भाषा

ENहिગુ
ग्रंथ पाठ

Prasannapada · अध्याय 58

58.1

यदि हि तथागतो नाम कश्चित् पदार्थो ऽमलो निष्प्रपञ्चः स्यात्, स स्कन्धस्वभावो वा भवेत्, रूपवेदनासंज्ञासंस्कारविज्ञानाख्यस्कन्धपञ्चकस्वभावो वा भवेत् । यदि वा शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनाख्यपञ्चस्कन्धस्वभावः, तद्वयतिरिक्तो वा भवेत् । पूर्वका एव पञ्च स्कन्धाः सत्त्वप्रज्ञप्तिनिमित्तत्वादिह विचारे परिगृह्यन्ते नोत्तरे, अव्यापकत्वादेषां पूर्वकैरन्तर्भावित त्वादिति ॥
यदि वा पञ्चस्कन्धव्यतिरिक्तो भवेत्, तत्र तथागते वा स्कन्धाः स्युः, स्कन्धेषु वा स भवेत्, तथागतो वा स्कन्धवान् भवेत् धनवानिव देवदत्तः? सर्वथा च विचार्यमाणो न संभवति । कथं कृत्वा? तत्र तावत् स्कन्धा एव न तथागतः । किं कारणम्? उक्तं हि-
यदिन्धनं स चेदग्निरेकत्वं कर्तृकर्मणोः ।
भवेदिति, तदिहापि योज्यम्,
स बुद्धो यो ह्युपादानमेकत्वं कर्तृकर्मणोः ।
भवेदिति । तथा-
आत्मा स्कन्धा यदि भवेदुदयव्ययभाग्भवेत् ।
इत्युक्तम्, तदिहापि योज्यम्,
बुद्धः स्कन्धा यदि भवेदुदयव्ययभाग्भवेत् । इति ।
एवं तावत् स्कन्धा न तथागतः ॥ इदानीं नान्यः स्कन्धेभ्यस्तथागत इति । किं कारणम्? उक्तं हि-
अन्यश्चेदिन्धनादग्निरिन्धनादष्यृते भवेत् ।
तथा-
परत्र निरपेक्षत्वादप्रदीपनहेतुकः ।
पुनरारम्भवैयर्थ्यमेवं चाकर्मकः सति ॥ इति,
तथा इहापि योज्यम्,
बुद्धो ऽन्यश्चेदुपादानादुपादानं विना भवेत् ।
तथा-
परत्र निरपेक्षत्वादनुपादानहेतुकः ।
पुनरारम्भवैयर्थ्यमेवं चाकर्मकः सति ॥
तथा-
स्कन्धेभ्यो ऽन्यो यदि भवेद्भवेदस्कन्धलक्षणः ।इति ।
अन्यत्वाभावाच्च स्कन्धादीनां तथागतस्य च, तथागते स्कन्धा नोपपद्यन्ते ॥
नापि स्कन्धेषु तथागत इति उपपद्यते । उक्तं चैतन्मध्यमकावतारे पक्षद्वयव्याख्यानम्-
स्कन्धेष्वात्मा विद्यते नैव चामी सन्ति स्कन्धा आत्मनीतीह यस्मात् ।
सत्यन्यत्वे स्यादियं कल्पना वै तच्चान्यत्वं नास्त्यतः कल्पनैषा ॥
स्कन्धवानपि तथागतो यथा न भवति, तथा तत्रैवोक्तम्-
इष्टो नात्मा रूपवान्नास्ति यस्मादात्मा वत्त्वार्थोपयोगो हि नातः ।
भेदे गोमान् रूपवानष्यभेदे तत्त्वान्यत्वे ऽरूपतो नात्मनः स्तः ॥
तत्त्वान्यत्वपक्षे एव तु पञ्चापि पक्षा अन्तर्गता वस्तुतः । सत्कायदृष्टिप्रवृत्त्यपेक्षया तु पञ्च पक्षाः समुपवर्ण्यन्ते आचार्येणेति विज्ञेयम् । यश्चैवं स्कन्धेषु पञ्चधा विचार्यमाणो नास्ति तथागतः, स केनान्येन आत्मना भविष्यतीति, सर्वथा न संभवत्येव तथागत इति भावस्वभावादपश्यन्त आचार्यपादाः प्राहुः- कतमो ऽत्र तथागत इति । नास्त्येव स कश्चित् सकलत्रैलोक्यवस्तुविपश्चिद्भावस्वभाव इत्यभिप्रायः । तथागताभावाच्च भवसंततिरपि द्रव्यसंततिर्नास्तीति सिद्धम्

58.2

अत्रैके वदन्ति- नैव हि स्कन्धास्तथागत इति ब्रूमः, यथोक्तदोषप्रसङ्गात् । नापि स्कन्धव्यतिरिक्तः । नापि तथागते अनास्रवान् स्कन्धान् वर्णयामः, हिमवति पर्वते इव तरुखण्डम् । नापि स्कन्धेषु, तरुखण्डे एव सिंहम् । नापि स्कन्धवन्तं वर्णयामः, लक्षणवन्तमिव चक्रवर्तिनम्, एकत्वान्यत्वानभ्युपगमादेव । किं तर्हि स्कन्धानमलानुपादाय तत्त्वान्यत्वाद्यवाच्यं तथागतं व्यवस्थापयामः । तस्मान्नायं विधिरस्माकं बाधक इति । अत्रोच्यते-
बुद्धः स्कन्धानुपादाय यदि नास्ति स्वभावतः ।
स्वभावतश्च यो नास्ति कुतः स परभावतः

मूल पाठ: Prasannapada · Edition: P.L. Vaidya: Madhyamakaśāstra of Nāgārjuna, with the Commentary: Prasannapadā by Candrakīrti. Darbhaga 1960 (Buddhist Sanskrit Texts, 10). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc