Prasannapada · अध्याय 42
यत् स्वभावेन अस्तीत्युच्यते, स्वभावस्यानपायित्वान्न तत् कदाचिदपि नास्तीति, एवं भावस्यास्तित्वाभ्युपगमे सति शाश्वतदर्शनमापद्यते । पूर्वं च वर्तमानावस्थायां भावस्वरूपमभ्युपेत्य इदानीं तद्विनष्टत्वान्नास्तिति पश्चादभ्युपगच्छतः उच्छेददर्शनं प्रसज्यते । यस्य तु भावस्वभाव एव नोपपद्यते, न तस्य शाश्वतोच्छेददर्शनप्रसङ्गः, भावस्वभावानुपलम्भात् ॥
ननु च भावानां स्वभावो नास्तीत्यभ्युपगच्छतो मा भूद्भावदर्शनाभावाच्छाश्वतदर्शनम्, उच्छेददर्शनं तु नियतं प्रसज्यते इति । नैवमभावदर्शनं भवति । यो हि पूर्वं भावस्वभावमभ्युपेत्य पश्चात् तन्निवृत्तिमालम्बते, तस्य पूर्वोपलब्धस्वभावापवादात् स्यादभावदर्शनम् । यस्तु तैमिरिकोपलब्धकेशेष्विव वितैमिरिको न किंचिदुपलभते, स नास्तीति ब्रुवन् किंचिन्नास्तीति ब्रूयात् प्रतिषेध्याभावात् । विपर्यस्तानां तु मिथ्याभिनिवेशनिवृत्त्यर्थमतैमिरिका इव वयं ब्रूमः- न सन्ति सर्वभावाः इति । न चैवं ब्रुवतामस्माकं परहितव्यापारपरायणानामुच्छेददर्शनप्रसङ्गः । यथोक्तं सूत्रे-
यो हि भगवन् पूर्वं रागद्वेषमोहभावाभ्युपगमं कृत्वा पश्चान्न सन्ति रागद्वेषमोहभावा इति ब्रवीति, स भगवन् वै नास्तिको भवति । इति विस्तरः ॥
यस्तु परतन्त्रचित्तचैत्तवस्तुमात्रमभ्युपेत्य तस्य परिकल्पितस्वभावाभावादस्तित्वदर्शनं परिहरति, संक्लेशव्यवदाननिबन्धनस्य च परतन्त्रवस्तुमात्रसद्भावान्नास्तित्वदर्शनं परिहरति, तस्य परिकल्पितस्याविद्यमानत्वात् परतन्त्रस्य च विद्यमानत्वाद् अस्तित्वनास्तित्वदर्शनद्वयस्यापि उपनिपातात् कुतो ऽन्तद्वयपरिहारः? हेतुप्रत्ययजनितस्य च सस्वभावेनायुक्तत्वप्रतिपादनादयुक्तमेवास्य व्याख्यानम् । तदेवं मध्यमकदर्शने एव अस्तित्वनास्तित्वद्वयदर्शनस्याप्रसङ्गः, न विज्ञानवादिदर्शनादिष्विति । विज्ञेयम् । अत एवोक्तमार्यरत्नावल्याम्-
ससांख्यौल्लूक्यनिर्ग्रन्थपुद्गलस्कन्धवादिनम् ।
पृच्छ लोकं यदि वदत्यस्तिनास्तिव्यतिक्रमम् ॥
धर्मयौतकमित्यस्मादस्तिनास्तिव्यतिक्रमम् ।
विद्धि गम्भीरमित्युक्त बुद्धानां शासनामृतम् ॥ इति ॥
तथाविधविनेयजनबोधानुरोधात्तु परमार्थदर्शनस्य उपायभूतत्वात् नेयार्थत्वेन भगवता महाकरुणापरतन्त्रतया विज्ञानादिवादो देशितः सांमितीयपुद्गलवादवत्, न नीतार्थः इति विज्ञेयम् । यथोक्तमार्यसमाधिराजभट्टारके-
नीतार्थसूत्रान्तविशेष जानति यथोपदिष्टा सुगतेन शून्यता ।
यस्मिन् पुनः पुद्गल सत्त्व पूरुषो नेयार्थतो जानति सर्वधर्मान् ॥
एतच्च आर्याक्षयमतिनिर्देशादिषु विस्तरेण बोद्धव्यमिति । भावाभावदर्शनद्वयप्रसङ्गो यावत् तावत्संसार इत्यवेत्य मुमुक्षुभिरेतद्दर्शनद्वयनिरासेन सद्भिर्मध्यमा प्रतिपद् भावनीया यथावदिति । एतच्चोक्तं भगवता-
भाव अभाव विभावयि ज्ञानं सर्वि अचिन्तिय सर्वि अभूतं ।
ये पुन चित्तवशानुग बालाः ते दुखिता भवकोटिशतेषु ॥
भावानभावानिति यः प्रजानती स सर्वभावेषु न जातु सज्जते ।
यः सर्वभावेषु न जातु सज्जते स आनिमित्तं स्पृशते समाधिम् ॥ इति ।
तथा-
स्मराम्यहं पूर्वमतीत अध्वनि अचिन्तिये कल्पि नराणमुत्तमः ।
उत्पन्नु लोकार्थकरो महर्षी नामेन सो ऽभावसमुद्गतो ऽभूत् ॥
स जातमात्रो गगने स्थिहित्वा सर्वाण धर्माणभाव देशयि ।
तदानुरूपं कृत नामधेयं शब्देन सर्वं त्रिसहस्र विज्ञयी ॥
देवापि सर्वे प्रमुमोचु शब्दं अभावनामेति जिनो भविष्यति ।
यो जातमात्रः पद सप्त प्रक्रमन् अभाव धर्माण समं प्रकाशयी ॥
बुद्धो यदा भेष्यति धर्मराजः सर्वाण धर्माण प्रकाशको मुनिः ।
तृणगुल्मवृक्षौषधिशैलपर्वते अभाव धर्माण रवो भविष्यति ॥
यावन्ति शब्दास्तहि लोकधातौ सर्वे ह्यभावा न हि कश्चि भावः ।
तावन्ति खो तस्य तथागतस्य रवु निश्चरी लोकविनायकस्य ॥ इति ।
भवतीति भावः सत्ता । न विद्यते सत्ता स्वभावः सर्वभावानामित्यभावाः सर्वधर्माः, शून्याः सर्वधर्मा निःस्वभावयोगेनेति प्रज्ञापारमितापाठात् भावस्वभावस्यानुपपत्तेः ।
अभाव धर्माण रवो भविष्यति
इत्यादिना सूत्रार्थो ऽवगन्तव्यः ॥
यावन्ति शब्दास्तहि लोकधातौ
सर्वे ह्यभावा न हि कश्चि भावः । इत्यादि ।
भूत्वा अभावप्रतिषेधविवक्षितत्वाद् भावाभावार्थ एव स्वभावाभावार्थः ॥
इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ स्वभावपरीक्षा नाम पञ्चदशमं प्रकरणम् ॥
16
बन्धमोक्षपरीक्षा षोडशमं प्रकरणम् ।
अत्राह- विद्यत एव भावानां स्वभावः, संसारसद्भावात् । इह संसरणं संसृतिः गतेर्गत्यन्तरगमनं संसार इत्युच्यते । यदि भावानां स्वभावो न स्यात्, कस्य गतेर्गत्यन्तरगमनं संसारः स्यात्? न हि अविद्यमानानां वन्ध्यासूनुसंस्काराणां संसरणं दृष्टम् । तस्मात् संसारसद्भावात् विद्यत एव भावानां स्वभाव इति । उच्यते । स्याद्भावानां स्वभावः, यदि संसार एव भवेत् । न त्वस्ति । इह यदि संसारः स्यात्, स नियतं संस्काराणां वा भवेत् सत्त्वस्य वा? किं चातः? उभयथा च दोष इत्याह-
संस्काराः संसरन्ति चेन्न नित्याः संसरन्ति ते ।
संसरन्ति च नानित्याः सत्त्वे ऽप्येष समः क्रमः
मूल पाठ: Prasannapada · Edition: P.L. Vaidya: Madhyamakaśāstra of Nāgārjuna, with the Commentary: Prasannapadā by Candrakīrti. Darbhaga 1960 (Buddhist Sanskrit Texts, 10). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0