भाषा

ENहिગુ
ग्रंथ पाठ

प्रमाणवार्त्तिकटीका · अध्याय 45

45.2

। स्वभाव एवेत्यादिना व्याचष्टे । किंचिद् इति व्यापकानुपलम्भः । यदि अनुपलभ्यमानो व्यापकः स्वभावो ऽस्य निषेध्याभिमतस्य व्याप्यस्य सिद्धः स्यात्* तदा भवेत् प्रमाणं यथा वृक्षत्वं व्यापकं सि .. ॥।
x प्रमाणवार्त्तिकटीका
र्1 ॥। .. वः प्रतीयेत हेतुना केनचित् स्वभावानुपलंभाख्येन यदीत्यादिनार्थम् आह यद्य् अस्य कारकस्याभावः सिध्येद् इति संबन्धः । व्यापकस्य च स्वभावस्याभावः कुतश्चिद् गमकाद् धेतोर् इति उपलब्धिलक्षणप्राप्तानुपलम्भात्* स एव हि प्रतिषेधे ग .. .. .. .. .. .. .. .. .. ।

45.4

। .. .. .. .. .. .. .. द्ध्. कारकव्यापकयोर् अभावासिद्धौ निवर्त्ये ऽपि कार्ये व्याप्ये च संशयात्* । एतच् चोद्दिष्टविषयस्याभावस्य साधने द्रष्टव्यं यथोक्तं प्राक्* । यदि स्वभावाभावे साध्ये तदनुपलम्भ एवाप्रमाणाम् उच्यते कथम् इदानीं भावस्य घटादेः स्वयम् अनुपलब्धेर् अभावसिद्धिः । उत्तरम् आह दृश्यस्ये .. ॥।
इन् मर्गिन् (लिने 7) ॥। न स्वभावाविप्रकर्षम् आह । तस्यैवंविधस्य भावस्यानुपलब्धस्य सतः भावाभावः सत्ताया अभावः प्रतीत्यते । कदा दर्शनाभावकारणासंभवे सति दर्शनाभावस्य कारनं कारणान्तराणां
3 ॥। तस्यासंभवे सति उपलम्भप्रत्ययान्तरसाकल्ये सतीत्य् अर्थः । भावो हीत्यादिना व्याचष्टे । आत्मानं भावयति बोधयतीति भावः । स्वभावाद्यविप्रकृष्टः स्वभावविशेषः । स यदि भवेद् यथास्वं ग्राहकेण कारणेन यस्य यद् ग्राहकम् इन्द्रियं तेनोपलभ्य एव भवेत्* एतेन दृश्यस्येत्य् एतद् व्याख्यातं स यथोक्तो ।

45.5

। षु व्यवधानादिष्व् आदिशब्दाद् वैकल्यप्रतिबन्धादिषु असत्सूपलम्भप्रत्ययेषु सत्स्व् इति यावत्* । उपलभ्यत एव नान्यथा । तथाभूतो ऽनुपलब्धस् त्व् असन्न् इति निश्चीयते किं कारणं तादृशः सतः उपलब्धिलक्षणप्राप्तस्य सतः । उपलम्भाव्यभिचारात्* य एवायं स्वभावस्याभावं निश्चये दृश्यस्य दर्शनेत्यादिनोक्तो ऽयम् एव हेतुर् वे ।

45.6

। .. ध्ये विरुद्धस्य चेत्यादि चशब्दो भिन्नक्रमः तद्विरुद्धोपलब्धौ चेति द्रष्टव्यः यस्याभावः साध्यस् तेन यो विरुद्धस् तेन यो विरुद्धस् तस्योपलब्धौ च स्याद् असत्तायाः प्रतिषेध्याभावस्य निश्चयः किं कारनं विरुद्धस्य भावस्य भावे सत्तायां तद्भावबाधनात्* । तस्य निषेध्याभिमतस्य सत्ताबाधनात्* द्रव्योः सहानवस्थानाद् इति यावत्* । यो हीत्यादिना । व्याचष्टे । यो हि भावो येन .. .. ।

मूल पाठ: Pramāṇavārttikaṭīkā · Edition: M. Inami, K. Matsuda und T. Tani: A study of the Pramāṇavārttikaṭīkā by Śākyabuddhi from the National Archives collection, Kathmandu, Tokyo 1992 (Studia Tibetica, 23) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc