भाषा

ENहिગુ
ग्रंथ पाठ

Prasannapada · अध्याय 51

51.2

तत्र अतीते काले यदि वर्तमानानागतौ कालौ न स्तः इति परिकल्प्यते, एवमपि तत्र अविद्यमानत्वात् गगनेन्दीवरवन्नास्त्यपेक्षा

51.3

अथापि स्यात्- कालवादिनां विद्यते एव कालः, तत्र किमपेक्षया प्रयोजनमिति? उच्यते । एवमपि-
अनपेक्ष्य पुनः सिद्धिर्नातीतं विद्यते तयोः ।
प्रत्युत्पन्नो ऽनागतश्च तस्मात्कालो न विद्यते

51.3

प्रत्युत्पन्नानागतयोरसत्त्वम्, अतीतानपेक्षत्वात्, खरविषाणवत् । यतश्चैवम् प्रत्युत्पन्नो ऽनागतश्च तस्मात्कालो न विद्यते इति विज्ञेयम्

51.4

यदा चैवम् अतीतमपेक्ष्य वा अनपेक्ष्य वा प्रत्युत्पन्नानागतयोर्नास्ति सिद्धिः, एवं प्रत्युत्पन्नापेक्षया वा अनपेक्षया वा अतीतानागतयोः अनागतापेक्षया वा अनपेक्षया वा प्रत्युत्पन्नातीतयोः असिद्धौ इष्यमाणायां तेनैव प्रत्युत्पन्नागतयोः अतीतापेक्षया वा अनपेक्षया असिद्धिक्रमेण दूषणसाम्यमतिदिशन्नाह-
एतेनैवावशिष्टौ द्वौ क्रमेण परिवर्तकौ ।
उत्तमाधममध्यादीनेकत्वादींश्च लक्षयेत्

51.4

कथं कृत्वा?
यद्यतीतो ऽनागतश्च प्रत्युत्पन्नमपेक्ष्य हि ।
कालो ऽतीतो ऽनागतश्च प्रत्युत्पन्ने भविष्यतः ॥
कालो ऽतीतो ऽनागतश्च न स्तस्तत्र पुनर्यदि ।
कालो ऽतीतो ऽनागतश्च स्यातां कथमपेक्ष्य तम् ॥
अनपेक्ष्य पुनः सिद्धिर्न जातं विद्यते तयोः ।
तेनातीतो ऽनागतश्च कालो नाम न विद्यते ॥
एष तावदेकः कालपरिवर्तः ।
अतीतो वर्तमानश्च यद्यजातमपेक्ष्य हि ।
अतीतो वर्तमानश्च काले ऽजाते भविष्यतः ॥
अतीतो वर्तमानश्च न स्तस्तत्र पुनर्यदि ।
अतीतो वर्तमानश्च स्यातां कथमपेक्ष्य तम् ॥
अनपेक्ष्य पुनः सिद्धिर्नाजातं विद्यते तयोः ।
अतीतो वर्तमानश्च तस्मात्कालो न विद्यते ॥
एष द्वितीयः कालपरिवर्त इति व्याख्यानकारिका इति । एवंद्वौ कालपरिवर्तौ बोद्धव्यौ ॥
यतश्च एवं विचारणे कालत्रयं नास्ति, तस्मात् कालो न विद्यते, कालाभावाच्च भावसद्भावो ऽपि नास्ति इति सिद्धम् ॥
यथा चैतत्कालत्रयं विचारितम्, एवम्
उत्तमाधममध्यादीनेकत्वादींश्च लक्षयेत् ।
उत्तमाधममध्यमान् इति आदिशब्देन कुशलाकुशलाव्याकृतानि, उत्पादस्थितिभङ्गाः, पूर्वान्तापरान्तमध्यान्ताः, कामरूपारूप्यधातवः, शैक्षाशैक्षनैवशैक्षनैवाशैक्षादयो यावन्तः पदार्थाः त्रिपदार्थसंबन्धव्यवस्थिताः, ते सर्वे गृह्यन्ते । एकत्वादींश्च इत्यनेन आदिशब्देन द्वित्वबहुत्वयो ग्रहणात् ते एव उत्तमादयः एकत्वादयश्च कालत्रयव्याख्यानेन व्याख्याता वेदितव्याः

51.5

अत्राह- विद्यत एव कालः परिमाणवत्त्वात् । इह यन्नास्ति, न तस्य परिमाणवत्त्वं विद्यते तद्यथा खरविषाणस्य । अस्ति च कालस्य परिमाणवत्त्वं क्षणलवमुहूर्तदिवसरात्र्यहोरात्रपक्षमाससंवत्सरादिभेदेन । तस्मात्, परिमाणवत्त्वाद् विद्यत एव कालः इति । उच्यते । यदि कालो नाम कश्चित् स्यात्, स्यात्तस्य परिमाणवत्त्वम् । न त्वस्ति । यस्मात्-
नास्थितो गृह्यते कालः स्थितः कालो न विद्यते ।
यो गृह्येतागृहीतश्च कालः प्रज्ञप्यते कथम्

51.5

इह यदि कालो नाम कश्चिदवस्थितः क्षणादिव्यतिरिक्तः स्यात्, स क्षणादिभिः परिमाणवत्त्वाद् गृह्येत । न तु अवस्थितः कूटस्थः कश्चित् कालो नाम अस्ति, यः क्षणादिभिर्गृह्येत । तदेवं नास्थितो गृह्यते कालः, अस्थितत्वान्न गृह्यते इत्यर्थः ॥
अथापि स्यात्- नित्य एव अवस्थितस्वभावः कालो नाम अस्ति, क्षणादिभिरभिव्यज्यते । तथाहि-
कालः पचति भूतानि कालः संहरते प्रजाः ।
कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ॥ इति ।
यश्चैवंलक्षणः सो ऽवस्थितस्वभावो ऽस्तीति । उच्यते । एवमपि स्थितः कालो न विद्यते यः क्षणादिभिरभिव्यज्यमानो गृह्येत । कस्मात् पुनः स्थितः कालो नास्तीति चेत्, क्षणादिव्यतिरेकेणागृह्यमाणत्वात् ॥
अपि च । अयं कालः संस्कृतस्वभावः सन् अस्तीति, असंस्कृतस्वभावो वा? उभयं च संस्कृतपरीक्षायां प्रतिषिद्धम्-
उत्पादस्थितिभङ्गानामसिद्धौ नास्ति संस्कृतम् ।
संस्कृतस्याप्यसिद्धौ च कथं सेत्स्यत्यसंस्कृतम् ॥
इत्यनेन । तदेवं नास्ति व्यवस्थितः कालः, यो गृह्येत । यश्च इदानीं कालो न गृह्यते अस्थितत्वादविद्यमानस्वरूपत्वात्, सो ऽगृह्यमाणः सन् कथं क्षणादिभिः प्रज्ञपयितुं भावतः पार्यत इत्याह- अगृहीतश्च कालः प्रज्ञप्यते कथमिति । तस्मान्नास्त्येव कालः

51.6

अत्राह- सत्यं नास्ति नित्यः कालो नाम कश्चिद् रूपादिव्यतिरिक्तः स्वभावसिद्धः, किं तर्हि रूपादीनेव स संस्कारानुपादाय प्रज्ञप्तः कालः क्षणादिवाच्यो भवति, तस्माददोष इति । उच्यते । एवमपि-
भावं प्रतीत्य कालश्चेत्कालो भावादृते कुतः ।
यद्येवं भावं प्रतीत्य कालो भवतीति भवता व्यवस्थाप्यते, यदा खलु भावो नास्ति, तदा नियतं तद्धेतुको ऽपि कालो नास्तीति प्रतिपादयन्नाह-
न च कश्चन भावो ऽस्ति
इति पूर्वं विस्तरेण प्रतिपादितत्वाद्वक्ष्यमाणप्रतिषेधाच्च । यदा चैवं न कश्चिद्भावो ऽस्ति भावतः, तदा-
कुतः कालो भविष्यति

मूल पाठ: Prasannapada · Edition: P.L. Vaidya: Madhyamakaśāstra of Nāgārjuna, with the Commentary: Prasannapadā by Candrakīrti. Darbhaga 1960 (Buddhist Sanskrit Texts, 10). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc