प्रश्नोपनिषद (टीका सहित) · अध्याय 5
प्रुप्भ्_4.11
विज्ञानात्मा सह देवैश्चाग्न्यादिभिः प्राणश्चक्षुरादयो भूतानि पृथिव्यादीनि संप्रतिष्ठन्ति प्रविशन्ति यत्र यस्मिन्नक्षरे तदक्षरं वेदयते यस्तु सोम्य प्रियदर्शन स सर्वज्ञः सर्वमेव आविवेशाविशतीत्यर्थः ॥11॥
इति चतुर्थः प्रश्नः
=============================================================================
पञ्चमः प्रश्नः
स्तर्त् प्रुप् 5.1
अथ हैनं शैब्यः सत्यकामः पप्रच्छ ।
स यो ह वै तद् भगवन् मनुष्येषु प्रायणान्तम् ओंकारम् अभिध्यायीत ।
कतमं वाव स तेन लोकं जयतीति
प्रुप्भ्_5.1
अथ हैनं शैब्यः सत्यकामः पप्रच्छ - अथेदानीं परापरब्रह्मप्राप्तिसाधनत्वेनोङ्कारस्योपासनविधित्सया प्रश्न आरभ्यते -
स यः कश्चिद् वै भगवन् मनुष्येषु मनुष्याणां मध्ये तद् अद्भुतमिव प्रायणान्तं मरणान्तम्, यावज्जीवमित्येतत्, ओङ्कारमभिध्यायीताभिमुख्येन चिन्तयेत्, बाह्यविषयेभ्य उपसंहृतकरणः समाहितचित्तो भक्त्यावेशितब्रह्मभाव ओङ्कारे, आत्मप्रत्ययसन्तानाविच्छेदो भिन्नजातीयप्रत्ययान्तराखिलीकृतो निर्वातस्थदीपशिखासमो ऽभिध्यानाशब्दार्थः ।
सत्यब्रह्मचर्याहिंसापरिग्रहत्यागसंन्यासशौचसन्तोषामायावित्वाद्यनेकयमनियमानुगृहीतः स एवं यावज्जीवव्रतधारणः कतमं वाव, अनेके हि ज्ञानकर्मभिर्जेतव्या लोकास्तिष्ठन्ति तेषु तेनोङ्काराभिध्यानेन कतमं स लोकं जयति ॥1॥
स्तर्त् प्रुप् 5.2
तस्मै स होवाच ।
एतद् वै सत्यकाम परं चापरं च ब्रह्म यद् ओंकारः ।
तस्माद् विद्वान् एतेनैवायतनेनैकतरम् अन्वेति
प्रुप्भ्_5.2
इति पृष्टवते तस्मै स होवाच पिप्पलादः एतस्मै सत्यकाम ।
एतद्ब्रह्म वै परं चापरं च ब्रह्म परं सत्यमक्षरं पुरुषाख्यमपरं च प्राणाख्यं प्रथमजं यत्तदोङ्कार एवोङ्कारात्मकमोङ्कारप्रतीकत्वात् ।
परं हि ब्रह्म शब्दाद्युपलक्षणानर्हं सर्वधर्मविशेषवर्जितमतो न शक्यमतीन्द्रियगोचरत्वात्केवलेन मनसावगाहितुम् ।
ओङ्कारे तु विष्ण्वादिप्रतिमास्थानीये भक्त्यावेशितब्रह्मभावे ध्यायिनां तत्प्रसीदति इत्येतदवगम्यते शास्त्रप्रामाण्यात् तथापरं च ब्रह्म ।
तस्मात्परं चापरं च ब्रह्म यदोङ्कार इत्युपचर्यते ।
तस्मादेवं विद्वानेतेनैवात्मप्राप्तिसाधनेनैवोङ्काराभिध्यानेन एकतरं परमपरं वान्वेति ब्रह्मानुगच्छति नेदिष्टं ह्यालम्बनमोङ्कारो ब्रह्मणः ॥2॥
स्तर्त् प्रुप् 5.3
स यद्य् एकमात्रम् अभिध्यायीत ।
स तेनैव संवेदितस् तूर्णम् एव जगत्याम् अभिसम्पद्यते ।
तम् ऋचो मनुष्यलोकम् उपनयन्ते ।
स तत्र तपसा ब्रह्मचर्येण श्रद्धया सम्पन्नो महिमानम् अनुभवति
प्रुप्भ्_5.3
स यद्यप्योङ्कारस्य सकलमात्राविभागज्ञो न भवति तथापि ओङ्काराभिध्यानप्रभावाद्विशिष्टमेव गतिं गच्छति;एतदेकदेशज्ञानवैगुण्यतयोङ्कारशरणः कर्मज्ञानोभयभ्रष्टो न दुर्गतिं गच्छति ।
किं तर्हि?यद्यप्येवम् ओङ्कारमेवैकमात्राविभागज्ञ एव केवलो ऽभिध्यायीतैकमात्रं सदा ध्यायीत स तेनैवैकमात्र विशिष्टोङ्काराभिध्यानेनैव संवेदितः सम्बोधितस्तूर्णं क्षिप्रमेव जगत्यां पृथिव्यामभिसम्पद्यते ।
किं मनुष्यलोकम् ।
अनेकानि हि जन्मानि जगत्यां सम्भवन्ति ।
तत्र तं साधकं जगत्यां मनुष्यलोकमेवर्च उपनयन्त उपनिगमयन्ति ।
तेन स तत्र मनुष्यजन्मनि द्विजाग्र्यः संस्तपसा ब्रह्मचर्येण श्रद्धया च संपन्नो महिमानं विभूतिमनुभवति न वीतश्रद्धो यथेष्टचेष्टो भवति योगभ्रष्टः कदाचिदपि न दुर्गतिं गच्छति ॥3॥
स्तर्त् प्रुप् 5.4
अथ यदि द्विमात्रेण मनसि संपद्यते ।
सो ऽन्तरीक्षं यजुर्भिर् उन्नीयते सोमलोकम् ।
स सोमलोके विभूतिम् अनुभूय पुनर् आवर्तते
प्रुप्भ्_5.4
अथ पुनर्यदि द्विमात्रविभागज्ञो द्विमात्रेण विशिष्टमोङाकारम् अभिध्यायीत स्वप्नात्मके मनसि मननीये यजुर्मये सोमदैवत्ये संपद्यत एकाग्रतयात्भावं गच्छति स एवं सम्पन्नो मृतो ऽन्तरीक्षम् अन्तरिक्षाधारं द्वितीयमात्रारूपं द्वितीयमात्ररूपैरेवयजुर्भिरुन्नीयते सोमलोकं सौम्यं जन्म प्रापयन्ति तं यजूंषीत्यर्थः स तत्र विभृतिमनुभूय सोमलोके मनुष्यलोकं प्रति पुनरावर्तते ॥4॥
स्तर्त् प्रुप् 5.5
यः पुनर् एतं त्रिमात्रेणोमित्य् एतेनैवाक्षरेण परं पुरुषम् अभिध्यायीत ।
स तेजसि सूर्ये संपन्नः ।
यथा पादोदरस् त्वचा विनिर्मुच्यते ।
एवं ह वै स पाप्मना विनिर्मुक्तः स सामभिर् उन्नीयते ब्रह्मलोकम् ।
स एतस्माज् जीवधनात् परापरं पुरिशयं पुरुषम् ईक्षते तद् एतौ श्लोकौ भवतः
प्रुप्भ्_5.5
यः पुनरेतमोङ्कारं त्रिमात्रेण त्रिमात्राविषयविज्ञानविशिष्टेन ओमित्येतेनैवाक्षरेण परं सूर्यान्तर्गतं पुरुषं प्रतीकेनाभिध्यायीत तेनाभिध्यानेन, प्रतीकत्वेन ह्यालम्बनत्वं प्रकृतम् ओङ्कारस्य परं चापरं च ब्रह्मेत्यभेदश्रुतेरोङ्कारमिति च द्वितीयानेकशः श्रुता बाध्येतान्यथा ।
यद्यपि तृतीयाभिध्यानत्वेन करणत्वमुपपद्यते तथापि प्रकृतानुरोधात् त्रिमात्रं परं पुरुषमिति द्वितीयैव परिणेया"त्यजेदेकं कुलस्यार्थे"(महा.उ.37 । 17) इति न्यायेन ।
स तृतीयमात्रारूपस्तेजसि सूर्ये संपन्ने भवति ध्यायमानो मृतो ऽपि सूर्यात्सोमलोकादिवन्न पुनरावर्तते किन्तु सूर्ये संपन्नमात्र एव ।
यथा पादोदरः सर्पस्त्वचा विनिर्मुच्यते जीर्णत्वग्विनिर्मुक्तः स पुनर्नवो भवति ।
एवं ह वा एष यथा दृष्टान्तः स पाप्मना सर्पत्वक्स्थानीयेनाशुद्धिरूपेण विनिर्मुक्तः सामभिस्तृतीयमात्रारूपैरूर्ध्वमुन्नीयते ब्रह्मलोकं हिरण्यगर्भस्य ब्रह्मणो लोकं सत्याख्यम् ।
स हिरण्यगर्भः सर्वेषां संसारिणां जीवानामात्मभूतः ।
स ह्यन्तरात्मा लिङ्गरूपेण सर्वभूतानाम्, तस्मिन्हि लिङ्गात्मनि संहताः सर्वे जीवाः ।
तस्मात्म जीवघनः ।
स विद्वांस्त्रिमात्रोङ्काराभिज्ञ एतस्माज्जीवघनाद्धिरण्यगर्भात्परात्परं परमात्माख्यं पुरुषमीक्षते पुरिशयं सर्वशरीरानुप्रविष्टं पश्यति ध्यायमानः ।
तदेतस्मिन्यथेक्तार्थप्रकाशकौ मन्त्रौ भवतः ॥5॥
स्तर्त् प्रुप् 5.6
तिस्रो मात्रा मृत्युमत्यः प्रयुक्ता अन्योन्यसक्ता अनविप्रयुक्ताः ।
क्रियासु बाह्याभ्यन्तरमध्यमासु सम्यक्प्रयुक्तासु न कम्पते ज्ञः
प्रुप्भ्_5.6
तिस्रस्त्रिसंख्यका अकारोकारमकाराख्या ओङ्कारस्य मात्रा मृत्युमत्यो मृत्युर्यासां विद्यते ता मृत्युमत्यो मृत्युगोचरादनतिक्रान्तामृत्युगोचरा एवेत्यर्थः ।
ता आत्मनो ध्यानक्रियासु प्रयुक्ताः, किं चान्योन्यसक्ता इतरेतरसंबद्धाः, अनविप्रयुक्ता विशेषेणैकैकविषय एव प्रयुक्ता विप्रयुक्ताः, न तथा विप्रयुक्ता नाविप्रयुक्ता अनविप्रयुक्ताः ।
किं तर्हि, विशेषेणैकस्मिन्ध्यानकाले तिसृषु क्रियासु बाह्याभ्यन्तरमध्यमासु जाग्रत्स्वप्नसुषुप्तस्थानपुरुषाभिध्यानलक्षणासु योगक्रियासु सम्यक्प्रयुक्तासु सम्यग्ध्यानकाले प्रयोजितासु न कम्पते न चलति यो योगी यथोक्तविभागज्ञ ओङ्कारस्येत्यर्थः, न तस्यैवंविदश्चलनमुपपद्यते ।
यस्माज्जाग्रत्स्वप्नसुषुप्तपुरुषाः सह स्थानैर्मात्रात्रयरूपेण ओङ्कारात्मरुपेण दृष्टाः ।
स ह्येवं विद्वान्सर्वात्मभूत ओङ्कारमयः कुतो वा चलेत्कस्मिन्वा ॥6॥
सर्वार्थसंग्रहार्थो द्वितीयो मन्त्रः -
स्तर्त् प्रुप् 5.7
ऋग्भिर् एतं यजुर्भिर् अन्तरिक्षं सामभिर् यत् तत् कवयो वेदयन्ते ।
तम् ओंकारेणैवायतनेनान्वेति विद्वान् यत् तच् छान्तम् अजरम् अमृतम् अभयं परं चेति
मूल पाठ: Praśnopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0