भाषा

ENहिગુ
ग्रंथ पाठ

प्रमाणवार्त्तिकटीका · अध्याय 6

6.2

। वसायात्* । तेषु भिन्नेषु वस्तुषु स्वप्रतिभास्यस्य भावत्वेनाध्यारोपात्* । दृश्यविकल्प्याव् अर्थाव् एकीकृत्य प्रवृत्तेर् इत्य् अर्थः । एतद् उक्तं भवति यस्माद् भिन्नवस्तुदर्शनबलेनोत्पद्यते उत्पन्नात् स्वप्रतिभासं भिन्नेषु वस्तुष्व् आरोप्य वर्तते ॥।
व्1 ॥। तावद् एको उपपत्तिद्वयं कृत्वा व्याचक्षते । अन्ये त्व् एकैवेयं द्वयप्रतिपत्तिर् इति प्रतिपन्ना । भिन्नपदार्थदर्शनबलेन तेषु स्वप्रतिभासेषु भावाध्यवसायात्* स्वप्रतिभास एव भिन्नो भाव इत्य् एवम् अध्यवसायाद् भेदविषयत्वम् उच्यत इत्. ।

6.3

। .. नास्ति शशविषाणादिकल्पनासु तत्र कथम् इति चेद् आह तथा भावेत्यादि । यथैव भिन्नवस्तुस्वभावग्राह्यानुभवबलेनोत्प + + + + त्यादिबुद्धयः स्वप्रतिभासे भिन्नभावाध्यारोपेण प्रवर्तन्ते प्रधानकार्यत्वनित्यादिबुद्धिष्व् अपि तथाभाव .. ।

6.4

। वृत्तेर् भेदविषयत्वम् उच्यते शशविषाणादिविकल्पेष्व् अपि विकल्पान्तरव्यवच्छेदेन भिन्नत्वाध्यारोपाद् भेदविषयत्वम् अस्तीति स्वाश्रयमात्रगत व्यक्तिदेश एव स्थितं न तु व्यक्तिशून्ये देशे सर्वगतं वा व्यक्तिशून्ये ऽपि देशे विद्यमानत्वात्* अपूर्वघ .. ।

6.5

। भवो नैवेत्य् अभिप्रायः । भवेत् संभवो यदि तस्मात् पूर्वद्रव्यात् तत्सामान्यं पश्चाद् उत्पद्यमानं द्रव्यं याति तच् च नास्तीत्य् आह न हीत्यादि । अन्यद्रव्यवृत्तेर् इत्य् उत्पित्सुद्रव्याद् भिन्नदेशद्रव्यवृत्तेर् भावस्य सामान्याख्यस्य ततः पूर्वकाद् आश्रयाद् अचलतस् तदुभया .. ।

6.6

। .. तु भिन्नदेशेनादर्शेन योगो ऽस्तीति ब्रुवानः । कथं नोन्मत्तः स्यात्* । सामग्रीबलाद् भ्रान्तं ज्ञानं । प्रतिबिम्बानुगतादर्शप्रतिभासि तत्र जायते । यथोक्तं विरुद्धपरिणामेषु वज्रदर्शतलादिषु पर्वतादिस्वभावानां भावानां नास्ति संभव इति । ये ऽपि .. ।

मूल पाठ: Pramāṇavārttikaṭīkā · Edition: M. Inami, K. Matsuda und T. Tani: A study of the Pramāṇavārttikaṭīkā by Śākyabuddhi from the National Archives collection, Kathmandu, Tokyo 1992 (Studia Tibetica, 23) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc