प्रतापरुद्रीय · अध्याय 1
श्रीमद्विद्यानाथप्रणीतं प्रतापरुद्रीयम्
श्रीमत्कुमारस्वामिकृतरत्नापणसहितम्
अथ नायकप्रकरणम् ।
विद्याकैरवकौमुदीं श्रुतिशिरः सीमन्तमुक्तामणिं दारान् पद्मभुवस्त्रिलोकजननीं वन्दे गिरां देवताम् ।
यत्पादाब्जनमस्क्रियाः सुकृतिनां सारस्वतप्रक्रियाबीजन्यासभुवो भवन्ति कवितानाट्यैकजीवातवः ॥ 1,1 ॥
पूर्वेभ्यो भामहादिभ्यः सादरं विहताञ्जलिः ।
वक्ष्ये सम्यगलङ्कारशास्त्रसर्वस्वसंग्रहम् ॥ 1,2 ॥
चिरेण चरितार्थो ऽभूत् काव्यालङ्कारसंग्रहः ।
प्रतापरुद्रदेवस्य कीर्तिर्येन प्रकाश्यते ॥ 1,3 ॥
रसप्रधानाः शब्दार्था गुणालङ्कारवृत्तयः ।
रीतयश्चेयती शास्त्रप्रमेयं काव्यपद्धतिः
यद्यप्यसौ प्रबन्धेषु प्राचां साधु निरूपिता ।
तथाप्यस्याः समं नेतुर्नोदाहरणमादृतम्
पुण्यश्लोकस्य चरितमुदाहरणमर्हति ।
न कश्चित् तादृशः पूर्वैः प्रबन्धाभरणीकृतः
प्रबन्धानां प्रबन्धॄणामपि कीर्त्तिप्रतिष्ठयोः ।
मूलं विषयभूतस्य नेतुर्गुणनिरूपणम्
यथा रामगुणवर्णनं रामायणवल्मीकजन्मनोर्महाप्रतिष्ठाकरणं, तथा महापुरुषवर्णनेन हि श्रेयस्करी प्रबन्धस्थितिः ।
यथा वेदशास्त्रपुराणादेर्हितप्राप्तिः अहितनिवृत्तिश्च, तथा सदाश्रयात् काव्यादपि ।
इयान् विशेषः---काव्यात् कर्तव्यताधीः सरसा, अन्यत्र न तथा ।
तथा हि---
यद्वेदात् प्रभुसंमितादधिगतं शब्दप्रधानाच्चिरं यच्चार्थप्रवणात् पुराणवचनादिष्टं सुहृत्संमितात् ।
कान्तासंमितया यया सरसतामापाद्य काव्यश्रिया कर्तव्ये कुतुकी बुधो विरचितस्तस्यै स्पृहां कुर्महे
ततः काव्यं दृष्टादृष्टफलजनकतया बहूपयुक्तम् ।
तच्चोक्तं काव्यप्रकाशे---
"काव्यं यशसे ऽर्थकृते व्यवहारविदे शिवेतरक्षतये ।
सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजे" ॥
इति ।
प्रसिद्धं चैतन्महाप्रबन्धेषु---
"परिवड्ढै विण्णाणं संभाविज्जै जसो विडप्पंदि गुणा ।
सुत्रै सुपुरुसचरिअं किं तज्जेण ण हरंति कव्वाठ्ठावा" ॥
(परिवर्धते विज्ञानं संभाव्यते यशो ऽर्ज्यन्ते गुणाः ।
श्रूयते सुपुरुषचरितं किं तद् येन न हरन्ति काव्यालापाः) ॥
यत्र पुनरुत्तमपुरषचरितं न निबध्यते, तत् काव्यं परित्याज्यमेव ।
तन्मूला चेयं
स्मृतिः---"काव्यालापांश्च वर्जयेत्ऽ; इति ।
न केवलं काव्यस्यायं पन्थाः ।
किन्तु शास्तरजातस्यापि सदाश्रयत्वेन महान् लोकादरः ।
तथा वैशेषिकादेरीश्वरप्रतिष्ठापकतया जगत्पूज्यता ।
तथा महाभारतादीनामपि महापुरुषवर्णनपरतयैव विश्वातिशायित्वम् ।
किं बहुना? वेदान्ता अपि ब्रह्मप्रतिपादकतया परमुत्कृष्यन्ते ।
ऽअथातो धर्मजिज्ञासाऽ; इत्युपक्रममाणेन सूत्रकृता महर्षिणापि पुरुषाश्रितस्य गुणश्रेष्ठस्य धर्मस्य जिज्ञासाद्वारेण महापुरुषगुणवर्णनमेव शास्त्रस्य प्राण इत्युररीकृतम् ।
तत्तन्न्यायनिरूपणपरस्यापि प्रबन्धराशेर्महापुरुषगुणवर्णनं हेम्नः परमामोदः ।
अतश्च,
प्रतापरुद्रदेवस्य गुणानाश्रित्य निर्मितः ।
अलङ्कारप्रबन्धो ऽयं सन्तः कर्णोत्सवो ऽस्तु वः
काकतीयनरेन्द्रस्य यशो भूषयितुं कृता ।
विद्यानाथकृतिश्चेयं स्वयं तेन विभूष्यते
तदुक्तं दण्डिना---
"आदिराजयशोबिम्बमादर्शं प्राप्य वाङ्मयम् ।
तेषामसंनिधाने ऽपि न स्वयं पश्य नश्यति" ॥
इति ।
सूक्तैव प्रतिपाद्यमहिम्ना प्रबन्धमहत्ता ।
तदुक्तं प्राचा भामहेन---
"उपश्लोक्यस्य माहात्म्यादुज्ज्वलाः काव्यसंपदः" ।
इति ।
प्रतिपादितं ऽचोद्भटेनऽ---
"गुणालङ्कारचारुत्वयुक्तमप्यधिकोज्ज्वलम् ।
काव्यमाश्रयसंपत्त्या मेरुणेवामरद्रुमः" ॥
इति ।
रुद्रभट्टेनापि कथितम्---"उदारचरितनिबन्धना प्रबन्धप्रतिष्ठाऽ; इति ।
प्रपञ्चितं च साहित्यमीमांसायाम्---"नायकगुणग्रथिताः सूक्तिस्रजः सुकृतिनामाकल्पमाकल्पन्तिऽ; इति ।
निरूपितं च ऽभोजराजेनऽ---
"कवेरल्पापि वाग्वृत्तिर्विद्वत्कर्णावतंसति ।
नायको यदि वर्ण्येत लोकोत्तरगुणोत्तरः" ॥
इति ।
॥ महाकुलीनत्वादिनायकगुणाः ॥
अत्रैते नायकगुणाः ।
महाकुलीनतौज्ज्वल्यं महाभाग्यमुदारता ।
तेजस्विता विदग्धत्वं धार्मिकत्वादयो गुणाः
पूर्वशास्त्रानुसारेण कतिचित् कथिता इमे ।
प्रतापरुद्रदेवस्य गुणा वाचामगोचराः
अथैतेषां स्वरूपमुदाहरणं च ।
तत्र
[1.1.1 महाकुलीनता]
महाकुलीनता नाम कुले महति संभवः ।
यथा---
तादृङ्मध्यमलोकभाग्यविभवादिन्द्रादिबृन्दारकैः क्षोण्यां क्रीडितुमिच्छुभिश्चिरतरं संप्रार्थितः पद्मभूः ।
अत्यर्केन्दुकुलप्रशस्तिमसृजद् यं काकतीयान्वयं तस्मिन् संप्रति वीररुद्रवपुषा जागर्ति लक्ष्मीपतिः
[1.1.2 औज्ज्वल्यम्]
अथौज्ज्वल्यम्---
रूपसंपन्नदेहत्वमौज्ज्वल्यं परिकीर्त्यते
यथा---
मुरारेर्यः पूर्वं जलनिधिसुतायामुदभवन्महादेवाज्जातः स पुनरवनीभृद्दुहितरि ।
वपुष्मान् कामो ऽयं जयति जगतीभाग्यविभवैः प्रतापश्रीरुद्रः स्वयमिति मनीषा मृगादृशाम्
[1.1.3 महाभाग्यम्]
अथ महाभाग्यम्---
विश्वंभराधिपत्यं यत् तन्महाभाग्यमुच्यते ।
यथा---
सेवानम्रनरेन्द्रमौलिविलसद्रत्नंशुनीराजितं राज्यश्रीप्रथमावतारपदवीमारुह्य सिंहासनम् ।
क्षोणीं रक्षति विक्रमैरनुपमैः प्रत्यर्थिपृथ्वीपतिश्लाघालङ्घनजाङ्घिकैर्गुणनिधिः श्रीवीररुद्रो नृपः
[1.1.4 औदार्यम्]
अथौदार्यम्---
यद् विश्राणनताच्छील्यमौदार्यं तन्निगद्यते
यथा---
वदान्यो नान्यो ऽस्ति त्रिजगति समो रुद्रनृपतेर्गुणश्रेणीश्लाघापिहितहरिदीशानयशसः ।
समन्तादुद्भूतैर्द्विरदमदगन्धैः सुरभयः क्रियन्ते यद्विद्वज्जनमणिगृहप्राङ्गणभुवः
[1.1.5 तेजस्विताः]
अथ तेजस्विता---
जगत्प्रकाशकत्वं यत् तेजस्वित्वं तदुच्यते ।
यथा---
सदा तेजोभानौ स्फुरति जयिनः काकतिविभोररिक्ष्माभृत्कान्ताचिकुरतिमिराहंकृतिमुषि ।
प्रकाशव्युत्पत्तिर्भवति जरदुद्दामतमसामसूर्यंपश्यानामवधिगिरिपाश्चात्त्यदृषदाम्
[1.1.6 वैदग्ध्यम्]
अथ वैदग्ध्यम्---
कृत्यवस्तुषु चातुर्यं वैदग्ध्यं परिकीर्त्यते
यथा---
चातुर्यं किमु वर्ण्यते गुणनिधेः श्रीवीररुद्रप्रभोर्यत्रान्योन्यविरुद्धयोरपि महद्वाणीश्रियोरार्जवम् ।
किं चाभ्यां सदृशोपचारललितां तत्तादृशैरुत्सवैर्निः सापत्न्यमिमां भुवं स नृपतिर्धत्ते दिशां जित्वरः
[1.1.7 धार्मिकत्वम्]
अथ धार्मिकत्वम्---
धर्मैकायत्तचित्तत्वं धार्मिकत्वमुदीर्यते ।
यथा---
परिहासे ऽप्यनौचित्यं स्वप्ने ऽप्यन्यवधूकथाम् ।
शत्रावप्यगुणारोपं काकतीन्द्रो न मृष्यति
आदिग्रहणान्महामहिमत्वपाण्डित्यप्रभृतयः ।
तन्महामहिमत्वं स्याद् या पुनर्देवतात्मता
[1.1.8 महामहीतात्मता]
यथा---
कौसल्याऽसीत् प्रथमजननी, देवकी च द्वितीया विष्णोर्माता तदनु महिता मुम्मडाम्बा तृतीया ।
यस्त्रेतायां रघुपतिरभूद् द्वापरे शौरिरासीत् त्रातुं क्षोणीं स जयति कलौ वीररुद्रावतारः
अत्र गरुडध्वजात्मकतया महामहिमतोक्ता ।
[1.1.9 पाण्डित्यम्]
अथ पाण्डित्यम्---
सर्वविद्याधिकत्वं यत् पाण्डित्यं तदुदाहृतम् ।
यथा---
गोष्ठीभिः परितोषयन् बुधगणान् षड्दर्शनीसीमभिः सत्सारस्वतमार्गदर्शनचणैः सूक्तैः कवीन् प्रीणयन् ।
संगीतोपनिषद्रहस्यपिशुनैरातोद्ययोग्यक्रमैर्धिन्वन् संसदि वैणिकान् विहरते श्रीकाकतीन्द्रो नृपः
अथ नायकगुणनिरूपणानन्तरं नायकस्वरूपं निरूप्यते ।
यशः प्रतापसुभगो धर्मकामार्थतत्परः ।
धुरंधरो गुणाढ्यश्च नायकः परिकीर्त्तितः
यशः प्रतापाभ्यां
[1.2.1 सुभगत्वम्ः]
सुभगत्वं यथा---
धर्मालम्बसमुच्छ्रितां त्रिभुवनस्यैकातपत्रश्रियं धत्ते काकतिवीररुद्रनृपतेः स्फारं यशोमण्डलम् ।
छायेवास्य नभः स्थली कुवलयश्यामेयमालोक्यते तन्मन्ये नियतं प्रतापतपनस्तस्योपरि द्योतते
[1.2.2 धर्मकामार्थतत्परत्वम्]
धर्मकामार्थतत्परत्वं यथा---
धर्मो ऽर्थ इव पूर्णश्रीरर्थो धर्म इव स्थितः ।
कामस्ताविव तौ काम इव रुद्रनरेश्वरे
[1.2.3 धरीणका]
धुरीणता यथा---
गायन्तीरनुमोदते निजवधूः शेषः शिरः कम्पनैर्लक्ष्मीं प्रीणयते ऽद्य कच्छपपतिर्वक्षः स्थलीदर्शनात् ।
दिङ्नागाश्च करेणुकाशुचमपाकुर्वन्त्यनुव्रज्यया दोष्णा काकतिवीररुद्रनृपतौ विश्वम्भरां बिभ्रति
[1.2.4 गुणाढ्यत्वम्]
गुणाढ्यत्वं यथा---
मुखैः सहस्त्रेण फणी वदेच्चेत् करैः सहस्रेण लिखेद्विवस्वान् ।
नेत्रैः सहस्रेण हरिश्च पश्येत् स्थाने गुणान् काकतिवीरभुर्तुः
अथ नायकविशेषा निरूप्यन्ते ।
उदात्त उद्धतश्चैव ललितः शान्त इत्यपि ।
धीरपूर्वा इमे पूर्वैश्चत्वारो नायकाः स्मृताः
तत्र सर्वरससाधारणाश्चत्वारो नायकाः धीरोदात्तधीरोद्धतधीरललितधीरशान्ताः ।
एतेषां स्वरूपमुदाहरणं च ।
[1.3.1 धीरोदात्तः]
महासत्त्वो ऽतिगम्भीरः कृपावानविकत्थनः ।
प्रतापरुद्रवद धीरो धीरोदात्तः स संमतः
यथा---
संदिग्धे कृपया मृदुः क्षणमरीन् हन्तुं धृतासिः पुरः शौर्यश्रीप्रणयप्रशंसिषु नमद्भ्रूर्लज्जते वन्दिषु ।
आकारान् सुखरोषहर्षपिशुनान् वक्त्रे न धत्ते मनाक् त्रैलोक्यातिशयालुकीर्त्तिसुभगः श्रीवीररुद्रो नृपः
दर्पमात्सर्यभूयिष्ठश्चण्डवृत्तिर्विकत्थनः ।
मायावी सुलभक्रोधः स धीरोद्धत उच्यते
[1.3.2 धीरोध्दतः]
यथा---
रे रे घूर्जर जर्झरो ऽसि समरे लम्पाक किं कम्पसे वङ्ग त्वङ्गसि किं मुधा बलरजः काणो ऽसि किं कोङ्कण ।
हूण प्राणपरायणो भव महाराष्ट्रापराष्ट्रो ऽस्यमी योद्धारो वयमित्यरीनभिभवन्त्यन्ध्रक्षमाभृद्भटाः
अत्र भटानां धीरोद्धतत्वम् ।
[1.3.3 धीरललितः]
ऽसुरवैकभूःऽ; इति पाठान्तरम् ।
निश्चिन्तो धीरललितः कलासक्तः ।
सुखी मृदुः ।
इ ।
सुखैकभूः इति पाठान्तरम्]
यथा---
शौर्योष्मा निरवग्रहः प्रतिनृपाः सर्वे ऽपि नम्रीकृताः पातिव्रत्यमुपैति भूरियमयं नाथः स्वयंभूः शिवः ।
धीरो ऽयं युवराज एव वहति श्रीवीररुद्रो धुरं सर्वामित्यनुमोदते प्रतिकलं श्रीकाकतीन्द्रो नृपः
[1.3.4 धीरशान्तः]
धीरः शान्तः प्रसन्नात्मा धीरशान्तो द्विजादिकः
यथा---
वीरं रुद्रनृपालरत्नमभितः प्राप्तोदयं मोदते संख्यावदरण एष पूषणमिव प्रत्यग्रमब्जाकरः ।
उन्मीलत्कमलाविहारवसतिर्भूत्वा विकासैर्निजैर्विश्वामोदमुदञ्चयन्नविरतं दोषावसानोत्सुकः
अत्र विप्राणां धीरशान्तत्वम् ।
॥ शृङ्गारनायका निरूप्यन्ते ।
अथ शृङ्गारविषयाश्चत्वारो नायका इमे ।
अनुकूलो दक्षिणश्च धृष्टः शठ इति स्मृताः
एषां स्वरूपमुदाहरणं च ।
[1.4.1अनुकूलः]
एकायत्तो ऽनुकूलः स्यात्
एकस्यां नायिकायां विशेषानुरक्तो ऽनुकूलो नायकः ।
यथा---
किं नामाचरितं तपः सखि ! भुवा यस्याः पतिर्गीयते वीरो रुद्रनृपः क्व तत् सुचरितं तस्य प्रिया स्यां यतः ।
जाने मानिनि मा विषीद पुरतः प्रख्याप्य नाम स्थिरां त्वां रत्नाकरमेखलां त्वयि सदा सक्तं विधास्ये नृपम्
अत्र प्रतापरुद्रस्य क्षोण्यां विशेषानुरागो व्यज्यते, येन वध्वा स्थिरा रत्नाकरमेखलेति तन्नामग्रहणेन स्नेहप्रख्यापनं क्रियते ।
[1.4.2 दक्षिणः]
तुल्यो ऽनेकत्र दक्षिणः ।
अनेकासु नायिकासु अवैषम्येण स्नेहानुवर्ती दक्षिणो नायकः ।
यथा---
नर्मोक्त्यैव नियन्त्रिता स्मरकलाकेलीषु काचिन्मया साकूतेन विलोकनेन हृदयं कस्यैचिदाविष्कृतम् ।
कस्याश्चित् प्रहितः प्रसाधननिधिर्दूतीकरेण, क्व वा गन्तास्मीत्यनुचिन्तयैव नृपतेरासीत् प्रभाता निशा
तथा च ---
वाणीं मुखेन, नेत्राभ्यां श्रियं, दोष्णा च मेदिनीम् ।
मानयंस्तुल्यतां धत्ते तासु रुद्रनरेश्वरः
[1.4.3 धृष्टः]
व्यक्तागा गतभीर्धृष्टः
यथा---
राज्यश्रीपरिभोगशंसि भवतः सर्वाङ्गमालोक्यते कस्तत्राविनयो ऽस्ति साहसमिदं तन्नाम मय्यर्पितम् ।
जाने त्वां बहुवल्लभं किमपरं वक्तव्यमल्पा वयं तस्यां प्रेम तवाधिकं वसुमती या नाम किं जल्पितैः
[1.4.4 शठः]
गूढविप्रियकृच्छठः
नायिकामात्रविदितविप्रियकारी शठः ।
यथा---
दृष्ट्या पश्यसि केवलं न मनसा वाचा प्रियं भाषसे नो भावेन भुजान्तरं प्रकटयस्यग्रे न चाभ्यन्तरम् ।
ज्ञातं काकतिनाथ ! भूस्तव परं प्राणेश्वरी ध्यायतो मादृक्षेषु विडम्बनैव ; तदलं व्यर्थैर्बहिस्संभ्रमैः
अत्र तत्तन्नायकविषयतया काकतीश्वराणामुदाहरणेन वीररुद्रस्यैव वर्णनम् ।
एषां नायिकानुकूलने पीठमर्दविटचेटविदूषकनामानः सहायाः ।
तेषां स्वरूपं निरूप्यते ।
किंचिदूनः पीठमर्द एकविद्यो विटः स्मृतः ।
संधानकुशलश्चेटो हास्यप्रायो विदूषकः
स्पष्टमेषामुदाहरणम् ।
अथाष्टविधाः शृङ्गारनायिकाः ।
स्वाधीनपतिका चैव तथा वासकसज्जिका ।
विरहोत्कण्ठिता चैव विप्रलब्धा च खण्डिता
कलहान्तरिता चैव तथा प्रोषितभर्तृका ।
तथाभिसारिका चेति क्रमाल्लक्षणमुच्यते
प्रियोपलालिता नित्यं स्वाधीनपतिका मता ।
[1.5.1 स्वधीनपतिका]
यथा---
प्रियां सर्वंसहां तैस्तैर्विशेषैरुपलालयन् ।
प्रतापरुद्रनृपतिः प्रतिक्षणमवेक्षते
प्रियागमनवेलायां मण्डयन्ती मुहुर्मुहुः ।
केलीगृहं तथात्मानं सा स्याद्वासकसज्जिका
[1.5.2 वासकासज्निका]
यथा---
स्वतेजसा परिष्कृत्य प्रधानागारमुत्कया ।
श्रियाभिषेकवेलायां वीररुद्रः प्रतीक्षितः
चिरयत्यधिकं कान्ते विरहोत्कण्ठितोन्मनाः
[1.5.3 विरहोत्कण्ठिता]
यथा---
न शङ्कान्या तादृग्गुणपरिमले रुद्रनृपतौ कया वा गोष्ठ्यासौ चिरयति सखीभिर्न सुलभः ।
समानेतुं कान्तं व्रज मदन बद्धो ऽञ्जलिरयं यतो विष्वद्रीचः किरति किरणांस्त्वत्प्रियसखः
क्वचित् संकेतमावेद्य दयितेनाथ वञ्चिता ।
स्मरार्ता विप्रलब्धेति कलाविद्भिः प्रकीर्त्यते
[1.5.4 विप्रलब्धा]
यथा---
गच्छाग्रे सखि ! का प्रियागमकथा प्राप्तो निशीथः परं संकेतालय ! मोक्ष्यसे मम वृथा जातो ऽश्रुभिः पङ्किलः ।
यद्वा रुद्रनरेश्वरे प्रियतमे राज्यश्रियो वल्लभे भारत्या दयिते भुवः कृतपदाः प्रायो वयं वञ्चिताः
नीत्वान्यत्र निशां प्रातरागते प्राणवल्लभे ।
अन्यासंभोगचिह्नैस्तु कुपिता खण्डिता मता
[1.5.5 खण्डिता]
यथा---
रात्रिर्यामत्रयपरिमिता वल्लभास्ते सहस्रं मार्गासक्त्या मम गृहमपि प्रातरेवागतो ऽसि ।
किं कर्तव्यं वद नृपतिभिर्वीक्षणीया हि सर्वाः को वा दोषस्तव पुनरहं काममायासयित्री
कोपात् प्रियं पराणुद्य पश्चात्तापसमन्विता ।
कलहान्तरिता नाम सूरिभिः परिकीर्तिता
[1.5.6 कलहान्तरिता]
यथा---
तह तह अणुणअन्तो पिओ तुए हिअअ रोसकलुसेण ।
अवहीरिदो ण मुणिअं राएति विओअवेअणं सहसु
(तथा तथा अनुनयन् प्रियस्त्वया हृदय ! रोष कलुषेण ।
अवधीरितो न ज्ञातो राजेति वियोगवेदनां सहस्व) ॥ ॥
देशान्तरगते कान्ते खिन्ना प्रोषितभर्तृका ।
[1.5.7 प्रोषितभर्तृका]
यथा---
त्रैलोक्यप्रथमानकीर्त्तिमहसः श्रीवीररुद्रप्रभोः सेवार्थं चिरयत्सु काकतिपुरे भूपेषु तद्योषितः ।
द्वारासक्तदृशो नयन्ति दिवसान् व्युष्टाशया च क्षपास्तद्ध्यानप्रतिबद्धसान्द्रपुलकव्याकीर्णकामेषवः
कान्ताभिसरणोद्युक्ता स्मरार्ता साभिसारिका
[1.5.8 अभिसारिका]
यथा---
संभ्रमैरलमल्पज्ञे ! प्रेयानस्तु महीपतिः ।
करेणुस्थां न पश्यामि न शृणोम्यभिसारिकाम्
॥ आसां नायिकानुकूलने सहायाः ॥
दूत्यो दासी सखी कारूर्धात्रेयी प्रातिवेशिनी ।
लिङ्गिनी शिल्पिनी स्वा च सहायाः परिकीर्तिताः
एतासां स्वरूपमुदाहरणं च स्पष्टम् ।
कामशास्त्रप्रसिद्धाः पद्मनीचित्रिणीप्रभृतयो जातिविशेषा ज्ञातव्याः ।
संक्षेपेण नायिका त्रिविधा---मुग्धा मध्या प्रौढा चेति ।
उदयद्यौवना मुग्धा लजाविजितमन्मथा ।
लजामन्मथमध्यस्था मध्यमोदितयौवना ।
स्मरमन्दीकृतव्रीडा प्रौढा संपूर्णयौवना
यथाक्रममुदाहरणानि ।
मुग्धा यथा---
मुग्धे ! यन्मनसो ऽपि गोप्यमखिलं तन्मह्यमावेद्यते किं या काचिदहं तव प्रियसखि प्रच्छाद्य किं ताम्यसि ।
आसक्तिस्तव रुद्रदेवनृपतावाशास्यते किं भवेदित्याल्यां प्रणयैकवाचि सुतनुर्दत्तोत्तरा व्रीडया
मध्या यथा---
लीलाविभ्रमपूर्वरङ्गमुदितं तारुण्यमेत्य त्रपानेपथ्यान्तरबिम्बितस्मरकलालास्यप्रपञ्चश्रियः ।
सख्यः पश्यत काकतीयनृपतौ भावानुबन्धोज्ज्वलः को ऽप्यस्यास्तरलभ्रुवो विजयते शृङ्गारनाट्यक्रमः
प्रौढा यथा---
सहेलं पश्यन्त्याः प्रकृतिसुभगं रुद्रनृपतिं तदात्वप्रत्युद्यद्विविधललिताटोपमधुरम् ।
रसप्रादुर्भावाद् युगपदुदयत्सात्त्विकमहो मृगाक्ष्यास्तारुण्ये कुसुमशरशिल्पं विजयते
भेदान्तरं यथासंभवमुदाहार्यम् ।
गुणालंकाराणां रसमहति काव्ये विलसितं स्फुरच्छब्दार्थाभ्यां तदपि हृदयानन्दि भवति ।
तयोरप्युन्मेषः स्रवदमृतमाधुर्यसुभगः परं पुण्यश्लोकं चरितमनुबध्नन् विजयते
एष संग्रहश्लोकः ।
उपस्कारहेतूनां गुणालङ्काराणां सदृऽशेङार्ये सति चरितार्थत्वम् ।
यस्यालङ्काराश्रयत्वं तदेव लोकन्यायेनालङ्कार्यम् ।
तेन गुणालङ्काराणां काव्यमेवाश्रयभूतमिति तदेवालङ्कार्यम् ।
रसादेरलङ्कार्यत्वोक्तिः प्राधान्येनात्मन इव हारनूपुराद्यलङ्कार्यत्वम् ।
जीवितभूतत्वाद्रसादेः काव्यात्मता ।
क्वचिद्रसस्य प्राधान्यम् ।
क्वचिदलङअकारस्य प्राधान्यम् ।
क्वचिद्वस्तुनः प्राधान्यं च ।
(उपस्कारहेतूनामित्यादिः अतिश्लाघाकारणमित्यन्तो ग्रन्थो बहुषु कोशेषु न दृश्यते, नापि व्याख्यातः कुमारस्वामिसोमपीथिना) ।
रसप्राधान्यं यथा---
ईषदङ्कुरितविभ्रमचारौ देहपल्लवितकान्तिनि तन्व्याः ।
यौवने मुकुलितस्तनमात्रे पुष्पितश्च फलितश्च मनोभूः
एतत् काञ्चिद्बालामालोक्य सस्पृहस्य प्रतापरुद्रस्य वचनम् ।
अत्र शृङ्गाररसो व्यज्यते ॥
अलङ्कारप्राधान्यं यथा---
कीर्त्तौ प्रतापरुद्रस्य विहरन्त्यां दिगन्तरे ।
लोकालोकतटाः शश्वद्द्रवच्चन्द्रोपलाङ्किताः
अत्र चन्द्रकान्तकुट्टिमानां लोकालोकाचलतटानां रुद्रदेवकीर्त्तौ चन्द्रिकाबुद्ध्या शश्वत् द्रवो ऽभूदिति भ्रान्तिमदलङारो व्यज्यते ।
व्यङ्ग्यावस्थायामलङ्कारस्यापि प्राधान्यमस्त्येव ॥
वस्तुप्राधान्यं यथा---
अवतरति वीररुद्रे काकतिवंशे त्रिलोकमहनीये ।
त्यक्त्वा दुग्धपयोधिं तल्पफणीशः स्वमन्दिरं प्राप्तः
अत्र तल्पफणीशः दुग्धाब्धिं विहाय स्वगृहं प्राप्तः इत्यनेन क्षीरसमुद्रे हरिर्नास्तीति व्यज्यते ।
अनेन पुरुषोत्तमः प्रतापरुद्ररूपेण काकतीयकुले ऽवततारेति वस्तु व्यज्यते ।
इति त्रिविधं व्यङ्ग्यप्राधान्यम् ॥
काव्यमाश्रित्य गुणालङ्काराणां विलासः ।
तच्च काव्यं शब्दस्फुरणेनार्थस्फुरणेन तदुभयस्फुरणेन च सहृदयहृदयानन्दि भवति ॥
[1.6.1 शब्दस्पुरणम्]
शब्दस्य स्फुरणं नाम प्रौढबन्धस्य डम्बरः ।
यो बन्धाडम्बर आरभट्यां प्रतिपादयिष्यते तच्छब्दस्फुरणम् ।
यथा---
क्षोणीरक्षणदक्षिणाः क्षतजगत्क्षोभा दुरीक्षक्रमाः क्षुद्रक्षत्रियपक्षशिक्षणविधौ प्रोत्क्षिप्तकौक्षेयकाः ।
उद्दामोद्यमनस्य रुद्रनृपतेर्देर्दण्डयोश्चण्डयोर्गर्जद्दुर्जनगर्वपर्वतभिदादम्भोलयः केलयः
[1.6.2 अर्थस्पुरणम्]
अचुम्बितार्थसंपत्तिरर्थस्फुरणमिष्यते
यथा---
खग्गे जुज्ज्ञविजिम्भिए रिवुमहीणाहंजलिं बिंबिअं पेक्खंतो जअलच्छिवासकमलं मण्णंति विण्णाणिणो ।
मण्णे वीरपआवरुद्दविहुणो जण्णेसु घेत्तुं उणो सिठ्ठीए रिपुजीविआइ विहिणो पत्तस्स पीढंबुअम्
(खड्गे युद्धविजृम्भिते रिपुमहीनाथाञ्जलिं बिम्बितं प्रेक्षमाणाः जयलक्ष्मीवासकमलं मन्यन्ते विज्ञानिनः ।
मन्ये वीरप्रतापरुद्रविभोर्जन्येषु ग्रहीतुं पुनः सृष्ट्यै रिपुजीवितानि विधेः प्राप्तस्य पीठाम्बुजम्) ॥ ॥
[1.6.3 उभयस्पुरणम्]
उभयस्फुरणं यथा---
उद्यद्बृंहितगर्जितैः करिघटाकादम्बिनीडम्बरैः क्षोणीभृत्कटकोपरोधपटुभिः सद्यः स्फुर(ट?) द्दिक्तटैः ।
प्रावृटसंभ्रमशंसिनो रिपुवधूबाष्पोद्गमैर्दुर्दिनं कुर्वन्तश्चलमर्तिगण्डनृपतेर्जैत्रप्रयाणोद्यमाः
एवंविधशब्दार्थस्फुरणाभ्यां काव्यस्य चारुत्वम् ।
शब्दार्थयोरपि पुण्यश्लोकचरितवर्णनेन सहृदयहृदयानन्दित्वम् ।
अतो नायकस्यैव काव्ये प्राधान्यम् ।
[1.6.4 नायकप्रधान्यम्]
कुलाचारयशः शौर्यश्रुतशीलादिवर्णनम् ।
क्रियते नेतुरेवं यत्तदेव बहुसंमतम्
अथवा प्रतिपक्षस्य वर्णयित्वा गुणान् बहून् ।
तज्जयान्नायकोत्कर्षवर्णनं च मतं क्वचित्
यथाक्रममुदाहरणम्---
तत्त्वं यस्स परः पुमानवतरो यस्यान्वये काकतिक्ष्मापानां चरितं च यस्य भुवनक्षेमंकरप्रक्रमम् ।
श्लघा यस्य लघूकृतामरतरुस्वर्धेनुचिन्तामणिः सो ऽयं विश्वधुरंधरो विजयते श्रीवीररुद्रो नृपः
यत्तेजः प्रतिपक्षभूपविहरद्गर्वान्धकारातपो यद्दोरर्गलविक्रमस्त्रिजगतीशुद्धान्तदौवारिकः ।
सो ऽप्यासीद् युधि सेवणक्षितिपतिः सन्नाहभेरीध्वनिं श्रुत्वा रुद्रनरेश्वरस्य महतो भीतः पलाय्याकुलः
एवंविधवर्णनमुत्पाद्ये नायके न घटते ।
तस्य लोकप्रसिद्ध्यर्थं कुलव्यपदेशादयो बहुधा वर्णयितुमेवोचिताः ।
स्वतः सिद्धे तु नायके द्वैविध्यमपि संभवति ।
तस्य कुलव्यपदेशादीनां लोकप्रसिद्धत्वात् कविभिर्बलवत्प्रतिपक्षविजयवर्णनं युक्तम् ।
एवं स्वतः सिध्दोत्पाद्यत्वभेदेन नायकस्य द्वैविध्यम् ।
तत्र च-
[1.6.5 नायक-गुणयोर्वर्गीकरणम्]
धीरोद्धते यथा रौद्रो वर्ण्यते बाह्यसंभ्रमः ।
यथा च धीरललिते शृङ्गारो बहुभावकृत्
न धीरोदात्तविषये तथा वर्णनमिष्यते ।
कार्यतो रससंपूर्तिस्तस्मिन्नप्युचितक्रमा
हास्यादीनां तथान्येषां रसानामपि कीर्तनम् ।
मन्दोद्यमानुभावं स्याद्धीरोदात्ते तु नेतरि
मूल पाठ: Pratāparudrīya or Pratāparudrayaśobhūṣaṇa with Kumārasvāmin's commentary Ratnāpaṇa · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0