भाषा

ENहिગુ
ग्रंथ पाठ

प्रतापरुद्रीय · अध्याय 3.0

3.0.1

[इइ.7.5 तरावलि]
ताराणां संख्यया पद्यैर्युक्ता तारावली मता ।
एवं कविप्रौढोक्तिसिद्धाः क्षुद्राः प्रबन्धा यथासंभवमूह्याः ।
अथैतेषामुदाहरणानि विस्तरभयादिह नोक्तानि ॥
इति श्रीविद्यानाथविरचिते प्रतापरुद्रयशोभूषणे ऽलंकारशास्त्रे काव्यप्रकरणं समाप्तम् ॥
॥ अथ नाटकप्रकरणम् ॥
॥ अथ नाट्यप्रधानाः प्रबन्धा निरूप्यन्ते ॥
[इइइ.1.1 नाट्यस्वरूपम्]
तत्र नाट्यस्वरूपं निरूप्यते ।
चतुर्विधैरभिनयैः सात्त्विकाङ्गिकपूर्वकैः ।
धीरोदात्ताद्यवस्थानुकृतिर्नाट्यं रसाश्रयम्

3.0.2

भावाश्रयं तु नृत्त्यं स्यान्नृत्तं ताललयान्वितम् ।
एषा दशरूपकोक्ता प्रक्रिया ।
नृत्त्यनृतूयोर्नाटकाद्यङ्गत्वादिह स्वरूपनिरूपणं कृतम् ।
तथोक्तं ऽदशरूपकेऽ---
"मधुरोद्धतभेदेन तद्द्वयं द्विविधं पुनः ।
लास्यताण्डवरूपेण नाटकाद्युपकारकम् ॥
ऽ; इति ।
तेन नाट्येन दश रूपकाणि भवन्ति ।
[इइइ.1.2 दशविधरूपकनिर्देशाः]
नाटकं सप्रकरणं भाणः प्रहसनं डिमः ।
व्यायोगसमवाकारौ वीथ्यङ्केहामृगा दश

3.0.3

नाट्याश्रयत्वेनाभेद इति शङ्का न युज्यते ।
वस्तुनेतृरसास्तेषां रूपकाणां हि भेदकाः

3.0.4

वस्तु त्रिविधम्---प्रख्यातम्, उत्पाद्यम्, मिश्रं चेति ।
तथोक्तं ऽदशरूपकेऽ---
"प्रख्यातोत्पाद्यमिश्रत्वभेदात् तत्त्रिविधं मतम् ऽ; इति ।
[इइइ.1.3 दशविधरूपरकांणां इतिवृत्तादयः]
इतिहासनिबन्धनं प्रख्यातम्, कविकल्पितमुत्पाद्यम्, संकरायत्तं मिश्रं चेति एवमादिवस्तुभेदान्नायकभेदात् रूपकाणां परस्परं भेदः ।
तथा हि---नाटके प्रख्यातमितिवृत्तम्, धीरोदात्तो नायकः, शृङ्गारवीररसयोरन्यतरस्य प्राधान्यम्, अन्येषां रसानामङ्गत्वेनानुप्रवेशः ।
प्रकरणे उत्पाद्यमितिवृत्तम्, धीरशान्तो नायकः, शृङ्गाररसस्यैव प्राधान्यम् ।
भाणे उत्पाद्यमितिवृत्तम्, धूर्तविटो नायकः, शृङ्गारवीरयोः सूचनामात्रसारता ।
प्रहसने कल्प्यमितिवृत्तम्, पाषण्डप्रभृतयो नायकाः, हास्यरसः प्रधानम् ।
डिमे प्रख्यातमितिवृत्तम्, देवगन्धर्वपिशाचादयो धीरोद्धता नायकास्ते षोडश, रौद्ररसः प्रधानम्, वीरशृङ्गारयोरनुप्रवेशः ।
व्यायोगे प्रख्यातमितिवृत्तम्, धीरोद्धतो नायकः, वीररसः प्रधानम् ।
समवकारे देवासुरादयो द्वादश नायकाः, वीररसः प्रधानम्, कल्पितमितिवृत्तं प्रसिद्धं वा ।
वीथ्यां कल्पितमितिवृत्तम्, धीरोद्धतो नायकः, शृङ्गाररसस्य सूचनामात्रसारता ।
अङ्के प्रख्यातमितिवृत्तम्, प्राकृतजनो नायकः, करुणरसः प्रधानम्, ईहामृगे मिश्रमितिवृत्तम्, धीरोद्धतो नायकः, शृङ्गाररसस्याभासत्वम् ।
[इइइ.1.4 द.रू. सामग्री]
अथ तेषां सामग्री निरूप्यते ।
तत्र पञ्च सन्धयः ।
तथा चोक्तं दशरूपके---
"मुखं प्रतिमुखं गर्भः सावमर्शोपसंहृतिःऽ; इति ।
[इइइ.1.5. सन्धिपञ्चकविवेचनम्]
संधिर्नामैकेन प्रयोजनेनान्वितानां कथानामवान्तरप्रयोजनसंबन्धः ।
तत्रारम्भबीजसंबन्धो मुखसंधिः ।
प्रयत्नबिन्दुसंबन्धः प्रतिमुखसंन्धिः ।
प्राप्त्याशापताकयोः संबन्धो गर्भसंधिः ।
नियताप्तिप्रकर्योः संबन्धो विमर्शसंधिः ।
फलागमकार्ययोः संबन्धो निर्वहणसंधिः ।
तथा चोक्तं दशरूपके---
"बीजबिन्दुपताकाख्यप्रकरीकार्यलक्षणाः ।
आरम्भयत्नप्राप्त्याशानियताप्तिफलागमाः ॥
अर्थप्रकृतयः पञ्च पञ्चावस्थासमन्विताः ।
यथासंख्येन जायन्ते मुखाद्याः पञ्च संधयः ॥
ऽ; इति ।
अथारम्भादीनां लक्षणं निरूप्यते---
औत्सुक्यमात्रमारम्भः फललाभाय भूयसे ।
प्रयत्नस्तु फलप्राप्तौ व्यापारो ऽतित्वरान्वितः

3.0.5

उपायापायङ्काभ्यां प्राप्त्याशा कार्यसंभवः ।
अपायाभावतः कार्यनिश्चयो नियताप्तिका

3.0.6

समग्रफलसंपत्तिः फलागम उदाहृतः ।
अथ बीजादिपञ्चकं निरूप्यते---
स्तोकोद्दिष्टः कार्यहेतुर्बींजं विस्तार्यनेकधा

3.0.7

अवान्तरार्थविच्छेदे बिन्दुरच्छेदकारणम् ।
प्रतिपाद्यकथाङ्गं स्यात् पताका व्यापिनी कथा

3.0.8

अव्यापिनी प्रकरिका कार्यं निर्वाहकृत् फले
[इइइ.2 मुखसन्धिः]
अथ मुखं निरूप्यते---
मुखं बीजसमुत्पत्तिर्नानार्थरससंभवा

3.0.9

अङ्गानि द्वादशैतस्य बीजारम्भसमन्वयात्
बीजारम्भानुगुण्येन मुखसन्धेरङ्गानि प्रयोक्तव्यानि ।
उपक्षेपः परिकरः परिन्यासो विलोभनम्

3.0.10

युक्तिः प्राप्तिः समाधानं विधानं परिभावना ।
उद्भेदभेदकरणान्यन्वर्थानि यथाक्रमम्

3.0.11

यथाक्रममेषां स्वरूपं निरूप्यते---
बीजन्यास उपक्षेपः ।
बीजस्य बहूकरणं परिकरः ।
बीजनिष्पत्तिः परिन्यासः ।
बीजगुणवर्णनं विलोभनम् ।
बीजानुकूलसंघटनप्रयोजनविचारो युक्तिः ।
बीजसुखागमः प्राप्तिः ।
बीजसंनिधानं समाधानम् ।
बीजसुखदुः खहेतुर्विधानम् ।
बीजविषयाश्चर्यावेशः परिभावना ।
गूढबीजप्रकाशनमुद्भेदः ।
बीजानुगुणप्रोत्साहनं भेदः ।
बीजानुगुणप्रस्तुतकार्यारम्भः करणम् ।
एतानि द्वादश मुखसन्धेरङ्गानि ।
एतेषां मध्ये उपक्षेपपरिकरपरिन्यासयुक्त्युद्भेदसमाधानानामावश्यकत्वम् ।
[इइइ.3 प्रतिमुखसन्धिः]
अथ प्रतिमुखसन्धिः---
लक्ष्यालक्ष्यस्य बीजस्य व्यक्तिः प्रतिमुखं मतम् ।
बिन्दुप्रयत्नानुगमादङ्गान्यस्य त्रयोदश

3.0.12

बिन्दुप्रयत्नानुगुण्येन प्रतिमुखसन्धेरङ्गानि प्रयोक्तव्यानि ।
विलासः परिसर्पश्च विधूतं शमनर्मणी ।
नर्मद्युतिः प्रगमनं निरोधः पर्युपासनम्

3.0.13

वज्रं पुष्पमुपन्यासो वर्णसंहार इत्यपि
एषां स्वरूपं निरूप्यते---
संभोगविषयमनोरथो विलासः ।
दृष्टनष्टपदार्थानुसरणं परिसर्पः ।
अनिष्टवस्तुविक्षेपो विधूतम् ।
अरत्युपशमनं शमः ।
परिहासवचनं नर्म ।
अनुरागोद्धाटनोत्था प्रीतिर्नर्मद्युतिः ।
उत्तरोत्तरवाक्यैरनुरागबीजप्रकाशनं प्रगमनम् ।
छद्मना हितागमननिरोधनं निरोधः ।
इष्टजनानुनयः पर्युपासनम् ।
प्रमुखनिष्ठुरवचनं वज्रम् ।
अनुरागप्रकाशनविशिष्टवचनं पुष्पम् ।
अनुरागहेतुवाक्यरचनोपन्यासः ।
चतुर्वर्णनिर्वर्णतं वर्णसंहारः ।
एतेषां मध्ये परिसर्पप्रगमनवज्रोपन्यासपुष्पाणां प्राधान्यम् ।
[इइइ.4 गर्भसन्धिः]
अथ गर्भसंधिः---
गर्भस्तु दृष्टनष्टस्य बीजस्यान्वेषणं मुहुः

3.0.14

अस्याप्त्याशापताकानुगुण्येनाङ्गोपकल्पनम्
पताकाप्राप्त्याशानुगुण्येन गर्भसन्धेरङ्गानि प्रयोक्तव्यानि ।
अभूताहरणं मार्गो रूपोदाहरणक्रमाः

3.0.15

संग्रहश्चानुमानं च तोटकाधिबधे तथा ।
उद्वेगसंभ्रमाक्षेपा द्वादशाङ्गान्यनुक्रमात्

3.0.16

एषां स्वरूपं निरूप्यते---
प्रस्तुतोपयोगिच्छद्माचरणमभूताहरणम् ।
तत्त्वार्थानुकीर्तनं मार्गः ।
वितर्कप्रतिपादनावाक्यं रूपम् ।
प्रस्तुतोत्कर्षाभिधानमुदाहृतिः ।
संचिन्तितार्थप्राप्तिः क्रमः ॥
प्रस्तुतोपयोगिसामदानवचनं संग्रहः ।
(प्रस्तुतोपयोगिसमाधानवाक्यमिति पाठान्तरम् ॥)॥
लिङ्गादभ्यूहनमनुमानम् ।
रोषसंभ्रमवचनं तोटकम् ।
इष्टजनातिसंधानमधिबलम् ।
अपकारिजनाद् भयमुद्वेगः ।
शङ्कात्रासौ च संभ्रमः ।
इष्टार्थोपायानुसरणमाक्षेपः ।
एतेषां मध्ये ऽभूताहरणमार्गतोटकाधिबलाक्षेपाणां प्राधान्यम् ।
[इइइ.5 विमर्शसन्धिः]
अथ विमर्शसंधिः---
गर्भसंधौ प्रसिद्धस्य बीजार्थस्यावमर्शनम् ।
हेतुना येन केनापि विमर्शः संधिरिष्यते

3.0.17

नियताप्तिप्रकर्युक्तेरङ्गान्यत्र त्रयोदश
नियताप्तिप्रकर्यानुगुण्येन विमर्शसंधेरङ्गानि प्रयोक्तव्यानि ।
तत्रापवादः संफेटो विद्रवद्रवशक्तयः

3.0.18

द्युतिः प्रसङ्गश्चलनं व्यवसायो निरोधनम् ।
प्ररोचनं विचलनमादानं तु त्रयोदश

3.0.19

एतेषां स्वरूपं निरूप्यते---
दोषप्रख्यापनमपवादः ।
रोषसंभाषणं संफेटः ।
वधबन्धादिकं विद्रवः ।
गुरुतिरस्कृतिर्द्रवः ।
विरोधशमनं शक्तिः ।
तर्जनोद्वेजने द्युतिः ।
गुरुकीर्तनं प्रसङ्गः ।
उपमानं चलनम् ।
स्वशक्तिप्रशंसनं व्यवसायः ।
क्रोधसंरब्धानामन्योन्यविक्षेपो निरोधनम् ।
सिद्धवद्भाविश्रेयः कथनं प्ररोचनम् ।
स्वगुणाऽविष्करणं विचलनम् ।
कार्यसंग्रह आदानम् ।
एतेषां मध्ये अपवादशक्तिव्यवसायप्ररोचनादानानां प्राधान्यम् ॥
[इइइ.6निर्वहरणसन्धिः]
अथ निर्वहणसंधिः---
बीजवन्तो मुखाद्यर्था विप्रकीर्णा यथायथम् ।
ऐकार्थ्यमुपनीयन्ते यत्र निर्वहणं हि तत्

3.0.20

फलाप्तिकार्यानुगुण्यादङ्गान्यस्य चतुर्दश
फलाप्तिकार्यानुगुण्येन निर्वहणसंधेरङ्गानि चतुर्दश प्रतिपादनीयानि ।
संधिर्विरोधो ग्रथनं निर्णयः परिभाषणम्

3.0.21

प्रसादानन्दसमयाः कृत्याभाषोपगूहनम् ।
पूर्वभावोपसंहारौ प्रशस्तिश्च चतुर्दश

3.0.22

एतेषां स्वरूपं निरूप्यते---
बीजोपशमनं संधिः ।
कार्यमार्गणं विरोधः ।
कार्योपक्षेपणं ग्रथनम् ।
बीजानुगुणकार्यप्रख्यापनं निर्णयः ।
मिथो जल्पनं परिभाषा ।
पर्युपासनं प्रसादः ।
वाञ्छितार्थप्राप्तिरानन्दः ।
दुः खप्रशमनं समयः ।
लब्धस्थिरीकरणं
कृतिः ।
प्राप्तकार्यानुमोदनम् आभाषणम् ।
अद्भुतार्थप्राप्तिः उपगूहनम् ।
इष्टकार्यदर्शनं पूर्वभावः ।
कार्यार्थोपसंहृतिः संहारः ।
शुभशंसनं प्रशस्तिः ।
एवं चतुः षष्ट्यङ्गसमन्विताः पञ्च सन्धयः प्रतिपादिताः ।
[इइइ.6.1सन्धिनांप्रयोजनानि]एतेषां षट् प्रयोजनानि संभवन्ति---विवक्षितार्थप्रतिपादनं, गोप्यार्थगोपनं, प्रकाश्यार्थप्रकाशनं, अभिनयरागसमृद्धिः, चमत्कारित्वम्, इतिवृत्तविस्तरश्चेति ।
तत्रेतिवृत्तं सूच्यमसूच्यं चेति द्विविधम् ।
असूच्यमपि द्विविधं---दृश्यं श्राव्यं च ।
तत्र सूच्यस्य सूचनाक्रमः पञ्चविधः ।
तथोक्तं ऽदशरूपकेऽ---
"विष्कम्भचूलिकाङ्कास्यप्रवेशाङ्कावतारणैःऽइति ।
एतेषां स्वरूपं निरूप्यते---
[इइइ.6.2विष्कम्भिका]
वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः ।
संक्षेपार्थस्तु विष्कम्भो मध्यपात्रप्रयोजितः

3.0.23

स द्विविधः-शुद्धः संकीर्णश्चेति ।
केवलसंस्कृतप्रायः शुद्धः ।
संस्कृतप्राकृतमिश्रितः संकीर्णः ।
[इइइ.6.3चूलिका]
अथ चूलिका---
अन्तर्यवनिकासंस्थैश्चूलिकार्ऽथस्य सूचना
यत्र नेपथ्यगतैः पात्रैरर्थः सूच्यते सा चूलिका ।
[इइइ.6.4अङ्कास्यम्]
अथाङ्कास्यम्---
अङ्कान्तपात्रैरङ्कास्यमुत्तराङ्कार्थसूचना

3.0.24

यत्र पूर्वाङ्कान्तपात्रैरुत्तराङ्कार्थः सूच्यते तदङ्कास्यम् ।
[इइइ.6.5प्रवेशकः]
अथ प्रवेशकः---
वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः ।
प्रवेशकस्तु नाद्ये ऽङ्के नीचपात्रप्रयोजितः

3.0.25

नीचपात्रप्रयुक्तः प्रवेशकः आद्ये ऽङ्के न प्रयोक्तव्यः ।
[इइइ.6.6अङ्कावतारः]
अथाङ्कावतारः---
यत्र स्यादुत्तराङ्कार्थः पूर्वाङ्कार्थानुसंगतः
असूचिताङ्कपात्रं तदङ्कावतरणं मतम् ॥
एभिः सूच्यं सूचयित्वा दृश्यमङ्कैः प्रदर्शयेत्

3.0.26

[इइइ.6.7अङ्कास्वरूपम्]
तत्राङ्कस्वरूपं निरूप्यते---
प्रत्यक्षनेतृचरितो बिन्दुव्यक्तिपुरस्कृतः ।
अङ्को नानाप्रकारार्थसंविधानरसाश्रयः

3.0.27

इइइ.7.अथामुखं निरूप्यते---
सूत्रधारो नटीं ब्रूते मारिषं वा विदूषकम् ।
स्वकार्यप्रस्तुताक्षेपि चित्रोक्त्या यत् तदामुखम्

3.0.28

प्रस्तावना वा तत्र स्यात् कथोद्घातः प्रवर्तकम् ।
प्रयोगातिशयश्चेति त्रीण्यङ्गान्यामुखस्य तु

3.0.29

एषामङ्गानां स्वरूपं निरूप्यते---
स्वेतिवृत्तसमं वाक्यमर्थं वा यत्र सूत्रिणः ।
गृहीत्वा प्रविशेत् पात्रं कथोद्धातो द्विधैव सः

3.0.30

प्रस्तूयमानकालस्य गुणवर्णनया स्वतः ।
प्रविशेत् सूचितं पात्रं यत्र तत्स्यात् प्रवर्तकम्

3.0.31

एषो ऽयमित्युपक्षेपात् सूत्रधारप्रयोगतः ।
पात्रप्रवेशो यत्रायं प्रयोगातिशयो मतः

3.0.32

इइइ.8
वीथ्यङ्गान्यामुखाङ्गत्वादुच्यन्ते ऽत्र स्वभावतः ।
उद्धात्यकावलगिते प्रपञ्चत्रिगते छलम्

3.0.33

वाक्केल्यधिबले गण्डमवस्यन्दितनालिके ।
असत्प्रलापव्याहारमृदवानि त्रयोदश

3.0.34

एषां स्वरूपं निरूप्यते---
गूढार्थपदपर्यायमालारूपेण प्रश्नोत्तरमालारूपेण चोद्धात्यकं द्विविधम् ।
अवलगितमपि द्विविधम् ।
यत्रैकत्र समावेशात् कार्यमन्यत्र सिद्ध्यति ।
वस्तुनो ऽन्यत्र वा यत्स्यात् द्विधावलगितं मतम्

3.0.35

अन्यकार्यच्छद्मना अन्यकार्यकरणम्, अन्यकार्यप्रसङ्गात् प्रकृतकार्यसिद्धिश्च ।
असद्भूतं मिथः ।
स्तोत्रं प्रपञ्चः ।
त्रिगतं द्विविधं---पूर्वरङ्गाङ्गं प्रस्तावनाङ्गं चेति ।
पूर्वरङ्गे नटादिसंलापः, अत्र तु साम्यादनेकार्थयोजनं त्रिगतम् ।
प्रियसदृशैर्वाक्यैरप्रियैर्विलोभनं छलम् ।
साकाङ्क्षस्यापि वाक्यस्य निवर्तनमुक्तिप्रत्युक्तिः वाक्केलिर्द्विविधा ।
स्पर्धयान्योन्यवाक्याधिक्यमधिबलम् ।
सहसोदितं प्रस्तुतविरोधि गण्डम् ।
रसवशादुक्तान्यथाव्याख्यानमवस्यन्दितम् ।
सोपहासनिगूढार्थप्रहेलिका नालिका ।
असंबन्धकथाप्रायः प्रलोपो ऽसत्प्रलापः ।
अन्यार्थं हास्यलोभकरं वचनं व्याहारः ।
दोषाणां गुणत्वप्रतिपादनं मृदवम् ।
एतेषां मध्ये यथासंभवं कानिचित् प्रस्तावनायां प्रयोक्तव्यानि ।
इइइ.9अथ दशरूपकाणां स्वरूपं निरूप्यते ।
तत्र
[इइइ.9नाटकलक्षणम्]
साङ्गैर्मुखप्रतिमुखगर्भमर्शोपसंहृतैः ।
पूर्णं प्रकृतिरन्येषामाधिकारिकवृत्तवत्

3.0.36

वीरशृङ्गारयोरेकः प्रधानं यत्र वर्ण्यते ।
प्रख्यातनायकोपेतं नाटकं तदुदाहृतम्

3.0.37

[इइइ.9.1नान्दीस्वरूपम्]
तत्र नान्दीस्वरूपं निरूप्यते---
अर्थतः शब्दतो वापि मनाक् काव्यार्थसूचनम्
यत्राष्टभिर्द्वादशभिरष्टादशभिरेव वा ॥
द्वाविंशत्या पदैर्वापि सा नान्दी परिकीर्तिता

3.0.38

नाटकादिरूपकाणामादौ विहितं पद्यं नान्दीत्युच्यते ।
वेणीसंहारे ऽष्टपदा नान्दी ।
अनर्घराघवे द्वादशपदा ।
बालरामायणे द्वाविंशतिपदा ।
कैश्चित् नान्द्यां पदनियमो नाभ्युपगतः ।
नान्द्यनन्तरं प्रविष्टेन सूत्रधारेण रङ्गप्रसाधनपुरः सरं भारतीवृत्त्याश्रयणेन श्लोकैः काव्यार्थः सूचनीयः ।
तथोक्तं ऽदशरूपकेऽ---
"रङ्गं प्रसाध्य मधुरैः श्लोकैः काव्यार्थसूचकैः ।
ऋतुं कंचिदुपादाय भारतीं वृत्तिमाश्रयेत् ॥
ऽ; इति ।
एषा प्रक्रिया नाटकस्यैव मुख्या ।
[इइइ.9.2-प्रकतणम्]
अथ प्रकरणम्---
उत्पाद्येनेतिवृत्तेन धीरशान्तप्रधानकम् ।
शेषं नाटकतुल्याङ्गं भवेत् प्रकरणं हि तत्

3.0.39

[इइइ.9.3-भाणः]
अथ भाणः---
भारतीवृत्तिभूयिष्ठं शौर्यसौभाग्यसंस्तवैः ।
सूच्येते वीरशृङ्गारौ विटेन निपुणोक्तिना

3.0.40

कल्पितेनेतिवृत्तेन धूर्तचारित्रवर्णनम् ।
एको ऽङ्को मुखनिर्वाहौ यत्र भाणः स संमतः

3.0.41

[इइइ.9.4-प्रहसनम्]
अथ प्रहसनम्---
यत्र सन्ध्यङ्गवृत्त्यङ्गवर्णनं भाणवन्मतम् ।
हास्यो रसः प्रधानं स्याद्भवेत् प्रहसनं हि तत्

3.0.42

तच्च त्रिविधम्---शुद्धं वैकृतं संकीर्णं चेति ।
तत्र शुद्धम्---
पाषण्डविप्रप्रभृतिचेटीचेटसमाकुलम् ।
वेषभाषादिसहितं शुद्धं हास्यवचो ऽन्वितम्

3.0.43

अथ वैकृतम्---
कामुकादिवचोवेषैः षण्डकञ्चुकितापसैः ।
प्रहासाभिनयप्रायं वैकृतं तत् प्रकीर्त्यते

3.0.44

अथ संकीर्णम्---
यद् वीथ्यङ्गैः समाकीर्णं संकीर्णं धूर्तसंकुलम्

3.0.45

[इइइ.9.5-डिमः]
अथ डिमः---
यत्र वस्तु प्रसिद्धं स्याद् वृत्तयः वैशिकीं विना ।
नेतारो देवगन्धर्वयक्षरक्षोमहोरगाः

3.0.46

भूतप्रेतपिशाचाद्याः षोडशात्यन्तमुद्धताः ।
हास्यशृङ्गाररहिता रसा रौद्रप्रधानकाः

3.0.47

चत्वारो ऽङ्काः संधयश्च चत्वारो मर्शवर्जिताः ।
मायेन्द्रजालसंग्रामसूर्यचन्द्रग्रहादयः ॥
शेषं नाटकवत् सर्वं स डिमः परिकीर्त्यते

3.0.48

[इइइ.9.6-व्यायोगः]
अथ व्यायोगः---
यत्र ख्यातेतिवृत्तं स्यादुद्धतो नायको मतः ।
गर्भावमर्शराहित्यं डिमवद् रसपोषणम् ।
एकवासरकार्यं च स व्यायोगो महारणः

3.0.49

[इइइ.9.7-समवकारः]
अथ समवकारः---
यत्रामुखं नाटकवत् संधयो मर्शवर्जिताः ।
नेतारो द्वादश पृथक्फला देवासुरादयः

3.0.50

वीरप्रधानाश्च रसास्त्रयो ऽङ्कास्तेषु च क्रमात् ।
वस्तुस्वभावदैवारिकृताः स्युः कपटास्त्रयः

3.0.51

पुररोधरणाग्न्यादिनिमित्ता विद्रवास्त्रयः ।
धर्मार्थकामानुगुणास्तिस्रः शृङ्गाररीतयः

3.0.52

प्रथमे ऽङ्के निबद्धव्या कथा यामत्रयावधिः ।
यामावधिर्द्वितीये ऽङ्के तृतीये ऽङ्के ऽर्धयामिका

3.0.53

असौ समवकारः स्याद् वीथ्यङ्गैः कैश्चिदन्वितः
[इइइ.9.8-वीथी]
अथ वीथी---
यत्र भाणवदङ्गानां कॢप्तिर्वृत्तिस्तु कैशिकी

3.0.54

शृङ्गारः परिपूर्णत्वात् सूचनीयो ऽतिभूयसा ।
उद्धात्यकादीन्यङ्गानि सा वीथी वीथिवन्मता

3.0.55

[इइइ.9.9-अङ्कः]
अथाङ्कः---
यत्रेतिवृत्तं प्रख्यातं प्रधानं करुणो रसः ।
स्त्रीणां विलासो वाग्युद्धं नेतारः प्राकृता नराः ॥
भाणवत् संधिवृत्त्यादि स उत्सृष्टो ऽङ्कसंज्ञकः

3.0.56

[इइइ.9.10-ईहामृगः]
अथेहामृगः---
मिश्रमीहामृगे वृत्तं चतुरङ्कं त्रिसन्धिकम् ।
मर्त्यदिव्यौ च नियमान्नायकप्रतिनायकौ

3.0.57

धीरोद्धतौ स्त्रियं दिव्यां हर्तुकामौ च कामुकौ ।
अवधं युद्धमन्योन्यमाभासरसयोस्तयोः

मूल पाठ: Pratāparudrīya or Pratāparudrayaśobhūṣaṇa with Kumārasvāmin's commentary Ratnāpaṇa · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc