Prasannapada · अध्याय 43
तत्र यदि संस्काराः संसरन्तीति परिकल्प्यते, किं ते नित्याः संसरन्ति उत अनित्याः? तत्र न नित्याः संसरन्ति निष्क्रियत्वात्, अनित्यानां च घटादीनां सक्रियत्वोपलम्भात् । अथ अनित्याः, ये हि अक्रियाः, ते उत्पादसमनन्तरमेव विनष्टाः । ये च विनष्टाः, कुतस्तेषामविद्यमानत्वाद्वन्ध्यासूनुसंस्काराणामिव क्वचिद् गमनम्? इत्येवमनित्यानामपि नास्ति संसारः ॥
अथापि स्यात्- अनित्या एव सन्तो हेतुफलसंबन्धपरंपरया अविच्छिन्नक्रमाः संतानेन च प्रवर्तमानाः संस्काराः संसरन्तीति । एतदपि नोपपद्यते । कुतः? यत् तावदुत्पद्यते कार्यम्, तस्य संसारो नास्ति, कुतश्चिदनागमनात् क्वचिच्चागमनात् । यच्च कारणं नष्टम्, तस्यापि संसारो नास्ति, कुतश्चिदनागमनात् क्वचिच्चागमनात् । संस्कारमात्रव्यतिरेकेण अतीतानागतयोरसिद्धत्वात्, नष्टाजातत्वेन अविद्यमानत्वात् ॥
उत्तरस्मिन् क्षणे उत्पन्ने पूर्वः संसरतीति चेत्, यदि पूर्वोत्तरयोः क्षणयोरेकत्वं स्यात्, स्यादेतदेवम् । न तु एकत्वमस्ति कार्यकारणभावात्, चक्षूरूपचक्षुर्विज्ञानानां नास्ति च । किं च एकत्वे सति पूर्वोत्तरक्षणवाच्यतैव न स्यात् । न हि एको देवदत्तः एकदा पूर्वश्चोत्तरश्चेति व्यपदिश्यते । एवमिहापि एकत्वात् पूर्वोत्तरक्षणव्यपदेश एव न स्यात् । अपि च पूर्वक्षणो नष्ट इति न स्यादुत्तरक्षणवदव्यतिरिक्तत्वात् । उत्तरक्षण उत्पन्न इति न स्यात्, पूर्वक्षणवदव्यतिरिक्तत्वात् । अथ अन्यत्वे सति संसरणं स्यात्, एवं सति अर्हतामपि संसरणं स्यात् । अन्यस्य पृथग्जनस्य संसारोत्पत्तिसद्भावात् । निर्वृतश्च प्रदीपः प्रदीपान्तरे ज्वलतीति स्यात् । किं चान्यत् । नष्टाद्वा पूर्वक्षणादुत्तरस्य क्षणस्योदयः स्यादनष्टान्नश्यमानाद्वा? तत्र यदि नष्टादिष्यते, वह्निदग्धादपि बीजादङ्कुरोदयः स्यात्, ततश्च निर्हेतुकः स्यात् । अथ अनष्टात्, एवमपि अविकृते ऽपि बीजे ऽङ्कुरोदयः स्यात्, कार्यकारणयोश्च यौगपद्यं स्यात्, निर्हेतुकश्चोत्पादः स्यात् । नश्यमानादिति चेत् । नष्टानष्टव्यतिरेकेण नश्यमानाभावात्, नष्टानष्टयोश्च ( प्प्_124 ) विहितदोषत्वान्नश्यमानादपि नास्त्युत्पत्तिरिति, कुतः कार्यकारणव्यवस्था पूर्वोत्तरक्षणव्यवस्था वा भविष्यति? यदा च पूर्वोत्तरक्षणव्यवस्था कार्यकारणव्यवस्था च नास्ति, तदा संतानो ऽपि नास्ति, तदभावान्नास्ति भवतां संसार इति अनित्यानामपि संस्काराणां नास्ति संसार इति ॥
अत्रैके वर्णयन्ति- सत्यं संस्कारा न संसरन्ति उत्पत्तिविधुरत्वात्, किं तर्हि सत्त्वः संसरतीति । उच्यते । सत्त्वे ऽप्येष समः क्रमः । सत्त्वः संसरतीत्युच्यमाने किमसौ नित्यः संसरति, उत अनित्यः, इति विचार्यमाणे य एव संस्काराणां संसरणानुपपत्तिक्रमः, स समत्वात्सत्त्वे ऽपि समो निपतति । तस्मात्सत्त्वो ऽपि न संसरति
अत्राह- नैव हि सत्त्वसंस्काराणां संसारानुपपत्तिक्रमः समो भवितुमर्हति, यस्मादिह संस्काराणां नित्यानित्यभूतानां संसरणं नास्तीत्युक्तम् । न चैवमात्मा नित्यानित्यभूतः । तस्य हि स्कन्धेभ्यस्तत्त्वान्यत्वावक्तव्यतावत् नित्यत्वेनानित्यत्वेनाप्यवक्तव्यता व्यवस्थाप्यते । तस्मादात्मैव संसरतीति न चोक्तदोषप्रसङ्ग इति । उच्यते-
पुद्गलः संसरति चेत्स्कन्धायतनधातुषु ।
पञ्चधा मृग्यमाणो ऽसौ नास्ति कः संसरिष्यति
मूल पाठ: Prasannapada · Edition: P.L. Vaidya: Madhyamakaśāstra of Nāgārjuna, with the Commentary: Prasannapadā by Candrakīrti. Darbhaga 1960 (Buddhist Sanskrit Texts, 10). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0