भाषा

ENहिગુ
ग्रंथ पाठ

Prasannapada · अध्याय 60

60.1

इति । यथा च जगतो नैःस्वाभाव्यम्, तथा प्रत्ययपरीक्षादिभिः प्रतिपादितम् । अत एवोक्तं सूत्रे-
अनुपादधर्मः सततं तथागतः सर्वे च धर्माः सुगतेन सादृशाः ।
निमित्तग्राहेण तु बालबुद्धयः असत्सु धर्मेषु चरन्ति लोके ॥
तथागतो हि प्रतिबिम्बभूतः कुशलस्य धर्मस्य अनास्रवस्य ।
नैवात्र तथता न तथागतो ऽस्ति बिम्बं च संदृश्यति सर्व लोके ॥ इति ।
उक्तं च भगवत्यां प्रज्ञापारमितायाम्-
अथ खलु ते देवपुत्राः आयुष्मन्तं सुभूतिं स्थविरमेतदवोचन्- किं पुनरार्यसुभूते मायोपमास्ते सत्त्वाः, न ते माया? एवमुक्ते आयुष्मान् सुभूतिस्तान् देवपुत्रानेतदवोचत्- मायोपमास्ते देवपुत्राः सत्त्वाः, स्वप्नोपमास्ते देवपुत्राः सत्त्वाः । इति हि माया च सत्त्वाश्च अद्वयमेत दद्वैधीकारम् । इति हि स्वप्नश्च सत्त्वाश्च अद्वयमेतदद्वैधीकारम् ।सर्वधर्मा अपि देवपुत्रा मायोपमाः स्वप्नोपमाः । स्त्रोतआपन्नो ऽपि मायोपमः स्वप्नोपमः । स्त्रोतआपत्तिफलमपि मायोपमं स्वप्नोपमम् । एवं सकृदागाम्यपि सकृदागामिफलमपि । अनागाम्यपि अनागामिफलमपि । अर्हन्नपि मायोपमः स्वप्नोपमः । अर्हत्त्वफलमपि मायोपमं स्वप्नोपमम् । प्रत्येकबुद्धो ऽपि मायोपमः स्वप्नोपमः । प्रत्येकबुद्धत्वमपि मायोपमं स्वप्नोपमम् । सम्यक्संबुद्धो ऽपि मायोपमः स्वप्नोपमः इति । सम्यक्संबुद्धत्वमपि मायोपमं स्वप्नोपममिति वदामि ॥
अथ खलु देवपुत्रा आयुष्मन्तं सुभूतिमेतदवोचन्- सम्यक्संबुद्धो ऽपि मायोपमः स्वप्नोपम इति, सम्यक्संबुद्धत्वमपि मायोपमं स्वप्नोपममिति आर्यसुभूते वदसि? सुभूतिराह- निर्वाणमपि देवपुत्रा मायोपमं स्वप्नोपममिति वदामि, किं पुनरन्यं धर्मम्? देवपुत्रा आहुः- निर्वाणमप्यार्यसुभूते मायोपमं स्वप्नोपममिति वदसि? सुभूतिराह- यद्यपि देवपुत्रा निर्वाणादप्यन्यः कश्चिद्धर्मो विशिष्टतरः स्यात्, तमप्यहं मायोपमं स्वप्नोपममिति वदेयम् । इति हि माया च निर्वाणं च अद्वयमेतदद्वैधीकारमिति ॥
इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ तथागतपरीक्षा नाम द्वाविंशतितमं प्रकरणम् ॥
23
विपर्यासपरीक्षा त्रयोविंशतितमं प्रकरणम् ।
अत्राह- विद्यत एव भवसंततिः, तत्कारणसद्भावात् । इह हि क्लेशेभ्यः कर्म प्रवर्तते । कर्मक्लेशहेतुका जन्ममरणपरंपरा उपजायते । सा च भवसंततिर्व्यपदिश्यते । तस्याश्च प्रधानं कारणं क्लेशाः, प्रहीणक्लेशानां भवसंततेरभावात् । ते च रागादयः क्लेशाः सन्ति । तस्मात् कार्यभूतापि जन्ममरणपरंपरा अविच्छेदप्रबन्धेन भवसंततिरपि भविष्यतीति । उच्यते । स्याद् भवसंततिः, यदि तद्धेतुभूताः क्लेशाः स्युः । न तु सन्ति । कथं कृत्वा? इह भगवद्भिर्बुद्धैः सकलत्रिभुवनजनसंक्लेशशत्रुविध्वंसिभिश्चतुर्मारारातिसमरपराजयैः-
संकल्पप्रभवो रागो द्वेषो मोहश्च कथ्यते ।
शुभाशुभविपर्यासान् संभवन्ति प्रतीत्य हि

मूल पाठ: Prasannapada · Edition: P.L. Vaidya: Madhyamakaśāstra of Nāgārjuna, with the Commentary: Prasannapadā by Candrakīrti. Darbhaga 1960 (Buddhist Sanskrit Texts, 10). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc