प्रश्नोपनिषद (टीका सहित) · अध्याय 6
प्रुप्भ्_5.7
ऋग्भिरेतं लोकं मनुष्योपलक्षितम् ।
यजुर्भिरन्तरिक्षं सोमाधिष्ठितम् ।
सामभिर्यत्तद् ब्रह्मलोकमिति तृतीयं कवयो मेधाविनो विद्यावन्त एव नाविद्वांसो वेदयन्ते ।
तं त्रिविधं लोकमोङ्कारेण साधनेनापरब्रह्मलक्षणमन्वेत्यनुगच्छति विद्वान् ।
तेनैवोङ्कारेण यत्तत्परं ब्रह्माक्षरं सत्यं पुरुषाख्यं शान्तं विमुक्तं जाग्रत्स्वप्नसुषुपात्यादि विशेषसर्वप्रपञ्चविवर्जितमत एव अजरं जरावर्जितममृतं मृत्युवर्जितमत एव यस्माज्जराविक्रियारहितमतो ऽभयम्, यस्मादेवाभयं तस्मात्परं निरतिशयम्, तदप्योङ्कारेणायतनेन गमनसाधनेनान्वेतीत्यर्थः ।
इतिशब्दो वाक्यपरिसमाप्त्यर्थः ॥7॥
इति पञ्चमः प्रश्नः
=============================================================================
षष्ठः प्रश्नः
स्तर्त् प्रुप् 6.1
अथ हैनं सुकेशा भारद्वाजः पप्रच्छ ।
भगवन् हिरण्यनाभः कौसल्यो राजपुत्रो मामुपेत्यैतं प्रश्नमपृच्छत ।
षोडशकलं भारद्वाज पुरुषं वेत्थ ।
तम् अहं कुमारम् अब्रुवं नाहम् इमं वेद ।
यद्य् अहम् इमम् अवेदिषं कथं ते नावक्ष्यम् इति ।
समूलो वा एष परिशुष्यति यो ऽनृतम् अभिवदति ।
तस्मान् नार्हाम्य् अनृतं वक्तुं ।
स तूष्णीं रथम् आरुह्य प्रवव्राज ।
तं त्वा पृच्छामि कासौ पुरुष इति
प्रुप्भ्_6.1
अथ हैनं सुकेशा भारद्वाजः पप्रच्छ ।
समस्तं जगत्कार्यकारणलक्षणं सह विज्ञानात्मना परस्मिन्नक्षरे सुषुप्तिकाले सम्प्रतिष्ठत इत्युक्तम् ।
सामर्थ्यात्प्रलये ऽपि तस्मिन्नेवाक्षरे सम्प्रतिष्ठते जगत्तत एवोत्पद्यत इति सिद्धं भवति ।
न ह्यकारणे कार्यस्य सम्प्रतिष्ठानमुपपद्यते ।
उक्तं च आत्मन एष प्राणो जायतेऽइति ।
जगतश्च यन्मूलं तत्परिज्ञानात्परं श्रेय इति सर्वोपनिषदां निश्चितोर्ऽथः ।
अनन्तरं चोक्तं ऽस सर्वज्ञः सर्वो भवतिऽइति वक्तव्यं च क्व तर्हि तदक्षरं सत्यं पुरुषाख्यं विज्ञेयमिति तदर्थोयं प्रश्न आरभ्यते ।
वृत्तान्वाख्यानं च विज्ञानस्य दुर्लभत्वख्यापनेन तल्लब्ध्यर्थं मुमुक्षणां यत्नविशेषोपादानार्थम् ।
हे भगवन् हिरण्यनाभो नामतः कोसलायां भवः कौसल्यो राजपुत्रो जातितः क्षत्रियो माम् उपेत्योपगम्यैतमुच्यमानं प्रश्नमपृच्छत ।
षोडशकलं षोडशसंख्याकाः कला अवयवा इव आत्मन्यविद्याध्यारोपितरूपा यस्मिन् पुरुषे सो ऽयं षोडशकलस्तं षोडशकलं हे भारद्वाज पुरुषं वेत्थ विजानासि ।
तमहं राजपुत्रं कुमारं पृष्टवन्तमब्रुवमुक्तवानस्मि नाहमिमं वेद यं त्वं पृच्छसीति ।
एवमुक्तवत्यपि मय्यज्ञानमसंभावयन्तं तमज्ञाने कारणमवादिषम् ।
यदि कथञ्चिदहमिमं त्वया पृष्टं पुरुषमवेदिषं विदितवानस्मि कथमत्यन्तशिष्यगुणवते ऽर्थिने ते तुभ्यं नावक्ष्यं नोक्तवानस्मि न ब्रूयामित्यर्थः ।
भूयो ऽप्यप्रत्ययमिवालक्ष्य प्रत्याययितुमब्रवम् ।
समूलः सह मूलेन वा एषो ऽन्यथा सन्तमात्मानमन्यथा कुर्वन्ननृतमयथाभूतार्थमभिवदति यः स परिशुष्यति शोषमुपैतीहलोकपरलोकाभ्यां विच्छिद्यते विनश्यति ।
यत एवं जाने तस्मान्नार्हाभ्यहमनृतं वक्तुं मूढवत् ।
स राजपुत्र एवं प्रत्यायित तूष्णीं व्रीडितो रथमारुह्य प्रवव्राज प्रगतवान् यथागतमेव ।
अतो न्यायत उपसन्नाय योग्याय जानता विद्या वक्तव्यैवानृतं च न वक्तव्यं सर्वास्वप्यवस्थासु इत्येतत्सिद्धं भवति ।
तं पुरुषं त्वा त्वां पृच्छामि मम हृदि विज्ञेयत्वेन शल्यमिव स्थितं क्वासौ वर्तते विज्ञेयः पुरुष इति ॥1॥
स्तर्त् प्रुप् 6.2
तस्मै स होवाच ।
इहैवान्तः शरीरे सोम्य स पुरुषो यस्मिन्न् एताः षोडश कलाः प्रभवन्तीति
प्रुप्भ्_6.2
तस्मै स होवाच ।
इहैवान्तःशरीरे हृदयपुण्डरीकाकाशमध्ये हे सोम्य स पुरुषो न देशान्तरे विज्ञेयो यस्मिन्नेता उच्यमानाः षोडश कलाः प्राणाद्याः प्रभवन्ति उत्पद्यन्त इति षोडशकलाभिः उपाधिभूताभिः सकल इव निष्कलः पुरुषो लक्ष्यते ऽविद्ययेति तदुपाधिकलाध्यारोपापनयेन विद्यया स पुरुषः केवलो दर्शयितव्य इति कलानां तत्प्रभवत्वमुच्यते ।
प्राणादीनामत्यन्तनिर्विशेषे ह्यद्वये शुद्धे तत्त्वे न शक्यो ऽध्यारोपमन्तरेण प्रतिपाद्यप्रतिपादनादिव्यवहारः कर्तुमिति कलानां प्रभवस्थित्यप्यया आरोप्यन्ते अविद्याविषयाः ।
चैतन्याव्यतिरेकेणैव हि कला जायमानाः तिष्ठन्त्यः प्रलीयमानाश्च सर्वदा लक्ष्यन्ते ।
अत एव भ्रान्ताः केचिद् अग्निसंयोगाद् घृतमिव घटाद्याकारेण चैतन्यम् एव प्रतिक्षणं जायते नश्यतीति ।
तन्निरोधे शून्यमिव सर्वमित्यपरे ।
घटादिविषयं चैतन्यं चेतयितुर्नित्यस्यात्मनो ऽनित्यं जायते विनश्यतीत्यपरे ।
चैतन्यं भूतधर्म इति लौकयतिकाः ।
अनपायोपजनधर्मकचैतन्यमात्मा एव नामरूपाद्युपाधिधर्मैः प्रत्यवभासते "सत्यं ज्ञानमनन्तं ब्रह्म"(तै.उ.2 । 1 । 1) "प्रज्ञानं ब्रह्म"(ऐ.उ.5 । 3) "विज्ञानमानन्दं ब्रह्म"(बृ.उ.3 । 9 । 28) "विज्ञानघन एव"(बृ.उ.2 । 4 । 12) इत्यादि श्रुतिभ्यः ।
स्वरूपव्यभिचारिषु पदार्थेषु चैतन्यस्याव्यभिचाराद्यथा यथा यो यः पदार्थो विज्ञायते तथा तथा ज्ञायमानत्वादेव तस्य तस्य चैतन्यस्याव्यभिचारित्वम् ।
वस्तुतत्त्वं भवति किञ्चित् न ज्ञायत इति चानुपपन्नम् रूपं च दृश्यते न चास्ति चक्षुरिति यथा ।
व्यभिचरति तु ज्ञेयम् न ज्ञानं व्यभिचरति कदाचिदपि ज्ञेयम्, ज्ञेयाभावे ऽपि ज्ञेयान्तरे भावाज्ज्ञानस्य ।
न हि ज्ञाने ऽसति ज्ञेयं नाम भवति कस्यचित् सुषुप्ते ऽदर्शनात् ।
ज्ञानस्यापि सुषुप्ते ऽभावाज्ज्ञेयवज्ज्ञानस्वरूपस्य व्यभिचार इति चेत् ।
न ज्ञेयावभासकस्य ज्ञानस्यालोकवज्ज्ञेयाभिव्यञ्जकत्वात्स्वव्यङ्ग्याभाव आलोकाभावानुपपत्तिवत्सुषुप्ते विज्ञानभावानुपपत्तेः ।
न ह्यन्धकारे चक्षुषा रूपानुपलब्धौ चक्षुषो ऽभावः शक्यः कल्पयितुं वैनाशिकेन ।
वैनाशिको ज्ञेयाभावे ज्ञानाभावं कल्पयत्येवेति चेत् ।
येन तदभावं कल्पयेत्तस्याभावः केन कल्प्यत इति वक्तव्यं वैनाशिकेन, तदभावस्यापि ज्ञेयत्वाज्ज्ञानाभावे तदनुपपत्तेः ।
ज्ञानस्य ज्ञेयाव्यतिरिक्तत्वाज्ज्ञेयाभावे ज्ञानाभाव इति चेत् ।
न अभावस्यापि ज्ञेयत्वाभ्युपगमादभावो ऽपि ज्ञेयोभ्युपगम्यते वैनाशिकैर्नित्यश्च तदव्यतिरिक्तं चेज्ज्ञानं नित्यं कल्पितं स्यात्तदभावस्य च ज्ञानात्मकत्वादभावत्वं वाङ्मात्रमेव न परमार्थतो ऽभावत्वमनित्यत्वं च ज्ञानस्य ।
न च नित्यस्य ज्ञानस्याभावनाममात्राध्यारोपे किञ्चिन्नश्छिन्नम् ।
अथाभावो ज्ञेयो ऽपि सन् ज्ञानव्यतिरिक्त इति चेत् ।
न तर्हि ज्ञेयाभावे ज्ञानाभावः ।
ज्ञेयं ज्ञानव्यतिरिक्तं न तु ज्ञानं ज्ञेयव्यतिरिक्तमिति चेत् ।
न शब्दमात्रत्वाद्विशेषानुपपत्तेः ।
ज्ञेयज्ञानयोरेकत्वं चेदभ्युपगम्यते ज्ञेयं ज्ञानव्यतिरिक्तं ज्ञानं ज्ञेयव्यतिरिक्तं नेति तु शब्दमात्रमेतद्वह्निरग्निव्यतिरिक्तः अग्निर्न वह्निव्यतिरिक्त इति यद्वदभ्युपगम्यते ।
ज्ञेयव्यतिरेके तु ज्ञानस्य ज्ञेयाभावे ज्ञानाभावानुपपत्तिः सिद्धा ।
ज्ञेयाभावे ऽदर्शनादभावो ज्ञानस्येति चेत् ।
न, सुषुप्ते ज्ञप्त्यभ्युपगमात् ।
वैनाशिकैरभ्युपगम्यते हि सुषुप्ते ऽपि ज्ञानास्तित्वम् ।
तत्रापि ज्ञेयत्वमभ्युपगम्यते ज्ञानस्य स्वेनैवेति चेत् ।
न, भेदस्य सिद्धत्वात् ।
सिद्धं ह्यभावविज्ञेयविषयस्य ज्ञानस्य अभावज्ञेयव्यतिरेकाज्ज्ञेयज्ञानयोः अन्यत्वम् ।
न हि तत्सिद्धं मृतमिवोज्जीवयितुं पुनरन्यथा कर्तुं शक्यते वैनाशिकशतैरपि ।
ज्ञानस्य ज्ञेयत्वमेवेति तदप्यन्येन तदप्यन्येनेति त्वत्पक्षे ऽतिप्रसङ्ग इति चेत् ।
न, तद्विभागोपपत्तेः सर्वस्थ ।
यदा हि सर्वं ज्ञेयं कस्यचित्तदा तद्व्यतिरिक्तं ज्ञानं ज्ञानमेवेति द्वितीयो विभाग एवाभ्युपगम्यते ऽवैनाशिकेर्न तृतीयस्तद्विषय इत्यनवस्थानुपपत्तिः ।
ज्ञानस्य स्वेनैवाविज्ञेयत्वे सर्वज्ञत्वहानिरिति चेत् ।
सो ऽपि दोषस्तस्यैवास्तु किं तन्निबर्हणेनास्माकम् ।
अनवस्थादोषश्च ज्ञानस्य ज्ञेयत्वाभ्युपगमात् ।
अवश्यं च वैनाशिकानां ज्ञानं ज्ञेयम् ।
स्वात्मना चाविज्ञेयत्वेनानवस्थानिवार्या.
समान एवायं दोष इति चेत् ।
न, ज्ञानस्यैकत्वोपपत्तेः ।
सर्वदेशकालपुरुषाद्यवस्थमेकमेव ज्ञानं नामरूपाद्यनेकोपाधिभेदात् सवित्रादिजलादिप्रतिबिम्बवद् अनेकधावभासत इति नासौ दोषः ।
तथा चेहेदमुच्यते ।
ननु श्रुतेरिहैवान्तःशरीरे परिच्छिन्नः कुण्डबदरवत्पुरुष इति ।
न, प्राणादिकलाकारणत्वात् ।
न हि शरीरमात्रपरिच्छिन्नस्य प्राणश्रद्धादीनां कलानां कारणत्वं प्रतिपत्तुं शक्नुयात् ।
कलाकार्यत्वाच्च शरीरस्य ।
न हि पुरुषकार्याणां कलानां कार्यं सच्छरीरं कारणकारणं स्वस्य पुरुषं कुण्डबदरमिवाभ्यन्तरीकुर्यात् ।
बीजवृक्षादिवत्स्यादिति चेत् ।
यथा बीजकार्यं वृक्षस्तत्कार्यं च फलं स्वकारणकारणं बीजमभ्यन्तरीकरोत्याम्रादि तद्वत् पुरुषमभ्यन्तरीकुर्याच्छरीरं स्वकारणकारणमपीति चेत् ।
न, अन्यत्वात्सावयवत्वाच्च ।
दृष्टान्ते कारणबीजात् वृक्षफलसंवृतान्यन्यान्येव बीजानि दार्ष्टान्तिके तु स्वकारणकारणभूतः स एव पुरुषः शरीरे ऽभ्यन्तरीकृतः श्रूयते ।
बीजवृक्षादीनां सावयवत्वाच्च स्यादाधाराधेयत्वं निरवयवश्च पुरुषः सावयवाश्च कलाः शरीरं च ।
एतेनाकाशस्यापि शरीराधारत्वमनुपपन्नं किमुताकाशकारणस्य पुरुस्य तस्मादसमानो दृष्टान्तः ।
किं दृष्टान्तेन वचनात्स्यादिति चेत् ।
न, वचनस्याकारकत्वात् ।
न हि वचनं वस्तुनो ऽन्यथाकरणे व्याप्रियते ।
किं तर्हि?यथाभूतार्थावद्योतने ।
तस्मादन्तःशरीर इत्येतद्वचनमण्डस्यान्तर्व्योमेतिवच्च द्रष्टव्यम् ।
उपलब्धिनिमित्तत्वाच्च, दर्शनश्रवणमननविज्ञानादिलिङ्गैः अन्तः शरीरे परिच्छिन्न इव ह्युपलभ्यते पुरुष उपलभ्यते चात उच्यते ऽन्तः शरीरे सोम्य स पुरुष इति ।
न पुनराकाशकारणः सन्कुण्डबदरवच्छरीरपरिच्छिन्न इति मनसापीच्छति वक्तुं मूढो ऽपि किमुत प्रमाणभूता श्रुतिः ॥2॥
यस्मिन्नेताः षोडश कलाः प्रभवन्तीत्युक्तं पुरुषविशेषणार्थं कलानां प्रभवः स चान्यार्थे ऽपि श्रुतः केन क्रमेण स्यादित्यत इदमुच्यते - चेतनपूर्विका च सृष्टिरित्येवमर्थं च ।
स्तर्त् प्रुप् 6.3
स ईक्षां चक्रे ।
कस्मिन्न् अहम् उत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन् वा प्रतिष्ठिते प्रतिष्ठास्यामीति
प्रुप्भ्_6.3
स पुरुषः षोडशकलः पृष्टो यो भारद्वाजेन ईक्षान्तक्र ईक्ष्यं दर्शनं चक्रे कृतवानित्यर्थः सृष्टिफलक्रमादिविषयम् ।
कथम्?इत्युच्यते कस्मिनकर्तृविशेषे देहादुत्क्रान्त उत्क्रान्ते भविष्यामि
अहमेवं कस्मिन्वा शरीरे प्रतिष्ठिते अहं प्रतिष्ठास्यामि प्रतिष्ठितस्यामित्यर्थः ।
स्तर्त् प्रुप् 6.4
स प्राणमसृजत ।
प्राणाच् छद्वां खं वायुर् ज्योतिर् आपः पृथिवीन्द्रियं मनो ऽन्नम् अन्नाद् वीर्यं तपो मन्त्राः कर्म लोका लोकेषु नाम च
प्रुप्भ्_6.4
नन्वात्माकर्ता प्रधानं कर्तृ, अतः पुरुषार्थप्रयोजनमुररीकृत्य प्रधानं प्रवर्तते महदाद्याकारेण ।
तत्रेदमनुपपन्नं पुरुषस्य स्वातन्त्र्येण ईक्षापूर्वकं कर्तृत्ववचम्, सत्त्वादिगुणसाम्ये प्रधाने प्रमाणोपपन्ने सृष्टिकर्तरि सतीश्चरेच्छानुवर्तिषु वा परमाणुषु सत्स्वात्मनो ऽप्येकत्वेन कर्तृत्वे साधनाभावादात्मन आत्मन्यनर्थकर्तृत्वानुपपत्तेश्च ।
न हि चेतनावान्बुद्धिपूर्वकार्यात्मनो ऽनर्थ कुर्यात् ।
तस्मात्पुरुषार्थेन प्रयोजनेन ईक्षापूर्वकमिव नियतक्रमेण प्रवर्तमाने ऽचेतने प्रधाने चेतनवदुपचारे ऽयं स ईक्षाञ्चक्रे इत्यादिः ।
यथा राज्ञः सर्वार्थकारिणि भृत्ये राजेति तद्वत् ।
न, आत्मनो भोक्तृत्ववत्कर्तृत्वोपपत्तेः ।
यथा सांख्यस्य चिन्मात्रस्यापारणामिनो ऽप्यात्मनो भोक्तृत्वं तद्वद्वेदवादिनामीक्षादिपूर्वकं जगत्कर्तृत्वमुपपन्नं श्रुतिप्रामाण्यात् ।
तत्त्वान्तरपरिणाम आत्मनो ऽनित्यत्वाशुद्धत्वानेकत्वनिमित्तो न चिन्मात्रस्वरूपविक्रिया ।
अतः पुरुषस्य स्वात्मन्येव भोक्तृत्वं चिन्मात्रस्वरूपविक्रिया न दोषाय भवतां पुनर्वेदवादिनां सृष्टिकर्तृत्वे तत्त्वान्तरपरिणाम एवेत्यात्मनो ऽनित्यत्वादिसर्वदोषप्रसङ्ग इति चेत् ।
न, एकस्याप्यात्मनो ऽविद्यायां विषयनामरूपोपाध्यनुपाधिकृतविशेषोभ्युपगमादविद्याकृतनामरूपोपाधिकृतो हि विशेषो ऽभ्युपगम्यत आत्मनो बन्धमोक्षादिशास्त्रकृतसंव्यवहाराय परमार्थतो ऽनुपाधिकृतं च तत्त्वमेकमेवाद्वितीयमुपादेयं सर्वताकिङ्कबुद्ध्यनवगाह्यमभयं शिवम् इष्यते न तत्र कर्तृत्वं भोक्तृत्वं वा क्रियाकारकफलं च स्याद् अद्वैतत्वात्सर्वभावानाम्.
सांख्यास्त्वविद्याध्यारोपितम् एव पुरुषे कर्तृत्वं क्रियाकारकं फलं चेति कल्पयित्वागमबाह्यत्वात्पुनस्ततस्त्रस्यन्तः परमार्थत एव भोक्तृत्वं पुरुषस्येच्छन्ति तत्त्वान्तरं च प्रधानं पुरुषात्परमार्थवस्तुभूतमेव कल्पयन्तो ऽन्यतार्किककृतबुद्धिविषयाः सन्तो विहन्यन्ते ।
तथेतरे तार्किकाः सांख्यैः ।
इत्येवं परस्परविरुद्धार्थकल्पनात् आमिषार्थिन इव प्राणिनो ऽन्योन्यविरुद्धमानार्थदर्शित्वात् परमार्थतत्त्वाद्दूरम् एवापकृष्यन्ते ।
अतस्तन्मतमनादृत्य वेदान्तार्थतत्त्वमेकत्वदर्शनं प्रति आदरवन्तो मुमुक्षवः स्युरिति तार्किकमतदोषप्रदर्शनं किञ्चिदुच्यत अस्माभिर्न तु तार्किकवत्तात्पर्येण ।
तदैतदत्रोक्तम् -
ऽविवदत्स्वेव निक्षिप्य विरोधोद्भवकारणम् ।
तैः संरक्षितसद्बुद्धिः सुखं निर्वाति वेदवित्ट ॥
इति ।
किं च भोक्तृत्वकर्तृत्वयोर्विक्रिययोर्विशेषानुपपत्तिः ।
का नामासौ कर्तृत्वाज्जात्यन्तरभूता भोक्तृत्वविशिष्टा विक्रिया यतो भोक्तैव पुरुषः कल्प्यते न कर्ता प्रधानं तु कर्त्रेव न भोक्त्रिति ।
ननूक्तं पुरुषश्चिन्मात्र एव स च स्वात्मस्थो विक्रियते भुञ्जानो न तत्त्वान्तरपरिणामेन प्रधानं तु तत्त्वान्तरपरिणामेन प्रधानं तु तत्त्वान्तरपरिणामेन विक्रियते ऽतो ऽनेकमशुद्धमचेतनं चेत्यादिधर्मवत्तद्विपरीतः पुरुषः ।
नासौ विशेषो वाङ्मात्रत्वात् ।
प्राग्भोगोत्पत्तेः केवलचिन्मात्रस्य पुरुषस्य भोक्तृत्वं नाम विशेषो भोगोत्पत्तिकाले चेज्जायते निवृत्ते च भोगे पुनस्तद्विशेषादपेतश्चिन्मात्र एव भवतीति चेन्महदाद्याकारेण च परिणम्य प्रधानं ततो ऽपेत्य पुनः प्रधानं ततो ऽपेत्य पुनः प्रधानं स्वरूपेणावतिष्ठत इत्यस्यां कल्पनायां न कश्चिद्विशेष इति वाङ्मात्रेण प्रधानपुरुषयोर्विशिष्टविक्रिया कल्प्यते ।
अथ भोगकाले ऽपि चिन्मात्र एव प्राग्वत्पुरुष इति चेत् ।
न तर्हि परमार्थतो भोगः पुरुषस्य ।
भोगकाले चिन्मात्रस्य विक्रिया परमार्थैव तेन भोगः पुरुषस्येति चेत् ।
न, प्रधानस्यापि भोगकाले विक्रियावत्त्वाद्भोक्तृत्वप्रसङ्गः ।
चिन्मात्रस्यैव विक्रिया भोक्तृत्वम् इति चेदौष्ण्याद्यसाधारणधर्मवतामग्न्यादीनामभोक्तृत्वे हेत्वनुपपत्तिः ।
प्रधानपुरुषस्योर्द्वयोर्युगपद्भोक्तृत्वमिति चेत् ।
न, प्रधानस्य परार्थ्यानुपपत्तेः ।
न हि भोक्तृर्त्रोर्द्वयोरितरेतरगुणप्रधानभाव उपपद्यते प्रकाशयोरिवेतरेतरप्रकाशने ।
भोगधर्मवति सत्त्वाङ्गिनि चेतसि पुरुषस्य चैतन्यप्रतिबिम्बोदयो ऽविक्रियस्य पुरुषस्य भोक्तृत्वमिति चेत् ।
न, पुरुषस्य विशेषाभावे भोक्तृत्वकल्पनानर्थक्यात् ।
भोगरूपश्चेदनर्थः पुरुषस्य नास्ति सदा निर्विशेषत्वात्पुरुषस्य कस्य अपनयार्थं मोक्षसाधनं शास्त्रं प्रणीयते ।
अविद्याध्यारोपितानर्थापनयनाय शास्त्रप्रणयनमिति चेत्परमार्थतः पुरुषो भोक्तैव न कर्ता प्रधानं कर्त्रेव न भोक्तृपरमार्थसद्वस्त्वन्तरं पुरुषाच्चेतीयं कल्पनागमबाह्याव्यर्था निर्हेतुका चेति नादर्तव्या मुमुक्षुभिः ।
एकत्वे ऽपि शास्त्रप्रणायनाद्यानर्थक्यमिति चेत् ।
न अभावात् ।
सत्सु हि शास्त्रप्रणेत्रादिषु तत्फलार्थिषु च शास्त्रस्य प्रणयनमनर्थकं सार्थकं वेति विकल्पना स्यात् ।
न ह्यात्मैकत्वे शास्त्रप्रणेत्रादयस्ततो भिन्नाः सन्ति तदभाव एवं विकल्फनैवानुपपन्ना ।
अभ्युपगत आत्मैकत्वे प्रमाणार्थश्चाभ्युपगतो भवता यदात्मैकत्वमभ्युपगच्छता, तदभ्युपगमे च विकल्पानुपपत्तिमाह शास्त्रम्"यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्"(बृ.उ.2 । 4 । 14) इत्यादि ।
शास्त्रप्रणयनाद्युपपत्तिं चाहान्यत्र परमार्थवस्तुस्वरूपादविद्याविषये ।
"यत्र हि द्वैतमिव भवति"(बृ.उ.2 । 4 । 14) इत्यादि विस्तरतो वाजसनेयके ।
अत्र च विभक्ते विद्याविद्ये परापरे इत्यादावेव शास्त्रस्य ।
अतो न तार्किकवादभटप्रवेशो वेदान्तराजप्रमाणबाहुगुप्त इहात्मैकत्वविषय इति ।
एतेनाविद्याकृतनामरूपाद्युपाधिकृतानेकशक्तिसाधनश्रुतभेदवत्त्वाद्ब्राह्मणः सृष्ट्यादिकर्तृत्वे साधनाद्यभावो दोषः प्रत्युक्तो वेदितव्यः परैरुक्त आत्मानर्थकर्तृत्वादिदोषश्च ।
यस्तु दृष्टान्तो राज्ञः सर्वार्थकारिणि कर्तर्युपचाराद्राजा कर्तेति सो ऽत्रानुभपपन्नः"स ईक्षाञ्चक्रे"इति श्रुतेर्मुख्यार्थबाधनात्प्रमाणभूतायाः ।
तत्र हि गौणी कल्पना शब्दस्य यत्र मुख्यार्थो न सम्भवति ।
इह त्वचेतनस्य मुक्तबद्धपुरुषविशेषापेक्षया कर्तृकर्मदेशकालनिमित्तापेक्षया च बन्धमोक्षादिफलार्था नियता पुरुषं प्रति प्रवृत्तिर्नोपपद्यते ।
यथोक्तसर्वज्ञेश्वरकर्तृत्वपक्षे तूपपन्ना ईश्वरेणेव सर्वाधिकारि प्राणः पुरुषेण सृज्यते ।
कथम् स पुरुष उक्तप्रकारेणेक्षित्वा सर्वप्राणं हिरण्यगर्भाख्यं सर्वप्राणिकरणाधारम् आत्मानम् असृजत सृष्टवान् ।
अतः प्राणाच्छ्रद्धां सर्वप्राणिनां शुभकर्मप्रवृत्तिहेतुभूताम् ।
ततः कर्मफलोपभोगसाधनाधिष्ठानानि कारणभूतानि महाभूतान्यसृजत ।
स्वं शब्दगुणम्, वायुं स्वेन स्पर्शेन कारणगुणेन च विशिष्टं त्रिगुणं शब्दस्पर्शाभ्याम् ।
तथापो रसेन गुणेन साधारणेन पूर्वगुणानुप्रवेशेन च चतुर्गुणाः ।
तथा गन्धगुणेन पूर्वगुणानुप्रवेशेन च चतुर्गुणाः ।
तथा गन्धगुणेन पूर्वगुणानुप्रवेशेन च पञ्चगुणा पृथिवी ।
तथा तैरेव भूतैरारब्धमिन्द्रियं द्विप्रकारं बुद्ध्यर्थं कर्मार्थं च दशसंख्याकं तस्य चेश्वरमन्तःस्थं संशयसङ्कल्पलक्षणं मनः ।
एवं प्राणिनां कार्यं करणं त सृष्ट्वा तत्स्थित्यर्थं व्रीहियवादिलक्षणमन्नम् ।
ततश्चान्नादद्यमानाद्वीर्यं सामर्थ्यं बलं सर्वकर्मप्रवृत्तिसाधनम् ।
तद्वीर्यवतां च प्राणिनां तपो विशुद्धिसाधनं सङ्कीर्यमाणानाम् ।
मन्त्रस्तपोविशुद्धान्तर्बहिःकरणेभ्यः कर्मसाधनभूताऋग्यजुः सामाथर्वाङ्गिरसः ततः ।
कर्माग्निहोत्रादिलक्षणम् ।
तपो लोकाः कर्मणां फलम् ।
तेषु च सृष्टानां प्राणिनां नाम च देवदत्तो यज्ञदत्त इत्यादि ।
एवम् एताः कलाः प्राणिनामविद्यादिदोषबीजापेक्षया सृष्टाः तैमिरिकदृष्टिसृष्टा इव द्विचन्द्रमशकमक्षिकाद्याः स्वप्नदृक्सृष्टा इव च सर्वपदार्थः पुनस्तस्मिन्नेव पुरुषे प्रलीयन्ते हित्वा नामरूपादि विभागम् ॥4॥
स्तर्त् प्रुप् 6.5
कथम् -
स यथेमा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति ।
भिद्येते तासां नामरूपे ।
समुद्र इत्य् एवं प्रोच्यते ।
एवम् एवास्य परिद्रष्टुर् इमाः षोडश कलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति ।
भिद्येते चासां नामरूपे ।
पुरुष इत्य् एवं प्रोच्यते ।
स एषो ऽकलो ऽमृतो भवति तदेष श्लोकः
प्रुप्भ्_6.5
स दृष्टान्तो यथा लोक इमा नद्यः स्यन्दमानाः स्रवन्त्यः समुद्रायणाः समुद्रो ऽयनं गतिः आत्मभोवो यासां ताः समुद्रायणाः समुद्रं प्राप्योपगम्यास्तं नामरूपतिरस्कारं गच्छन्ति ।
तासां चास्तं गतानां भिद्येते विनश्यतो नामरूपे गङ्गायमुनेत्यादिलक्षणे ।
तदभेदे समुद्र इत्येवं प्रोच्यते तद्वस्तूदकलक्षणम् ।
एवं यथायं दृष्टान्तः, उक्तलक्षणस्य प्रकृतस्यास्य पुरुषस्य परिद्रष्टुः परिसमन्ताद् द्रष्टुर्दर्शनस्य कर्तुः स्वरूपभूतस्य यथार्कः स्वात्मप्रकाशस्य कर्ता सर्वतः तद्वदिमाः षोडश कलाः प्राणाद्या उक्ताः कलाः पुरुषायणा नदीनामिव समुद्रः पुरुषो ऽयनमात्मभावगमनं यासां कलानां ताः पुरुषायणाः पुरुषं प्राप्य पुरुषात्मभावमुपगम्य तथैवास्तं गच्छन्ति ।
भिद्येते चासां नामरूपे कलानां प्राणाद्याख्या रूपं च यथास्वम् ।
भेदे च नामरूपयोर्यदनष्टं तत्त्वं पुरुष इत्येवं प्रोच्यते ब्रह्मविद्भिः ।
य एवं विद्वान्गुरुणा प्रदर्शितकलाप्रलयमार्गः स एष विद्यया प्रविलापितास्वविद्याकामकर्मजनितासु प्राणादिकलास्वकलः अविद्याकृतकलानिमित्तो हि मृत्युः तदपगमे ऽकलत्वादेवामृतो भवति तदेतस्मिन्नर्थ एष श्लोकः ॥5॥
स्तर्त् प्रुप् 6.6
अरा इव रथनाभौ कला यस्मिन् प्रतिष्ठिताः ।
तं वेद्यं पुरुषं वेद यथा मा वो मृत्युः परिव्यथा इति
प्रुप्भ्_6.6
अरा रथचक्रपरिवारा इव रथनाभौ रथचक्रस्य नाभौ यथा प्रवेशितास्तदाश्रया भवन्ति यथा तथेत्यर्थः, कलाः प्राणाद्या यस्मिन्पुरुषे प्रतिष्ठिता उत्पत्तिस्थितिलयकालेषु तं पुरुषं कलानामात्मभूतं वेद्यं वेदनीयं पूर्णत्वात् पुरुषं पुरि शयनाद्वा वेद जानीयात्, यथा हे शिष्या मा वो युष्मान्मृत्युः परिव्यथा मा परिव्यथयतु ।
न चेद्विज्ञायेत पुरुषो मृत्युनिमित्तां व्यथामापन्ना दुःखिन एव यूयं स्थ ।
अतस्तन्मा भुद्युष्माकमित्यभिप्रायः ॥6॥
स्तर्त् प्रुप् 6.7
तान् होवाच ।
एतावद् एवाहम् एतत् परं ब्रह्म वेद ।
नातः परम् अस्तीति
प्रुप्भ्_6.7
तानेवमनुशिष्य शिष्यांस्तान् होवाच पिप्पलादः किलैतावदेव वेद्यं परं ब्रह्म वेद विजानाम्यहमेतत् ।
नातो ऽस्मात्परमस्तिप्रकृष्टतरं वेदितव्यमित्येवमुक्तवाञ्शिष्याणामविदितशेषास्तित्वाशङ्कानिवृत्तये कृतार्थबुद्धिजननार्थं च ॥7॥
स्तर्त् प्रुप् 6.8
ते तम् अर्चयन्तस् त्वं हि नः पिता यो ऽस्माकम् अविद्यायाः परं पारं तारयसीति नमः ।
परमऋषिभ्यो नमः परमऋषिभ्यः
मूल पाठ: Praśnopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0