Prasannapada · अध्याय 57
इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ संभवविभवपरीक्षा नाम एकविंशतितमं प्रकरणम् ॥
22
तथागतपरीक्षा द्वाविंशतितमं प्रकरणम् ।
अत्राह- विद्यत एव भवसंततिः, तथागतसद्भावात् । इह हि भगवता महाकरुणोपायप्रज्ञाद्वयधारिणा सकलत्रैधातुकाशेषसत्त्वजात्यादिदुःखव्युपशमैकमनसा त्रिभिः कल्पासंख्येयैः सप्तभिर्वा नैरन्तर्यक्रमेणोद्यच्छता तैस्तैर्निरतिशयैरतिविचित्रैः पुण्यक्रियाप्रारम्भैः सकलजगद्धितोदयैकक्रियालक्षणैः प्रियैकपुत्रादप्यधिकतरनिरवशेषजगदनुग्रहतत्परेण महाकरुणापरवशेन तत्रतत्रोपपत्त्यायतने क्षितिसलिलज्वलनपवनसाधारणभैषज्यमहामहीरुहवज्जनानां स्वेच्छात उपभोग्यतामात्मानमुपगमयता महाकालेन सार्वज्ञं सर्वाकारपरिच्छेदि पदमधिगतम् । स एवमधिगतसर्वज्ञज्ञानो भगवान् यथा धर्माणां तत्त्वं व्यवस्थितं तथैव अशेषतो गतत्वाद् बुद्धत्वात् तथागत इत्युच्यते । यदि भवसंततिर्न स्यात्, तदा तथागतो ऽपि न स्यात् । न हि एकेन जन्मना शक्यं तथागतत्वमनुप्राप्तुम् । तस्माद्विद्यत एव भवसंततिः, तथागतसद्भावादिति । उच्यते । भवदीयमेव हि इदमतिमहदज्ञानं भवसंतानस्य अविच्छेदवर्तितां च अतिदीर्घकालं च गमयति, यस्य नाम भवतः अतिमहदज्ञानधनान्धकारमेव विचित्रैरुपपत्तिशरच्चन्द्रज्ञानालोकैर्विध्वस्यमानमपि अतिचिरतरकालाभ्यासवासनाविस्तराभिवृद्धमद्यापि न विध्वस्यते न निवर्तते । यदि हि तथागतो नाम कश्चित् स्यात् स्वभावतः, तदा तस्य महता कालेनाभिनिष्पत्तेर्भवसंततिः स्यात् । न च तथागतो नाम कश्चिद् भावस्वभावत उपलभ्यते । केवलं तु भवानविद्यातिमिरोपहतमतिनयनतया द्विचन्द्रकेशमशकादिवन्मिथ्या तथागतं नाम स्वभावत उपलभते । यथा च तथागतो नास्ति स्वभावतः, तथा प्रतिपादयन्नाह-
स्कन्धा न नान्यः स्कन्धेभ्यो नास्मिन् स्कन्धा न तेषु सः ।
तथागतः स्कन्धवान्न कतमो ऽत्र तथागतः
मूल पाठ: Prasannapada · Edition: P.L. Vaidya: Madhyamakaśāstra of Nāgārjuna, with the Commentary: Prasannapadā by Candrakīrti. Darbhaga 1960 (Buddhist Sanskrit Texts, 10). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0