भाषा

ENहिગુ
ग्रंथ पाठ

Prasannapada · अध्याय 59

59.2

यदि हि बुद्धो भगवानमलान् स्कन्धानुपादाय तत्त्वान्यत्वेनावक्तव्यः प्रज्ञप्यते, न तर्हि स्वभावतः सो ऽस्तीति व्यक्तमापद्यते, प्रतिबिम्बवदुपादाय प्रज्ञप्यमानत्वात् । यश्च इदानीं स्वभावतो नास्ति आत्मीयेन स्वरूपेण, स कथमविद्यमानः स्वभावतः स्कन्धानुपादाय परभावतो भविष्यतीति? न हि अविद्यमानो वन्ध्यातनयः परभावमपेक्ष्य भवतीति युज्यते

59.3

अथ स्यात्- यथैव हि प्रतिबिम्बकं स्वभावतो ऽसंविद्यमानमपि परभावं मुखादर्शादिकमपेक्ष्य भवति, एवं च तथागतो ऽपि स्वभावतो ऽसंविद्यमानः अनास्रवान् पञ्च स्कन्धानुपादाय परभावतो भविष्यतीति, एवमपि-
प्रतीत्य परभावं यः सो ऽनात्मेत्युपपद्यते ।
यश्चानात्मा स च कथं भविष्यति तथागतः

59.3

यदि प्रतिबिम्बवत् परभावं प्रतीत्य तथागतः इष्यते, एवं सति प्रतिबिम्बवदेव स तथागतो ऽनात्मेत्युपपद्यते । न तु स्वभावत इति युज्यते । आत्मशब्दो ऽयं स्वभावशब्दपर्यायः । यश्च अनात्मा निःस्वभावः प्रतिबिम्बवदेव, स कथं तथागतः स्वभावरूपतो भविष्यति? अविपरीतमार्गगतो न भविष्यतीत्यभिप्रायः

59.4

किं चान्यत्- इह यदि तथागतस्य कश्चित् स्वभावः स्यात्, तदा तत्स्वभावापेक्षया स्कन्धस्वभावः परभाव इति स्यात्, तं च परभावं प्रतीत्य तथागतः स्यात् । यदा तु तथागतस्य स्वभाव एव नास्ति, तदा कुतः स्कन्धानां परत्वं स्यादिति प्रतिपादयन्नाह-
यदि नास्ति स्वभावश्च परभावः कथं भवेत् ।
यदा चैवं स्वभावपरभावौ न स्तः, तदा
स्वभावपरभावाभ्यामृते कः स तथागतः

59.4

पदार्थो हि भवन् स्वभावो भवेत्, परभावो वा । ताभ्यां तु विना को ऽसौ अपरः पदार्थो ऽस्ति, यस्तथागत इति व्यवस्थाप्यते? तस्मान्नास्ति स्वभावतस्तथागत इति

59.5

किं चान्यत्-
स्कन्धान् यद्यनुपादाय भवेत्कश्चित्तथागतः ।
स इदानींमुपादद्यादुपादाय ततो भवेत्

59.5

यदि मन्यसे- स्कन्धेभ्यस्तत्त्वान्यत्वेन अवक्तव्यस्तथागतः स्कन्धानुपादाय प्रज्ञप्यते इति, तत् कदा युज्यते? यदि स्कन्धाननुपादाय अगृहीत्वा पूर्वं कश्चित्तथागतो नाम भवेत्, स स्कन्धानुपादद्यात् । व्यतिरिक्त एव हि पूर्वसिद्धो धनाद् देवदत्तो धनस्योपादानं कुरुते, तद्वदेतान् स्कन्धाननुपादाय यदि कश्चित् तथागतः स्यात्, स इदानीं स्कन्धानुपादद्यात्, ततश्च तान् स्कन्धानुपादाय ततो भवेत्

59.6

विचार्यमाणस्तु सर्वथा-
स्कन्धांश्चाप्यनुपादाय नास्ति कश्चित्तथागतः ।
निर्हेतुकत्वप्रसङ्गात् ।
यश्च नास्त्यनुपादाय स उपादास्यते कथम्

59.6

अविद्यमानत्वादित्यभिप्रायः । यदा चैवं न किंचिदप्युपादत्ते, तदा स्कन्धानुपादाय तथागतो नाम भविष्यतीति नोपपद्यते

59.7

यदा चैवं तथागतः उपादानात्पूर्वमविद्यमानत्वात् न किंचिदुपादत्ते, तदा तदुपादानस्यापि केनचिदपि अनुपादीयमानस्य उपादानत्वं न संभवत्येवेति प्रतिपादयन्नाह-
न भवत्यनुपादत्तमुपादानं च किंचन ।
यदा चैवमुपादानं केनचिदप्यनुपादीयमानत्वादुपादानं न भवतीति, तदा उपादानाभावादुपादातापि कश्चिन्नास्तीति प्रतिपादयन्नाह-
न चास्ति निरुपादानः कथंचन तथागतः

59.7

इति

59.8

तदेवं यथोपपादितन्यायेन-
तत्त्वान्यत्वेन यो नास्ति मृग्यमाणश्च पञ्चधा ।
उपादानेन स कथं प्रज्ञप्येत तथागतः

59.8

यो हि तथागतो विचार्यमाणो मृग्यमाणः तत्त्वेनस्कन्धेभ्य एकत्वेन नास्ति, अन्यत्वेन स्कन्धेभ्यः पृथक्त्वेन च यो नास्ति, एवं तत्त्वान्यत्वासत्वादाधाराधेयतद्वत्पक्षपञ्चप्रकारैर्मृग्यमाणो ( प्प्_191 ) यो नास्ति, स कथमत्यन्तो ऽसंविद्यमानस्तथागतः उपादानेन शक्यः प्रज्ञपयितुम्? इत्यतो ऽपि नास्ति तथागतो नाम स्वभावतः

59.9

न केवलमनेन विचारेण तथागत एव नास्ति,
यदपीदमुपादानं तत्स्वभावत्वान्न विद्यते ।
यदपि इदमुपादानं रूपवेदनासंज्ञासंस्कारविज्ञानाख्यं स्कन्धपञ्चकम्, तदपि स्वभावेन न विद्यते, प्रतीत्यसमुत्पन्नत्वात्, स्कन्धपरीक्षायां च विस्तरेण प्रतिषिद्धत्वात् ॥
अथापि स्यात्- यद्यपि स्वभावतः उपादानं नास्ति, तथापि हेतुप्रत्ययात्मकात् परभावा द्भविष्यतीति, तदापि नोपपद्यते इति प्रतिपादयन्नाह-
स्वभावतश्च यन्नास्ति कुतस्तत्परभावतः

59.9

न हि बन्ध्यासूनुः स्वभावतो ऽसंविद्यमानः शक्यः परभावेन प्रज्ञपयितुमिति । अतः उपादानमपि नास्ति ॥
अथवा-
यदपीदमुपादानं तत्स्वभावान्न विद्यते ।
उपादातृसापेक्षत्वादुपादातृनिरपेक्षस्य च उपादानत्वाभावान्नास्ति स्वभावसिद्धमुपादानम् । अथ यद्यपि उपादातृनिरपेक्षमुपादानं स्वभावसिद्धं न संभवति, एवं तदुपादात्रपेक्षमेव भवत्विति । उच्यते । एवमपि-
स्वभावतश्च यन्नास्ति कुतस्तत्परभावतः ॥
स्वभावतो यदुपादानं न सिद्धम्, तदविद्यमानस्वभावं कथमुपादातुः परभावतो भविष्यतीति । तस्मादुपादानमपि नास्तीति

59.10

इदानीं यथाप्रसाधितमेवार्थमुपदर्शयन्नाह-
एवं शून्यमुपादानमुपादाता च सर्वशः ।
सर्वेण प्रकारेण विचार्यमाणं शून्यमुपादानं निःस्वभावम्, उपादाता च शून्यः स्वभावरहितः । तेनेदानीमुपादानेन-
प्रज्ञप्यते च शून्येन कथं शून्यस्तथागतः

59.10

नैव तत्संभवति यदविद्यमानेन अविद्यमानस्य तथागतस्य प्रज्ञप्तिः स्यादिति । तस्मात् स्कन्धानुपादाय तथागतः प्रज्ञप्यते इति नोपपद्यते ॥
अत्राहुः- अहो वत हता प्रत्याशा अस्माकम्, ये हि नाम वयं स्वविकल्पविकल्पितातिकठिनकुदर्शनमालुतालताजालावबद्धेषु निर्वाणपुरगाम्यविपरीतमार्गगमनपरिभ्रष्टेषु अनतिक्रान्तसंसाराटवीकान्तारदुर्गेषु कणभक्षाक्षपाददिगम्बरजैमिनिनैयायिकप्रभृतिषु तीर्थकरेषु अविपरीतस्वर्गापवर्गमार्गोपदेशाभिमानिषु स्पृहां परित्यज्य निरवशेषान्यतीर्थ्यमतान्धकारोपघातकं स्वर्गापवर्गानुगाम्यविपरीतमार्गसंप्रकाशकं सद्धर्मदेशनातिपटुतरकिरणव्याप्ताशेषाशामुखं विविधविनेयजनमतिकमलकुङ्मलविबोधनतत्परं ( प्प्_192 ) यथावदवस्थितपदार्थतत्त्वार्थभाजनानाममलैकचक्षुर्भूतं सकलजगच्छरण्यभूतमद्वितीयं दशबलवैशारद्यावेणिकबुद्धधर्मामलमण्डलं महायानमहानयसारथिवरं सप्तबोध्यङ्गोत्तुङ्गतुरंगपदातियोजितं सकलत्रिभुवनजनजातिजरामरणसंसारकान्तारसरिदुच्छोषणतत्परं चतुरसममारारातिसमरशरसंपातविजयिनं सकलजगदसद्ग्राहराहुग्रहविग्रहोद्ग्रहनिरासिनं तथागतसवितारमज्ञानधनगहनान्धकारनिराकरणाय मोक्षार्थिनो ऽतुत्तरसम्यक्संबोध्यर्थिनः शरणं प्रतिपन्नाः, तस्य च त्वया-
एवं शून्यमुपादानमुपादाता च सर्वशः ।
प्रज्ञप्यते च शून्येन कथं शून्यस्तथागतः ॥
इत्यादिना स्वभावतो ऽसत्त्वं व्रुवता भवता हता अस्माकं मोक्षप्रत्याशा अनुत्तरसम्यक्संबोध्यागमाभिलाषः इति । तदलं भवता तथागतमहादित्यप्रच्छादकेन आकालिकधनधनावलीविसरणेन जगदन्धकारोपमेनेति । उच्यते । अस्माकमेव हता प्रत्याशा भवद्विधेष्वबुधजनेषु ये हि नाम भवन्तः मोक्षकामतया अन्यतीर्थ्यमतानि परित्यज्य भगवन्तं तथागतमपि अविपरीतं परमशास्तारं प्रतिपद्य परमगम्भीरमनुत्तरं सर्वतीर्थ्यवादासाधारणं नैरात्म्यसिंहनादमसहमानाः कुरङ्गमा इव स्वाधिमुक्तिदरिद्रतया विविधकुदृष्टिव्यालमालाकुलं विपर्यस्तजनानुयातं तमेव महाघोरसंसाराटवीकान्तारचारकानुगमार्गमवगाहन्ते । न हि तथागताः कदाचिदप्यात्मनः स्कन्धानां वा अस्तित्वं प्रज्ञपयन्ति । यथोक्तं भगवत्याम्-
बुद्धो ऽप्यायुष्मन् सुभूते मायोपमः स्वप्नोपमः । बुद्धधर्मा अप्यायुष्मन् सुभूते मायोपमाः स्वप्नोपमाः ॥ इति ॥
तथा-
धर्म स्वभावतु शून्य विविक्तो बोधि स्वभावतु शून्य विविक्ता ।
यो हि चरेत्स पि शून्यस्वभावो ज्ञानवतो न तु बालजनस्य ॥ इति ।
न च वयं सर्वथैव निष्प्रपञ्चानां तथागतानां नास्तित्वं ब्रूमः, यदस्माकं तदपवादकृतो दोषः स्यात्

59.11

अपि च । निःस्वभावं हि तथागतं व्याचक्षाणेन अविपरीतार्थाभिधित्सुना योगिनां सता सर्वथा-
शून्यमिति न वक्तव्यमशून्यमिति वा भवेत् ।
उभयं नोभयं चेति
सर्वमेतन्न वक्तव्यमस्माभिः । किं तु अनुक्ते यथावदवस्थितं स्वभावं प्रतिपत्ता प्रतिपत्तुं न समर्थ इत्यतो वयमपि आरोपतो व्यवहारसत्ये एव स्थित्वा व्यवहारार्थं विनेयजनानुरोधेन ( प्प्_193 ) शून्यमित्यपि ब्रूमः, अशून्यमित्यपि, शून्याशून्यमित्यपि, नैव शून्यं नाशून्यमित्यपि ब्रूमः । अत एवाह
प्रज्ञप्त्यर्थं तु कथ्यते

59.11

इति । यथोक्तं भगवता-
शून्याः सर्वधर्मा निःस्वभावयोगेन । निर्निमित्ताः सर्वधर्मा निर्निमित्ततामुपादाय । अप्रणिहिताः सर्वधर्मा अप्रणिधानयोगेन । प्रकृतिप्रभास्वराः सर्वधर्माः प्रज्ञापारमितापरिशुद्धया । इति ॥
अन्यत्र अशून्यमुक्तम्-
अतीतं चेद्भिक्षवो रूपं नाभविष्यन्न श्रुतवानार्यश्रावको ऽतीतं रूपमभ्यनन्दिष्यत् । यस्मात्तर्हि भिक्षवः अस्ति अतीतं रूपम्, तस्मादार्यश्रावकः श्रुतवानतीतं रूपमभिनन्दतीति । अनागतं चेद्भिक्षवः- इत्यादि । एवं यावत् अतीतं चेद्भिक्षवो विज्ञानं नाभविष्यत्- इत्यादि पूर्ववत् ॥
तथा सौत्रान्तिकमते अतीतानागतं शून्यम्, अन्यदशून्यम् । विप्रयुक्ता विज्ञप्तिः शून्या ।
विज्ञानवादे ऽपि कल्पितस्वभावस्य शून्यत्वम्, अप्रतीत्यसमुत्पन्नत्वात्, तैमिरिकद्विचन्द्रादि दर्शनवत् ।
न शून्यं नापि चाशून्यं तस्मात्सर्वं विधीयते ।
[तथा] सत्त्वादसत्त्वाच्च मध्यमा प्रतिपच्च सा ॥ इति ॥
येन त्वभिप्रायेण शून्यत्वादिकमुपदिश्यते, स आत्मपरीक्षातो बोद्धव्यः ।
यथोक्तं सूत्रे-
मायोपमं जगदिदं भवता नटरङ्गस्वप्नसदृशं विहितम् ।
नात्मा न सत्त्व न च जीवगती धर्मा मरीचिदकचन्द्रसमाः ॥
शून्यं च शान्तमनुपादमयं अविजानदेव जगदुद्भ्रमती ।
तेषामुपायनययुक्तिशतैरवतारयस्यपि कृपालुतया ॥
रागादिभिश्च बहुरोगशतैः संत्रासितं सकलमीक्षि जगत् ।
वैद्योपमो विचरसे ऽप्रतिमो परिमोचयं सुगत सत्त्वशतान् ॥
रथचक्रवद् भ्रमति सर्वजगत् तिर्यक्षु प्रेतनिरयेषु गताः ।
मूढा अदेशिक अनाथगताः तेषां प्रदर्शयसि मार्गवरम् ॥ इति ।
सर्वास्त्वेताः कल्पना निष्प्रपञ्चे तथागते न संभवन्ति

59.12

न च केवलं शून्यत्वादिकमेव चतुष्टयं तथागते न संभवति, अपि च-
शाश्वताशाश्वताद्या कुतः शान्ते चतुष्टयम् ।
अन्तानन्तादि चाप्यत्र कुन्तः शान्ते चतुष्टयम्

59.12

इह चतुर्दश अव्याकृतवस्तूनि भगवता निर्दिष्टानि । तद्यथा- शाश्वतो लोकः, अशाश्वतो लोकः, शाश्वतश्च अशाश्वतश्च लोकः, नैव शाश्वतो नाशाश्वतश्च लोकः, इति चतुष्टयम् । अन्तवान् लोकः, अनन्तवान् लोकः, अन्तवांश्च अनन्तवांश्च लोकः, नैव अन्तवान् न अनन्तवांश्च लोकः, इति द्वितीयम् । भवति तथागतः परं मरणात्, न भवति तथागतः परं मरणात्, भवति च न भवति च तथागतः परं मरणात्, नैव भवति न न भवति च तथागतः परं मरणात्, इति तृतीयम् । स जीवस्तच्छरीरम्, अन्यो जीवो ऽन्यच्छरीरम्, इति । तान्येतानि चतुर्दश वस्तूनि अव्याकृतत्वादव्याकृतवस्तूनि इत्युच्यन्ते । तत्र यथोपवर्णितेन न्यायेन यथा शून्यत्वादिकं चतुष्टयं प्रकृत्या शान्ते निःस्वभावे तथागते न संभवति, एवं शाश्वताशाश्वतादिकमपि चतुष्टयमत्र न संभवति । असंभवादेव च चतुष्टयं वन्ध्यापुत्रस्य श्यामगौरत्वादिवत् न व्याकृतं भगवता लोकस्य । यथा च एतच्चतुष्टयं तथागते न संभवति, एवमन्तानन्तादिकमपि शान्ते तथागते न संभवति

59.13

इदानीं भवति तथागतः परं मरणात् इत्यादिकस्यापि कल्पनाचतुष्टयस्य प्रवृत्त्यसंभव मुद्भावयन्नाह-
येन ग्राहो गृहीतस्तु घनो ऽस्तीति तथागतः ।
नास्तीति स विकल्पयन्निर्वृतस्यापि कल्पयेत्

59.13

येन हि घनतरो महताभिनिवेशेन अस्ति तथागतः इति ग्राहो गृहीतः, परिकल्प उत्पादितः, सः नियतं परिनिर्वृते तथागते, न भवति तथागतः परं मरणात्, मरणादुत्तरकालं न भवति, उच्छिन्नस्तथागतः, न संविद्यते, इति परिकल्पयेत् । तस्य एवं विकल्पयतः स्याद् दृष्टिकृतम्

59.14

यस्य तु न कस्यांचिदप्यवस्थायां स्वभावशून्यत्वात् तथागतस्य अस्तित्वनास्तित्वम्, तस्य पक्षे-
स्वभावतश्च शून्ये ऽस्मिंश्चिन्ता नैवोपपद्यते ।
परं निरोधाद्भवति बुद्धो न भवतीति वा

59.14

आकाशे चित्ररूपकल्पनावदेषा कल्पना नास्तीत्यभिप्रायः

59.15

तदेवं प्रकृतिशान्ते निःस्वभावे तथागते सर्वप्रपञ्चातीते मन्दबुद्धितया शाश्वताशाश्वतादिकया नित्यानित्यास्तिनास्तिशून्याशून्यसर्वज्ञासर्वज्ञादिकया कल्पनया-
प्रपञ्चयन्ति ये बुद्धं प्रपञ्चातीतमव्ययम् ।
ते प्रपञ्चहताः सर्वे न पश्यन्ति तथागतम्

59.15

वस्तुनिबन्धना हि प्रपञ्चाः स्युः, अवस्तुकश्च तथागतः । कुतः प्रपञ्चानां प्रवृत्तिसंभव इति? अतः प्रपञ्चातीतस्तथागतः । अनुत्पादस्वभावावाच्च स्वभावान्तरागमनादव्ययः । तमित्थंविधं तथागतं स्वोत्प्रेक्षितमिथ्यापरिकल्पमलमलिनमानसतया विविधैरभूतैः परिकल्पविशेषैः ये बुद्धं भगवन्तं प्रपञ्चयन्ति, ते स्वकैरेव प्रपञ्चैर्हताः सन्तः तथागतगुणसमृद्धेरत्यन्तपरोक्षवर्तिनो भवन्ति । ततश्च शवभूताः एतस्मिन् प्रवचने न पश्यन्ति तथागतं जात्यन्धा इवादित्यम् । अत एवाह भगवान्-
ये मां रूपेण अद्राक्षुर्ये मां घोषेण अन्वयुः ।
मिथ्याप्रहाणप्रसृता न मां द्रक्ष्यन्ति ते जनाः ॥
धर्मतो बुद्धा द्रष्टव्या धर्मकाया हि नायकाः ।
धर्मता चाप्यविज्ञेया न सा शक्या विजानितुम् ॥
इति

59.16

तदत्र तथागतपरीक्षायां सत्त्वलोकः सकलः ससुरासुरनरादिः परीक्षितः । यथा चायं सत्त्वलोको निःस्वभावः, तथा भाजनलोकस्यापि वायुमण्डलादेरकनिष्ठवितानभवनपर्यन्तस्य नैःस्वाभाव्यमुद्भावयन्नाह-
तथागतो यत्स्वभावस्तत्स्वभावमिदं जगत् ।
इदं जगदिति अयं भाजनलोक इत्यर्थः । किंस्वभावस्तथागतः पुनरित्याह-
तथागतो निःस्वभावो निःस्वभावमिदं जगत्

मूल पाठ: Prasannapada · Edition: P.L. Vaidya: Madhyamakaśāstra of Nāgārjuna, with the Commentary: Prasannapadā by Candrakīrti. Darbhaga 1960 (Buddhist Sanskrit Texts, 10). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc