भाषा

ENहिગુ
ग्रंथ पाठ

प्रमाणवार्त्तिकटीका · अध्याय 44

44.2

। संगः स्यात्* । कारणात् सकृदुत्पन्नस्य कार्यस्य कारणनाशे ऽपि कालान्तरम् अव्स्थानात्* । किं तर्ह्य् अनेन वाक्येनोच्यत इत्य् आह हेतुरहितेत्यादि । यद्य् अप्य् अयं ग्रन्थेन च तथेत्यादि ग्रन्थेन व्यवहितः तथाप्य् अर्थ .. ॥।
व्1 ॥। ः कारणे नष्टे कार्यस्य स्थानम् एव नास्तीति कुतो व्यभिचाराशंका । तथा हि यो ऽग्निजन्यो धूमक्षणस् तस्याग्नौ विनष्टे नास्त्यवस्थानं । यतो यस्मिन् क्षणे द्वितीये अग्निजन्यस्य धूमक्षणस्य सत्ता तस्मिन्न् एव कारणभूतो ऽग्निक्षणो विनष्टस् तदनन्तरं च तृतीये क्षणे धूमक्षणो ऽपि विनष्ट इति कु ।

44.3

। ग्निहेतुकस् तद् एव दर्शयन्न् आह न च तथेत्यादि । तथा स्थायीति नष्टे ऽप्य् आद्ये कारणे कालान्तरस्थायी तदुपादानः पूर्वनिरुद्धहेतूपादानः कथं तर्हि पस्चात् यो ऽपि धूमो ऽग्निहेतुक इत्य् उच्यत इत्य् आह । पारंपर्येत्यादि । आद्यं तावद् धूमक्षणं वह्निर् एव जनयति स धूमक्षणो ऽपरं सो ऽप्य् अपर .. ।

44.4

। .. .. .. .. मतो जननात्* । तत्कार्यव्यपदेशः । तस्याद्यस्य कारणस्य पश्चात्यम् अपि कार्यम् इत्य् एवं व्यपदेशः । यद्य् अस्य हेतोः कथंचित् प्रमाणेनाभावः सिध्येत्* तदा तत्फलं तस्य प्रतिषेध्यमानस्य हेतोः फलं नास्तीति निश्चियते । तदभावः प्रतीयेत हेतुना यदि केनचिद् इत्य् अस्यैव वक्ष्यमानस्य .. ।

44.5

। .य्. .. अनुद्दिष्टविषये तु नैवम् अपेक्ष्यते । यदि कारणं न भवेत् कार्यम् अप्य् अवश्यं न भवेद् धेतुरहिताया भावोत्पत्तेर् असंभावाद् इत्य् एतावन्मात्रस्य प्रतिपादनात् तच् चानन्तरं एवोक्तम् इति स्वभावेत्यादि । अर्थस्येति व्यापकस्य स्वभावे लिङ्गिन्य् असत्वेन साध्ये स्वभावानुपलम्भश् च व्यापकानुपलम्भ ।

मूल पाठ: Pramāṇavārttikaṭīkā · Edition: M. Inami, K. Matsuda und T. Tani: A study of the Pramāṇavārttikaṭīkā by Śākyabuddhi from the National Archives collection, Kathmandu, Tokyo 1992 (Studia Tibetica, 23) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc