भाषा

ENहिગુ
ग्रंथ पाठ

प्रमाणवार्त्तिकटीका · अध्याय 8

8.2

। .आदि । किं कारणम् इत्य् आह । अश्वेत्यादि । अश्वे स्थित आत्मा यस्य द्रव्यत्वस्येति विग्रहः । गमकत्वाद् व्यधिकरणस्यापि बहुब्रीहिः । अश्वे स्थित इति वा साधनं कृतेति समासः । पश्चाद् आत्मशब्देन द्विपदो बहुव्रीहिः । ॥।
व्1 ॥। त्त्या च । यथोक्तलक्षणस्य द्रव्यत्वस्य प्रतीत्या तथेत्य् अश्व इति । न तु द्रव्यत्वेन संबन्धात्* गौर् द्रव्यम् इत्य् एवंप्रत्ययः स्यात्* । स च परेणेष्ट एव न त्व् अश्व इति । न हि द्रव्यत्वनिमित्तो ऽश्वप्रत्ययः । किं त्व् अश्वत्वनिमित्तः । तच् चाश्वत्वं गवि नास्ति । सजातीयास्व् एव व्यक्तिषु सर्वदा सर्वाकारस्थितात्मताभ्युपगमनात्* । अयम् . .. .. ।

8.3

। विषये द्रव्यत्वं वर्तत इतीष्यते । ततश् चाश्वबुद्धिविषयद्रव्यवृत्तिधर्मकेन तेन भाव्यं तच् चाश्वबुद्धिविषयद्रव्यवृत्तिस्वभावं द्रव्यत्वं येन स्वभावेनाश्वे वर्तते तेनैव गवादाव् अपि । तथा च गोर् अप्य् अश्वबुद्धिविषयता प्राप्तान्यथा द्रव्यत्वस्याश्वबुद्धिविषयद्रव्यवृत्तित्वं स्वभावो न स्यात्* । न चैकस्य द्वौ स्वभावौ येनाश्वे ऽन्य .. ।

8.4

। .. .. .. .. व्यत्वमात्रं दृश्यम् अश्वबुद्धिविषयद्रव्यवृत्तिस्वभावं सद् अपि न दृश्यते ततो नास्ति गोर् अश्व इति प्रतीतिर् इत्य् अत आह । तस्य चेति सामान्यस्य एकस्येत्य् अनंशस्य गृहीतस्यापि भ्रान्त्यानवधारणम् इत्य् अपि मिथ्या निश्चयात्मके परप्रत्यक्षे वृत्तेर् अयोगाद् यथोक्तं प्राक्* । तस्माद् इत्यादिनोपसंहारः । अनवयवं सामान्यं अ .. ।

8.5

। .. तां न प्रतिपद्यते इयता च न चांशवद् इत्य् एतद् व्याख्यातं । जहाति पूर्वं नाधारम् इत्य् एतत् पूर्वम् इत्यादिना व्याचष्टे । स चेति पूर्वाधारत्यागः । सामान्यस्य नाबिमतः । अन्यत्रेति पूर्वव्यक्तौ वर्तमानस्य सामान्यस्य स्वस्मात् पूर्वाधारदेशाद् अचलतस् ततः पूर्वाधारदेशाद् अन्यत्र स्थाने जन्म यस्य द्रव्यस्य तस्मिन् वृ .. ।

8.6

। .. पि सामान्यं ततो ऽन्यदेशं द्रव्यं प्राप्नोति चेद् आह । यत्रेत्यादि । यत्र देशे असौ पश्चात्कालभावी वर्तते तेन देशेन सामान्यं न संबध्यते । पूर्वस्थानपरित्यागानभ्युपगमात्* । यत्र देशे सामान्यं न वर्तते तद्देशिनं च पश्चात्कालभाविनं भावं प्राप्नोति न्यायातिक्रान्तत्वात् किम् अप्य् एतन् महाद्भूतम् इति प्रक्. ।

8.7

। .. .. .. .. .. म् अध्यवसातुम्* । सर्वगतत्व .. पनाम् अपि निराचिकीर्षुर् आह । यस्येत्यादि । तस्यापि सर्वगतसामान्यवादिनः सर्वत्रगा यदि जातिस् तदा एकत्र शाबलेयादौ या तस्य व्यक्तिः प्रकाशना तया व्यक्ता करणभूतया । सा जातिः सर्वत्र व्यक्तिशून्ये देशे विजातीये च व्यक्तिभेदे व्यक्तैव प्रका .इ ।

8.8

। .. काचिद् व्यक्तिर् इति निषिद्ध्. .. .. वृत्तिर् आधेयता । व्यक्तिर् इति । तस्मिन् न युज्यत इत्य् इत्रानतरे । यत एवं तस्मात् सा जातिर् नित्यम् अनपेक्षितपरोपकारानाधेयातिशयत्वाद् एवंभूता यदि स्वभावेन स्वविज्ञानजननयोग्या । तदा नित्यं दृश्येत व्यक्तेः प्राक्* पश्चाच् च । अथ न योग्या तदा न वा .. ।

मूल पाठ: Pramāṇavārttikaṭīkā · Edition: M. Inami, K. Matsuda und T. Tani: A study of the Pramāṇavārttikaṭīkā by Śākyabuddhi from the National Archives collection, Kathmandu, Tokyo 1992 (Studia Tibetica, 23) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc