प्रमाणवार्त्तिकटीका · अध्याय 5
। मात्* प्रभव उत्पादो यस्य विकल्पस्य तस्मात् समुत्थिता एतद् उक्तं भवति । यदि नाम वस्तुनि तथाभूतभेदाभावस् तथापि विकल्पारोपित एवान्यापोहः शब्दानां प्रवृत्तेर् अङ्गं ततो नास्त्य् अव्यापितादोष इति । प्रधानादिकार्य .. .. ॥।
च् प्रमाणवार्त्तिकटीका
र्1 ॥। भूतेष्व् अप्रधानकार्येषु उभयथापि सामान्यस्य निषेधाद् इति भावः । अन्यापोहवादिनस् तु न दोष इत्य् आह । तथेत्यादि प्रधानाधिकार्यत्वविकल्पनयेत्य् अर्थः । तदन्येभ्यो ऽप्रधानादिकार्यत्वेन कल्पितेभ्यः । प्रधानादिकार्यत्वेनाध्यारोपितानां भेदः प्रति ।
। नुवृत्तिः । प्रत्ययनिमित्तं सामान्यं किं नेति चेत्* नैतद् अस्ति यस्मात् तेन सामान्यवादिना सामान्यं कल्पयतापि अवश्यं तत्र प्रधानकार्याभिमते वस्तुनि । अप्रधानकार्याभिमताद् भेदो नान्तरीयकत्वाद् एष्टव्यः । यदि ह्य् अप्रधानकार्यात् पुरुषात् प्रधानकार्यस्य न .. ।
। कार्ये एकशब्दप्रवृत्त्यादिलक्षणे पर्याप्तः शक्तः । अतथाभूतभेदेषु यथा सामान्यबुद्धिर् भ्रान्ता एवं तथाभूतभेदेष्व् अपीत्य् अविशेषेण दर्शयन्न् आह । यदीत्यादि । यदिशब्दः स्वभावद्योतनार्थः । यद्य् अस्य सर्वत्र निर्विषयत्वं स्वभावस् तत्र किंभूमौ वयम् इति । स्. ।
। .. गृहीतस्यानित्यादिरूपस्य नित्यादिकस्य च बाह्येष्व् अभावात्* । अतश् चाभूतग्रहात्* । विप्लव एव भ्रान्तिर् एवेति कृत्वा नास्याः सामान्यबुद्धेर् निर्विषयाया विषयनिरूपणं प्रति कश्चिद् आदरः । यदि सर्वैव सामान्यबुद्धिर् भ्रान्ता कथं तर्ह्य् अनुमानाद् वस्तुसंवाद इत्य् आह । ।
। ये परिच्छेदे निवेदयिष्यामो निवेदितं च प्राक्* । यत्रास्ति वस्तुसंबन्धो यथोक्तानुमितौ यथेत्यादिना । न तथाभूतस्य वस्त्वात्मकस्य ग्राह्यस्य समावेशाद् ग्रहणाद् अनुमानविकपस्य वस्तुसंवादः । प्रत्यक्षवत् इति वैधर्म्यदृष्टान्तः । किंकारणम् अतथा ।
। धानाच् च सामर्थ्यम् इत्य् अत्रानत्रे । यदि सामान्यबुद्धिर् निर्विषया कथम् अस्या अन्यापोहविषयत्वम् उक्तम् इत्य् अत आह नेत्यादि । अस्याः सामान्यबुद्धेर् भिन्नपदार्थदर्शनबलेनेति विजातीयव्यावृत्तस्वलक्षणानुभवसामर्थ्येनोत्पत्तेर् इत्य् अध्याहारः । बहुलग्रहणं ।
मूल पाठ: Pramāṇavārttikaṭīkā · Edition: M. Inami, K. Matsuda und T. Tani: A study of the Pramāṇavārttikaṭīkā by Śākyabuddhi from the National Archives collection, Kathmandu, Tokyo 1992 (Studia Tibetica, 23) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0