भाषा

ENहिગુ
ग्रंथ पाठ

प्रमाणवार्त्तिकटीका · अध्याय 7

7.2

। देशे आसीद् व्यक्तिशून्ये देशे तस्य स्थानानभ्युपगमाद् अस्ति पश्चात् तत्सामान्यं व्यक्ताव् उत्पन्नायां सामान्यशून्याया व्यक्तेर् अनभ्युपगमात्* । न च तत्र देशो व्यक्त्या सहोत्पन्नः । न च कुतश्चित् पूर्वकाद् व्यक्तिविशेषाद् आगतः । एतच् च न याती ॥।
द् प्रमाणवार्त्तिकटीका
र्1 ॥। मान्यम् इष्यत इति व्याघातः । स च प्राज्ञानां दुःसहत्वाद् भारः । अत एवाह । क इमम् इत्यादि । प्रज्ञो हि कथम् अयुक्तं सहेत । जडस् त्व् अज्ञानाद् युक्तायुक्तविचारणे ऽक्षमः सहेतापि यद् आहान्यत्र जाड्याद् इति । भवतु नाम सक्रियं सामान्यं तथा ।

7.3

। .. .. .. .. .. ङ्शान्त + + + त्सुद्रव्यं यायात्* । अनंशं वा पूर्वम् आधारं हित्वा । द्वयम् अप्य् एतन् नास्तीत्य् आह । न चेत्यादि । पूर्वम् आधारम् इति सूत्रभागम् उत्पित्सु देशाद् भिन्नदेशम् इति मिश्रकेण स्पष्टयति । तयोश् चेति पूर्वपश्चादुत्पन्नयोर् द्रव्ययोः भिन्नेत्यादि ।

7.4

। .. .. .. .. देशाभ्यां द्रव्याभ्यां स + + त्* । आलोको हि सावयवत्वात्* अन्येनावयवेन घटेन संबध्यते ऽन्येन पटादिभिः । एवं रज्जुवंशदण्डाव् अपि स्वसंबन्धिभिः । न हीत्यादि अस्यैव समर्थनं । कस्मान् न युक्त इत्य् आह । तस्येत्यादि । तस्यानवयवस्य वस्तुन एकेन द्रव्येण स .. ।

7.5

। .. त्मनश् च तस्य सामान्यस्य तत्प्रदेशवर्त्तिसंबन्धिरूपत्वाद् उत्पित्सुघटदेशात् पूर्वदेशवर्त्ति यद्घटादिद्रव्यं तत्संबन्धिरूपत्वान् नास्ति भिन्नदेशेन युगपद्योगः । अ{न्यथे य आत्मा तद्व्यतिरेकेण द्वितीयात्माभावाद् एकात्मनश् च तस्य सामान्यस्य तत्प्रदेशवर्त्तिसंबन्धिरूपत्वाद् उत्पित्सु} अन्यथेति तत्प्रदेशवर्त्तिरूपत्वाभा ।

7.6

। ण संबन्धायोगात्* तस्माद् एकव्यक्तिनित्यतात्मनः सामान्यस्य नास्ति तस्मिन्न् एव काले भिन्नदेशेन द्रव्येन संबन्धः । संबन्धे वा पूर्वव्यक्तिनियतैकात्मकत्वेन सामान्यस्य पूर्वव्यक्तौ स्थितिस् तस्मिन्न् एव काले भिन्नदेशव्यक्तिगमनेनास्थितिर् एतच् च विरुद्धम् इत्य् आह एकस्याधेयस्येत्यादि । तत्र स्थानम् इति व्यक्तौ । .. ।

7.7

। भ्युपगमात्* तत्र पूर्वव्यक्ताव् एव तेनैव पूर्वव्यक्तिनियतेनैवात्मना तस्य सामान्यस्यास्थानम् इत्य् अयुक्तम् एतत् किंकारणं तस्थितेत्यादि । तस्याम् एव पूर्वव्यक्तौ स्थितास्थितात्मनोः स्वभावयोर् एकस्य युगपत् सामान्यस्य विरोधात्* । सर्वत्र पूर्वव्यक्ताव् उत्पिसुद्रव्ये च सर्वदेत्य् उत्पित्सुद्रव्यात्* प्राग् अपि अय .. ।

7.8

। .. देशे प्राग् एवास्ति सामान्यं । ततश् च यद् उक्तं न च तत्रासीद् इति । तद् असिद्धम् इति । सर्वाकारस्थितात्मेति येनैवाकारेण पूर्वव्यक्तौ स्थितं सामान्यं तेनैवोत्पित्सुद्रव्ये ऽपि निरंशत्वात् सर्वत्र तुल्याकारावृत्तिर् इत्य् अर्थः । तत्स्वभावेत्यादिना प्रतिषेधति । सामान्यस्वभावस्य दर्शनम् आश्रयो यस्य स सर्वत्र भिन्नजातीये ऽपि ।

मूल पाठ: Pramāṇavārttikaṭīkā · Edition: M. Inami, K. Matsuda und T. Tani: A study of the Pramāṇavārttikaṭīkā by Śākyabuddhi from the National Archives collection, Kathmandu, Tokyo 1992 (Studia Tibetica, 23) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc