प्रतापरुद्रीय · अध्याय 2
सर्वनायकातिशायित्वाद्धीरोदात्तस्य तद्विषयत्वं प्रबन्धानामतिश्लाघाकारणम् ॥
इति श्रीविद्यानाथकृतौ प्रतापरुद्रयशोभृषणे ऽलंकारशास्त्रे
नायकप्रकरणं समाप्तम् ॥
इति पदवाक्यप्रमाणपारावारपारीणश्रीमहोपाध्यायकोलचलमल्लिनाथसूरिसूनुना विश्वजनीनविद्यस्य विद्वन्मणेः पेद्दयार्यस्यानुजेन कुमारस्वामिसोमपीथिना विरचिते प्रतापरुद्रीयव्याख्याने रत्नापणाख्याने नायकनिरूपणं नाम प्रथमं प्रकरणम् ॥
[इइ.1. अथ काव्यप्रकरणम्]
॥ अथ काव्यस्वरूपनिरूपणम् ॥
[इइ.1 काव्यस्वरूरपम्]
गुणालंकारसहितौ शब्दार्थौ दोषवर्जितौ ।
गद्यपद्योभयमयं काव्यं काव्यविदो विदुः
[इइ.2 काव्यसामान्यलक्षणम्]
"अदोषौ सगुणौ सालंकारौ शब्दार्थौ काव्यम्"इति काव्यसामान्यलक्षणम् ।
शब्दार्थौ मूर्तिराख्यातौ जीवितं व्यङ्ग्यवैभवम् ।
हारादिवदलंकारास्तत्र स्युरुपमादयः
श्लेषादयो गुणास्तत्र शौर्यादय इव स्थिताः ।
आत्मोत्कर्षावहास्तत्र स्वभावा इव रीतयः
शोभामाहार्थिकीं प्राप्ता वृत्तयो वृत्तयो यथा ।
पदानुगुण्यविश्रान्तिः शय्या शय्येव संमता
रसास्वादप्रभेदाः स्युः पाकाः पाका इव स्थिताः ।
प्रख्याता लोकवदियं सामग्री काव्यसंपदः
[इइ.3 वाचक-लक्षक-व्यञ्जकरूपेण शब्दत्रैविध्यम्]
वाचकलक्षकव्यञ्जकत्वेन त्रिविधं शब्दजातम् ।
वाच्यलक्ष्यव्यङ्ग्यत्वेनार्थजातमपि त्रिविधम् ।
तात्पर्यार्थो ऽपि व्यङ्ग्यार्थ एव, न पृथग्भूतः ।
[इइ.4 वृत्तित्रैविध्यम्]
अभिधालक्षणाव्यञ्जनाख्यास्तिस्रः शब्दवृत्तयः ।
[इइ.5 लक्षणायाश्चातुर्विध्यम्]
गौणवृत्तिरपि लक्षणाप्रभेद एव, संबन्धानुपपत्तिमूलकत्वात् ।
यथाग्निर्माणवक इत्यत्राग्निसादृश्यविशिष्टमाणवकप्रतिपत्तिर्विवक्षिता, तथैव गङ्गायां घोष इत्यत्र गङ्गासंबन्धविशिष्टतीरप्रतिपत्तिर्विवक्षिता ।
गङ्गासंबन्धस्योपलक्षणत्वे घोषगतपवित्रत्वाद्यसिद्धेः ।
अत एव सादृश्यनिबन्धना संबन्धनिबन्धना चेति द्विविधा लक्षणा ।
संबन्धनिबन्धना जहद्वाच्या अजहद्वाच्या चेति द्विविधा ।
सादृश्यनिबन्धना सारोपा साध्यवसाया चेति व्दिविधा ।
एवं लक्षणा चतुर्विधा ।
[इइ.6 काशिक्यादित्तयस्त्वन्या]
कैशिक्यारभटी सात्त्वती भारती चेति रचनाश्रितत्वेन रसावस्थानंसूचकाश्चतस्नो वृत्तयः ।
तथा चोक्तं ऽदशरूपकेऽ---
"कैशिक्यारभटी चैव सात्त्वती भारती तथा ।
चतस्रो वृत्तयो ज्ञेया रसावस्थानसूचकाः ॥
ऽ; इति ।
रचनाया अपि रसव्यञ्जकत्वं प्रसिद्धम् ।
रसाननुगुणवर्णरचनाया दोषत्वमुक्तम् ।
वैदर्भीप्रभृतयो रीतिविशेषा न वृत्तिष्वन्तर्भूताः ।
[इइ.7 अभिधानिरूपणम्]
तत्र संकेतितार्थगोचरः शब्दव्यापारो ऽभिधा ।
सा द्विविधा---रूढिपूर्विका योगपूर्विका चेति ।
रूढिपूर्विका यथा---
तपोविशेषैः प्रथितैः प्रजानां शुभैश्चरित्रैर्जगतीमहिष्याः ।
भाग्यैः प्रभूतैर्भुवनस्य चास्य बिभर्ति राज्यं वरवीररुद्रः
अत्र सर्वे शब्दा रूढाः ।
योगपूर्विका यथा---
राज्ञि रुद्रनराधीशे रञ्जयत्यखिलाः प्रजाः ।
भूरन्वर्था वसुमती रत्नगर्भा स्थिरेति च
अत्र वसुमतीरत्नगर्भेत्येवमादयो यौगिकाः ।
[इइ.8 लक्षणनिरूपणम्]
वाच्यार्थानुपपत्त्या तत्संबन्धिन्यारोपितः शब्दव्यापारो लक्षणा ।
[इइ.9जहल्लक्षणानिरूपणम्]
तत्र जहल्लक्षणा यथा---
जेतुः काकतिभूभर्तुराकर्ण्य पटहध्वनिम् ।
सामन्तनगराण्युच्चैराक्रोशन्ति समन्ततः
अत्र नगराण्युच्चैराक्रोशन्तीति वाच्यस्यानन्वयः ।
अचेतनानामाक्रोशस्यासंभवात् तत्रत्या जना लक्ष्यन्ते ।
[इइ.10अजहल्लक्षणानिरूपणम्]
अजहल्लक्षणा यथा---
पत्युः काकतिनाथस्य पादपीठीमनारतम् ।
स्फुरद्रत्नप्रभाजालैरलंकुर्वन्ति मौलयः
अत्रालंकारसिद्ध्यर्थं मौलिभिस्तदाश्रयभूता नृपतयो लक्ष्यन्ते ।
[इइ.11सरोपलक्षणानिरूपणम्]
सारोपलक्षणा यथा---
मन्थानाचलमूलमेचकशिलासंघट्टनश्यामिका-
कारं यत्तुहिनद्युतौ स्फुरति तत् सारङ्गमाचक्षते ।
मन्ये नन्विह वीररुद्रनृपतेः कीर्त्तिश्रिया निर्जित-
स्तन्मुद्राङ्कवराहमिन्दुरुरसा बिभ्रत् समुज्जृम्भते
अत्र चन्द्रकलङ्करूपे कुरङ्गे वराहत्वमारोप्यते ।
विषयविषयिणोरभिहितयोरभेदप्रतिपत्तिरारोपः ।
विषयनिगरणेनाभेदप्रतिपत्तिरध्यवसायः ।
[इइ.12 साध्यवसानलक्षणानिरूपणम्]
साध्यवसायलक्षणा यथा---
काकतीयकुलाम्भोधेः प्रभवत्येष चन्द्रमाः ।
कृतः कुवलयोल्लासो येनोदयमुपेयुषा
अत्र प्रतापरुद्रश्चन्द्रतयाध्यवसीयते ।
काकतीयकुलाम्भोधेरित्यत्रारोपः ॥
[इइ.13 व्यञ्जनावृत्ति]
अथ व्यञ्जनावृत्तिः
अन्वितेषु पदार्थेषु वाक्यार्थोपस्कारार्थमर्थान्तरविषयः शब्दव्यापारो व्यञ्जनावृत्तिः ।
सा त्रिविधा शब्दार्थोभयशक्तिमूलत्वेन ।
[इइ.14 शब्दशक्तिमूलाव्यञ्जना]
तत्र शब्दशक्तिमूला यथा---
वाहिन्यः काकतीन्द्रस्य सर्वतोमुखसंभ्रमाः ।
कुर्वन्त्युद्यत्कबन्धाढ्यं प्रतिपक्षबलार्णवम्
अत्र वाहिनीसर्वतोमुखकबन्धशब्दानामर्थप्रकरणादिना सैन्यसर्वव्यापित्वलूनमस्तकदेहपराणां वाचकत्वे नियन्त्रिते ऽपि शब्दशक्तिमूला नदीजलप्रतिपत्तिर्यतो जायते सा व्यञ्जनावृत्तिः ।
प्राकरणिकार्थपर्यवसिताभिधा न शक्नोत्यप्राकरणिकार्थप्रतिपत्तिं कर्तुम् ।
अप्राकरणिकार्थस्यापि वाक्यार्थशोभार्थं वक्तुर्विवक्षितत्वात् ।
अन्यतस्तदप्रतीतेर्व्यञ्जनाख्यं शब्दस्यैव व्यापारान्तरं कल्प्यते ।
नात्र लक्षणावृत्तिः संभवति, वाच्यानुपपत्त्यभावात् ।
नात्र व्यापारद्वयेनार्थप्रतिपादने वाक्यभेदः, प्रयोक्तुर्विवक्षापरतन्त्रत्वाल्लौकिकवाक्यानाम् ॥
[इइ.15अर्थशवतिमूलाव्यञ्जना]
अर्थशक्तिमूला व्यञ्जनावृत्तिर्यथा---
श्रुत्वा काकतिभूभर्तुः क्षोणीपाणिग्रहोत्सवम् ।
अङ्गुष्ठेनालिखन् भूपाः पादपीठीं नताननाः
अत्र भूपा विषण्णा इत्यर्थशक्त्या व्यज्यते ।
न चार्थशक्तिमूले व्यञ्जने ऽनुमानशङ्का ।
व्यङ्ग्यव्यञ्जकयोरविनाभावाभावात् ।
नम्राननत्वादिकार्यस्यानेककारणकत्वात् ।
नियतकारणप्रतीतिर्विवक्षानुगृहीताच्छब्दादेव ।
किंचैकस्मादेव व्यञ्जकात् तत्तद्व्यङ्ग्यार्थप्रतीतिर्वक्तविवक्षानुसारेण भवति, इयमनेकव्यङ्ग्यार्थप्रतीतिरनुमानपरिपाटीविरुद्धा ।
न चाभिधावृत्तिः ।
संकेतितार्थ एव तस्याः परिचय इतीयती गमनिका ।
[इइ.16उभयशक्तिमूलाव्यञ्जना]
उभयशक्तिमूला यथा---
विजितारिपुरो मूर्तौ विलसत्सर्वमड्गलः ।
राजमौलिरसौ भाति रुद्रदेवो जगत्पतिः
अत्र विजितारिपुर इत्यर्थशक्तिमूलत्वं, विलसत्सर्वमङ्गलो राजमौलिरिति शब्दशक्तिमूलत्वमित्युभयशक्तिमूलत्वम् ।
अत्र प्रतापरुद्रशङ्करयोरुपमालंकारध्वनिः ॥
[इइ.17कैशिक्यादिस्वरूपनिरूपणम्]
अथ कैशिक्यादीनां स्वरूपं निरूप्यते ।
अत्यर्थसुकुमारार्थसंदर्भा कैशिकी मता ।
अत्युद्धातार्थसंदर्भा वृत्तिरारभटी स्मृतार्
ईषन्मृद्वर्थसंदर्भा भारती वृत्तिरिष्यतेर् ।
ईषत्प्रौढार्थसंदर्भा सात्त्वती वृत्तिरिष्यते
तत्र
अत्यन्तसुकुमारौ द्वौ शृङ्गारकरुणौ मतौ ।
अत्युद्धतरसौ रौद्रबीभत्सौ परिकीर्त्तितौ
हास्यशान्ताद्भुताः किंचित्सुकुमाराः प्रकीर्त्तितार्ः ।
ईषत्प्रौढौ समाख्यातौ रसौ वीरभयानकौ
यत्र शृङ्गारकरुणावतिकोमलेन संदर्भेण वर्ण्येते तत्र कैशिकी ।
यत्र रौद्रबीभत्सावतिप्रौढेन संदर्भेण प्रतिपाद्येते तत्रारभटी ।
यत्र नातिसुकुमारा हास्यशान्ताद्भुता नातिसुकुमारेण संदर्भेण संग्रथ्यन्ते तत्र भारती ।
यत्र नातिप्रौढौ वीरभयानकौ नातिप्रौढेन संदर्भेण निर्वाह्येते तत्र सात्त्वती ।
[इइ.18कौशिक्युदाहरणम्]
कैशिकी यथा---
जितमदनविलासं काकतीयान्वयेन्दु
नरपतिमनिमेषं द्रष्टुमाशंसिनीनाम् ।
सपदि विरचिताऽसीदङ्गनानामपाङ्गैर्
दिव कुवलयदामश्यामला तोरणश्रीः
[इइ.19 आरभट्युदाहरणम्]
आरभटी यथा-
खड्गाघातनिकृत्तशात्रवशिरोनिष्ठ्यूतरक्तच्छटा-
ज्वालैरुद्भटशस्त्रघट्टनभवत्स्फारस्फुलिङ्गोत्करैः ।
स्त्यानासृक्पिशितास्थिखण्डविकटस्थूलोज्ज्वलाङ्गारकै-
रुच्चण्डश्चलमर्तिगण्डनृपतेः क्रोधाग्निरायोधने
[इइ.20 भारत्युदाहरणम्]
भारती यथा---
औन्नत्यं महदन्यदेव, महितः को ऽप्येष गम्भीरिमा
काप्यन्या सरणिः प्रतापयशसोरन्यैव बाह्वोः प्रथा ।
सर्वं नूतनमेव रुद्रनृपतेर्जाने न तन्निर्मितौ
सामग्री चतुराननेन कियती कीदृक् क्व वा कल्पिता
[इइ.21 सात्त्वत्युदाहरणम्]
सात्त्वती यथा---
दूरादाकर्ण्य विश्वप्रसृमरमहसौ वीररुद्रस्य जैत्र-
प्रस्थानारम्भभेरीनिनदमरिनृपाः पूर्णकर्णज्वरार्ताः ।
आरुह्याद्रीन् विशन्तो गहनमतिमहत्कण्टकाकृष्टकेशा-
स्त्रायध्वं मुञ्चतेति प्रतिनृपतिधिया पादपान् प्रार्थयन्ते
मध्यमारभटी त्वन्या तथा मध्यमकैशिकी ।
वृत्ती इमे उभे सर्वरससाधारणे मते
अनयोः स्वरूपम्---
मृद्वर्थे ऽप्यनतिप्रौढबन्धा मध्यमकैशिकी
शृङ्गारकरुणयोरतिसुकुमारयोरल्पप्रौढत्वं न दूष्यते ।
किं त्वतिप्रौढसंदर्भो नेष्यते, प्रतिकूलवर्णरूपदोषापत्तेः ॥
मध्यमारभटी प्रौढे ऽप्यर्थे नातिमृदुक्रमा
अतिप्रौढयोरपि रौद्रबीभत्सयोरीषन्मृदुबन्धो न दूष्यते ।
अतिमृदुसंदर्भस्तु विरुद्धः ।
[इइ.22 मध्यमकैशिकी]
मध्यमकैशिकी यथा---
आसन्ने ऽपि महोत्सवे कथमितस्त्यक्त्वा प्रवासं व्रजेर्
धिक् धिक् साहसमावयोर्विघटनं को वा विधिः काङ्क्षति ।
इत्थं स्वप्ननिवारितप्रियतमप्रस्थानबुद्धिस्ततो
बुद्ध्वा मूर्च्छति काकतीयनृपते त्वद्वैरिनारीजनः
[इइ.23मध्यमारभटि]
मध्यमारभटी यथा---
मांसकीकससंकीर्णाः प्रसरद्रुधिरापगाः ।
वसाकर्दमिता युद्धे भुवो ऽन्ध्रसुभटैः कृताः
एवं रसान्तरेष्वप्युदाहरणं द्रष्टव्यम् ॥
वैदर्भ्यादिरीतीनां शब्दगुणाश्रितानामर्थविशेषनिरपेक्षतया केवलसंदर्भसौकुमार्यप्रौढत्वमात्रविषयत्वात् कैशिक्यादिभ्यो भेदः ।
संदर्भस्यातिदुमृत्वमसंयुक्तकोमलवर्णबन्धत्वम् ।
अतिप्रौढत्वं परुषवर्णविकटबन्धत्वम् ।
संयुक्तमृदुवर्णेष्वीषन्मृदुत्वम् ।
अविकटबन्धपरुषवर्णेष्वीषत्प्रौढत्वम् ॥
रीतयः
अथ रीतीनां स्वरूपमुदाहरणं च ।
रीतिर्नाम गुणाश्लिष्टपदसंघटना मता ।
सा त्रिधा---वैदर्भी, गौडी, पाञ्चाली चेति ।
[इइ.2.1 वैदर्भी]
बन्धपारुष्यरहिता शब्दकाठिन्यवर्जिता ।
नातिदीर्घसमासा च वैदर्भी रीतिरिष्यते
यथा---
काकतीयनरेन्द्रस्य कीर्त्तिचन्दनचर्चनम् ।
दिगङ्गना वितन्वन्ति वतंसीकृततद्गुणाः
यथा वा---
वितरणगुणलीलातोषिताशेषलोके
विभवति नरनाथे काकतीयान्वयेन्दौ ।
सुरतरुगणनायां कामधेनुप्रसंगे
क्षितिसुरजनतेयं वीतकौतूहलाऽसीत्
[इइ.2.2गौडी]
ओजः कान्तिगुणोपेता गौडीया रीतिरिष्यते ।
यथा---
प्रचण्डतरदोर्दण्डखण्डितारातिमण्डलः ।
विभर्त्यर्वीधुरां गुर्वीं प्रभवन्नन्ध्रभूपतिः
यथा वा ---
उद्यद्दोः स्तम्भखड्गत्रुटदरिमुकुटाटोपसंजातराहु-
भ्रान्तिभ्रश्यत्पतङ्गाभयकरणचणस्फारनासीररेणुः ।
अन्ध्रक्ष्माभर्तुरासीदधिकरणधरा भिन्नमत्तेभकुम्भ-
प्रोद्यन्मुक्तौघतारानिकरपरिवृतस्वर्वधूवक्त्रचन्द्रा
[इइ.2.3 पाञ्चाली]
पाञ्चालरीतिर्वैदर्भीगौडी इत्युभयात्मिका ॥
यथा---
जेतुः काकतिवीररुद्रनृपतेर्जैत्रप्रयाणोत्थिते
क्षोणीरेणुभरे नभस्यतिभृशं मूविभ्रमं बिभ्रति ।
जाता मर्त्यनदी विशङ्कटतटीदीर्घा वियद्दीर्घिका
गाढं गूडतमा च गौतमनदी पातालगङ्गायते
यथा च---
स्थाने तच्चलमर्तिगण्डनृपते त्वत्खङ्गभोगी द्विषत्-
प्राणैर्यत् परितोषमेति सततं, किं त्वेतदत्यद्भुतम् ।
पीतेन प्रतिपक्षपार्थिवयशः क्षीरेण गौरत्विषं
यत् संवर्धयति त्रिलोकभरितां त्वत्कीर्त्तिलक्ष्मीसुधाम्
शय्या
अथ शय्या ।
या पदानां परान्योन्यमैत्री शय्येति कथ्यते ।
यथा---
दातुः काकतिवंशमण्डनमणेर्निस्सीमविश्राणन-
श्लाघालङिघेतकल्पपादपगुणप्रौढेरगाधौजसः ।
बिभ्रच्छारदकौमुदीपरिमलं सामन्तसीमन्तिनी-
गण्डाभोगनिरूढपाण्डिमधुरां धत्ते यशः प्रायशः
अत्र पदविनिमयासहिष्णुत्वाद्बन्धस्य पदानुगुण्यरूपा शय्या ॥
पाकाः
अथ द्राक्षादिपाकाः ।
अर्थगम्भीरिमा पाकः स द्विधा हृदयङ्गमः ।
द्राक्षापाको नारिकेलपाकश्च प्रस्फुटान्तरौ
यथाक्रमं स्वरूपमुदाहरणं च ।
[इइ.4.1 द्राक्षापाक]
द्राक्षापाकः स कथितो बहिरन्तः स्फुरद्रसः ।
यथा---
स्मरस्मेरान् मन्दस्मितमधुरसौरभ्यसुभगान्
मनाग्व्रीडाजाड्यान् प्रणयरसकल्लोलभरितान् ।
कृतानेकस्कन्धान् मनसिजसहस्राणि सृजतः
कटाक्षान् वामाक्षी किरति परितो रुद्रनृपतिम्
[इइ.4.2नारिकेलपाकः]
सा नारिकेलपाकः स्यादन्तर्गूढरसोदयः ॥
यथा---
लीलाविभ्रमपूर्वरङ्गमुदितं तारुण्यमेत्य त्रपा-
नेपथ्यान्तरबिम्बितस्मरकलालास्यप्रपञ्चश्रियः ।
सख्यः पश्यत काकतीयनृपतौ भावानुबन्धोज्ज्वलः
को ऽप्यस्यास्तरलभ्रुवो विजयते शृङ्गारनाट्यक्रमः
अत्र न द्रागर्थप्रतीतिः ।
एवं वस्त्वलंकारप्रतीतावपि द्रष्टव्यम् ।
पाकान्तराणि मधुक्षीरादीनि यथासंभवमूह्यानि ॥
काव्यविशेषाः
अथ काव्यविशेषाः ।
व्यङ्ग्यस्य प्राधान्याप्राधान्याभ्यामस्फुटत्वेन च त्रिविधं काव्यम् ।
व्यङ्ग्यस्य प्राधान्ये उत्तमं काव्यं ध्वनिरिति व्यपदिश्यते ।
अप्राधान्ये मध्यमं गुणीभूतव्यङ्ग्यमिति गीयते ।
व्यङ्ग्यस्यास्फुटत्वे ऽधमं काव्यं चित्रमिति गीयते ।
[इइ.5.1ध्वनिः]
ध्वनिर्यथा---
स्वामिन् गोत्रमहीधरान् किमधुना नीचैर्विधत्से, कुतो
गाधानम्बुनिधीन् करोषि, कुरुषे किं दिक्पतीनल्पकान् ।
इत्थं पार्श्वचरानुलापमखिलं न्यक्कृत्य धर्मैषिणा
सृष्टः पद्मभुवा गुणैकवसतिः श्रीवीररुद्रो नृपः
अत्र प्रतापरुद्रस्य कुलशैलातिशायि समुन्नतत्वमतिसमुद्रं गाम्भीर्यं लोकपालाधिकमैश्वर्यं च ध्वन्यते ।
तथा कुलशैलपयोनिधिलोकपालनिर्माणसंरम्भातिशायि सर्वविलक्षणं काकतीयनिर्माणवैभवम् इति च व्यज्यते ॥
[इइ.5.2गुणीभूतव्यङयम्]
गुणीभूतव्यङ्ग्यं यथा---
प्रत्यग्रप्रसरत्प्रतापविभवव्याप्ताखिलाशान्तरे
विश्वत्रातरि वीररुद्रनृपतौ सिंहासनाध्यासिनि ।
आस्थानीं समुपागतैर्नृपवरैस्तास्तास्तथा दर्शिता-
श्चेष्टा याभिरमुष्य काकतिविभोर्दृष्टिः कृपार्द्रीकृता
अत्र प्राप्ताभिषेकमहोत्सवस्य प्रतापरुद्रदेवमहाराजस्याग्रे शरणार्थिनां पार्थिवानां तथाविधकार्पण्योक्तिपुनः पुनः प्रणामादिकं व्यङ्ग्यं तास्ताश्चेष्टा दर्शिता इति वाच्यादनतिशायि इति गुणीभूतव्यङ्ग्यता ।
चित्रं त्रिविधम्---शब्दचित्रमर्थचित्रमुभयचित्रं चेति ।
[इइ.5.3 शब्दचित्रम्]
तत्र शब्दचित्रं यथा---
क्षोणीरक्षणदक्षिणाः क्षतजगत्क्षोभा दुरीक्षक्रमाः
क्षुद्रक्षत्रियपक्षशिक्षणविधौ प्रोत्क्षिप्तकौक्षेयकाः ।
उद्दामोद्यमनस्य रुद्रनृपतेर्देर्दण्डयोश्चण्डयोर्-
गर्जद्दुर्जनगर्वपर्वतभिदादम्भोलयः केलयः
[इइ.5.4अर्थचित्रम्]
अर्थचित्रं यथा---
खग्गे जुज्झविजिम्भिए रिवुमहीणाहंजलिं बिंबिअं
पेक्खन्तो जअळच्छिवासकमलं मण्णंति विण्णाणिणो ।
मण्णे वीरपआवरुद्दविहुणो जण्णेसु घेत्तुं उणो
सिट्ठीए रिवुजीविआइ विहिणो जत्तस्स पीढंबुअं
(खड्गे युद्धविजृम्भिते रिपुमहीनाथाञ्जलिं बिम्बितं
पश्यन्तो जयलक्ष्मीवासकमलं मन्यन्ते विज्ञानिनः ।
मन्ये वीरप्रतापरुद्रविभोर्जन्येषु ग्रहीतुं पुनः
सृष्ट्यै रिपुजीवितानि विधेर्यातस्य पीठाम्बुजम् ॥)
[इइ.5.5 उभयचित्रम्]
उभयचित्रं यथा---
विद्यासमुद्रे भुवनैकभद्रे प्रतापरुद्रे जितवैरिभद्रे ।
रक्षाविनिद्रे धृतशौर्यमुद्रे कान्तेव पृथ्वी रमते गुणार्द्रे
अत्रानुप्रासोपमाभ्यां चित्रता ॥
[इइ.5.6 ध्वनिविशेषाः]
॥ अथ ध्वनिविशेषाः ॥
अथ ध्वनिविशेषा निरूप्यन्ते ।
अत्र ध्वनेर्लक्षणाभिधामूलत्वेनाविवक्षितवाच्यविवक्षितान्यपरवाच्याख्यौ प्रथमं द्वौ भेदौ ।
अविवक्षितवाच्यस्यार्थान्तरसंक्रमितात्यन्ततिरस्कृतवाच्यतया द्विविधस्य वाक्यपदगतत्वेन द्वैविध्ये चातुर्विध्यम् ।
विवक्षितान्यपरवाच्यस्य संलक्ष्यक्रमव्यङ्ग्यासंलक्ष्यक्रमव्यङ्ग्यतया द्वौ भेदौ ।
संलक्ष्यक्रमव्यङ्ग्ये शब्दशक्तिमूले वस्त्वलङकाररूपतया द्वैविध्ये वाक्यपदगतत्वेन चातुर्विध्यम् ।
अर्थशक्तिमूले संलक्ष्यक्रमव्यङ्ग्ये ऽर्थस्य स्वतः संभवित्वेन कविप्रौढोक्तिसिद्धत्वेन कविनिबद्धोक्तिसिद्धत्वेन च त्रैविध्यम् ।
त्रिविधस्य वस्त्वलंकाररूपतया द्वैविध्ये षड्विधत्वम् ।
षड्विधस्यापि व्यङ्ग्यव्यञ्जकतया द्वैविध्ये द्वादशविधत्वम् ।
द्वादशविधस्यापि प्रबन्धगतत्वेन वाक्यगतत्वेन पदगतत्वेन च त्रैविध्ये षट्त्रिंशत्प्रकारो ऽर्थशक्तिमूलो ऽनुरणनध्वनिः ।
उभयशक्तिमूलो वाक्यगतत्वेनैकविध एव ।
एवं संलक्ष्यक्रमव्यङ्ग्यध्वनेरेकचत्वारिंशद्भेदाः ।
असंलक्ष्यक्रमव्यङ्ग्यो रसादिध्वनिः प्रबन्धवाक्यपदपदैकदेशरचनावर्णगतत्वेन षड्विधः ।
एवं विवक्षितान्यपरवाच्यध्वनेः सप्तचत्वारिंशद्भेदाः ।
अविवक्षितवाच्यभेदैश्चतुर्भिः सह ध्वनेः प्रथमं शुद्धा एकपञ्चाशद् भेदाः ।
तेषां प्रत्येकमेकैकस्यैकैकेन संबन्धे प्रथमभेदस्यैकपञ्चाशद् भेदाः ।
द्वितीयस्य पञ्चाशद् भेदाः ।
तृतीयस्यैकोनपञ्चाशद् भेदाः ।
अनेन क्रमेणोत्तरोत्तरस्यैककैभेदपरित्यागे षड्विंशत्युत्तरशतत्रयाधिकसहस्रसंख्याकाः (1326) मिश्रभेदाः ।
अविवक्षितवाच्यस्य विवक्षितान्यपरवाच्यसंबन्धे यो भेदस्तस्मिन्नेवान्तर्भूतो विवक्षितान्यपरवाच्यस्याविवक्षितवाच्यसंबन्धे भेदो न पृथग्भूतः ।
अनेनैव क्रमेण वस्तुध्वनेरलंकारध्वनिसंबन्धभेदो ऽप्यलंकारध्वनेर्वस्तुध्वनिसंबन्धान्न पृथग्भूत इति पूर्वपूर्वस्योत्तरोत्तरसंबन्धे एकैकभेदन्यूनता ज्ञेया ।
तस्यापि मिश्रणस्य त्रिरूपेण संकरेणैकरूपया संसृष्ट्या च पुनश्चतुर्धा योजने
चतुरुत्तरशतत्रयाधिकपञ्चसहस्राणि (5304) भेदाः ।
शुद्धाश्चन्द्रशरा मिश्रा ऋतुनेत्रानलेन्दवः ।
संसृष्टिसंकरायातास्त्वब्धिखाग्निशराभिधाः
तत्र
शुद्धानामेकपञ्चाशद्भेदानां नामधेयनि कथ्यन्ते ।
पदगतार्थान्तरसंक्रमिताविवक्षितवाच्यध्वनिः ॥ विप्रुद्_2.43*1 ॥
वाक्यगतार्थान्तरसंक्रमिताविवक्षितवाच्यध्वनिः ॥ विप्रुद्_2.43*2 ॥
पदगतात्यन्ततिरस्कृताविवक्षितवाच्यध्वनिः ॥ विप्रुद्_2.43*3 ॥
वाक्यगतात्यन्ततिरस्कृताविवक्षितवाच्यध्वनिः ॥ विप्रुद्_2.43*4 ॥
पदगतशब्दशक्तिमूलसंलक्ष्यक्रमवस्तुध्वनिः ॥ विप्रुद्_2.43*5 ॥
पदगतशब्दशक्तिमूलसंलक्ष्यक्रमालङ्कारध्वनिः ॥ विप्रुद्_2.43*6 ॥
वाक्यगतशब्दशक्तिमूलसंलक्ष्यक्रमवस्तुध्वनिः ॥ विप्रुद्_2.43*7 ॥
वाक्यगतशब्दशक्तिमूलसंलक्ष्यक्रमालंकारध्वनिः ॥ विप्रुद्_2.43*8 ॥
पदगतस्वतः सिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥ विप्रुद्_2.43*9 ॥
पदगतस्वतः सिद्धार्थशक्तिमूलो वस्तुनालंकारध्वनिः ॥ विप्रुद्_2.43*10 ॥
पदगतस्वतः सिद्धार्थशक्तिमूलो ऽलंकारेणालंकारध्वनिः ॥ विप्रुद्_2.43*11 ॥
पदगतस्वतः सिद्धार्थशक्तिमूलो ऽलङ्कारेण वस्तुध्वनिः ॥ विप्रुद्_2.43*12 ॥
वाक्यगतस्वतः सिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥ विप्रुद्_2.43*13 ॥
वाक्यगतस्वतः सिद्धार्थशक्तिमूलो वस्तुनालंकारध्वनिः ॥ विप्रुद्_2.43*14 ॥
वाक्यगतस्वतः सिद्धार्थशक्तिमूलो ऽलंकारेणालंकारध्वनिः ॥ विप्रुद्_2.43*15 ॥
वाक्यगतस्वतः सिद्धार्थशक्तिमूलो ऽलंकारेण वस्तुध्वनिः ॥ विप्रुद्_2.43*16 ॥
प्रबन्धगतस्वतः सिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥ विप्रुद्_2.43*17 ॥
प्रबन्धगतस्वतः सिद्धार्थशक्तिमूलो वस्तुनालंकारध्वनिः ॥ विप्रुद्_2.43*18 ॥
प्रबन्धगतस्वतः सिद्धार्थशक्तिमूलो ऽलंकारेणालंकारध्वनिः ॥ विप्रुद्_2.43*19 ॥
प्रबन्धगतस्वतः सिद्धार्थशक्तिमूलो ऽलंकारेण वस्तुध्वनिः ॥ विप्रुद्_2.43*20 ॥
पदगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥ विप्रुद्_2.43*21 ॥
पदगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुनालंकारध्वनिः ॥ विप्रुद्_2.43*22 ॥
पदगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलो ऽलंकारेणालंकारध्वनिः ॥ विप्रुद्_2.43*23 ॥
पदगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलो ऽलंकारेण वस्तुध्वनिः ॥ विप्रुद्_2.43*24 ॥
वाक्यगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥ विप्रुद्_2.43*25 ॥
वाक्यगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुनालंकारध्वनिः ॥ विप्रुद्_2.43*26 ॥
वाक्यगतकविप्रौढोत्किसिद्धार्थशक्तिमूलो ऽलंकारेण वस्तुध्वनिः ॥ विप्रुद्_2.43*27 ॥
वाक्यगतक्रविप्रौढोक्तिसिद्धार्थशक्तिमूलो ऽलंकारेणालंकारध्वनिः ॥ विप्रुद्_2.43*28॥
प्रबन्धगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥ विप्रुद्_2.43*29 ॥
प्रबन्धगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुनालंकारध्वनिः ॥ विप्रुद्_2.43*30॥
प्रबन्धगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलो ऽलंकारेणालंकारध्वनिः ॥ विप्रुद्_2.43*31 ॥
प्रबन्धगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलो ऽलंकारेण वस्तुध्वनिः ॥ विप्रुद्_2.43*32॥
पदगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥ विप्रुद्_2.43*33 ॥
पदगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो वस्तुनालंकारध्वनिः ॥ विप्रुद्_2.43*34 ॥
पदगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो ऽलंकारेणालङ्कारध्वनिः ॥ विप्रुद्_2.43*35 ॥
पदगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो ऽलङ्कारेण वस्तुध्वनिः ॥ विप्रुद्_2.43*36 ॥
वाक्यगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥ विप्रुद्_2.43*37 ॥
वाक्यगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो वस्तुनालंकारध्वनिः ॥ विप्रुद्_2.43*38 ॥
वाक्यगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो ऽलङ्कारेण अलंकारध्वनिः ॥ विप्रुद्_2.43*39॥
वाक्यगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो ऽलङ्कारेण वस्तुध्वनिः ॥ विप्रुद्_2.43*40 ॥
प्रबन्धगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥ विप्रुद्_2.43*41॥
प्रबन्धगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो वस्तुनालङ्कारध्वनिः ॥ विप्रुद्_2.43*42॥
प्रबन्धगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो ऽलङ्कारेणालङ्कारध्वमिः ॥ विप्रुद्_2.43*43 ॥
प्रबन्धगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो ऽलङ्कारेण वस्तुध्वनिः ॥ विप्रुद्_2.43*44 ॥
प्रबन्धगतासंलक्ष्यक्रमव्यङ्ग्यो रसादिध्वनिः ॥ विप्रुद्_2.43*45 ॥
वाक्यगतासंलक्ष्यक्रमव्यङ्ग्यो रसादिध्वनिः ॥ विप्रुद्_2.43*46 ॥
पदगतासंलक्ष्यक्रमव्यङ्ग्यो रसादिध्वनिः ॥ विप्रुद्_2.43*47 ॥
पदैकदेशगतासंलक्ष्यक्रमव्यङ्ग्यो रसादिध्वनिः ॥ विप्रुद्_2.43*48 ॥
रचनागतासंलक्ष्यक्रमव्यङ्ग्यो रसादिध्वनिः ॥ विप्रुद्_2.43*49 ॥
वर्णगतासंलक्ष्यक्रमव्यङ्ग्यो रसादिध्वनिः ॥ विप्रुद्_2.43*50 ॥
वाक्यगतोभयशक्तिमूलो रसादिध्वनिः ॥ विप्रुद्_2.43*51 ॥
तत्र दिङ्मात्रमुदाह्रियते ।
[इइ.5.7अर्थान्तरसंक्रमिताविवक्षितवाच्यध्वनिः]
अर्थान्तरसंक्रमिताविवक्षितवाच्यध्वनिर्यथा---
मूर्धानो यूयमास्माकाः किमित्यौन्नत्यमिच्छथ ।
इति प्रतापरुद्रस्य प्रणताः प्रतिपार्थिवाः
अत्र आस्माका इति सर्वदैन्यभूमयो वयमीदृशानामस्माकं संबन्धिनो यूयमित्यर्थान्तरसंक्रमिताविवक्षितवाच्यता ।
[इइ.5.8अत्यन्ततिरस्कृतवात्यध्वनिः]
अत्यन्ततिरस्कृतवाच्यो ध्वनिर्यथा---
विशदिमविलिप्तवियतो धवलिमपरिपूरिताखिलाशान्ताः ।
विहरन्ति यशः पूरा गौराः श्रीकाकतीन्द्रस्य
अत्र विशदिमविलिप्तवियत इत्यत्यन्ततिरस्कृतवाच्यत्वम् ।
अनेनैव क्रमेण वाक्यगतत्वेनाप्युदाहार्यम् ।
[इइ.5.9वस्तुनावस्तुध्वनिः]
अथार्थशक्तिमूलो वस्तुना वस्तुध्वनिर्यथा--
अब्दानृतून् विना मासान् शुक्लपक्षान् विना तिथीन् ।
रात्रीर्विनापि काङ्क्षन्ति काकतीयरिपुस्त्रियः
अत्र ऋतुप्रभृतीनां कामोद्दीपकत्वात् तदभावो रिपुस्त्रीभिराकाङ्क्ष्यत इति प्रतीयते ।
तेन तासां प्रियवियोगरूपं वस्तु व्यज्यते ।
अनेन प्रतापरुद्रस्य सर्वे शत्रवो निहता इति वाच्यादतिशयः ।
तथा प्रियविरहविधुराः शत्रुस्त्रियः कतिपयवत्सरान् जीविताशया प्रथममृतूनामभावं वाञ्छन्ति ।
अनन्तरं तानपि गमयितुमशक्ताः कतिपयमासेषु प्राणान् धारयितुमुद्युक्ता ज्योत्स्नावतां पक्षाणां विनाशं वाञ्छन्ति ।
अनन्तरं मासनप्यपनेतुमपारयन्त्यः कतिपयतिथिषु जीविताशया रात्रीणामसृष्टिमभिलषन्तीति बहुवस्तु वस्तुना व्यज्यते ।
[इइ.5.10वस्तुनालङकारध्वनिः]
वस्तुनालङकारध्वनिर्यथा---
दृष्ट्वा काकतिवीररुद्रनृपतेः कीर्त्तिं जगद्व्यापिनीं वस्तुं वाञ्छति शम्भुरत्र शयितुं लक्ष्मीपतिः काङ्क्षति ।
स्नातुं धावति दिव्यतापसगणः संवर्धितुं वार्धयश्चेष्टन्ते सविलासमभ्रमुरपि स्प्रष्टुं शनैरीहते
अत्र हरस्य कैलासभ्रान्तिः हरेः क्षीरार्णवभ्रान्तिरित्यादिः भ्रान्तिमदलङ्कारो ब्यज्यते ॥
अलङ्कारेण वस्तुध्वनिर्यथा---
[इइ.5.11अलङ्कारेणवस्तुध्वनिः]
प्रतापरुद्रस्य रणे कृपाणः सद्यः समुद्यद्रुधिरारुणश्रीः ।
आलम्बते रोषकषायितस्य कालीकटाक्षस्य विजृम्भितानि
अत्रालम्बत इति निदर्शनालङ्कारेण सकलरिपुक्षयः क्षणात् कृत इति वस्तु व्यज्यते ॥
[इइ.5.12अलङ्कारेणालङ्कारध्वनिः]
अलङ्कारेणालङ्कारध्वनिर्यथा---
काकतीयविभोः कीर्त्तिपुण्डरीके विजृम्भिते ।
धत्ते मधुकरक्रीडां तमालश्यामलं नभः
अत्र कीर्त्तिपुण्डरीके नभो भ्रमरक्रीडां धत्त इति निदर्शनालंकारेणाश्रयाश्रयिणोरनानुगुण्यरूपो ऽधिकालंकारो व्यज्यते ।
आश्रयस्य कीर्त्तिपुण्डरीकस्य वैपुल्यं अमरसादृश्यप्रतिपादनेनाल्पत्वं च नभसः प्रतीयते ।
एषु स्वतः सिद्धार्थशक्तिमूलत्वम् ।
अथ कविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुध्वनिर्यथा---
श्रावं श्रावं खुरलिविहरत्कार्त्तिकेयेषुजातच्-
छिद्रच्छद्मश्रवणपदवीचारिणीं चारणौधैः ।
शश्वद्गीतां भुवनमहितां काकतीन्द्रस्य कीर्त्तिं
कौञ्चक्ष्माभृद् भवति महतो विस्मयान्निश्चलाङ्गः
अत्र प्रतापरुद्रस्य कीर्त्तिः स्थावराणायपि विस्मयकारिणीति वस्तु व्यज्यते ॥
[इइ.5.13वस्तुनालङ्कारध्वनिः]
वस्तुनालंकारध्वनिर्यथा---
वीररुद्रभटान् दृष्ट्वा जयलक्ष्मीवृतान् रणे ।
कर्षन्त्यरिवधूकेशान् कानने कण्टकिद्रुमाः
अत्र जयलक्ष्मीसमालिङ्गितान् वीररुद्रभटान् दृष्ट्वा समदना इव कण्टकिद्रुमाः शत्रुवधूकेशान् कर्षन्तीवेत्युत्प्रेक्षा व्यज्यते ।
[इइ.5.14अलङकारेणवस्तुध्वनिः.
अलङ्कारेण वस्तुध्वनिर्यथा---
ओसरै सहीहि समं लज्जा वहुआए सिढिलमाणाए ।
अप्पग्गहणभयेण व्व सविहगए मणोहरे दैए
(अपसरति सखीभिः समं लज्जा वध्वाः शिथिलमानायाः ।
आत्मग्रहणभयेनेव सविधगते मनोहरे दयिते) ॥
अत्रोत्प्रेक्षयाऽलिङ्गनरूपं वस्तु व्यज्यते ॥
[इइ.5.15अलङ्कारेणालङारध्वनिः]
अलंकारेणालङ्कारध्वनिर्यथा---
अभयं याचमानानां काकतीयेन्द्रविद्विषाम् ।
रक्षां नाङ्गीकरोतीव वनं शाखाग्रकम्पनैः
अत्र नाङ्गीकरोतीवेत्युत्प्रेक्षया प्रतापरुद्रशत्रूणां रक्षणं कर्तुं वनमपि बिभेतीवेत्युत्प्रेक्षा व्यज्यते ।
कविनिबद्धवक्तृप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिर्यथा---
अजह तह व होदु अज्जा णरणाह करेहि रक्खणं ससिणो ।
जं ताए कडखुक्का आणत्ता तं मसीकादुं
(अयथा तथा वा भवत्वार्या नरनाथ कुरु रक्षणं शशिनः ।
यत्तया कटाक्षोल्का आज्ञप्ता तं मषीकर्तुम्) ॥
अत्र विरहातुरा आर्या चन्द्रिकामसहमाना रोषोज्ज्वलितया कटाक्षोल्कया चन्द्रं मषीकरोति स रक्षणीय इत्यनेन वस्तुना इतः परं सा जीवितं धारयितुमशक्ता, अधुनैव त्वया समागन्तव्यमिति वस्तु व्यज्यते ॥
[इइ.5.16वस्तुवालङ्कारध्वनिः]
वस्तुनालङ्कारध्वनिर्यथा---
कस्त्वं शुभ्राखिलाङ्गश्चरसि, ननु यशो वीररुद्रस्य वर्त्ते को ऽयं ते दिव्यदेहः स्फुरति परिसरे, मत्सुहृत् तत्प्रतापः ।
प्रच्छाद्यालं स्फुरद्भिः कुमुदसरसिजैः ख्यापितं वः स्वरूपं सोमाकारै स्वागतं वामवधिगिरिरहं कल्पितो निस्तमस्कः
अत्र प्रतापरुद्रयशः प्रतापयोः सोमार्कसादृश्यप्रतीतेरुपमा व्यज्यते ।
[इइ.5.17अलङ्कारेणालङ्कारध्वनिः]
अलङ्कारेणालङ्कारध्वनिर्यथा---
उवह हळा वहुआए तह आरूढो वि णिभ्भरो माणो ।
णिवैसमाअमलंभमसंजाअभओ व्व ओसरै
(पश्यत हला वध्वास्तथा रूढो ऽपि निर्भरो मानः ।
नृपतिसमागमसंभ्रमसंजातभय इवापसरति) ॥
अत्रोत्प्रेक्षया प्रियप्रार्थनां विनैव मानिनीमनः प्रसन्नमिति विभावनालंकारो व्यज्यते ॥
[इइ.5.18अलङारेणवस्तुध्वनिः]
अलङ्कारेण वस्तुध्वनिर्यथा---
अप्राप्य सेवावसरं नाथ कान्तावृतस्य ते ।
त्वत्कीर्त्तिं सेवमानेव श्यामा सर्वाङ्गपाण्डुरा
अत्र सेवमानेवेत्युत्प्रेक्षया सर्वथा स्वीकार्यत्वादिरूपं वस्तु व्यज्यते ॥
एवं प्रबन्धादिगतत्वेन यथासंभवमुदाहरणानि द्रष्टव्यानि ; विस्तरभयादिह नोक्तानि ॥
अथ शब्दशक्तिमूलध्वनिः ।
स च वस्त्वलंकारगतत्वेन द्विविधः ।
तथा चोक्तम्---
"अलङ्कारो ऽथ वस्त्वेव शब्दाद्यत्रावभासते ।
प्रधानत्वेन स ज्ञेयः शब्दशक्त्युद्भवो द्विधा ॥
ऽ; इति ।
[इइ.5.19 अलङ्कारध्वनिः]
तत्रालंङ्कारध्वनिर्यथा---
एसो सच्चं राओ सामा खु तुमं समाअमो दोण्णं ।
किं उण ण पदोसकहा दीसः एदं खु अच्चरिअं
(एष सत्यं राजा श्यामा खलु त्वं समागमो द्वयोः ।
किं पुनर्न प्रदोषकथा दृश्यते एतत्खल्वाश्चर्यम्) ॥
अत्र प्रकरणेन कान्तानृपवाचकाभ्यां श्यामाराजशब्दाभ्यां निशाचन्द्रप्रतीतेरुपमा व्यज्यते ॥
[इइ.5.20वस्तुध्वनिः]
वस्तुध्वनिर्यथा---
कान्तारवाससंतप्ताः संशृणुध्वं हितादितः ।
कुरुध्वमधुना राजपादसेवां नरेश्वराः
अत्र राजपादसेवामिति शब्दशक्त्या प्रकृतस्य प्रतापरुद्रस्य प्रतीतिः प्रकरणाज्जायते ।
अनेन प्रतापरुद्रस्य सेवा कर्तव्या किमरण्यवासेन संतप्ता इति वस्तु व्यज्यते ॥
[इइ.5.21उभयशक्तिमूलध्वनिः]
उभयशक्तिमूलध्वनिर्यथा---
जिष्णुरेष भुजस्तम्भजृम्भमाणाद्भुतायुधः ।
मुञ्चन्तु क्ष्माभृतः सर्वे निजपक्षविजृम्भितम्
अत्र क्ष्माभृतो निजपक्षविजृम्भितं मुञ्चन्तु, जिष्णुरेष इत्यत्र शब्दशक्तिमूलता ।
भुजस्तम्भजम्भमाणाद्भुतायुध इत्यत्रार्थशक्तिमूलता ॥
असंलक्ष्यक्रमव्यङ्ग्यो रसादिध्वनिः ।
तथा चोक्तं शृङ्गारतिलके---
"रसभावतदाभासभावशान्त्यादिरक्रमः ।
भिन्नो रसाद्यलंकारादलंकार्यतया स्थितः ॥
ऽ; इति ।
रसभावोदाहरणं तत्स्वरूपनिरूपणप्रपञ्चे रसप्रकरणे भविष्यति ॥
गुणीभूतव्यङ्ग्यम् अष्टविधं निरूप्यते ।
गुणीभूतव्यङ्ग्यं मध्यमं काव्यमष्टविधम् ।
तथा चोक्तं काव्यप्रकाशे---
"अगूढमपरस्याङ्गं वाच्यसिद्ध्यङ्गमस्फुटम् ।
संदिग्धतुल्यप्राधान्ये काक्वाक्षिप्तमसुन्दरम् ॥
ऽ; इति ।
[इइ.5.22 अगूढम्]
कामिनीकुचकलशवद् गूढस्यैव चमत्कारकारित्वादगूढव्यङ्ग्यं मध्यमं काव्यम् ।
यथा---
औन्नत्यं यदि वर्ण्यते शिखरिणः क्रध्यन्ति नीचैः कृता गाम्भीर्यं यदि कीर्त्त्यते जलधयः क्षुभ्यन्ति गाधीकृताः ।
तत् त्वां वर्णयितुं बिभेमि यदि वा जातो ऽस्म्यगस्त्यः स्थितस्त्वत्पार्श्वे गुणरत्नरोहणगिरे श्रीवीररुद्रप्रभो
अत्र "यदि वा जातो ऽस्म्यगस्त्यः स्थितःऽ; इत्यनेन जलनिधिपर्वतेभ्यो न बिभेमीति व्यङ्ग्यमगूढम् ॥
[इइ.5.23 अपरस्याङ्गम्]
अपरस्याङ्गं, यत्र रसादे रसादिरङ्गं तदपि गुणीभूतव्यङ्ग्यमेव ।
यथा---
वीतव्रीडमपास्तमानमुदयद्वैस्वर्यमाविर्भवत्स्वेदं निर्भरगात्रवेपथु मिलन्मूर्च्छं गलद्बाष्पकम् ।
संजातप्रलयं च काकतिमहीनाथ ! स्मरोद्वेजिता भूपाः शैलगुहासु यान्ति विजनं भीत्या समालिङ्गिताः
अत्र शृङ्गारस्य भयरसाङ्गत्वम् ।
[इइ.5.24 वाच्यसिध्यङ्गम्]
वाच्यसिद्ध्यङ्गं यथा---
करालः काकतीन्द्रस्य करवालनवाम्बुदः ।
धारया शमयत्युग्रं प्रतापज्वलनं द्विषाम्
अत्र जलधारा व्यङ्ग्या ।
सा च करवालनवाम्बुद इत्यस्य वाच्यभूतस्य रूपकस्य सिद्धिकृदिति गुणीभूतव्यङ्ग्यम् ॥
[इइ.5.25 अस्फुठम्]
अस्फुटं यथा---
वीररुद्रकृपाणस्य महिमा को ऽप्यनङ्कुशः ।
प्रसूते कीर्त्तिगङ्गां यः पीत्वा द्विषदसृङ्नदीम्
अत्र कृपाणस्य जह्नोराधिक्यप्रतिपादनाद् व्यतिरेकः परमस्फुटः प्रतीयते ॥
[इइ.5.26 संदिग्धप्राधान्यम्]
संदिग्धप्रधान्यं यथा---
काकतिक्ष्मापतेर्दृष्टिरनुरागतरङ्गिता ।
लग्ना कल्हारमालेव वध्वास्तुङ्गे कुचद्वये
अत्रालिङ्गनेच्छायां वाक्यविश्रान्तिरथवा स्तनमण्डलालोक एवेति संदेहः ॥
[इइ.5.27 तुल्यप्राधान्यम्]
तुल्यप्राधान्यं यथा---
नृपाः प्रतापरुद्रस्य निषेवध्वं पदाम्बुजे ।
अन्यथास्य मनस्तादृक्प्रसादं कलुषायते
अत्र प्रतापरुद्रस्य पादसेवा यदि त्यज्यते तदानीं नगरेषु वासो दुर्लभ इति व्यङ्ग्यार्थस्य वाच्यस्य च समं प्राधान्यम् ॥
[इइ.5.28 अनुसंधानम्]
असुन्दरं यथा---
एअसिलामहिलाणं सोऊण णरेंददस्सणामोअं ।
गुरुअणणिअंतिआए वहुआए सामलं वअणं
(एकशिलामहिलानां श्रुत्वा नरेन्द्रदर्शनामोदम् ।
गुरुजननियन्त्रिताया वध्वाः श्यामलं वदनम्) ॥
अत्र नरेन्द्रदर्शननिमित्तं हर्षमुत्पश्यन्त्या वध्वा मुखं श्यामलमिति वाच्यस्यैव चारुत्वम् ।
गुरुजननियन्त्रिताहं नरेन्द्रं द्रष्टुं न गतवत्यस्मि इति व्यङ्ग्यार्थस्याचारुत्वम् ॥
[इइ.5.28 कावाक्षिप्तम्]
यत्र काक्वार्ऽथान्तरमाक्षिप्यते, तदपि गुणीभूतव्यङ्ग्यमेव ।
यथा---
पिअसहि कहेहि अहिआ खोणी लच्छी सरस्सई मज्झा ।
जां बहु मण्णै सोअं णरणाहो गुणविसेसण्णो
(प्रियसखि कथयाधिका क्षोणी लक्ष्मीः सरस्वती मत्तः ।
यां बहु मन्यते सो ऽयं नरनाथो गुणविशेषज्ञः) ॥
अत्र क्षोणी मदधिकेति काकुकल्पनयाधिका न भवतीति वस्तु व्यज्यते ॥
चित्रं तु काव्यं शब्दार्थालङ्कारचित्रतया बहुविधम् ।
तत्प्रपञ्चो ऽप्यलङ्कारप्रकरणे व्यक्तीभविष्यति ॥
इइ.6 ॥
महाकाव्योपकाव्यादिप्रबन्धनिरूपणम् ॥
अथ महाकाव्यादयः प्रबन्धा निरूप्यन्ते ।
नगरार्णवशैलर्तुचन्द्रार्कोदयवर्णनम् ।
उद्यानसलिलक्रीडामधुपानरतोत्सवाः
विप्रलम्भो विवाहश्च कुमारोदयवर्णनम् ।
मन्त्रदूतप्रयाणाजिनायकाभ्युदया अपि
एतानि यत्र वर्ण्यन्ते तन्महाकाव्यमुच्यते ।
एषामष्टादशानां यैः कौश्चिदूनमपीष्यते
तत्त्रिविधम् ।
गद्यमयं पद्यमयमुभयमयं चेति
अपादः पदसंघातो गद्यं ; पद्यं चतुष्पदम् ।
गद्यकाव्यं कादम्बर्यादि ।
पद्यकाव्यं रघुवंशादि ।
असर्गबन्धमपि यदुपकाव्यमुदीर्यते
असर्गबन्धं सूर्यशतकादि ।
गद्यपद्यमयं काव्यं चम्पूरित्यभिधीयते ।
वक्त्रं चापरवक्त्रं च सोच्छ्वासत्वं च भेदकम्
वर्ण्यते यत्र काव्यज्ञैरसावाख्यायिका मता ।
यत्र वक्त्रापरवक्त्रनामानौ वृत्तविशेषौ वर्ण्येते सोच्छ्रवासपरिच्छिन्नाऽख्यायिका हर्षचरितादि ।
(कोशान्तरे वाक्यमिदं नोपलभ्यते । )
इइ.7 क्षुद्रप्रबन्धनिरूपणम् ॥
अथ क्षुद्राः प्रबन्धा निरूप्यन्ते ।
[इइ.7.1 उदाहरणम्]
येन केनापि तालेन गद्यपद्यसमन्वितम्
जयत्युपक्रमं मालिन्यादिप्रासविचित्रितम् ।
तदुदाहरणं नाम विभक्त्यष्टकसंयुतम्
यत्रादौ जयत्युपक्रमं मालिन्यादिवृत्तं रम्यं पद्यं निबध्यते, अनन्तरम् "अपि चऽ; इत्युपक्रमाण्यष्टवाक्यानि सप्रासानि सतालानि प्रतिविभक्ति निबध्यन्ते, अनन्तरं विभक्त्याभासाः, तत् उदाहरणम् ।
[इइ.7.2 चक्रवालकम्]
संबोधनविभक्त्या यत् प्रचुरं पद्यपूर्वकम् ।
विमुक्तपुनराकृष्टशब्दं स्याच्चक्रवालकम्
आद्यन्तपद्यसंयुक्ता संस्कृतप्राकृतात्मिका ।
अष्टभिर्वा चतुर्भिर्वा वाक्यैः स्कन्धसमन्विता
[इइ.7.3 भोगावली]
प्रतिस्कन्धं भिन्नवाक्यरीतिर्देवनृपोचिता ।
सर्वतो देवशब्दादिरेषा भोगावली मता
[इइ.7.4 बिरुदावलि]
वर्ण्यमानाङ्कबिरुदवर्णनप्रचुरोज्ज्वला ।
वाक्याडम्बरसंयुक्ता सा मता बिरुदावली
मूल पाठ: Pratāparudrīya or Pratāparudrayaśobhūṣaṇa with Kumārasvāmin's commentary Ratnāpaṇa · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0