भाषा

ENहिગુ
ग्रंथ पाठ

Prasannapada · अध्याय 52

52.1

कालाभावाच्च न सन्ति क्षणलवमुहूर्तादयः कालभेदाः तत्परिणामभूताः, इत्यतः कुतः परिणामवत्त्वेन कालसिद्धिर्भविष्यति? तस्मान्नास्त्येव भावानां स्वभावः इति ॥ उक्तं हि भगवता आर्यहस्तिकक्ष्यसूत्रे-
यदि कोचि धर्माण भवेत्स्वभावः तत्रैव गच्छेय जिनः सश्रावको ।
कूटस्थधर्माण सिया न निर्वृती न निष्प्रपञ्चो भवि जातु पण्डितः ॥ इति ।
तथा-
बुद्धसहस्रशता य अतीता धर्मसहस्रशतानि भणित्वा ।
नैव च धर्म न चाक्षर क्षीणा नास्ति समुद्भवु तेन अक्षीणा ॥ इति ।
तथा-
उत्पादकाले हि तथागतस्य मैत्रेयनामा त्विह यो भविष्यति ।
भविष्यतीयं कनकावृता मही तस्या इदानीं कुत आगमो ऽसौ ॥
उल्लापनाः कामगुणा हि पञ्च विभ्रामणा मोहन मोषधर्मिणः ।
मध्याह्नकाले हि यथैव ग्रीष्मे जलं मरीच्यां हि तथैव कामाः ॥
एकेन कल्पेन भवेद्धि लोको आकाशभूतो गगनस्वभावो ।
दाहं विनाशं च पयान्ति भे[भी?]रवः कुत आगमः कुत्र गतिश्च तेषाम् ॥ इति ॥
तद्यथा-
पञ्चेमानि भिक्षवः संज्ञामात्रं प्रतिज्ञामात्रं व्यवहारमात्रं संवृतिमात्रं यदुत अतीतो ऽध्वा अनागतो ऽध्वा आकाशं निर्वाणं पुद्गलश्चेति ॥
॥ इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ कालपरीक्षा नाम एकोनविंशं प्रकरणम् ॥
20
सामग्रीपरीक्षा विंशतितमं प्रकरणम् ।
अत्राह- विद्यते कालः, फलप्रवृत्तौ सहकारिकारणभावात् । यो नास्ति, नासौ सहकारिकारणभावेन प्रतिपद्यते, वन्ध्यातनयवत् । तस्मादस्ति कालः, सहकारिकारणभावात् । इह बीजावनिसलिलज्वलनपवनगगनाभिधानहेतुप्रत्ययसामग्रीं प्रतीत्य अयमङ्कुर उपजायमानः सत्यामपि बीजादिप्रत्ययसामग्र्याम्, ऋतुविशेषासंनिधानान्नोपजायते । यथा च बाह्येषु, एवमाध्यात्मिकेष्वपि । यथोक्तं भगवता-
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैरपि ।
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम् ॥ इति ॥
यस्माच्च एवमस्ति कालापेक्षा, तस्मादस्त्यसौ कालो नाम, यः अङ्कुरादिप्रवृत्तौ सहकारिकारणं भवतीति । उच्यते । स्यात् सहकारिकारणता कालस्य, यदि अङ्कुरादिफलस्य प्रवृत्तिरेव स्यात् । न त्वस्ति । कथं कृत्वा? इह बीजादिहेतुप्रत्ययसामग्रीतो ऽङ्कुरादिफलोदये परिकल्प्यमाने व्यवस्थितस्य वा फलस्य सामग्र्यां सत्यांतत उत्पादः परिकल्प्येत अव्यवस्थितस्य वा? किं चातः? यदि तावद् व्यवस्थितस्य परिकल्प्यते, तन्न युज्यते इति प्रतिपादयन्नाह-
हेतोश्च प्रत्ययानां च सामग्र्या जायते यदि ।
फलमस्ति च सामग्र्यां सामग्र्या जायते कथम्

मूल पाठ: Prasannapada · Edition: P.L. Vaidya: Madhyamakaśāstra of Nāgārjuna, with the Commentary: Prasannapadā by Candrakīrti. Darbhaga 1960 (Buddhist Sanskrit Texts, 10). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc