भाषा

ENहिગુ
ग्रंथ पाठ

प्रश्नोपनिषद (टीका सहित) · अध्याय 4

4.1

प्रुप्भ्_3.12
उत्पत्तिं परमात्मनः प्राणस्यायतिमागमनं मनोकृतेनास्मिन् शरीरे स्थानं स्थितिं च पायूपस्थादिस्थानेषु विभुत्वं च स्वाम्यमेव सम्राडिव प्राणवृत्तिभेदानां पञ्चधा स्थापनं बाह्यमादित्यादिरूपेण अध्यात्मं चैव चक्षुराद्याकारेण अवस्थानं विज्ञायैवं प्राणममृतम् अश्नुत इति विज्ञायामृतमश्नुत इति द्विर्वचनं प्रश्नार्थपरिसमाप्त्यर्थम् ॥12॥
इति तृतीयः प्रश्नः
=============================================================================
चतुर्थः प्रश्नः
स्तर्त् प्रुप् 4.1
अथ हैनं सौर्यायणी गार्ग्यः पप्रच्छ ।
भगवन्न् एतस्मिन् पुरुषे कानि स्वपन्ति ।
कान्य् अस्मिञ् जाग्रति ।
कतर एष देवः स्वप्नान् पश्यति ।
कस्यैतत् सुखं भवति ।
कस्मिन् नु सर्वे संप्रतिष्ठिता भवन्तीति

4.2

प्रुप्भ्_4.1
अथ हैनं सौर्यायणी गार्ग्यः पप्रच्छ ।
प्रश्नत्रयेणापरविद्यागोचरं सर्वं परिसमाप्य संसारं व्याकृतविषयं साध्यसाधनलक्षणमनित्यम्;अथेदानीमसाध्यसाधनलक्षणमप्राणममनोगोचरमतीन्द्रियविषयं शिवं शान्तमविकृतमक्षरं सत्यं परविद्यागम्यं पुरुषाख्यं सबाह्याभ्यन्तरमजं वक्तव्यमित्युत्तरं प्रश्नत्रयमारभ्यते ।
तत्र सुदीप्तादिवाग्रेर्यस्मात् परादक्षरात्सर्वे भावा विस्फुलिङ्गा इव जायन्ते तत्र चैवापियन्ति इत्युक्तं द्वितीये मुण्डके;के ते सर्वे भावा अक्षराद्विभज्यन्ते?कथं वा विभक्ताः सन्तस्तत्रैव अपियन्ति?किं लक्षणं वा तदक्षरमिति?एतद्विवक्षयाधुना प्रश्नान् उद्भावयति -
भगवन्नेतस्मिन्पुरुषो शिरः पाण्यादिमति कानि करणानि स्वपन्ति स्वापं कुर्वन्ति स्वव्यापारादुपरमन्ते?कानि चास्मिन् जाग्रति जागरणमनिद्रावस्थां स्वव्यापारं कुर्वन्ति कतरः कार्यकरण लक्षणयोरेष देवः स्वप्नान्पश्यति?स्वप्नो नाम जाग्रद्दर्शनान्निवृत्तस्य जाग्रद्वदन्तःशरीरे यद्दर्शनम् ।
तत्किं कार्यलक्षणेन देवेन निर्वर्त्यन्ते किं वा करणलक्षणेन केनचिदित्यभिप्रायः ।
उपरते च जाग्रत्स्वप्नव्यापारे यत्प्रसन्नं निरायासलक्षणमनाबाधं सुखं कस्यैतद्भवति ।
तस्मिन्काले जाग्रत्स्वप्नव्यापाराद् उपरताः सन्तः कस्मिन्नु सर्वे सम्यगेकीभूताः संप्रतिष्ठिताः ।
मधुनि रसवत्समुद्रप्रविष्टनद्यादिवच्च विवेकानर्हाः प्रतिष्ठिता भवन्ति संगताः संप्रतिष्ठिता भवन्तीत्यर्थः ।
ननु न्यस्तदात्रादिकरणात् स्वव्यापारादुपरतानि पृथक्पृथगेव स्वात्मन्यवतिष्ठन्त इत्येतद्युक्तम् ।
कुतः प्राप्तिः सुषुप्तपुरुषाणां करणानां कस्मिंश्चिदेकीभावगमनाशङ्कायाः प्रष्टुः ।
युक्तैव त्वाशङ्का ।
यतः संहतानि करणानि स्वाभ्यर्थानि परतन्त्राणि च जाग्रद्विषये तस्मात् स्वापे ऽपि संहतानां पारतन्त्र्येणैव कस्मिंश्चित्संतिर्न्याय्येति तस्माद् आशङ्कानुरूप एव प्रश्नो ऽयम् ।
अत्र तु कार्यकरणसंघातो यस्मिंश्च प्रलीनः सुषुप्तप्रलयकालयोस्तद्विशेषं बुभुत्सोः स को नु स्यादिति कस्मिन्सर्वे संप्रतिष्ठिता भवन्तीति ॥1॥
स्तर्त् प्रुप् 4.2
तस्मै स होवाच ।
यथा गार्ग्य मरीचयोऽर्कस्यास् तं गच्छतः सर्वा एतस्मिंस् तेजोमण्डल एकीभवन्ति ।
ताः पुनः पुनर् उदयतः प्रचरन्ति ।
एवं ह वै तत् सर्वं परे देवे मनस्य् एकीभवति ।
तेन तर्ह्य् एष पुरुषो न शृणोति ।
न पश्यति ।
न जिघ्रति ।
न रसयते ।
न स्पृशते ।
नाभिवदते ।
नादत्ते ।
नानन्दयते ।
न विसृजते ।
नेयायते ।
स्वपतीत्य् आचक्षते

4.3

प्रुप्भ्_4.2
तस्मै स होवाचाचार्यः - शृणु हे गार्ग्य यत्त्वया पृष्टम् ।
यथा मरीचयो रश्मयोर्ऽकस्य आदित्यस्यास्तमदर्शनं गच्छतः सर्वा अशेषत एतस्मिंस्तेजोमण्डले तेजोराशिरूप एकीभवन्ति विवेकानर्हत्वमविशेषतां गच्छन्ति मरीचयस्तस्यैवार्कस्य ताः पुनः पुनरुदयत उद्गच्छतः प्रचरन्ति विकीर्यन्ते ।
यथायं दृष्टान्तः, एवं ह वै तत्सर्वं विषयेन्द्रियादिजातं परे प्रकृष्टे देवे द्योतनवति मनसि चक्षुरादिदेवानां मनस्तन्त्रत्वात्परो देवो मनः तस्मिन्स्वप्नकाल एकीभवति ।
मण्डले मरीचिवदविशेषतां गच्छति ।
जिजागरिषोश्च रश्मिमवन्मण्डलान्मनस एव प्रचरन्ति स्वव्यापाराय प्रतिष्ठन्ते ।
यस्मात्स्वप्नकाले श्रोत्रादीनि शब्दाद्युपलब्धिकरणानि मनसि एकीभूतानीव करणव्यापाराद् उपरतानि तेन तस्मात्तर्हि तस्मिन् स्वापकाल एष देवदत्तादिलक्षणः पुरुषो न शृणोति न पश्यति न जिघ्रति न रसयते न स्पृशते नाभिवदते नादत्ते नानन्दयते न विसृजते नेयायते स्वपितीयाचक्षते लौकिकाः ॥2॥
स्तर्त् प्रुप् 4.3
प्राणाग्नय एवैतस्मिन् पुरे जाग्रति ।
गार्हपत्यो ह वा एषो ऽपानः ।
व्यानो ऽन्वाहार्यपचनः ।
यद् गार्हपत्यात् प्रणीयते प्रणयनात् ।
आहवनीयः प्राणः

4.4

प्रुप्भ्_4.3
सुप्तत्सु श्रोत्रादिषु करणेषु एतस्मिन्पुरे नवद्वारे देहे प्राणाग्नयः प्राणा एव पञ्च वायवो ऽग्नय इवाग्नयो जाग्रति ।
अग्निसामान्यं हि आह - गार्हपत्यो ह वा एषो ऽपानः ।
कथमित्याह - यस्माद्गार्हपत्यादग्नेरग्निहोत्रकाल इतरो ऽग्निः आहवनीयः प्रणीयते प्रणयनात् प्रणीयते ऽस्मादिति प्रणयनो गार्हपत्यो ऽग्निः ।
तथा सुप्तस्यापानवृत्तेः प्रणीयत इव प्राणो मुखनासिकाभ्यां संचरत्यत आहवनीयस्थानीयः प्राणः ।
व्यानस्तु हृदयाद् दक्षिणसुषिरद्वारेण निर्गमाद्दक्षिणदिक्सम्बन्धादन्वाहार्यपचनो दक्षिणाग्निः ॥3॥
अत्र च होताग्निहोत्रस्य -
स्तर्त् प्रुप् 4.4
यद् उच्छ्वासनिःश्वासावेतावाहुती समं नयतीति स समानः ।
मनो ह वावन यजमानः ।
इष्टफलम् एवोदानः ।
स एनं यजमानम् अहरहर्ब्रह्म गमयति

4.5

प्रुप्भ्_4.4
यद्यस्मादुच्छ्वासनिःश्वासौ अग्निहोत्राहुती इव नित्यं द्वित्वसामान्यादेव त्वेतावाहुती समं साम्येन शरीरस्थितिभावाय नयति यो वायुरग्निस्थानीयो ऽपि होता चाहुत्योर्नेतृत्वात् ।
को ऽसौ स समानः ।
अतश्च विदुषः स्वापो ऽप्यग्निहोत्रहवनमेव ।
तस्माद्विद्वान्नाकर्मीत्येवं मन्तव्य इत्यभिप्रायः ।
सर्वदा सर्वाणि भूतानि विचिन्वन्त्यपि स्वपत इति हि वाजसनेयके ।
अत्र हि जाग्रसु प्राणाग्निषु उपसंहृत्य बाह्यकरणानि विषयांश्च अग्निहोत्रफलमिव स्वर्ग ब्रह्म जिगमिषुर्मनो ह वाव यजमानो जागर्ति यजमानवत्कार्यकरणेषु प्राधान्येन संव्यवहारात्स्वर्गमिव ब्रह्म प्रति प्रस्थितत्वाद्यजमानो मनः कल्प्यते ।
इष्टफलं यागफलमेवोदानो वायुः ।
उदाननिमित्तत्वादिष्टफलप्राप्तेः ।
कथम्?स उदानो मन आख्यं यजमानं स्वप्नवृत्तिरूपादपि प्रच्याव्याहरहः सुषुप्तिकाले स्वर्गमिव ब्रह्माक्षरं गमयति ।
अतो यागफलस्थानीय उदानः ॥4॥
एवं विदुषः श्रोत्राद्युपरमकालादारभ्य यावत्सुप्तोत्थितो भवति तावत्सर्वयागफलानुभव एव नाविदुषामिवानर्थायेति विद्वत्ता स्तूयते ।
न हि विदुष एव श्रोत्रादीनि स्वपन्ते प्राणाग्नयो वा जाग्रति जाग्रत्स्वप्नयोर्मनः स्वातन्त्र्यमनुभवदहरहः सुषुप्तं वा प्रतिपद्यते ।
समानं हि सर्वप्राणिनां पर्यायेण जाग्रत्स्वप्नसुषुप्तिगमनमतो विद्वत्तास्तुतिरेव इयमुपपद्यते ।
यत्पृष्टं कतर एष देवः स्वप्नान्पश्यतीति तदाह -
स्तर्त् प्रुप् 4.5
अत्रैष देवः स्वप्ने महिमानम् अनुभवति ।
यद् दृष्टं इष्टम् अनुपश्यति ।
श्रुतं श्रुतम् एवार्थम् अनुशृणोति ।
देशदिगन्तरैश् च प्रत्यनुभूतं पुनः पुनः प्रत्यनुभवति ।
दृष्टं चादृष्टं च श्रुतं चाश्रुतं चानुभूतं चाननुभूतं च सच्चासच्च सर्वं पश्यति ।
सर्वः पश्यति

4.6

प्रुप्भ्_4.5
अत्रोपरतेषु श्रोत्रादिषु देहरक्षायै जाग्रत्सु प्राणादिवायुषु प्राक्सुषुप्तिप्रतिपत्तेः एतस्मिन् अन्तराल एष देवोर्ऽकरश्मिवत् स्वात्मनि संहृतश्रोत्रादिकरणः स्वप्ने महिमानं विभूतिं विषयविषयिलक्षणमनेकात्मभावगमनम् अनुभवति प्रतिपद्यते ।
ननु महिमानुभवने करणं मनो ऽनुभवितुस्तत्कथं स्वातन्त्र्येणानुभवति इत्युच्यते स्वतन्त्रो हि क्षेत्रज्ञः ।
नैष दोषः क्षेत्रज्ञस्य स्वातन्त्र्य मन उपाधिकृतत्वान्न हि क्षेत्रज्ञः परमार्थतः स्वतः स्वपिति जागर्ति वा ।
मन उपाधिकृतमेव तस्य जागरणं स्वप्नश्चेत्युक्तं वाजसनेयके"स हि स्वप्नो भूत्वा ध्यायतीव लेलायतीव" (बृ.उ.4 । 3 । 7) इत्यादि ।
तस्मान्मनसो विभूत्यनुभवे स्वातन्त्र्यवचनं न्याय्यमेव ।
मन उपाधिसहितत्वे स्वप्नकाले क्षेत्रज्ञस्य स्वयं ज्योतिष्ट्वं बाध्येतेति केचित् तन्न, श्रुत्यर्थापरिज्ञानकृता भ्रान्तिः तेषाम् ।
यस्मात्स्वयञ्ज्योतिष्ट्वादिव्यवहारो ऽप्यामोक्षान्तः सर्वो ऽविद्याविषय एव मन आद्युपाधिजनितः ।
"यत्र वा अन्यदिव स्यात्तत्रान्यो ऽन्यत्पश्येत्" (बृ.उ.4 । 3 । 32) "मात्रासंसर्गस्त्वस्य भवति" "यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्" (बृ.उ.2 । 4 । 14) इत्यादिश्रुतिभ्यः ।
अतो मन्दब्रह्मविदामेवेयमाशङ्का न तु एकात्मविदाम् ।
नन्वेवं सति"अत्रायं पुरुषः स्वयञ्ज्योतिः" (बृ.उ.3 । 3 । 14) इति विशेषणमनर्थकं भवति ।
अत्रोच्यते अत्यल्पमिदमुच्यते"य एषऽन्तर्हृदय आकाशस्तस्मिञ्शेते" (बृ.उ.2 । 1 । 17) इत्यन्तर्हृदयपरिच्छेदे सुतरां स्वयञ्ज्योतिष्ट्वं बाध्येत ।
सत्यमेवमयं दोषो यद्यपि स्यात्स्वप्ने केवलया स्वयञ्ज्योतिष्ट्वेनार्धं तावदपनीतं भारस्येति चेत् ।
न;तत्रापि"पुरीतति शेते"(बृ.उ.2 । 1 । 19) इति श्रुतेः पुरीतन्नाडीसम्बन्धादत्रापि पुरुषस्य स्वयञ्ज्योतिष्ट्वेनार्धभारापनयाभिप्रायो मृषैव ।
कथं तर्हि"अत्रायं पुरुषः स्वयञ्ज्योतिः"(बृ.उ.4 । 3 । 14) इति ।
अन्यशाखात्वादनपेक्षा सा श्रुतिरिति चेत् ।
न अथैकत्वस्येष्टत्वादेको ह्यात्मा सर्ववेदान्तानामर्थो विजिज्ञापयिषितो बुभुत्सितश्च ।
तस्माद्युक्ता स्वप्न आत्मनः स्वयञ्ज्योतिष्ट्वोपपत्तिर्वक्तुम् ।
श्रुतेर्यथार्थतत्त्वप्रकाशकत्वात् ।
एवं तर्हि शृणु श्रुत्यर्थं हित्वा सर्वमभिमानं न त्वभिमानेन वर्षशतेनापि श्रुत्यर्थो ज्ञातुं शक्यते सर्वैः पण्डितम्मन्यैः ।
यथा - हृदयाकाशे पुरीतति नाडीषु च स्वपतस्तत्संबन्धाभावात्ततो विविच्य दर्शयितुं शक्यत इत्यात्मनः स्वयञ्ज्योतिष्ट्वं न बाध्यते ।
एवं मनस्यविद्याकामकर्मनिमित्तोद्भूतवासनावति कर्मनिमित्ता वासनाविद्ययान्यद्वस्त्वन्तरमिव पश्यतः सर्वकार्यकरणेभ्यः प्रविविक्तस्य द्रष्टुर्वासनाभ्यो दृश्यरूपाभ्यो ऽन्यत्वेन स्वयञ्ज्योतिष्ट्वं सुदर्पितेनापि तार्किकेण न वारयितुं शक्यते ।
तस्मात् साधूक्तं मनसि प्रलीनेषु करणेषु अप्रलीने च मनसि मनोमयः स्वप्नान्पश्यतीति ।
कथं महिमानमनुभवतीत्युच्यते यन्मित्रं पुत्रादपि वा पूर्वं दृष्टं तद्वासनावासितः पुत्रमित्रादिवासनासमुद्भूतं पुत्रं मित्रमिव वा विद्यया पश्यतीत्येवं मन्यते ।
तथा श्रुतमर्थं तद्वासनयानुशृणोतीव ।
देशदिगन्तरैश्च देशान्तरैर्दिगन्तरैश्च प्रत्यनुभूतं पुनः पुनस्तत्प्रत्यनुभवतीवाविद्यया तथा दृष्टं चास्मिञ्जन्मन्यदृष्टं च जन्मान्तरदृष्टमित्यर्थः, अत्यन्तादृष्टे वासनानुपपत्तेः, एवं श्रुतं चाश्रुतं चानुभूतं चास्मिञ्जन्मनि केवलेन मनसा अननुभूतं च मनसैव जन्मान्तरे ऽनुभूतमित्यर्थः ।
सच्च परमार्थोदकादि, असच्च मरीच्युदकादि ।
किं बहुनोक्तं सर्वं पश्यति सर्वः पश्यति सर्वमनोवासनोपाधिः सन्नेवं सर्वकरणात्मा मनोदेवः स्वप्नान्पश्यति ॥5॥
स्तर्त् प्रुप् 4.6
स यदा तेजसाभिभूतो भवति ।
अत्रैष देवः स्वप्नान्न पश्यति ।
अथ तदैतस्मिञ् शरीर एतत् सुखं भवति

4.7

प्रुप्भ्_4.6
स यदा मनोरूपो देवो यस्मिन्काले सौरेण पित्ताख्येन तेजसा नाडीशयेन सर्वतोभिऽभूतो भवति तिरस्कृतवासनाद्वारो भवति तथा सह करणैः मनसो रश्मयो हृद्युपसंहृता भवन्ति ।
यदा मनो दार्वग्निवदविशेषविज्ञानरूपेण कृस्नं शरीरं व्याप्यवत्ष्टते तदा सुषुप्तो भवति ।
अत्रैतस्मिन्काल एष मन आख्यो देवः स्वप्नान्न पश्यति दर्शनद्वारस्य तेजसा ।
अथ तदैतस्मिञ्शरीर एतत्सुखं भवति यद्विज्ञानं निराबाधमविशेषेण शरीरव्यापकं प्रसन्नं भवतीत्यर्थः ॥ 6 ॥ एतस्मिन्काले ऽविद्याकामकर्मनिबन्धनानि कार्यकरणानि शान्तानि भवन्ति ।
तेषु शान्तेषु आत्मस्वरूपमुपाधिभिरन्यथा विभाव्यमानमद्वयमेकं शिवं शान्तं भवतीत्येतामेवावस्थां पृथिव्याद्यविद्याकृतमात्रानुप्रवेशेन दर्शयितुं दृष्टान्तमाह -
स्तर्त् प्रुप् 4.7
स यथा सोम्य वयांसि वासोवृक्षं संप्रतिष्ठन्ते ।
एवं ह वै तत् सर्वं पर आत्मनि संप्रतिष्ठते

4.8

प्रुप्भ्_4.7
स दृष्टान्तो यथा येन प्रकारेण सोम्य प्रियदर्शन वयांसि पक्षिणो वासार्थं वृक्षं वासोवृक्षं प्रति संप्रतिष्ठन्ते गच्छन्ति ।
एवं यथा दृष्टान्तो ह वै तद्वक्ष्यमाणं सर्वं पर आत्मन्यक्षरे संप्रतिष्ठते ॥7॥
किं तत्सर्वम् -
स्तर्त् प्रुप् 4.8
पृथिवी च पृथिवीमात्रा च ।
आपश् चापोमात्रा च ।
तेजश् च तेजोमात्रा च ।
वायुश् च वायुमात्रा च ।
आकाशश् चाकाशमात्रा च ।
चक्षुश् च द्रष्टव्यं च ।
श्रोत्रं च श्रोतव्यं च ।
घ्राणं च घ्रातव्यं च ।
रसश् च रसयितव्यं च ।
त्वक् च स्पर्शयितव्यं च ।
वाक् च वक्तव्यं च ।
हस्तौ चादातव्यं च ।
उपस्थश् चानन्दयितव्यं च ।
पायुश् च विसर्जयितव्यं च ।
पादौ च गन्तव्यं च ।
मनश् च मन्तव्यं च ।
बुद्धिश् च बोद्धव्यं च ।
अहङ्कारश् चाहङ्कर्तव्यं च ।
चित्तं च चेतयितव्यं च ।
तेजश् च विद्योतयितव्यं च ।
प्राणश् च विधारयितव्यं च

4.9

प्रुप्भ्_4.8
पृथिवी च स्थूला पञ्चगुणा तत्कारणा च पृथिवीमात्रा च गन्धतन्मात्रा, तथापश्चापोमात्रा च, तेजश्च तेजोमात्रा च, वायुश्च वायुमात्रा च, आकाशश्चाकाशमात्रा च, स्थूलानि च सूक्ष्माणि च भूतानीत्यर्थः, तथा चक्षुश्चेन्द्रियं रूपं च द्रष्टव्यं च, श्रौत्रं च श्रोतव्यं च, घ्राणं च घ्रातव्यं च, रसश्च रसयितव्यं च, त्वक्च स्पर्शयितव्यं च, वाक्च वक्तव्यं च, हस्तौ चादातव्यं च, उपस्थश्चानन्दयितव्यं च, पायुश्च विसर्जयितव्यं च, पादौ च गन्तव्यं च, बुद्धीन्द्रियाणि कर्मेन्द्रियाणि तथा चोक्तानि, मनश्च पूर्वोक्तं, मन्तव्यं च तद्विषयः, बुद्धिश्च निश्चयात्मिका, बोद्धव्यं च तद्विषयः, अहङ्कारश्चाभिमानलक्षणमन्तःकरणमहङ्कर्तव्यं च तद्विषयः, चित्तं च चेतनावदन्तःकरणम्, चेतयितव्यं च तद्विषयः, तेजश्च त्वगिन्द्रियव्यतिरेकेण प्रकाशविशिष्टा या त्वक्तया निर्भास्यो विषयो विद्योतयितव्यम्, प्राणश्च सूत्रं यदाचक्षते तेन विधारयितव्यं संग्रथनीयं सर्वं हि कार्यकरणजातं पारार्थ्येन संहतं नामरूपात्मकमेतावदेव ॥8॥
अथः परं यदात्मरूपं जलसूर्यकादिवद्भोक्तृत्वकर्तृत्वेन इह अनुप्रविष्टम् -
स्तर्त् प्रुप् 4.9
एष हि द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः ।
स परे ऽक्षर आत्मनि संप्रतिष्ठते

4.10

प्रुप्भ्_4.9
एष हि द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा विज्ञानं विज्ञायते ऽनेनेति करणभूतं बुद्ध्यादीदं तु विजानातीति विज्ञानं कर्तृकाररूपं तदात्मा तत्स्वभावो विज्ञातृस्वभाव इत्यर्थः ।
पुरुषः कार्यकरणसंघातोक्तोपाधिपूर्णत्वात्पुरुषः ।
स च जलसूर्यकादिप्रतिबिम्बस्य सूर्यादिप्रवेशवज्जगदाधारशेषे परे ऽक्षि आत्मनि संप्रतिष्ठते ॥9॥
तदेकत्वविदः फलमाह -
स्तर्त् प्रुप् 4.10
परम् एवाक्षरं प्रतिपद्यते ।
स यो ह वै तदच्छायम् अशरीरम् अलोहितं शुभ्रम् अक्षरं वेदयते यस् तु सोम्य ।
स सर्वः सर्वो भवति ।
तद् एष श्लोकः

4.11

प्रुप्भ्_4.10
परमेवाक्षरं वक्ष्यमाणविशेषं प्रतिपद्यत इत्येतदुच्यते ।
स यो ह वै तत्सर्वैषणाविनिर्मुक्तो ऽच्छायं तमोवर्जितम्, अशरीरं नामरूपसर्वोपाधिशरीरवर्जितम्, अलोहितं लोहितादिसर्वगुणवर्जितम्, यत एवमतः शुभ्रं शुद्धम्, सर्वविशेषणरहितत्वादक्षरम्, सत्यं पुरुषाख्यम्, अप्राणम् अमनोगोचरम्, शिवं शान्तं सबाह्याभ्यन्तरमजं वेदयते विजानाति यस्तु सर्वत्यागी सोम्य स सर्वज्ञो न तेन विदितं किञ्चित् सम्भवति ।
पूर्वमविद्यया सर्वज्ञ आसीत्पुनर्विद्ययाविद्यापनये सर्वो भवति तदा ।
तत्तस्मिन्नर्थ एष श्लोको मन्त्रो भवति उक्तार्थसंग्राहकः ॥10॥
स्तर्त् प्रुप् 4.11
विज्ञानात्मा सह देवैश् च सर्वैः प्राणा भूतानि संप्रतिष्ठन्ति यत्र ।
तद् अक्षरं वेदयते यस् तु सोम्य स सर्वज्ञः सर्वम् एवाविवेशेति

मूल पाठ: Praśnopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc