भाषा

ENहिગુ
ग्रंथ पाठ

प्रमाणवार्त्तिकटीका · अध्याय 9

9.2

। .. .. .. + + + व्यक्त्यसन्निधाने तत्सन्निधाने तु समर्था भवति । ततो न नित्यं दर्शनम् अदर्शनं वा जातेर् इत्य् अत आह । स्वभावेत्यादि । नित्यत्वेनानाधेयातिशयत्वाद् इति भावः । यदि जातेर् नस्ति व्यक्तिस् तत् किं व्यक्त्यैवैकत्र सा व्यक्ते
ए प्रमाणवार्त्तिकटीका
र्1 ॥। .. .. .. .. .. .. .. .. .. .. भावाद् एकत्वाज् जातेर् व्यक्तैव प्रकाशितैव सर्वत्र व्यक्तिशून्ये देशे विजातीये च व्यक्तिभेदे व्यक्तिशून्येष्व् अपीति अपिशब्दाद् विजातिये ऽपि व्यक्तिभेदे सामान्यस्य व्यंजिकया व्यक्तिस् तया सामान्यग्राहिणः । इन्द्रियस्य यः संबन्धस् तदपएक्षया ।

9.3

। .. .. व्यक्त्. .. .. .. ते न व्यंजकस् ततो व्यापिनि न सर्वत्र दर्शनम् इत्य् अत आह । न चेत्यादि । चशाब्देनैतद् आह । अपेक्षितां नाम व्यक्तिं जातिस् तथापि तस्याः सर्वत्र दर्शनं स्याद् एव तथा हि यत्र तावद् व्यंजिका व्यक्तिसंनिहिता तत्र सा जातिर् दृश्या संपन्ना तद् एव च रूपं तस्याः सर्वत्रेति । अपि च । न च सा जातिर् व्यक्त्यपेक्षिणी ।

9.4

। .. .. वक्रोक्त्या दर्शयति । यदि व्यक्तपेक्षिणी स्यात्* । यदि व्यंजिका व्यक्तिर् जातेर् भवतीति यावत्* । एवं च जातिव्यक्त्योर् यथाक्रमं व्यङ्ग्यव्यंजकभावे ऽभ्युपगम्यमाने यो न्यायो ऽत्र दृष्टः सो ऽङ्गीकर्तव्यः । कश् चात्र न्याय इत्य् आह । व्यंजकाप्रतिपत्ताव् इत्यादि सामान्यतद्वतोस् तु व्यङ्ग्यव्यंजकयोः पुनर् विपर्ययः । कस्माद् इष्टः । तथा ।

मूल पाठ: Pramāṇavārttikaṭīkā · Edition: M. Inami, K. Matsuda und T. Tani: A study of the Pramāṇavārttikaṭīkā by Śākyabuddhi from the National Archives collection, Kathmandu, Tokyo 1992 (Studia Tibetica, 23) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc