Prasannapada · अध्याय 70
तत्र अविद्या अज्ञानं तमो यथाभूतार्थप्रच्छादकं स्तिमितता । अविद्यया निवृतः छादितः पुद्गलः पुनर्भवाय पुनर्भवार्थं पुनर्भवोत्पत्त्यर्थमभिसंस्करोति उत्पादयति यान् कुशलादिचेतनाविशेषांस्ते पुनर्भवाभिसंस्कारात् संस्काराः । ते च त्रिविधाः- कुशला अकुशला आनेज्याश्च, यदि वा- कायिका वाचिका मानसाश्चेति । तांस्त्रिविधान् कर्मलक्षणान् संस्कारानविद्यानिवृतः पुद्गलः करोति । तैश्च संस्कारैरभिसंस्कृतैः कर्मभिः कर्मसंज्ञितैः तद्धेतुकां गतिं गच्छति
ततो ऽस्य-
विज्ञानं संनिविशते संस्कारप्रत्ययं गतौ ।
कृतोपचितसंस्कारस्यास्य पुद्गलस्य संस्कारानुरूपायां गतौ देवादिकायां संस्कारहेतुकं विज्ञानं संनिविशते प्रविशति उपपद्यते संसारानर्थबीजभूतम् । तत उत्तरकालम्-
संनिविष्टे ऽथ विज्ञाने नामरूपं निषिच्यते
मूल पाठ: Prasannapada · Edition: P.L. Vaidya: Madhyamakaśāstra of Nāgārjuna, with the Commentary: Prasannapadā by Candrakīrti. Darbhaga 1960 (Buddhist Sanskrit Texts, 10). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0