भाषा

ENहिગુ
ग्रंथ पाठ

Prasannapada · अध्याय 41

41.2

इह स्वो भावः स्वभाव इति यस्य पदार्थस्य यदात्मीयं रूपं तत्तस्य स्वभाव इति व्यपदिश्यते । किं च कस्यात्मीयं यद्यस्याकृत्रिमम्, यत्तु कृत्रिमं न तत्तस्यात्मीयं तद्यथा अपामौष्ण्यम् । यच्च यस्यायत्तं तदपि तदात्मीयं तद्यथा स्वे भृत्याः, स्वानि धनानि । यत्तु यस्य परायत्तं न तत्तस्यात्मीयं तद्यथा तावत्कालिकायाचितकमस्वतन्त्रम् । यतश्चैवं कृत्रिमस्य परसापेक्षस्य च स्वभावत्वं नेष्टम्, अत एव औष्ण्यमग्नेर्हेतुप्रत्ययप्रतिबद्धत्वात्पूर्वंमभूत्वा पश्चादुत्पादेन कृतकत्वान्न स्वभाव इति युज्यते । यतश्चैतदेवम्, अतो यदेवाग्नेः कालत्रये ऽप्यव्यभिचारि निजं रूपमकृत्रिमम्, पूर्वमभूत्वा पश्चाद्यन्न भवति, यच्च हेतुप्रत्ययसापेक्षं न भवति अपामौष्ण्यवत् पारावारवत् दीर्घह्रस्ववद्वा, तत् स्वभाव इति व्यपदिश्यते । किं खलु अग्नेः तदित्थं स्वरूपमस्ति? न तदस्ति, न चापि नास्ति स्वरूपतः । यद्यपि एवम्, तथापि श्रोतृणामुत्त्रासपरिवर्जनार्थं संवृत्या समारोप्य तदस्तीति ब्रूमः । यथोक्तं भगवता-
अनक्षरस्य धर्मस्य श्रुतिः का देशना च का ।
श्रूयते देश्यते चापि समारोपादनक्षरः ॥ इति ।
इहापि च वक्ष्यति-
शून्यमिति न वक्तव्यमशून्यमिति वा भवेत् ।
उभयं नोभयं चेति प्रज्ञप्त्यर्थं तु कथ्यते ॥
यदि खलु तदध्यारोपाद्भवद्भिरस्तीत्युच्यते, कीदृशं तत्? या सा धर्माणां धर्मता नाम, सैव तत्स्वरूपम् । अथ केयं धर्माणां धर्मता? धर्माणां स्वभावः । को ऽयं स्वभावः? प्रकृतिः । का चेयं प्रकृतिः? येयं शून्यता । केयं शून्यता? नैःस्वाभाव्यम् । किमिदं नैःस्वाभाव्यम्? तथता । केयं तथता? तथाभावो ऽविकारित्वं सदैव स्थायिता । सर्वथानुत्पाद एव ह्यग्न्यादीनां परनिरपेक्षत्वादकृत्रिमत्वात्स्वभाव इत्युच्यते ॥
एतदुक्तं भवति- अविद्यातिमिरप्रभावोपलब्धं भावजातं येनात्मना विगताविद्यातिमिराणामार्याणामदर्शनयोगेन विषयत्वमुपयाति, तदेव स्वरूपमेषां स्वभाव इति व्यवस्थाप्यते । तस्य चेदं लक्षणम्-
अकृत्रिमः स्वभावो हि निरपेक्षः परत्र च ।
इति व्यवस्थापयांबभूवुराचार्या इति विज्ञेयम् । स चैष भावानामनुत्पादात्मकः स्वभाव अकिंचित्त्वेन अभावमात्रत्वादस्वभाव एवेति कृत्वा नास्ति भावस्वभाव इति विज्ञेयम् । यथोक्तं भगवता-
भावानभावानिति यः प्रजानति स सर्वभावेषु न जातु सज्जते ।
यः सर्वभावेषु न जातु सज्जते स आनिमित्तं स्पृशते समाधिम् ॥
इति

41.3

अत्राह- यद्यपि स्वभावो नास्ति भावानाम्, तथापि परभावस्तावदस्ति, तदप्रतिषेधात् सति च परभावे स्वभावो ऽपि भविष्यति । स्वभावमन्तरेण परभावाप्रसिद्धेरिति । उच्यते-
कुतः स्वभावस्याभावे परभावो भविष्यति ।
स्वभावः परभावस्य परभावो हि कथ्यते

41.3

इह स्वभाव एव हि लोके कश्चित्स्वभावान्तरापेक्षया पर इति व्यपदिश्यते । यदि हि अग्नेरौष्ण्यं स्वभावः स्यात्, द्रवस्वभावसलिलसापेक्षया परभाव इति व्यपदिश्येत । यदा तु मुमुक्षुभिर्विचार्यमाणस्य कस्यचित्स्वभाव एव नास्ति, तदा कुतः परत्वं स्यात्? परभावाच्च स्वभावो ऽपि नास्ति इति सिद्धम्

41.4

अत्राह- यद्यपि स्वभावपरभावौ न स्तः, तथापि भावस्तावदस्ति, अप्रतिषेधात् । स च भावो भवन् स्वभावो वा भवेत्, परभावो वा । तस्मात्स्वभावपरभावावपि भविष्यत इति । उच्यते-
स्वभावपरभावाभ्यामृते भावः कुतः पुनः ।
स्वभावे परभावे वा सति भावो हि सिध्यति

41.4

भावो हि परिकल्प्यमानः स्वभावो वा भवेत्, परभावो वा । तौ च पूर्वोक्तविधिना न स्तः, इति तयोरभावाद्भावो ऽपि नास्तीत्यवधार्यताम्

41.5

अत्राह- यद्यपि भवता भावः प्रतिषिद्धः, तथाप्यभावो ऽस्ति, प्रतिषेधाभावात् । ततश्च भावो ऽपि भविष्यति प्रतिद्वन्द्विसद्भावात्, अभाववदिति । उच्यते । स्याद्भावः, यदि अभाव एव स्यात् । न त्वस्तीत्याह-
भावस्य चेदप्रसिद्धिरभावो नैव सिध्यति ।
भावस्य ह्यन्यथाभावमभावं व्रुवते जनाः

41.5

इह हि यदि भावो नाम कश्चिदभविष्यत्, स्यात्तस्यान्यथाभावादभावः । घटादयो हि वर्तमानावस्थायाः प्रच्युताः सन्तः अन्यथाभावमापन्नाः अभावध्वनिवाच्या भवन्ति लोके । यदा त्वमी घटादयो भावरूपत्वेनैवासिद्धाः, तदा कुतो ऽविद्यमानस्वभावानामन्यथात्वमिति । अतः अभावो ऽपि नास्ति

41.6

तदेवं सर्वथा स्वभावपरभावभावाभावेषु अनुपपद्यमानेषु अविद्यातिमिरोपहतमतिनयनतया विपरीतम्-
स्वभावं परभावं च भावं चाभावमेव च ।
ये पश्यन्ति न पश्यन्ति ते तत्त्वं बुद्धशासने

41.6

ये हि तथागतप्रवचनाविपरीतव्याख्यानाभिमानितया पृथिव्याः काठिन्यं स्वभावः, वेदनाया विषयानुभवः, विज्ञानस्य विषयप्रतिविज्ञप्तिः स्वभावः, इत्येवं स्वभावं भावानां वर्णयन्ति, अन्यद्विज्ञानम्, अन्यद्रूपम्, अन्यैव च वेदना, इत्येवं परभावं वर्णयन्ति, वर्तमानावस्थं च विज्ञानादिकं भावत्वेन ये वर्णयन्ति, विज्ञानादिकमेव च अतीततामापन्नमभाव इति, न ते परमगम्भीरस्य प्रतीत्यसमुत्पादस्य तत्त्वं वर्णयन्ति । यस्माद्यथोदितोपपत्तिविरुद्धं स्वभावपरभावादीनामस्तित्वम्, न चोपपत्तिविरुद्धं पदार्थस्वभावमनुवर्णयन्ति तथागताः । स्वयमविपरीताशेषपदार्थतत्त्वसंबोधात् । अत एव बुद्धानामेव भगवतां वचनं प्रमाणमित्युपवर्णयन्ति विचक्षणाः, सोपपत्तिकत्वेनाविसंवादकत्वात् । अत एव च आप्तेभ्यः प्रहीणाशेषदोषेभ्य आगतत्वात्, आगमयतीति समन्तात् तत्त्वं गमयतीति वा, आमिमुख्याद्गमनाद्वा तदाश्रयेण लोकस्य निर्वाणगमनात् संबुद्धवचनस्यैव आगमत्वं व्यवस्थाप्यते । तदन्यमतानां तु उपपत्तिवियुक्तत्वान्न प्रामाण्यम्, आगमाभासत्वं च व्यवस्थाप्यते

41.7

यस्माच्च एतानि स्वभावपरभावभावाभावदर्शनानि युक्तिविधुरत्वान्न तत्त्वानि, अत एव मुमुक्षूणां विनेयजनानाम्-
कात्यायनाववादे चास्तीति नास्तीति चोभयम् ।
प्रतिषिद्धं भगवता भावाभावविभाविना

41.7

उक्तं हि भगवता आर्यकात्यायनाववादसूत्रे-
यद्भूयसा कात्यायन अयं लोको ऽस्तितां वा अभिनिविष्टो नास्तितां च । तेन न परिमुच्यते । जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यो न परिमुच्यते । पाञ्चगतिकात्संसारचारकागारबन्धनान्न परिमुच्यते । मातृमरणसंतापदुःखान्न परिमुच्यते । पितृमरणसंतापदुःखादिति विस्तरः ॥
इदं च सूत्रं सर्वनिकायेषु पठयते । तदस्मादागमात् यथोपवर्णितायाश्चोपपत्तेर्नार्हति प्राज्ञस्वभावपरभावभावाभावदर्शनं तथागतवचनादत्यन्तविरुद्धमास्थातुम् । भगवता प्रतिषिद्धत्वात् । किंविशिष्टेन भगवता? भावाभावविभाविना । भावाभावौ विभावयितुं शीलमस्येति भावाभावविभावी । यथावस्थितभावाभावाविपरीतस्वभावपरिज्ञानाद् भावाभावविभावीति भगवानेवोच्यते । तेन भगवता भावाभावविभाविना यस्मादस्तित्वंच नास्तित्वं च उभयमेतत् प्रतिषिद्धम्, तस्मान्न युक्तं भावाभावदर्शनं तत्त्वमित्यास्थातुम् ॥
तथा-
अस्तीति काश्यप अयमेको ऽन्तः । नास्तीति काश्यप अयमेको ऽन्तः । यदेनयोरन्तयोर्मध्यम्, तदरूप्यमनिदर्शनमप्रतिष्ठमनाभासमनिकेतमविज्ञप्तिकम् । इयमुच्यते काश्यप मध्यमां प्रतिपद् भूतप्रत्यवेक्षा इति ॥
तथा-
अस्तीति नास्तीति उभे ऽपि अन्ता शुद्धी अशुद्धीति इमे ऽपि अन्ता ।
तस्मादुभे अन्त विवर्जयित्वा मध्ये ऽपि स्थानं न करोति पण्डितः ॥
अस्तीति नास्तीति विवाद एषः शुद्धी अशुद्धीति अयं विवादः ।
विवादप्राप्त्या न दुःखं प्रशाम्यति अविवादप्राप्त्या च दुःखं निरुध्यते ॥ इति ।
अत्राह- यदि पुनरेवमग्न्यादीनां स्वभावत एवास्तित्वं स्यात्, को दोषः स्यात्? उक्तदोषः-
हेतुप्रत्ययसंभूतः स्वभावः कृतको भवेत् ।
इत्यादिना

41.8

अपि च । यदि अयमेषामग्न्यादीनां स्वभावः स्यात्, तस्य विद्यमानस्य सतो न स्यात् पुनरन्यथात्वमिति प्रतिपादयन्नाह-
यद्यस्तित्वं प्रकृत्या स्यान्न भवेदस्य नास्तिता ।
यदि अग्न्यादेर्भावस्य प्रकृत्या स्वभावतो ऽस्तित्वम्, तदा अस्य स्वभावस्य प्रकृत्या विद्यमानस्य पुनरन्यथात्वं न स्यात् । यस्मात्-
प्रकृतेरन्यथाभावो न हि जातूपपद्यते

41.8

यदि एषामग्न्यादीनामियमेव प्रकृतिः स्यात्, स्वभावः स्यात्, तदा प्रकृतेरविकारिणीत्वान्न कदाचित्पुनरन्यथाभाव उपपद्येत । न हि आकाशस्यानावरणत्वं कदाचिदप्यन्यथात्वं प्रतिपद्यते । एवमग्न्यादीनामपि प्रकृत्या विद्यमानानां पुनरन्यथात्वं न स्यात् । उपलभते च भवानेषामन्यथात्वप्रबन्धोपरमलक्षणं विनाशम् । तस्माद्विपरिणामधर्मित्वादपामौष्ण्यवत् नायमेषां स्वभाव इति प्रतीयताम्

41.9

अत्राह- यदि प्रकृत्या विद्यमानस्यान्यथात्वासंभवादन्यथात्वस्य च उपलभ्यमानत्वात् प्रकृतिरेषां भावानां नास्तीत्युच्यते, ननु च एवमपि-
प्रकृतौ कस्य चासत्यामन्यथात्वं भविष्यति ।
कस्य इदानीं प्रकृत्या स्वरूपेणाविद्यमानस्य खपुष्पस्येव अन्यथात्वं भविष्यति? तस्मादविद्यमानप्रकृतिकस्य अन्यथात्वानुपलम्भात्, अन्यथात्वस्य च दर्शनात्, अस्त्येव स्वभाव इति । उच्यते । यदि तावकेन मतेन प्रकृत्या स्वभावेन असंविद्यमानस्य अन्यथात्वाभावाद् अन्यथात्वस्य च दर्शनात्प्रकृतिरित्युच्यते, एवमपि-
प्रकृतौ कस्य च सत्यामन्यथात्वं भविष्यति

41.9

कस्येदानीं प्रकृत्या स्वभावेन विद्यमानस्य वर्तमानस्यैव अन्यथात्वं भविष्यति? तस्मात् प्रकृत्या विद्यमानस्य अन्यथात्वं नास्तीति सर्वथा अन्यथात्वासंभव एव । ततश्च नास्ति प्रकृतिर्भावानामिओति विज्ञेयम्

41.10

यच्चाप्युक्तम्- अन्यथात्वस्य दर्शनान्नास्ति प्रकृतिरिति, तदपि परप्रसिद्धया अन्यथात्वदर्शनमधिकृत्योक्तम्, न त्वस्माभिः कदाचिदपि कस्यचिदन्यथात्वमभ्युपेतम् । तदेवमत्यन्ततः प्रकृतावसंविद्यमानायां सर्वधर्मेषु असंविद्यमानेषु अस्वभावेषु तदन्यथात्वे च असंविद्यमाने यो हि इदानीमस्तित्वं नास्तित्वं च भावानां परिकल्पयति, तस्य एवं परिकल्पयतो नियतमेव-
अस्तीति शाश्वतग्राहो नास्तीत्युच्छेददर्शनम् ।
प्रसज्यत इति वाक्यशेषः । तच्चैतत् शाश्वतोच्छेददर्शनं स्वर्गापवर्गमार्गान्तरायकरत्वाद् यस्मान्महानर्थकरम्,
तस्मादस्तित्वनास्तित्वे नाश्रीयेत विचक्षणः

41.11

कस्मात्पुनर्भावाभावदर्शने सति शाश्वतोच्छेददर्शनप्रसङ्गो भवतीति? यस्मात्-
अस्ति यद्धि स्वभावेन न तन्नास्तीति शाश्वतम् ।
नास्तीदानीमभूत्पूर्वमित्युच्छेदः प्रसज्यते

मूल पाठ: Prasannapada · Edition: P.L. Vaidya: Madhyamakaśāstra of Nāgārjuna, with the Commentary: Prasannapadā by Candrakīrti. Darbhaga 1960 (Buddhist Sanskrit Texts, 10). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc