प्रमाणवार्त्तिकटीका · अध्याय 4
। र्हि सामान्यतद्वतोः संबन्धो भविष्यतीति चेद् आहान्यस्यापीत्यादि । व्यंग्यव्यंजकभावादेर् इति पञ्चमी आदिशब्दाद् आधाराधेयभावपरिग्रहः । एतस्मात् पूर्वनिषिद्धात् संबन्धद्वयाद् अन्यस्यापि यस्य ॥।
व्1 ॥। यस्य कस्यचित् संबन्धस्य व्यक्तिं प्रति सामान्यस्याभावात् किं कारणं नित्यत्वात् केनचिद् व्यक्तिभेदनानुपकार्यस्य सामान्यस्याप्रतिबन्धेन न ह्य् अप्रतिबन्धस्य कश्चित् संबन्धो ऽस्तीत्य् उक्तम्* । एतेन चान्यत्वे ऽनपाश्रयाद् इति श्लोकभागो व्याख्यातः । असंबन्धम् अपिसामान्यं व्यक्तिषु सामान्यानुकारिणी प्रतीतिं जनयतीति चेद् आहासंबन्धाद् इत्यादि ।
। .. द् इत्य् अर्थः । तद् इति तस्मात्* । अयम् इति सामान्यावादी । एकस्य सामान्यस्य दर्शनेन हेतुना एकस्मिन् शाबलेये व्यक्तिभेदे वृत्तिर् यस्य प्रत्ययस्य तस्यान्यत्र व्यक्त्यन्तरे वृत्तिम् अविच्छन्* । वस्तुत्वेनेष्टस्य सामान्यस्य व्यक्तेः सकाशाद् ये तत्वान्यत्वे ते नातिक्रामति वस्तुनो गत्यन्तराभावात्* तत्र चोक्तो दोष इत्य् अयुक्तम् एतत्* । वस्तुभूतात् सामान्याद् अनुया ।
। .. .आकारा प्रतीतिः भ्रान्तिर् एव भिन्नेष्व् अभेदाध्यारोपेण वृत्तेः कुतस् तर्हि सा उत्पन्नेत्य् आह विकल्पेत्यादि । विजातीयव्यावृत्तिपदार्थानुभवेन या तथाभूतविकल्पस्य प्रकृत्या जनिका वासना आहिता ततः समुत्थिताः एतच् च प्राग् एवोक्तम् इत्य् आह भावभेद इत्यादि भावानां तत्कार्याणाम् अतत्कार्येभ्यो भेदः तथाभूतानां चा ।
। ति निर्लोठितम् एतत् प्राक्* तत्र भावभेदः पारंपर्येण कारणं वासनाप्रकृतिः साक्षाद् इति द्वयं उपन्यस्तं । यद्य् अन्यापोह एव शब्दवाच्यः । कथं तर्हीदानीम् इत्यादि । प्रधानेश्वरादिकार्यशब्दा इति प्रधानकार्यम् ईश्वरकार्यं जगद् इति आदिशब्दात्* शब्दब्रह्मपरिणाम इत्यादिशब्दानां संग्रहः । भावेष्व् आध्यात्माबाह्येषु अतद्भूतो ऽप्र ।
। .आत् तदा भवेत् प्रधानादिकार्यात्मको भेदः । स एव स सर्वेषाम् अभेदः । तेनाभेदेन निमित्तेन सर्वत्रा वर्तन्ते । स च नास्ति भावानाम् अन्यापोहवादिनो मतेनाप्रधानादिकार्यात्मकत्वात्* । ततश् च कथम् एवंभूतेष्व् अभेदेन वर्तन्ते । नैवेत्य् अभिप्रायः । तथा चाव्यापिन्य् अन्यापोहव्यवस्थेति भावः । ते ऽपीत्यादिना परिहरति । ते ।
। तेत्यादि । वस्तुन्य् अतथा .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. परिणामेनोपस्कृतत्वाद् विज्ञानसन्ततेः सर्वेषाम् बाह्याध्यात्मिकानाम् अर्थानां दर्शनेष्व् अनुभवेषु । सत्सु अप्य् अनपेक्ष्य तद्भेदम् अप्रधानका .. ।
। .. .. .. .. क्ष्येत्य् अर्थः । तथाध्यवसाय्. + + संकेतम् अप्रधानकार्यान् अपि भावात् प्रधानकार्यत्वेनाध्यवसायात्* । अतथाभूतं कल्पितप्रधानकार्यत्वेन कल्पितं चैतन्यं । तस्य व्यवच्छेदेन प्रधानकार्याभावा इति । यद्विकल्पविज्ञानं तत्प्रतिभासिन्य् अर्थे स एव । विजातीयविकल्पव्यवच्छेदेनान्यापोह इति ।
मूल पाठ: Pramāṇavārttikaṭīkā · Edition: M. Inami, K. Matsuda und T. Tani: A study of the Pramāṇavārttikaṭīkā by Śākyabuddhi from the National Archives collection, Kathmandu, Tokyo 1992 (Studia Tibetica, 23) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0