ।
नटी--- ॥
एआरिसगुणमहग्घपआवरुद्दचरिअं अहिकरिअंतो तस्स कैणो संपुण्णो सरस्सईपसादो ।
( ॥ एतादृशगुणमहार्घप्रतापरुद्रचरितमधिकुर्वतः तस्य कवेः संपूर्णः सरस्वतीप्रसादः । )
सूत्रधारः---आर्ये, एवमेव ।
नन्वेषा कविभारत्योर्वाक्केलिः ।
यथा
किल---
मातर्भारति ! वत्स ! किं ? तव कृपां याचे ऽद्य किं प्रस्तुतं ?
जिह्वा काकतिवीररुद्रनृपतेः स्तोत्राय संनह्यति ।
ज्ञातं ते विहरन्तु वाग्लहरयः संध्यानटद्धूर्जटि-
त्वङ्गन्मौलितरङ्गिणीकलकलारम्भप्रियंभावुकाः
एषान्योन्यसंलापरूपा वाक्केलिः ।
नटी--- ।
अम्हाणं ईरिमणरिंदचरिआणुऊलो णट्टाडंबरो होइ ण वे त्ति सज्झसेण वेवै मे हिअअम् ।
( ।
अस्माकमीदृशनरेन्द्रचरितानुकूलो नाट्याडम्बरो भवति न वेति साध्वसेन वेपते मे हृदयम् । )
सूत्रधारः---(किंचित् सासूयं) आः किमुच्यते ! निरवद्या ननु मन्नाट्यविद्यासामग्री ।
कीदृशी पुनस्तव गीतिर्योग्यतया भविष्यति ?
नटी---असंगीदसारस्स महण्णवो उव्वेल्लिज्जदि ।
अवहाणजाणपत्तं आरूहदु अज्जो ।
(असंगीतसारस्य महार्णव उद्वेल्यते ।
अवधानयानपात्रमारोहत्वार्यः । )
एतदन्योन्यवाक्याधिक्यादधिबलम् ।
सूत्रधारः---चिरमवहित एवास्मि ।
नन्वियमुपक्रम्यते ध्रुवा---
नटकृतध्रुवागानप्रतिज्ञावचनं संभ्रमोदितमिति गण्डम् ।
नटी---(सस्मितं) ।
कहं अज्जो धुवं गाऐ !
( । कथमार्यो ध्रुवां गायति !)
सूत्रधारः---अयि कथमर्धोक्त एव त्वरा, "नाट्यविद्याऽ; इति शेषं न जिघ्रति ।
एतदुक्तस्यान्यथायोजनरूपमवस्यन्दितम् ।
आर्ये, नूनं ध्रुवागानोत्सुकं तव चेतः, तदारभ्यतां गीतिः ।
नटी---(तथा करोति । )
लच्छी सरई अ इमा धवलिअभुवणंतरा विराअंती ।
विलसंतकुवलअसिरी राअस्स पसाहणं कुणै
(लक्ष्मीः सरसी चेयं धवलितभुवनान्तरा विराजन्ती ।
विलसत्कुवलयश्री राज्ञः प्रसाधनं कुरुते ॥)॥
सूत्रधारः---(आकर्ण्य सरसावेशं)
गाढालिङ्गनसंमर्दप्रत्यक्षरगलत्सुधाम् ।
ध्रुवां करोमि सर्वाङ्गे श्रोत्रैकामृतवर्षिणीम्
एष रसवशादसंगतार्थव्याहाररूपो ऽसत्प्रलापः ।
नटी---(सोपहासं)असुउमारा क्खु एसा अय्यस्स णिद्दआलिङ्गणवेल्लणं ण सहै ।
(असुकुमारा खल्वेषार्ऽऽयस्य निर्दयालिङ्गनक्षेपणं न सहते । )
एष हास्यलोभकरो व्याहारः ।
सूत्रधारः---(सव्रीडं)
रसास्वादेन तरला ये माद्यन्ति विपश्चितः ।
त एव भावुक्ता लोके भवन्ति हृदयालवः
एतद्दोषस्य गुणत्वारोपान्मृदवम् ।
नटी--- ॥
अय्यो अणंतरकरणिज्जं णिरूवेदु ।
( ॥ आर्यः अनन्तरकरणीयं निरूपयतु । )
सूत्रधारः---नन्वयमिदानीं सभापतिर्देवः स्वयंभूरुपश्लोक्यते ।
सर्वाङ्गविलस्तसर्वमङ्गलालंकृताकृतेः ।
रुद्रस्य महिमा भाति विश्वानुग्रहकारिणः
नेपथ्ये ।
भोः ! सत्यं सत्यम् ।
सर्वाङ्गविलसत्सर्वमङ्गलालंकृताकृतिरेवायं रुद्र इति ।
सूत्रधारः---(सहर्षं) कथमुपक्रान्तमेवास्मद्वाक्यानुगुण्येन प्रस्तुतस्यानुगुणं कुशलैः कुशीलवैः, यतः काकतीश्वरगुणवर्णनायोद्यतयोर्वैतालिकयोर्वचनमिवोपक्षिप्यते ।
अयं कथोद्धातः ।
इदमेव गुणवर्णनात् प्रवर्तकं च ।
(पुरो ऽवलोक्य) कथमेतौ वैतालिकावित एवाभिवर्तेते ।
एषो ऽयमित्युपक्षेपात् प्रयोगातिशयः प्रस्तावनाङ्गम् ।
तदेहि ।
आवामप्यनन्तरकरणीयाय सज्जीभवावः ।
(इति निष्क्रान्तौ । )
इति समग्राङ्गा प्रस्तावना ।
(ततः प्रविशतः काम्पिल्यकलूतकौ वैतालिकौ । )
प्रथमः---(सहर्षं)
यो ऽयं जातस्त्रिलोकीप्रथितसुचरिते काकतीयान्ववाये
यस्मै श्रेयांस्यजस्रं वितरति भगवान् देवदेवः स्वयंभूः ।
यस्याज्ञा सर्वपृथ्वीपतिमणिमुकुटश्रेणिकेलीवयस्या
सो ऽयं भूपालमौलिर्जयति गुणमहान् रुद्रदेवो नरेन्द्रः
स्वयंभूदेवश्रेयोवितरणरूपबीजन्यासादुपक्षेपो ऽङ्गम् ।
द्वितीयः---सखे ! किमुच्यते,
यो रुद्रो रजताचले स्थितिमगादर्धाङ्गनारिः पुरा
सो ऽयं संप्रति काकतीश्वरकुले सर्वाङ्गनारी स्थितः ।
स्थाने यद्विषमावलोकनकलामात्रेण भस्मीकृता-
न्यासन् वैरिपुराणि चित्रमधुना खड्गे विषं धार्यते
प्रथमः---सखे साधु समर्थितम् ।
अन्यथा कथमस्मै महाराजाय स्वप्ने कुलगुरुसदृशः स्वयंभूदेवस्तादृशीं श्रेयः संग्रहकारिकामुपदिष्टवान् ।
स्वयंभूदेवप्रसादरूपस्य बीजस्य बहूकरणात् परिकरः ।
द्वितीयः---(सविमर्शाश्चर्यं) कथमवगतं राजरहस्यं वयस्येन ?
प्रथमः---सखे, कस्य वा न विदितमिदम् ।
यत् सर्वस्मिन्नपि निजनगरे महोत्सवमादिशता रुद्रनरेश्वरेण कुलदेवतायाः स्वप्नोपदिष्टाः प्रसादविशेषाः प्रख्याप्यन्त एव ।
कुलदेवताप्रसादरूपस्य बीजस्य प्रख्यापनेन परिनिष्पत्तेः परिन्यासः ।
द्वितीयः---अहो निरन्तरप्रसादोन्मुखता देवस्य ।
यथा काकतीयप्रसवेषु श्रेयांस्युत्तरोत्तरमनुबध्यन्ते ।
एतत् बीजस्य श्रेयो ऽनुबन्धरूपगुणख्यापनाद् विलोभनम् ।
तदस्मिन्नेव महीयसि महे महीमण्डलाखण्डलं चलमर्तिगण्डमुपश्लोकयितुमावयोरयमेवावसरः ।
तदेहि राजकुलं प्रविशावः ।
प्रथमः---वयस्य, सांप्रतं पुरोधः प्रमुखानमात्यवृद्धानपि पुरस्कृत्य कल्याणस्वप्नक्रमं मीमांसमानो नृपतिरभ्यन्तरास्थानीमधितिष्ठति ।
तदावामपि तावदितो गत्वा यथावसरं प्रतीक्षावहे ।
(इति परिक्रम्य निष्क्रान्तौ । )
अयं शुद्धविष्कम्भः
अङ्कारम्भः ॥
(ततः प्रविशति यथानिर्दिष्टवेषो राजा चामरग्राहिणी च । )
राजा---(सहर्षातिशयं) अहो प्रसादातिशयः परमेश्वरस्य !
सोमार्काभिजनं तमद्य जयति श्रीकाकतीयान्वयः
पातिव्रत्यमुपैति सांप्रतममीष्वस्मासु विश्वंभरा ।
अस्माभिर्निजदोः प्रसूतिमधुना धन्यामजो मन्यते
यत्कर्तव्यमुपादिशत् कुलपतिर्देवः स्वयंभूः स्वयम्
पुरोधसः---महाराज, भवादृशा एव परमार्हन्ति तादृशमहिम्नो देवस्य हितोपदेशान् ।
अथवा किमत्राभिनवम् ।
पुत्राणां हितोपदेशाधिकारः पितुरेव ।
यदित्थं कथयन्ति तद्विदः ।
सैवोमा चेति निर्दिष्टा सोमा चेति प्रथामगात् ।
तव माता शिवा साक्षाद्देवो गणपतिः पिता
मन्त्रिणः---एवमेवैतत् ।
अन्यथा कथमीश्वरप्रसादादृते निरङ्कुशं स्त्रीव्यक्तिविशेषस्य लोकाधिपत्यम् ।
एवं मानुषशंभुना गणपतिमहाराजेनाभ्यन्तरस्यानुभवमहिम्नः सदृशमत्र पुत्र इति व्यवहारः कृतः ।
तदनुगुणा च रुद्र इत्याख्या ।
पुरोधसः---(सकौतुकं) कीदृशी देवस्य स्वप्नोपदेशपरिपाटी ?
राजा---(सादारं) इदं निवेद्यते ।
कदाचित् कल्याणे रजनीसमये स्मेरवदनं
पुरः प्रादुर्भूतं सयुवतिवपुः साक्षनिटिलम् ।
स्रवन्तीचन्द्राभ्यां महितमुकुटं प्रेक्ष्य किमपि
स्वयंभूदेवो ऽसावयमिति हठोत्थानमभजम्
अनन्तरं स्वप्न एव
वपुषा तं नमस्कृत्य स्तुवन् सूनृतया गिरा ।
स्वामिने काकतीयानां रत्नासनमुपाहरम्
चामरग्राहिणी--- ।
अहो देवस्स अणुसंधाणं जं सिविणे वि कुलसामिणो समाराहणम् ।
( । अहो देवस्यानुसंधानं यत् स्वप्ने ऽपि कुलस्वामिनः समाराधनम् । )
पुरोधसः---किमुच्यते ।
आविष्टभक्तयः खलु स्वयंभूदेवे काकतीयनरदेवाः ।
ततः ।
राजा---
शय्याशिरः स्थानकृतस्य पूर्णकुम्भस्य तोयैः परिकल्प्य पाद्यम् ।
अतीन्दुसारैर्मणिभिः किलाहमपूजयं दैवतमस्मदीयम्
अथ च
विभुः स्वयंभूरवदच्छुचिस्मितां गिरं स्ववामार्धवधूपलालिताम् ।
स्पृशन् करेणाभयदानशालिना कृताञ्जलिं मां विनयानताननम्
यत् किल
उन्मस्तकैर्मध्यमलोकभाग्यैस्तपोविशेषैरनघैः पृथिव्याः ।
सम्यक्फलैः सच्चरितैः प्रजानां प्रतापरुद्रो ऽयमिहावतीर्णः
वत्स काकतीयकुलप्रदीप !
स्वीकृते पुत्रभावेन दौहित्रे प्राङ्ममाज्ञया ।
अस्मिन् निधेहि धौरेये गुर्वीमुर्वीधुरामिति
पुरोधसः---(सप्रमोदं) महाराज, काकतीयकुलयोगक्षेमविधानदक्षिणेन दाक्षायणीपतिना साक्षादेवमादिष्टम् ।
तवाप्ययमेव मनोरथः ।
प्रियंकरश्चायं महोत्सवः प्रजानाम् ।
तदारोहतु प्रागतिसृष्टयौवराज्यस्य प्रतापरुद्रस्य भुजशिखरं सागरमेखला ।
ततस्ततः ।
इयं प्रयोजननिर्धारणरूपा युक्तिः ।
राजा---तद्वचनमाकर्णयन्ती निर्भरहर्षविकस्वरलोचना मेदिन्यपि देवस्य पार्श्वे दृष्टा ।
चामरग्राहिणी--- ।
महाराअस्स हिअअं अणुवट्टमाणाए वसुंधराए उइदो ख्खु हरिसाविभ्भावो ।
एषा स्वयंभूदेवस्य वचनाकर्णनेन मेदिन्याः सुखागमेन प्राप्तिः ।
( । महाराजस्य हृदयमनुवर्तमानाया वसुंधराया उचितः खलु हर्षाविर्भावः । )
राजा---काकतीयकुलश्रेयसां देव एव प्रमाणमिति तस्याज्ञा मया शिरसि धृता ।
देवो ऽपि सप्रसादातिशयमवलोक्यान्तर्हितो ऽभूत् ।
इदं मेदिनीप्राप्तिहेतोर्बीजस्य स्वयंभूदेवोपदेशस्याङ्गीकरणात् समाधानम् ।
मन्त्रिणः---विश्वप्रियंकरः स्वप्नप्रत्ययः ।
किंतु काकतीयनरेन्द्रवृद्धोचितमाचारमनुवर्तमानस्य देवस्य नगरनिवासवैमुख्यं तथा कुलधुरंधरस्य वीररुद्रस्य विश्वरक्षाक्षमे बाहुपरिघे राज्यधुराविश्रान्तिरिति च
विषादहर्षयोः सीमानं स्पृशत्यस्माकं मनः ।
एतत्सुखदुः खहेतुभूतं विधानम् ।
चामरग्राहिणी--- ।
अच्चरिअं अच्चरिअं ।
कुलामच्चमुहेणेव्व पव्वईवल्लहेण एव्वमुवदिट्ठम् ।
( ।
आश्चर्यमाश्चर्यम् ।
कुलामात्यमुखेनेव पार्वतीवल्लभेनैवमुपदिष्टम् । )
इयं बीजविषयाऽश्चर्यरूपा परिभावना ।
राजा---(सहर्षातिशयम्, अमात्यान् प्रति) अयं काकतीयकुलश्रेयः-
कल्पलताप्ररोहः स्वयंभूदेवानुग्रहः सर्वेषामपि श्रवणमहोत्सवः क्रियताम् ।
एष बीजप्रकाशनादुद्भेदः ।
मन्त्रिणः---यदाज्ञापयति काकतीयपरमेश्वरः ।
राजा---किमिदानीं कर्तव्यम् ?
पुरोधसः---महाराज ! किमन्यत् ? सज्जीक्रियतां प्रतापरुद्रदेवस्य राज्याभिषेकसंभारः ।
एष बीजानुगुणप्रोत्साहनरूपो भेदः ।
मन्त्रिणः---दिग्विजययात्रावशीकृतानां सर्वपार्थिवानां वर्गेणानीतैः सकलतीर्थसलिलैः प्रकाशितं स्वयंभूदेवप्रसादं महाभिषेकमनुभवतु राजपुत्रः ।
पुरोधसः---उचितमनुमन्त्रितं मन्त्रिभिः ।
राजा---तर्हि जैत्रयात्रासाधनानि सज्जीक्रियन्तां षड्विधानि बलानि ।
अहमपि सज्जो भवामि ।
एष आरम्भः ।
इदं बीजानुगुणारम्भरूपं करणम् ।
एवमारम्भबीजसम्बन्धरूपः साङ्गो मुखसन्धिः ।
(नेपथ्ये) वैतालिकौ---सुखाय माध्यन्दिनी संध्या भवतु देवस्य ।
यदिदानीम्---
लोकालोकगिरीन्द्रकन्दरतमः संदोहदर्पापहं
त्वत्तेजः पटलं कियन्ति भुवनान्याक्रम्य संक्रीडते ।
इत्यालोकनकौतुकीव शिथिलस्वीयाधिकारश्रमो
भास्वानेष समग्रदीप्तिरधुना व्योमाग्रमारोहति
अपि च---
उद्गायन्ति शरन्निशाकरकरस्तोमत्विषस्त्वद्गुणान्
क्रीडन्त्यो मलयाद्रिचन्दनलताकुञ्जे भुजङ्गाङ्गनाः ।
पीत्वा तत्तदुदीर्णवर्णगलितां प्रत्यग्रधारां सुधां
वाताहारतया प्रभूतमयशः प्रक्षालयन्त्यो निजम्
इदानीं खलु---
आघ्राय किरणान् भानोर्यजुरामोदमेदुरान् ।
यतन्ते कृतिनः सर्वे कर्तुं माध्याह्निकीं क्रियाम्
मूल पाठ: Pratāparudrīya or Pratāparudrayaśobhūṣaṇa with Kumārasvāmin's commentary Ratnāpaṇa · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0