Prasannapada · अध्याय 53
यदि हेतुप्रत्ययसामग्र्यां त्वन्मतेन फलमस्ति, ननु एवं सति यस्मात् सामग्र्यामस्ति, कथं तया तज्जन्यते? न हि कुण्डे दधि विद्यमानं कुण्डेन जन्यते । अपि च । यद्विद्यते तन्निष्पन्नत्वात् निष्पन्नपुरोवस्थितघटवत् न पुनर्जन्मापेक्षते । अभिव्यक्तिः स्थौल्यं वा सूक्ष्मात्मना विद्यमानस्य क्रियत इति चेत्, तस्यापि पक्षस्य पूर्वमेव-
आगच्छत्यन्यतो नाग्निरिन्धने ऽग्निर्न विद्यते ।
इत्यत्रोक्तमुत्तरम्
अथ नास्त्येव सामग्र्यां फलमिति परिकल्प्यते, एतदपि नोपपद्यते इति प्रतिपादयन्नाह-
हेतोश्च प्रत्ययानां च सामग्र्या जायते यदि ।
फलं नास्ति च सामग्र्यां सामग्र्या जायते कथम्
मूल पाठ: Prasannapada · Edition: P.L. Vaidya: Madhyamakaśāstra of Nāgārjuna, with the Commentary: Prasannapadā by Candrakīrti. Darbhaga 1960 (Buddhist Sanskrit Texts, 10). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0