भाषा

ENहिગુ
ग्रंथ पाठ

Prasannapada · अध्याय 71

71.2

तत्र कर्मक्लेशाविद्धं तस्मिंस्तस्मिन्नुपपत्त्यायतने नामयतीति नाम, संज्ञावशेन वा अर्थेषु नामयतीति नाम ।
चत्वारो ऽरूपिणः स्कन्धा नामेति व्यपदिश्यते ।
रूप्यत इति रूपम् । बाध्यत इत्यर्थः । इदं च रूपं पूर्वकं च नाम, उभयमेतदभिसंक्षिप्य नामरूपमिति व्यवस्थाप्यते । तत्र बिम्बप्रतिबिम्बन्यायेन स्वाध्यायदीपमुद्राप्रतिमुद्रादिन्यायेन वा मारणान्तिकेषु स्कन्धेषु निरुध्यमानेषु एकस्मिन्नेव क्षणे तुलादण्डनामोन्नामन्यायेनैव औपपत्त्यांशिकाः ( प्प्_239 ) स्कन्धा यथाकर्माक्षेपत उपजायन्ते । एवं च बिम्बप्रतिबिम्बमुद्राप्रतिमुद्रान्यायेन प्रतीत्यसमुत्पादः सिध्यति । तुलादण्डनामोन्नामन्यायेन तु यद्विज्ञानं संनिविशते इत्युक्तम्, तद् बाललोकबोधानुरोधेन, समानकाल एव भवप्रतिसंधिरिति ।
तथा समानेन समानकालं लोकस्य दुःखं च सुखोदयं च ।
हर्तुं च कर्तुं च सदास्तु शक्तिस्तमः प्रकाशं च यथैव भानोः ॥ इति ।
न तु पुनः प्रतीत्यसमुत्पादस्वरूपविचक्षणानामेवं वक्तुं युज्यते साहचर्यादित्वमेकक्षणे तुलादण्डनामोन्नामदृष्टान्तेनेति ।
जन्मोन्मुखं न सदिदं यदि जायमानंनाशोन्मुखं सदपि नाम निरुध्यमानम् ।
इष्टं तदा कथमिदं तुलया समानं कर्त्रा विना जनिरियं न च युक्तरूपा ॥
इत्यादिवचनात् । यथा बिम्बप्रतिबिम्बमुद्राप्रतिमुद्रादिन्यायेन क्षणिकत्वं नेष्यते भवद्भिः, तथा अन्यस्यापि भावस्य उत्पादसमनन्तरध्वंसिनः क्षणिकत्वं न युक्तम् । यतः जातिजरास्थित्यनित्यताख्यानि चत्वारि संस्कृतलक्षणानि उत्पद्यमानस्य भावस्य बाह्यस्य आध्यात्मिकस्य वा एकस्मिन्नेव क्षणे भवन्तीत्यभिधर्मपाठः । तत्र जातिजरयोः परस्परविरोधात् स्थित्यनित्यतयोश्च एकस्मिन्नेव भावे न युगपत्संभव इष्यते सद्भिः ।
क्षणिके सर्वथाभावात्कुतः काचित्पुराणता ।
स्थैर्यादक्षणिके चापि कुतः काचित्पुराणता ॥
यथान्तो ऽस्ति क्षणस्यैवमादिमध्यं च कल्प्यताम् ।
अन्तकत्वात्क्षणस्यैवं न लोकस्य क्षणस्थितिः ॥
आदिमध्यावसानानि चिन्त्यानि क्षणवत्पुनः ।
आदिमध्यावसानत्वं न स्वतः परतो ऽपि वा ॥
इति मध्यमकसिद्धान्तपाठात् क्षणिकपदार्थासिद्धेरसिद्धिरवसेया । न च जातिमरणयोः परस्परभिन्नलक्षणयोः एकस्मिन् क्षणे संभवो भवेत्, संशयनिश्चयज्ञानयोरालोकान्धकारयोर्ज्ञानाज्ञानयोर्बीजाङ्कुरयोर्मरणभवोपपत्तिभवयोर्भिन्नलक्षणयोरित्यादिवत् । परस्परनिरपेक्षयोरेव स्वहेतुप्रत्ययसिद्धयोः सहभावो युज्यते सव्येतरगोविषाणयोर्युवतिस्तनयोर्नरकर्णयोरित्यादिवत्, न तु पुनः कदाचिदपि परस्परविरुद्धयोर्विनाशोत्पादयोः । यथोक्तं रागरक्तपरीक्षायाम्-
सहैव पुनरुद्भूतिर्न युक्ता रागरक्तयोः ।
भवेतां रागरक्तौ हि निरपेक्षौ परस्परम् ॥
नैकत्वे सहभावो ऽस्ति न तेनैव हि तत्सह ।
पृथक्त्वे सहभावो ऽथ कुत एव भविष्यति ॥
एवं रक्तेन रागस्य सिद्धिर्न सह नासह ।
रागवत्सर्वधर्माणां सिद्धिर्न सह नासह ॥
इति प्रतिषेधात् कुतः समानकालता भावानां मरणभवोपपत्तिभवयोरिति? अतः सहभावो विनेयजनबोधानुरोधप्रवृत्त एवेति लक्ष्यते । तेन नैकस्मिन्नेव क्षणे नामोन्नामौ तुलायाः संभवतः नामोन्नामयोः कालभेदात् । बलवत्पुरुषाच्छटामात्रेण पञ्चषष्टिः क्षणा अतिक्रामन्तीति पाठात्, उत्पलपत्रशतसहस्रवेधवत् सूच्यग्रेणेति । तथापि अत्र उत्पलपत्रशतसहस्रवेधः सूच्यग्रेण क्रमशो वेधो ऽवसेयः क्षणानामतिसूक्ष्मत्वात् । एकक्षणेन श्लोकाक्षरपदोदाहरणवत् ॥
किं च-
अनिरोधमनुत्पादमनुच्छेदमशाश्वतम् ।
अनेकार्थमनानार्थमनागममनिर्गमम् ॥
यः प्रतीत्यसमुत्पादं प्रपञ्चोपशमं शिवम् ।
इति पाठादुत्पादनिरोधयोरसंभव एव प्रतिपादितः शास्त्रे मध्यमके । आगमसूत्रेषु-
अविनाशमनुत्पन्नं धर्मधातुसमं जगत् ।
सत्त्वधातुं च देशेति एषा लोकानुवर्तना ॥
त्रीषु अध्वसु सत्त्वानां प्रकृतिं नोपलम्भति ।
सत्त्वधातुं च देशेति एषा लोकानुवर्तना ॥ इत्यादि ।
तथा-
फेनपिण्डोपमं रूपं वेदना बुद्बुदोपमा ।
मरीचिसदृशी संज्ञा संस्काराः कदलीनिभाः ।
मायोपमं च विज्ञानमुक्तमादित्यबन्धुना ॥
एवं धर्मान् वीक्षमाणो भिक्षुरारब्धवीर्यवान् ।
दिवा वा यदि वा रात्रौ संप्रजानन् प्रतिस्मृतः ।
प्रतिविध्येत्पदं शान्तं संस्कारोपशमं शिवम् ॥ इति ।
एताश्च गाथाः सर्वनिकायशास्त्रसूत्रेषु पठयन्ते । अतः फेनपिण्डादीनां हेतुप्रत्ययसामग्रीं प्राप्य प्रतीत्य समुत्पन्नानां सारवस्तुविगतानां कुतः क्षणिकाक्षणिकचिन्तेति? महायानसूत्रेषु च-
सुपिनोपमा भवगती सकला न हि कश्चि जायति न चो म्रियते ।
न च कर्म नश्यति कदाचि कृतं फलु देति कृष्णशुभ संसरतो ॥
न च शाश्वतं न च उच्छेद पुनो न च कर्मसंचयु न चापि स्थितिः ।
न च सो ऽपि कृत्व पुनरास्पृशती न च अन्यु कृत्व पुन वेदयते ॥
यथा कुमारी सुपिनान्तरस्मिं स्वपुत्र जातं च मृतंच पश्यति ।
जाते ऽतितुष्टा मृति दौर्मनस्यिता तथोपमान् जानथ सर्वधर्मान् ॥
यथैव ग्रामान्तरि लेखदर्शनात् क्रियाः प्रवर्तन्ति पृथक् शुभाशुभाः ।
न लेखसंक्रान्ति गिराय विद्यते तथोपमान् जानथ सर्वधर्मान् ॥
मुद्रात्प्रतिमुद्र दृश्यते मुद्रसंक्रान्ति न चोपलभ्यते ।
न च तत्र न चैव सान्यतो एवं संस्कार ऽनुच्छेदशाश्वताः ॥
बीजस्य सतो यथाङ्कुरो न च यो बीजु स चैव अङ्कुरो ।
न च अन्यु ततो न चैव तत् एवमनुच्छेद अशाश्वत धर्मता ॥
यथ मुञ्ज प्रतीत्य बल्बजं रज्जु व्यायामबलेन वर्तिता ।
घटियन्त्र सचक्र वर्तते तेषु एकैकसु नास्ति वर्तना ॥
तथ सर्वभवाङ्गवर्तिनी अन्यमन्योपचयेन निश्रिता ।
एकैकेषु तेषु वर्तनी पूर्वमपरान्ततु नोपलभ्यते ॥
अत एवोक्तमाचार्यनागार्जुनपादैः-
स्वाध्यायदीपमुद्रादर्पणघोषार्ककान्तबीजाम्लैः ।
स्कन्धप्रतिसंधिरसंक्रमश्च विद्वद्भिरुपधार्यौ ॥ इति ।
शतकशास्त्रे च आर्यदेवपादैर्महाबोधिचर्यास्थिरप्रस्थानस्थितैः-
अलातचक्रनिर्माणस्वप्नमायाम्बुचन्द्रकैः ।
धूमिकान्तः प्रतिश्रुत्कामरीच्यभ्रैः समो भवः ॥ इति ॥
तदेवं बिम्बप्रतिबिम्बादिन्यायेन मातुः कुक्षौ विज्ञाने संमूर्च्छिते विज्ञानप्रत्ययं नामरूपं निषिच्यते, क्षरति प्रादुर्भवतीत्यर्थः । यदि इह गतौ विज्ञानं न संमूर्छितं स्यात्, तदा नामरूपप्रादुर्भावो न स्यात् ।
सचेदानन्द विज्ञानं मातुः कुक्षिं नावक्रामेत, न तत् कललं कललत्वाय संवर्तेत । इति वचनात्

71.3

तदेवम्-
निषिक्ते नामरूपे तु षडायतनसंभवः ।
दुःखोत्पत्त्या आयद्वारभावेन दर्शनश्रवणघ्राणरसस्पर्शमनआख्यं षडायतनं नामरूपहेतुकमुपजायते । स चक्षुषा रूपाणि दृष्ट्वा सौमनस्यस्थानीयान्यभिनिविशते, अभिनिविष्टः सन् रागजं द्वेवजं मोहजं कर्म करोतीत्यादिना दुःखोत्पत्तावायद्वारत्वं षण्णामायतनानाम् । तदेवं संभूते षडायतने उत्तरकालम्-
षडायतनमागम्य संस्पर्शः संप्रवर्तते

71.4

कः पुनरयं संस्पर्शः, कथं वा संप्रवर्तते इति प्रतिपादयन्नाह-
चक्षुः प्रतीत्य रूपं च समन्वाहारमेव च ।
नामरूपं प्रतीत्यैवं विज्ञानं संप्रवर्तते

71.5

संनिपातस्रयाणां यो रूपविज्ञानचक्षुषाम् ।
स्पर्शः सः
चक्षुरिन्द्रियं प्रतीत्य रूपाणि च समन्वाहारं च प्रतीत्य मनस्कारं विषयादिविलक्षणं समनन्तरप्रत्ययं विज्ञानबीजभूतं चक्षुर्विज्ञानमुत्पद्यते । तत्र चक्षुश्च रूपायतनं च रूपम् । समन्वाहारश्चतुःस्कन्धलक्षणं नाम । तदेतत्त्रयं प्रतीत्योत्पद्यमानं चक्षुर्विज्ञानं नामरूपं प्रतीत्योत्पद्यते । तदेवमेषामिन्द्रियविषयविज्ञानानां त्रयाणां यः संनिपातः सहोत्पादः अन्योन्योपकारेण तुल्यं या प्रवृत्तिः, स स्पृष्टिलक्षणः स्पर्शः । तत उत्तरकालम्-
तस्मात्स्पर्शाच्च वेदना संप्रवर्तते

71.5

इष्टानिष्टोभयविपरीतविषयानुभूतिर्विषयानुभवो वेदनं वित्तिर्वेदनेत्युच्यते । दुःखा सुखा अदुःखासुखा च त्रिविधा । यथा चैषां रूपविज्ञानचक्षुषां त्रयाणां संनिपातलक्षणं स्पर्शमागम्य ( प्प्_243 ) वेदना उक्ता, एवं शेषेन्द्रियविषयविज्ञानत्रयसंनिपातलक्षणस्पर्शहेतुका वेदना व्याख्येया

71.6

तत उत्तरकालम्-
वेदनाप्रत्यया तृष्णा
संप्रवर्तते इति वर्तते । वेदना प्रत्ययो यस्यास्तृष्णायाः सा वेदनाप्रत्यया । किंविषया पुनः सा तृष्णा? वेदनाविषयैव । किं कारणम्? यस्मादसौ तृष्णालुः
वेदनार्थं हि तृष्यते ।
वेदनानिमित्तमेव अभिलाषं करोतीत्यर्थः । कथं कृत्वा? यदि तावत् सुखा वेदना अस्योपजायते, स तस्याः पुनः पुनः संयोगार्थं परितृष्यते । अथ दुःखा, तदा तस्या विसंयोगार्थं परितृष्यते । अथ अदुःखासुखा, तस्या अपि नित्यमपरिभ्रंशार्थं परितृष्यते । स एवम्-
तृष्यमाण उपादानमुपादत्ते चतुर्विधम्

71.6

स एवं वेदनास्वभिनिविष्टः सक्तः तृष्णाप्रत्ययं कामदृष्टिशीलव्रतात्मवादोपादानाख्यं चतुर्विधं कर्माक्षेपकारणं परिगृह्णाति । तदेवमस्य तृष्णाप्रत्ययमुपादानं भवति

71.7

तत उत्तरकालम्-
उपादाने सति भव उपादातुः प्रवर्तते ।
स्याद्धि यद्यनुपादानो मुच्येत न भवेद्भवः

71.8

पञ्च स्कन्धाः स च भवः
चतुर्विधस्य यथोक्तस्य उपादानस्य उपादाता ग्रहीता उत्पादयिता । तस्य उपादातुः उपादानप्रत्ययो भवः उपजायते । किं कारणम्? यस्मात्, यो हि अनुत्पादितवेदनातृष्णः प्रतिसंख्यानबलेन तृष्णामस्वीकुर्वन्, चतुर्विधमुपादानं प्रविहाय उपादाता अमलाद्वयज्ञानसंमुखीभावात् स्याद्धि यद्यनुपादानो मुच्येत सः । तदानीं तस्य न भवेद्भवः ॥
कः पुनरयं भवः? पञ्च स्कन्धाः स च भवः । यः उपादानात् प्रवर्तते, स पञ्चस्कन्ध स्वभावो वेदितव्यः । त्रिविधमपि कायिकं वाचिकं मानसिकं च कर्म भवत्यस्मादनागतं स्कन्ध पञ्चकं भवः इति व्यपदिश्यते । तत्र कायिकं वाचिकं कर्म रूपस्कन्धस्वभावं कर्मविज्ञप्तित्वात् । मानसं तु चतुःस्कन्धस्वभावमिति । एवं स भवः पञ्च स्कन्धा इति विज्ञेयम् । तस्मात्-
भवाज्जातिः प्रवर्तते ।
अनागतस्कन्धोत्पादो जातिः । सा च भवात् प्रवर्तते । तत उत्तरकालम्-
जरामरणदुःखादि शोकाः सपरिदेवनाः

71.9

दौर्मनस्यमुपायासा जातेरेतत्प्रवर्तते ।
जातिहेतुका एते जरामरणादयः प्रवर्तन्ते । एषां च यथासूत्रमेव व्याख्यानं वेदितव्यम् । तत्र स्कन्धपरिपाको जरा । जीर्णस्य स्कन्धभेदो मरणम् । म्रियमाणस्य विगच्छतः संमूढस्य सामिषङ्गो हृदयसंतापः शोकः । शोकसमुत्थितो वाक्प्रलापः परिदेवः । पञ्चेन्द्रियासातनिपातो ( प्प्_244 ) दुःखम् । मनोनिष्टनिपातो दौर्मनस्यम् । दुःखदौर्मनस्यबहुत्वसंभूता उपायासाः । इति । तदेवं यथोपवर्णितेन न्यायेन
केवलस्यैवमेतस्य दुःखस्कन्धस्य संभवः

71.9

केवलस्येति आत्मात्मीयस्वभावविगतस्य बालपृथग्जनपरिकल्पितमात्रस्य । दुःखात्मकस्य सुखाव्यामिश्रस्यैवेत्यर्थः । एवमिति हेतुप्रत्ययमात्रबलेनैवेत्यर्थः । दुःखस्कन्धस्येति दुःखसमुदायस्य दुःखसमूहस्य दुःखराशेरित्यर्थः

71.10

यतश्चैवं यथोपवर्णितादविद्यादिकादेव भवाङ्गानां प्रवृत्तिः, अतः-
संसारमूलान्संस्कारानविद्वान् संस्करोत्यतः ।
अविद्वान् कारकस्तस्मान्न विद्वांस्तत्त्वदर्शनात्

71.10

तत्र संसारस्य विज्ञानादिप्रवृत्तिलक्षणस्य मूलं प्रधानं कारणं संस्काराः । ततश्च संसारमूलान् संस्कारानविद्वान् संस्करोति ॥
अविद्यानुगतो यः पुद्गलो भिक्षवः पुण्यानपि संस्कारानभिसंस्करोति, अपुण्यानपि संस्कारानभिसंस्करोति, आनेञ्ज्यानपि संस्कारानभिसंस्करोति ॥
इति भगवद्वचनात् । यतश्चैवमविद्वान् कारकः, तस्मादविद्वानेव पुद्गलः कारको भवति संस्काराणाम्, न विद्वांस्तत्त्वदर्शी प्रहीणाविद्यः । किं कारणम्? तत्त्वदर्शनात् तत्त्वदर्शने हि सर्वपदार्थनामेवानुपलम्भात् नास्ति किंचिद् यदालम्ब्य कर्म कुर्यादिति

71.11

यतश्चैवमविद्यायामेव सत्यां संस्काराः प्रवर्तन्ते, असत्यां न प्रवर्तन्ते, अतः-
अविद्यायां निरुद्धायां संस्काराणामसंभवः ।
हेतुवैयर्थ्यात् । तस्याः पुनरविद्यायाः कुतो निरोधः इत्याह-
अविद्याया निरोधस्तु ज्ञानेनास्यैव भावनात्

71.11

अस्यैव प्रतीत्यसमुत्पादस्य यथावदविपरीतभावनातः अविद्या प्रहीयते । यो हि प्रतीत्यसमुत्पादं सम्यक् पश्यति, स सूक्ष्मस्यापि भावस्य न स्वरूपमुपलभते । प्रतिबिम्बस्वप्रालातचक्रमुद्गादिवत्तु स्वभावशून्यतां सर्वेषां भावानामवतरति । स एव स्वभावशून्यतां सर्वेषां भावानामवतीर्णो न किंचिद्वस्तु उपलभते बाह्यमाध्यात्मिकं वा । सो ऽनुपलभमानो न क्वचिद्धर्मे मुह्यति, अमूढश्च कर्म न करोतीति । एवं प्रतीत्यसमुत्पादभावनया तत्त्वमवतरति ।तत्त्वदर्शिनोयोगिनो नियतमेव अविद्या प्रहीयते । प्रहीणाविद्यस्य संस्कारा निरुध्यन्ते

71.12

यथा चैवमविद्यानिरोधात् संस्कारा निरुध्यन्ते, एवम्-
तस्य तस्य निरोधेन तत्तन्नाभिप्रवर्तते ।
दुःखस्कन्धः केवलो ऽयमेवं सम्यङ् निरुध्यते

मूल पाठ: Prasannapada · Edition: P.L. Vaidya: Madhyamakaśāstra of Nāgārjuna, with the Commentary: Prasannapadā by Candrakīrti. Darbhaga 1960 (Buddhist Sanskrit Texts, 10). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc