प्रश्नोपनिषद (टीका सहित) · अध्याय 3
प्रुप्भ्_2.13
अस्मिंल्लोके प्राणस्यैव वशे सर्वमिदं यत्किञ्चिदुपभोगजातं त्रिदिवे तृतीयस्यां दिवि च यत्प्रतिष्ठितं देवाद्युपभोगजातं तस्यापि प्राण एवेशिता रक्षिता ।
अतो मातेव पुत्रानस्मान् रक्षस्व पालयस्व ।
त्वन्निमित्ता हि ब्राह्म्यः क्षात्रियाश्च श्रियस्तास्त्वं श्रीश्च श्रियश्च प्रज्ञां च त्वत्स्थितिनिमित्तां विधेहि नो विधस्व इत्यर्थः ।
इत्येवं सर्वात्मतया वागादिभिः प्राणैः स्तुत्या गमितमहिमा प्राणः प्रजापतिरत्तेत्यवधृतम् ॥13॥
इति द्वितीयः प्रश्नः
=============================================================================
तृतीय प्रश्नः
स्तर्त् प्रुप् 3.1
अथ हैनं कौसल्यश् चाश्वलायनः पप्रच्छ ।
भगवन् कुत एष प्राणो जायते ।
कथम् आयात्य् अस्मिन् शरीरे ।
आत्मानं वा प्रविभज्य कथं प्रातिष्ठते ।
केनोत्क्रमते ।
कथं बाह्यम् अभिधत्ते ।
कथम् अध्यात्मम् इति
प्रुप्भ्_3.1
अथ हैनं कौसल्यश्चाश्वलायनः पप्रच्छ ।
प्राणो ह्येवं प्राणैर्निर्धारिततत्त्वैरुपलब्धमहिमापि संहतत्वात्स्यादस्यः कार्यत्वमतः पृच्छामि भगवन्कृतः कस्मात्कारणादेष आयात्यस्मिञ्शरीरे ।
किंनिमित्तकमस्य शरीरग्रहणमित्यर्थः ।
प्रविष्टश्च शरीर आत्मानं वा प्रविभज्य प्रविभागं कृत्वा कथं केन प्रकारेण प्रातिष्ठते प्रतितिष्ठति केन वा वृत्तिविशेषेणास्माच्छरीरादुत्क्रामत उत्क्रामति ।
कथं बाह्यमधिभूतमधिदैवतं चाभिधत्ते धारयति कथमध्यात्मम् इति, धारयतीति शेषः ॥1॥
एवं पृष्टः -
स्तर्त् प्रुप् 3.2
तस्मै स होवाच ।
अतिप्रश्नान् पृच्छसि ।
ब्रह्मिष्ठो ऽसीति ।
तस्मात् ते ऽहं ब्रवीमि
प्रुप्भ्_3.2
तस्मै स होवाचाचार्यः, प्राण एव तावद्दुर्विज्ञेयत्वाद्विषमप्रश्नार्हस्तस्यापि जन्मादि त्वं पृच्छस्यतो ऽतिप्रश्नान्पृच्छसि ।
ब्रह्मिष्ठो ऽसीत्यतिशयेन त्वं ब्रह्मविदतस्तुष्टो ऽहं तस्मात्ते तुभ्यं ब्रवीमि यत्पृष्टं श्रुणु ॥2॥
स्तर्त् प्रुप् 3.3
आत्मन एष प्राणो जायते ।
यथैषा पुरुषे छायैतस्मिन्न् एतदाततम् ।
मनोकृतेनायात्य् अस्मिञ् शरीरे
प्रुप्भ्_3.3
आत्मनः परस्मात्पुरुषादक्षरात्सत्यादेष उक्तः प्राणो जायते ।
कथमित्यत्र दृष्टान्तः ।
यथा लोक एषा पुरुषे शिरः पाण्यादिलक्षणे निमित्ते छाया नैमित्तिकी जायते तद्वदेतस्मिन्ब्रह्मण्येतत् प्राणाख्यं छायास्थानीयमनृतरूपं तत्त्वं सत्ये पुरुष आततं समर्पितम् इत्येतत् ।
छायेव देहे मनोकृतेन मनः सङ्कल्पेच्छादिनिष्पन्नकर्मनिमित्तेनेत्येतत् - वक्ष्यति हि"पुण्येन पुण्यम्"(प्र.उ.3 । 7) इत्यादिः;तदेव"सक्ताः सह कर्मणा"(बृ.उ.4 । 4 । 6) इति च श्रुत्यन्तरात् - आयाति आगच्छत्यस्मिञ्शरीरे ॥3॥
स्तर्त् प्रुप् 3.4
यथा सम्राड् एवाधिकृतान् विनियुङ्क्ते ।
एतान् ग्रामान् एतान् ग्रामान् अधितिष्ठस्वेति ।
एवम् एवैष प्राण इतरान् प्राणान् पृथक् पृथग् एव संनिधत्ते
प्रुप्भ्_3.4
यथा येन प्रकारेण लोके राजा सम्राडेव ग्रामादिष्वधिकृतान्विनियुङ्क्ते ।
कथम्?एतान्ग्रामानेतान्ग्रामानधितिष्ठस्व इति ।
एवमेव यथा दृष्टान्तः एष मुख्यः प्राणः इतरान्प्राणान् चक्षुरादीनात्मभेदांश्च पृथक् पृथगेव यथास्थानं संनिधत्ते विनियुङ्क्ते ॥4॥
तत्र विभागः -
स्तर्त् प्रुप् 3.5
पायूपस्थे ऽपानम् ।
चक्षुःश्रोत्रे मुखनासिकाभ्यां प्राणः स्वयं प्रतिष्ठते ।
मध्ये तु समानः ।
एष ह्य् एतद् धुतम् अन्नं समं नयति ।
तस्माद् एताः सप्तार्चिषो भवन्ति
प्रुप्भ्_3.5
पायूपस्थे पायुश्चोपस्थश्च पायूपस्थं तस्मिन्, अपानमात्मभेदं मूत्रपुरीषाद्यपनयनं कुर्वस्तिष्ठति संनिधत्ते ।
तथा चक्षुःश्रोत्रे चक्षुश्च श्रोत्रं च चक्षुःश्रोत्रं तस्मिंश्चक्षुःश्रोत्रे, मुखनासिकाभ्यां च मुखं च नासिका च ताभ्यां मुखनासिकाभ्यां च निर्गच्छन्प्राणः स्वयं सम्राट्स्थानीयः प्रतिष्ठते प्रतितिष्ठति मध्ये तु प्राणापानयोः स्थानयोर्नाभ्यां समाने ऽशितं पीतं च समं नयतीति समानः ।
एष हि यस्माद्यदेतद्धृतं भुक्तं पीतं चात्माग्रे प्रक्षिप्तमन्नं समं नयति तस्मादशितपीतेन्धनाद् अग्रेरौदर्याद्धृदयदेशं प्राप्तादेताः सप्तसंख्याका अर्चिषो दीप्तयो निर्गच्छन्त्यो भवन्ति शीर्षण्यः ।
प्राणद्वारा दर्शनश्रवणादिलक्षणरूपादिविषयप्रकाश इत्यभिप्रायः ॥5॥
स्तर्त् प्रुप् 3.6
हृदि ह्य् एष आत्मा ।
अत्रैतद् एकशतं नाडीनाम् ।
तासां शतं शतम् एकैकस्याः ।
द्वासप्ततिर् द्वासप्ततिः प्रतिशाखानाडीसहस्राणि भवन्ति ।
आसु व्यानश्चरति
प्रुप्भ्_3.6
इति ह्येष पुण्डरीकाकारमांसपिण्डपरिच्छिन्ने हृदयाकाश एष आत्मात्मना संयुक्तो लिङ्गात्मा ।
अत्रास्मिन्हृदय एतदेकशतम् एकोत्तरशतं संख्यया प्रधाननाडीनां भवतीति ।
तासां शतं शतमेकैकस्याः प्रधाननाड्या भेदाः ।
पुनरपि द्वासप्ततिर्द्वासप्ततिर्द्वे द्वे सहस्रे अधिके सप्ततिश्च सहस्राणि सहस्राणां द्वासप्ततिः प्रतिशाखानाडीसहस्राणि ।
प्रतिप्रतिनाडीशतं संख्यया प्रधाननाडीनां सहस्राणि भवन्ति ।
आसु नाडीषु व्यानो वायुः चरति व्यानो व्यापनात् ।
आदित्यादिव रश्मयो हृदयात् सर्वगामिनीभिर्नाडीभिः सर्वदेहं संव्याप्य व्यानो वर्तते ।
सन्धिस्कन्धमर्मदेशेषु विशेषेण प्राणापानवृत्त्योश्च मध्य उद्भूतवृत्तिर्वीर्यवत्कर्मकर्ता भवति ॥6॥
स्तर्त् प्रुप् 3.7
अथैकयोर्ध्व उदानः पुण्येन पुण्यं लोकं नयति ।
पापेन पापम् ।
उभाभ्याम् एव मनुष्यलोकम्
प्रुप्भ्_3.7
अथ या तु तत्रैकशतानां नाडीनां मध्य ऊर्ध्वगा सुषुम्नाख्या नाडी तथैकयोर्ध्वः सन्नुदानो वायुरापादतलमस्तकवृत्तिः सञ्चरन्पुण्येन कर्मणा शास्त्रविहितेन पुण्यं लोकं देवादिस्थानलक्षणं नयति प्रापयति पापेन तद्विपरीतेन पापं नरकं तिर्यग्योन्यादिलक्षणम् ।
उभाभ्यां समप्रधानाभ्यां पुण्यपापाभ्यामेव मनुष्यलोकं नयतीत्यनुवर्तते ॥7॥
स्तर्त् प्रुप् 3.8
आदित्यो ह वै बाह्यः प्राण उदयति ।
एष ह्य् एनं चाक्षुषं प्राणम् अनुगृह्णानः ।
पृथिव्यां या देवता सैषा पुरुषस्यापानम् अवष्टभ्य ।
अन्तरा यदाकाशः स समानः ।
वायुर् व्यानः
प्रुप्भ्_3.8
आदित्यो ह वै प्रसिद्धो ह्यधिदैवतं बाह्यः प्राणः स एष उदयत्युद्गच्छति ।
एष ह्यैनम् आध्यात्मिकं चक्षुषि भवं चाक्षुषं प्राणं प्रकाशेनानुगृह्णानो रूपोपलब्धौ चक्षुष आलोकं कुर्वन्नित्यर्थः ।
तथा पृथिव्यामभिमानिनी या देवता प्रसिद्धा सैषा पुत्रस्य अपानमपानवृत्तिमवष्टभ्याकृष्य वशीकृत्याध एवापकर्षणेनानुग्रहं कुर्वती वर्तत इत्यर्थः ।
अन्यथा हि शरीरं गुरुत्वात्पतेत्सावकाशे वोद्गच्छेत् ।
यदेतदन्तरा मध्ये द्यावापृथिव्योर्य आकाशस्तत्स्थो वायुः आकाश उच्यते;मञ्चश्थवत् ।
स समानः समानमनुगृह्णानो वर्तत इत्यर्थः ।
समानस्यान्तराकाशश्थत्वसामान्यात् ।
सामान्येन च यो बाह्यो वायुः स व्याप्तिसामान्याद् व्यानो व्यानमनुगृह्णानो वर्तत इत्यभिप्रायः ॥8॥
स्तर्त् प्रुप् 3.9
तेजो ह वा उदानः ।
तस्माद् उपशान्ततेजाः ।
पुनर्भवम् इन्द्रियैर् मनसि संपद्यमानैः
प्रुप्भ्_3.9
यद्वाह्यं ह वै प्रसिद्धं सामान्यं तेजस्तच्छरीर उदान उदानं वायुमनुगृह्णाति स्वेन प्रकाशेनेत्यभिप्रायः ।
यस्मात्तेजः - स्वभावो बाह्यतेजो ऽनुगृहीत उत्क्रान्तिकर्ता तस्माद्यदा लौकिकः पुरुष उपशान्ततेजा भवति;उपशान्तं स्वाभाविकं तेजो यस्य सः, तदा तं क्षीणायुषं मुमूर्षु विद्यात् ।
स पुनर्भवं शरीरान्तरं प्रतिपद्यते ।
कथम्?सहेन्द्रियैर्मनसि सम्पद्यमानैः प्रविशद्भिर्वागादिभिः ॥9॥
स्तर्त् प्रुप् 3.10
यच्चित्तस् तेनैष प्राणम् आयाति ।
प्राणस् तेजसा युक्तः सहात्मना यथा संकल्पितं लोकं नयति
प्रुप्भ्_3.10
यच्चित्तो भवति तेनैव चित्तेन संकल्पेनेन्द्रियैः सह प्राणं मुख्यप्राणवृत्तिमायाति ।
मरणकाले क्षीणेन्द्रियवृत्तिः सन्मुख्यया प्राणवृत्त्यैवावतिष्ठत इत्यर्थः ।
तदाभिवदन्ति ज्ञातय उछ्वसिति जीवतीति ।
स च प्राणस्तेजसोदानवृत्त्या युक्तः सन्सहात्मना स्वामिना भोक्ता स एवमुदानवृत्त्यैव युक्तः प्राणस्तं भोक्तारं पुण्यपापकर्मवशाद्यथासंकल्पितं यथाभिप्रेतं लोकं नयति प्रापयति ॥10॥
स्तर्त् प्रुप् 3.11
य एवं विद्वान् प्राणं वेद ।
न हास्य प्रजा हीयते ऽमृतो भवति ।
तद् एष श्लोकः
प्रुप्भ्_3.11
यः कश्चिदेवं विद्वान्यथोक्तविशेषणैर्विशिष्टमुत्पत्त्यादिभिः प्राणं वेद जानाति तस्येदं फलम् ऐहिकमामुष्मिकं चोच्यते ।
न हास्य नैवास्य विदुषः प्रजा पुत्रपौत्रादिलक्षणा हीयते छिद्यते ।
पतिते च शरीरे प्राणसायुज्यतयामृतो ऽमरणधर्मा भवति ।
तदेतस्मिन्नर्थे संक्षेपाभिधायक एष श्लोको मन्त्रो भवति ॥11॥
स्तर्त् प्रुप् 3.12
उत्पत्तिम् आयातिं स्थानं विभुत्वं चैव पञ्चधा ।
अध्यात्मं चैव प्राणस्य विज्ञायामृतम् अश्नुते विज्ञायामृतम् अश्नुत इति
मूल पाठ: Praśnopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0