Prasannapada · अध्याय 40
इति । यथोक्तं भगवता [उपालिपरिपृच्छायाम्]
सर्वसयोगि तु पश्यति चक्षुस्तत्र न पश्यति प्रत्ययहीनम् ।
[नैव च] चक्षु पपश्यति [रूपं] तेन सयोगवियोगविकल्पः ॥
आलोकसमाश्रित पश्यति चक्षु रूप मनोरम चित्रविचित्रम् ।
येन च योगसमाश्रित चक्षुस्तेन न पश्यति चक्षु कदाचि ॥
ते परिनिर्वृत लौकिक शूरा येहि स्वभावत ज्ञातिभि धर्माः ।
कामगुणैर्हि चरन्ति असङ्गाः सङ्ग विवर्जिय सत्त्व विनेन्ति ॥
नो पि च सत्त्व न जीविह कश्चि सत्त्वहितं च करोन्ति जिनेन्द्राः ।
............. सत्त्वु न अस्ति करोन्ति च अर्थम् ॥
सङ्गु न विद्यति अत्र कदाचि .............. ।
............. तस्य न विद्यति वेदन लोके ॥
तथा-
भावितु मार्ग पवर्तितु ज्ञान शून्यक धर्म निरात्मक सर्वि ।
येन विभावित भोन्तिमि धर्मास्तस्य भवेत्प्रतिभानमनन्तम् ॥
इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ संसर्गपरीक्षा नाम चतुर्दशमं प्रकरणम् ॥
15
स्वभावपरीक्षा पञ्चदशमं प्रकरणम् ।
अत्राह- विद्यत एव भावानां स्वभावः, तन्निष्पादकहेतुप्रत्ययोपादानात् । इह यन्नास्ति न तस्य निष्पादकहेतुप्रत्ययोपादानमस्ति यथा खपुष्पस्य । उपादीयन्ते च बीजाविद्यादयो हेतुप्रत्यया अङ्करसंस्कारादीनां निष्पादकाः, इत्यतो विद्यत एव भावस्वभाव इति । उच्यते । यदि भावानां संस्काराङ्कुरादीनां स्वभावो ऽस्ति, किमिदानीं विद्यमानानां हेतुप्रत्ययैः प्रयोजनम् । यथा वर्तमानीभूतानां संस्काराङ्कुरादीनां भूयोनिष्पत्तये अविद्याबीजादीनामुपादानं क्रियते एवमन्यदपि तदुत्पत्तये न कर्तव्यं स्यात्, तत्स्वभावस्य विद्यमानत्वादिति प्रतिपादयन्नाह-
न संभवः स्वभावस्य युक्तः प्रत्ययहेतुभिः ।
अथ स्यात्- नैवोत्पादात्पूर्वं कस्यचिद्भावस्य स्वभावो ऽस्ति यतो ऽस्य विद्यमानत्वादुत्पत्तिवैयर्थ्यं स्यात्, किं तर्हि उत्पादात्पूर्वमविद्यमानस्यैव स्वभावस्य हेतुप्रत्ययान् प्रतीत्य पश्चादुत्पादो भवतीति । एवमपीःयमाणे-
हेतुप्रत्ययसंभूतः स्वभावः कृतको भवेत्
अथ स्यात्- इष्यत एव हेतुप्रत्ययसंभूतत्वात्स्वभावस्य कृतकत्वम्, तस्मात्कृतकस्यैव स्वभावस्याभ्युपगमात् कृतकत्वप्रसङ्गो नास्माकं बाधक इति, एतदपि न युक्तमित्याह-
स्वभावः कृतको नाम भविष्यति पुनः कथम् ।
कृतकश्चेति स्वभावश्चेति परस्परविरुद्धत्वादसंगतार्थमेतत् । इह हि स्वो भावः स्वभाव इति व्युत्पत्तेः, यः कृतकः पदार्थः, स लोके नैव स्वभाव इति व्यपदिश्यते, तद्यथा अपामौष्प्यं धातुपिशाचप्रत्ययनिष्पादितः कर्केटनादीनां पद्मरागादिभावश्च । यस्तु अकृतकः स स्वभावः, तद्यथा अग्नेरौष्ण्यं जातानां पद्मरागादीनां पद्मरागादिस्वभावश्च । स हि तेषां पदार्थान्तरसंपर्काजनितत्वात्स्वभाव इत्युच्यते । तदेवमकृतकः स्वभाव इति लोकव्यवहारे व्यवस्थिते वयमिदानीं ब्रूमः- यदेतदौष्ण्यं तदष्यग्नेः स्वभावो न भवतीति गृह्यतां कृतकत्वात्, इह मणीन्धनादित्यसमागमादरणिनिर्धर्षणादेश्च अग्नेर्हेतुप्रत्ययसापेक्षतैव उपलभ्यते । न च अग्निव्यतिरिक्तमौष्ण्यं संभवति । तस्मादौष्ण्यमपि हेतुप्रत्ययजनितम्, ततश्च कृतकम्, कृतकत्वाच्चापामौष्ण्यवत् स्वभावो नैव भवतीति स्फुटमवसीयते ॥
ननु च गोपालाङ्गनाजनप्रसिद्धमेतद् अग्नेरौष्ण्यं स्वभाव इति । किं खलु अस्माभिरुक्तं न प्रसिद्धमिति? एतत्तु वयं ब्रूमः- नायं स्वभावो भवितुमर्हति स्वभावलक्षणवियुक्तत्वात् । अविद्याविपर्यासानुगमात्तु लोको निःस्वभावमेव भावजातं सस्वभावत्वेन प्रतिपन्नः । यथा हि ( प्प्_115 ) तैमिरिकाः तिमिरप्रत्ययादसन्तमेव केशादिस्वभावं सस्वभावत्वेनाभिनिविष्टाः, एवमविद्यातिमिरोपहतमतिनयनतया बाला निःस्वभावं भावजातं सस्वभावत्वेनाभिनिविष्टा यथाभिनिवेशं लक्षणमाचक्षते अग्नेरौष्ण्यं स्वलक्षणम् । ततो ऽन्यत्रानुपलम्भादसाधारणत्वेन स्वमेव लक्षणमिति कृत्वा । बालजनप्रसिद्धयैव च भगवता तदेवैषां सांवृतं स्वरूपमभिधर्मे व्यवस्थापितम् । साधारणं त्वनित्यत्वादिकं सामान्यलक्षणमिति चोक्तम् । यदा तु विगताविद्यातिमिरावदातप्रज्ञाचक्षुषां दर्शनमपेक्ष्यते, तदा वितिमिरैः तैमिरिकोपलब्धकेशादर्शनवत् बालजनमतिपरिकल्पितानुपलब्धस्वभावैरार्यैः पुर उच्यते परहितव्यापारैः, नायं स्वभावो भावानामिति । यथोक्तमार्यलङ्कावतारसूत्रे-
केशोण्डुकं यथा मिथ्या गृह्यते तैमिरिकैर्जनैः ।
तथा भावविकल्पो ऽयं मिथ्या बालैर्विकल्प्यते ॥
न स्वभावो न विज्ञप्तिर्न च वस्तु न चालयः ।
बालैर्विकल्पिता ह्येते शवभूतैः कुतार्किकैः ॥ इति ।
तथा-
स्वभावानुत्पत्तिं संधाय महामते मया सर्वधर्मा अनुत्पन्ना इत्युक्ताः ॥ इति विस्तरः ॥
अत्राह- यदि खलु इदमग्न्यादेरौष्ण्यादिकं हेतुप्रत्ययसंभूतत्वेन कृतकत्वान्निःस्वभावमित्युच्यते, किमिदानीं तत्स्वभावस्य लक्षणं कश्चासौ स्वभाव इति वक्तव्यम् । उच्यते-
अकृत्रिमः स्वभावो हि निरपेक्षः परत्र च
मूल पाठ: Prasannapada · Edition: P.L. Vaidya: Madhyamakaśāstra of Nāgārjuna, with the Commentary: Prasannapadā by Candrakīrti. Darbhaga 1960 (Buddhist Sanskrit Texts, 10). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0