Prasannapada · अध्याय 72
पूर्वस्य पूर्वस्य अङ्गस्य निरोधेन उतरस्योत्तरस्य अङ्गस्य निरोधो भवतीति विज्ञेयम् । अनया चानुपूर्व्या अयं योगी आत्मात्मीयाद्यदर्शनायासनिरस्तः कारकवेदकविरहितं भावस्वभावशून्यं दुःखराशिं पुनरनुत्पत्त्या सम्यङ्निरोधयति । यथोक्तमार्यशालिस्तम्बसूत्रे-
एवमाध्यात्मिको ऽपि प्रतीत्यसमुत्पादो द्वाभ्यामेव कारणाभ्यामुत्पद्यते । कतमाभ्यां द्वाभ्याम्? हेतूपनिबन्धतः प्रत्ययोपनिबन्धतश्च । तत्राध्यात्मिकस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धः कतमः? यदिदमविद्याप्रत्ययाः संस्काराः, संस्कारप्रत्ययं विज्ञानम्, विज्ञानप्रत्ययं नामरूपम्, नामरूपप्रत्ययं षडायतनम्, षडायतनप्रत्ययः स्पर्शः, स्पर्शप्रत्यया वेदना, वेदनाप्रत्यया तृष्णा, तृष्णाप्रत्ययमुपादानम्, उपादानप्रत्ययो भवः, भवप्रत्यया जातिः, जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति । एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति । अविद्या चेन्नाभविष्यन्नैव संस्काराः प्रज्ञास्यन्ते । एवं यावज्जातिश्चेन्नाभविष्यज्जरामरणं न प्रज्ञास्यते । अथवा, सत्यामविद्यायां संस्काराणामभिनिर्वृत्तिर्भवति । एवं यावज्जात्यां सत्यां जरामरणस्याभिनिर्वृत्तिर्भवति । अत्राविद्याया नैवं भवति अहं संस्कारानभिनिर्वर्तयामीति । संस्काराणामपि नैवं भवति वयमविद्ययाभिनिर्वर्तिता इति । एवं यावज्जातेरपि नैवं भवति अहं जरामरणमभिनिर्वर्तयामीति । जरामरणस्यापि नैवं भवत्यहं जात्याभिनिर्वर्तितमिति । अथ च सत्यामविद्यायां संस्काराणाभिनिर्वृत्ति र्भवति प्रादुर्भावः । एवं यावज्जात्यां सत्यां जरामरणस्याभिनिर्वृत्तिर्भवति प्रादुर्भावः । एवमाध्यात्मिकस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धो द्रष्टव्यः ॥
कथमाध्यात्मिकस्य प्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धो द्रष्टव्य इति? षण्णां धातूनां समवायात् । कतमेषां षण्णां धातूनां समवायात्? यदिदं पृथिव्यप्तेजोवाय्वाकाशविज्ञानधातूनां समवायादाध्यात्मिकस्य प्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धो द्रष्टव्यः । तत्राध्यात्मिकस्य प्रतीत्यसमुत्पादस्य पृथिवीधातुः कतमः? यः कायस्य संश्लेषात्कठिनभावमभिनिर्वर्तयति, अयमुच्यते पृथिवीधातुः । यः कायस्यानुपरिग्रहकृत्यं करोति, अयमुच्यते ऽब्धातुः । यः कायस्याशितभक्षितं परिपाचयति, अयमुच्यते तेजोधातुः । यः कायस्य आश्वासप्रश्वासकृत्यं करोति, अयमुच्यते वायुधातुः । यः कायस्यान्तः शौषीर्यमभिनिर्वर्तयति, अयमुच्यते आकाशधातुः । यो नामरूपमभिनिर्वर्तयति नडकलापयोगेन पञ्चविज्ञानकायसंयुक्तं सास्रवं च मनोविज्ञानम्, अयमुच्यते भिक्षवो विज्ञानधातुः । तत्र असतामेषां प्रत्ययानां कायस्योत्पत्तिर्न भवति । यदा त्वाध्यात्मिकः पृथिवीधातुरविकलो भवति, एवमप्तेजोवाय्वाकाशविज्ञानधातवश्चाविकला भवन्ति, ततः सर्वेषां समवायात्कायस्योत्पत्तिर्भवति । तत्र पृथिवीधातोर्नैवं भवति- अहं कायस्य कठिनभावमभिनिर्वर्तयामीति । अब्धातोर्नैवं भवति- अहं कायस्यानुपरिग्रहकृत्यं करोमीति । तेजोधातोर्नैवं भवति- अहं कायस्याशितपीतखादितं परिपाचयामीति । वायुधातोर्नैवं भवति- अहं कायस्याश्वासप्रश्वासकृत्यं करोमीति । आकाशधातोर्नैवं भवति- अहं कायस्यान्तःशौषीर्यमभिनिर्वर्तयामीति । विज्ञानधातोर्नैवं भवति- अहं कायस्य नामरूपमभिनिर्वर्तयामीति । कायस्यापि नैवं भवति अहमेमिः प्रत्ययैर्जनित इति । अथ च पुनः सतामेषां प्रत्ययानां समवायात्कायस्योत्पत्ति र्भवति । तत्र पृथिवीधातुर्नात्मा न सत्त्वो न जीवो न जन्तुर्न मनुजो न मानवो न स्त्री न पुमान् न नपुंसकं न चाहं न मम न चान्यस्य कस्यचित् । एवमब्धातुस्तेजोधातुर्वायुधातुराकाशधातुर्विज्ञानधातुर्नात्मा ( प्प्_246 ) न सत्त्वो न जीवो न जन्तुर्न मनुजो न मानवो न स्त्री न पुमान् न नपुंसकं न चाहं न मम न चान्यस्य कस्यचित् ॥
तत्र अविद्या कतमा? या एषामेवं षण्णां धातूनायमैक्संज्ञा पिण्डसंज्ञा नित्यसंज्ञा ध्रुवसंज्ञा शाश्वतसंज्ञा सुखसंज्ञा आत्मसंज्ञा सत्त्वसंज्ञा जीवपुद्गलमनुजमानवसंज्ञा अहंकारसंज्ञा ममकारसंज्ञा एवमादि विविधमज्ञानम् । इयमुच्यते ऽविद्येति । एवमविद्यायां सत्यां विषयेषु रागद्वेषमोहाः प्रवर्तन्ते । तत्र ये रागद्वेषमोहा विषयेषु, अमी संस्कारा इत्युच्यन्ते । वस्तुप्रतिविज्ञप्तिर्विज्ञानम् । विज्ञानसहभुवश्चत्वारः स्कन्धा अरूपिणः उपादानाख्याः, तन्नामरूपं चत्वारि महाभूतानि, तानि चोपादाय रूपम् । तच्च नाम रूपम् । ऐकध्यमभिसंक्षिप्य तन्नामरूपम् । नामरूपसंनिश्रितानीन्द्रियाणि षडायतनम् । त्रयाणां धर्माणां संनिपातः स्पर्शः । स्पर्शानुभवो वेदना । वेदनाध्यवसानं तृष्णा । तृष्णावैपुल्यमुइपादानम् । उपादाननिर्जातं पुनर्भवजनकं कर्म भवः । भवहेतुकः स्कन्धप्रादुर्भावो जातिः । जातस्य स्कन्धस्य परिपाको जरा । जीर्णस्य स्कन्धस्य विनाशो मरणम् । म्रियमाणस्य संमूढस्य साभिष्वङ्गस्यान्तर्दाहः शोकः । शोकोत्थमालपनं परिदेवः । पञ्चविज्ञानकायसंयुक्तमसातमनुभवनं दुःखम् । मनसा संयुक्तं मानसं दुःखं दार्मनस्यम् । ये चाप्यन्ये एवमादय उपक्लेशास्ते उपायासा इति ॥
तत्र मोहान्धकारार्थेनाविद्या । अभिसंस्कारार्थेन संस्काराः । विज्ञापनार्थेन विज्ञानम् । अन्योन्योपस्तम्भनार्थेन नामरूपम् । आयद्वारार्थेन षडायतनम् । स्पर्शनार्थेन स्पर्शः । अनुभवनार्थेन वेदना । परितर्षणार्थेन तृष्णा । उपादानार्थेनोपादानम् । पुनर्भवार्थेन भवः । जन्मार्थेन जातिः । परिपाकार्थेन जरा । विनाशार्थेन मरणम् । शोचनार्थेन शोकः । परिदेवनार्थेन परिदेवः कायपरिपीडनार्थेन दुःखम् । चित्तसंपीडनार्थेन दौर्मनस्यम् । उपक्लेशार्थेनोपायासाः ॥
अथवा तत्त्वे ऽप्रतिपत्तिर्मिथ्याप्रतिपत्तिरज्ञानमविद्या । एवमविद्यायां सत्यां त्रिविधाः संस्कारा अभिनिर्वर्तन्ते पुण्योपगा अपुण्योपगा आनेञ्ज्योपगाः । तत्र पुण्योपगानां संस्काराणां पुण्योपगमेव विज्ञानं भवति । अपुण्योपगानां संस्काराणामपुण्योपगमेव विज्ञानं भवति । आनेञ्ज्योपगानां संस्काराणामानेञ्ज्योपगमेव विज्ञानं भवति । इदमुच्यते विज्ञानम् । विज्ञानप्रत्ययं नामरूपमिति वेदनादयो ऽरूपिणश्चत्वारः स्कन्धास्तत्र तत्र भवे नामयन्तीति नाम । सहरूपस्कन्धेन च नाम रूपं चेति नामरूपमुच्यते । नामरूपविवृद्धया षड्भिरायतनद्वारैः कृत्यक्रियाः प्रवर्तन्ते प्रज्ञायन्ते, तन्नामरूपप्रत्ययं षडायतनमित्युच्यते । षड्भ्यश्चायतंएभ्यः षट् स्पर्शकायाः प्रवर्तन्ते, अयं षडायतनप्रत्ययः स्पर्श इत्युच्यते । यज्जातीयः स्पर्शो भवति तज्जातीया वेदना प्रवर्तते । इयमुच्यते भिक्षवः स्पर्शप्रत्यया वेदनेति । यस्तां वेदनां विशेषेणास्वादयति अभिनन्दति अध्यवस्यति अध्यवसाय तिष्ठति, सा वेदनाप्रत्यया तृष्णेत्युच्यते । आस्वादनाभिनन्दनाध्यवसानस्थानादात्मप्रियरूपसातरूपैर्वियोगो मा भून्नित्यमपरित्यागो भवेदिति यैवं प्रार्थना इदमुच्यते भिक्षवस्तृष्णाप्रत्ययमुपादानम् । यत्र वस्तुनि सतृष्णस्तस्य वस्तुनो ऽर्जनाय विठपनायोपादानमुपादत्ते, तत्र तत्र प्रार्थयते, एवं प्रार्थयमानः पुनर्भवजनकं कर्म समुत्थापयति कायेन वाचा मनसा च, स उपादानप्रत्ययो भव इत्युच्यते । ( प्प्_247 ) तत्कर्मनिर्जातानां स्कन्धानामभिनिर्वृतिर्या सा भवप्रत्यया जातिरित्युच्यते । जात्याभिनिर्वृत्तानां स्कन्धानामुपचयनपरिपाकाद्विनाशो भवति । तदिदं जातिप्रत्ययं जरामरणमित्युच्यते ॥
एवमयं द्वादशाङ्गः प्रतीत्यसमुत्पादो ऽन्योन्यहेतुको ऽन्योन्यप्रत्ययो नैवानित्यो नैव नित्यो न संस्कृतो नासंस्कृतो नाहेतुको नाप्रत्ययो न वेदयिता नावेदयिता न प्रतीत्यसमुत्पन्नो नाप्रतीत्यसमुत्पन्नो न क्षयधर्मो नाक्षयधर्मो न विनाशधर्मो नाविनाशधर्मो न निरोधधर्मो नानिरोधधर्मो ऽनादिकालप्रवृत्तो ऽनुच्छिन्नो ऽनुप्रवर्तते नदीस्रोतवत् ॥
यद्यप्ययं द्वादशाङ्गः प्रतीत्यसमुत्पादो ऽनुच्छिन्नो ऽनुप्रवर्तते नदीस्रोतवत्, अथ चेमान्यस्य द्वादशाङ्गस्य प्रतीत्यसमुत्पादस्य चत्वार्यङ्गानि संघातक्रियायै हेतुत्वेन प्रवर्तन्ते । कतमानि चत्वारि? यदुत अविद्या तृष्णा कर्म विज्ञानं च । तत्र विज्ञानं बीजस्वभावत्वेन हेतुः । कर्म क्षेत्रस्वभावत्वेन हेतुः । अविद्या तृष्णा च क्लेशस्वभावत्वेन हेतुः । कर्मक्लेशा विज्ञानबीजं जनयन्ति । तत्र कर्म विज्ञानबीजस्य क्षेत्रकार्यं करोति । तृष्णा विज्ञानबीजं स्नेहयति । अविद्या विज्ञानबीजमवकिरति । असतां तेषां प्रत्ययानां विज्ञानबीजस्यभिनिर्वृत्तिर्न भवति । तत्र कर्मणो नैवं भवति- अहं विज्ञानबीजस्य क्षेत्रकार्यं करोमीति । तृष्णाया अपि नैवं भवति- अहं विज्ञानस्य स्नेहकार्यं करोमिति । अविद्याया अपि नैवं भवति- अहं विज्ञानबीजमवकिरामीति । विज्ञानबीजस्यापि नैवं भवति- अहमेभिः प्रत्ययैर्जनितमिति ॥
अथ च विज्ञानबीजं कर्मक्षेत्रप्रतिष्ठितं तृष्णास्नेहाभिष्यन्दितमविद्यया स्ववकीर्णं विभज्यमानं विरोहति । तत्रतत्रोपपत्त्यांयतनप्रतिसंधौ मातुः कुक्षौ नामरूपाङ्कुरमभिनिर्वर्तयति । स च नामरूपाङ्कुरो न स्वयं कृतोअ न परकृतो नोभयकृतो नेश्वरकृतो न कालपरिणामितो न प्रकृतिसंभूतो न चैककारणाधीनो नाप्यहेतुसमुत्पन्नः । अथ च मातापितृसंयोगाद्, ऋतुसमवायाद्, अन्येषां प्रत्ययानां समवायाद् आस्वादानुविद्धं विज्ञानबीजं मातुः कुक्षौ नामरूपाङ्कुरमभिनिर्वर्तयति अस्वामिकेषु धर्मेष्वपरिग्रहेष्वममेष्वाकाशसमेषु मायालक्षणस्वभावेषु हेतुप्रत्ययानामवैकल्यात् ॥
तद्यथा पञ्चभिः कारणैश्चक्षुर्विज्ञानमुत्पद्यते । कतमैः पञ्चभिः? यदुत चक्षुः प्रतीत्य रूपं चालोकं चाकाशं च तज्जमनसिकारं च प्रतीत्योत्पद्यते चक्षुर्विज्ञानम् । तत्र चक्षुर्विज्ञानस्य चक्षुराश्रयकृत्यं करोति । रूपमालम्बनकृत्यं करोति । आलोको ऽवभासकृत्यं करोति । आकाशमनावरणकृत्यं करोति । तज्जमनसिकारः समन्वाहरणकृत्यं करोति । असतामेषां प्रत्ययानां चक्षुर्विज्ञानं नोत्पद्यते । यदा तु चक्षुराध्यात्मिकमायतनमविकलं भवति, एवं रूपालोकाकाशतज्जमनसिकाराश्चाविकला भवन्ति, ततः सर्वेषां समवायाच्चक्षुर्विज्ञानमुत्पद्यते । तत्र चक्षुषो नैवं भवति- अहं चक्षुर्विज्ञानस्याश्रयकृत्यं करोमीति । आलोकस्यापि नैवं भवति- अहं चक्षुर्विज्ञानस्यावभासकृत्यं करोमीति । आकाशस्यापि नैवं भवति- अहं चक्षुर्विज्ञानस्यानावरणकृत्यं करोमिति । तज्जमनसिकारस्यापि नैवं भवति- अहं चक्षुर्विज्ञानस्य समन्वाहरणकृत्यं करोमीति । चक्षुर्विज्ञानस्यापि नैवं भवति- अहमेभिः प्रत्ययैर्जनितमिति । अथ च सतामेषां प्रत्ययानां समवायाच्चक्षुर्विज्ञानस्योत्पत्तिर्भवति । एवं शेषाणामिन्द्रियाणां यथायोगं करणीयम् ॥
तत्र न कश्चिद्धर्मो ऽस्माल्लोकात्परलोकं संक्रामति । अस्ति च कर्मफलप्रतिविज्ञप्तिर्हेतुप्रत्ययानामवैकल्यात् । तद्यथा भिक्षवः सुपरिशुद्धे आदर्शमण्डले मुखप्रतिबिम्बकं दृश्यते, न च तत्रादर्शमण्डले मुखं संक्रामति, अस्ति च मुखप्रतिविज्ञप्तिर्हेतुप्रत्ययानामवैकल्यात्, एवमस्माल्लोकान्न कश्चिच्च्युतो नाप्यन्यत्रोपपन्नः, अस्ति च कर्मफलप्रतिविज्ञप्तिर्हेतुप्रत्ययानामवैकल्यात् । तद्यथा भिक्षवश्चन्द्रमण्डलं चत्वारिंशद्योजनशतमूर्ध्वं व्रजति, अथ च पुनः परीत्ते ऽप्युदकभाजने चन्द्रस्य प्रतिबिम्बं दृश्यते, न च तस्मात्स्थानादूर्ध्वं नभसश्च्युतं परीत्ते उदकस्य भाजने संक्रान्तं भवति अस्ति च चन्द्रमण्डलप्रतिविज्ञप्तिर्हेतुप्रत्ययानामवैकल्यात् । एवमस्माल्लोकान्न कश्चिच्च्युतो नान्यत्रोपपन्नः, अस्ति च कर्मफलप्रतिविज्ञप्तिर्हेतुप्रत्ययानामवैकल्यात् ॥
तद्यथा- अग्निरुपादानप्रत्यये सति ज्वलति, उपादानवैकल्यान्न ज्वलति, एवमेव भिक्षवः कर्मक्लेशजनितं विज्ञानबीजं तत्रतत्रोपपत्त्यायतनप्रतिसंधौ मातुः कुक्षौ नामरूपाङ्कुरमभिनिर्वर्तयति अस्वामिकेषु धर्मेष्वपरिग्रहेषु मायालक्षणस्वभावेषु अममेषु कृत्रिमेषु हेतुप्रत्ययानामवैकल्यात् ॥
तत्राध्यात्मिकः प्रतीत्यसमुत्पादः पञ्चभिः कारणैर्द्रष्टव्यः । कतमैः पञ्चभिः? न शाश्वततो नोच्छेदतो न संक्रान्तितः परीत्तहेतुविपुलफलाभिनिर्वृत्तितस्तत्सदृशानुप्रबन्धतश्चेति । कथं न शाश्वततः? यस्मादन्ये मारणान्तिकाः स्कन्धाः, अन्ये औपपत्त्यंशिकाः स्कन्धाः । न तु य एव मारणान्तिकाः स्कन्धास्त एवौपपत्त्यंशिकाः । अपि तु मारणान्तिकाः स्कन्धा निरुध्यन्ते, तस्मिन्नेव च समये औपपत्त्यंशिकाः स्कन्धाः प्रादुर्भवन्ति । अतो न शाश्वततः । कथं नोच्छेदतः? न च पूर्वनिरुद्धेषु मारणान्तिकेषु स्कन्धेषु औपपत्त्यंशिकाः स्कन्धाः प्रादुर्भवन्ति नाप्यनिरुद्धेषु । अपि तु मारणान्तिकाः स्कन्धा निरुध्यन्ते, तस्मिन्नेव च समये औपपत्त्यंशिकाः स्कन्धाः प्रादुर्भवन्ति तुलादण्डोन्नाभावनामवत् चन्द्रबिम्बप्रतिबिम्बवत् । अतो नोच्छेदतः । कथं न संक्रान्तितः? विसदृशाः सत्त्वनिकायाः सभागायां जात्यां जातिमभिनिर्वर्तयन्ति । अतो न संक्रान्तितः । कथं परीत्तहेतुतो विपुलफलाभिनिर्वृत्तितः । परीत्तं कर्म क्रियते, विपुलः फलविपाको ऽनुभूयते । अतः परीत्तहेतुतो विपुलफलाभिनिर्वृत्तितः । कथं तत्सदृशानुप्रबन्धतः? यथावेदनीयं कर्म क्रियते, तथावेदनीयो विपाको ऽनुभूयते । अतस्तत्सदृशानुप्रबन्धतश्च । इति विस्तरः ॥
इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ द्वादशाङ्गपरीक्षा नाम षड्विंशतितमं प्रकरणम् ॥
27
दृष्टिपरीक्षा सप्तविंशतितमं प्रकरणम् ।
यश्चैवं प्रतीत्यसमुत्पादं यथाभूतं सम्यक् पश्यति, स न पूर्वान्तं प्रतिसरति, नापरान्तं प्रतिसरति,- इत्यादि सूत्रे पठयते, तत्र कतमः पूर्वान्तः, कतमो ऽपरान्तः, कथं न प्रतिसरतीति? तद्वयुत्पत्यर्थमिदमारभ्यते । तत्र वर्तमानमात्मभावमपेक्ष्य अतीता आत्मभावाः पूर्वान्त इत्युच्यते । पूर्वो हि जन्मपरंपरांशः पूर्वान्तः । तं न प्रतिसरति, दृष्टिप्रकारैर्नालम्बते । प्रतीत्यसमुत्पादस्य यथावदवस्थिततत्त्वदर्शनात् नान्यथावस्थितं वस्तु अन्यथा अभिनिविशते । तत्र अष्टौ दृष्टयः पूर्वान्तमालम्ब्य अन्यथा प्रवृत्ताः । तद्यथा-
अभूमतीतमध्वानं नाभूमिति च दृष्टयः ।
यास्ताः शाश्वतलोकाद्याः पूर्वान्तं समुपाश्रिताः
मूल पाठ: Prasannapada · Edition: P.L. Vaidya: Madhyamakaśāstra of Nāgārjuna, with the Commentary: Prasannapadā by Candrakīrti. Darbhaga 1960 (Buddhist Sanskrit Texts, 10). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0