भाषा

ENहिગુ
ग्रंथ पाठ

प्रमाणवार्त्तिकटीका · अध्याय 43

43.2

। .. .. .. .इ क्वचिद् दर्शनमान्द्या दृष्टः स्वभावो न निश्चीयते ॥।
w प्रमाणवार्त्तिकटीका
र्1 ॥। .. यथा विषादिद्रव्यं अभ्यासाद् एवं दानादिचेतनास्व् अपि आविर्भूतप्रकाशानां योगिनां योगिनाम् अभिव्व्यक्तिः संभाव्यतां योगिसिद्धौ च संभवत् प्रमाणं वक्ष्यामः । तथा केषांचिद् अनारब्धकार्याणां बीजादीनां कालान्तरेण कार्याभिनिर्वृत्तिर् दृश्यते । एवं अतीन्द्रियेष्व् अपि संभाव्यतां । तथा हि पिशाचादयः केषु .. ।

43.3

। .. नासत्तासाधनं नापि कार्यानुपलंभः । कारणानुपलम्भस् तु तत्राप्य् अभावसाधनम् इत्य् आह । कार्ये त्व् इत्यादि । कार्ये तु स्वभावादिविप्रकर्षिण्य् अपि कारकाज्ञानं कारणानुपलब्धिर् अभावस्य साधनम् एव स्वभावेत्यादिना व्याचष्टे । विप्रकृष्टविषयस्य स्वभावस्याभावे साध्ये स्वभावानुपलम्भ एवाप्रमाण्. ।

43.4

। .. पलम्भ एव निश्चेतुम् अशक्यः । स्वभावादिविरकर्षिणां केनचित् सह कार्यकारणभावस्यैवानिश्चयात्* सत्यम् एतत् किंतु सनुद्दिष्टविषयस्याभावमात्रस्य प्रप्तिपत्तौ शक्यते । एतावद् वक्तुं कारणम् अन्तरेण कार्यं स्वभावादिविप्रक्षृटम् अप्य् अवश्यं न भवतीति । इयता लेशेनास्योपन्यासः । अत एव सा ।

43.5

। .. नुद्दिष्टविषयो ऽपि शक्यते व्यवस्थापयितुं । नन्व् इत्यादि परः । अग्नेर् विनाशे ऽपि वासगृहादौ धूमस्य दर्शनात्* तथा चासत्य् अपि कारणे कार्यं दृष्टम् इति व्यभिचारः । असति कारणे कार्यं न स्याद् इत्य् अनेन वाक्येन कारणस्थितिकालभाविकार्यं । यावत् कारणसत्ता तावत् कार्यसत्तेत्य् अर्थः । एवं न ब्रूमो येन का ।

मूल पाठ: Pramāṇavārttikaṭīkā · Edition: M. Inami, K. Matsuda und T. Tani: A study of the Pramāṇavārttikaṭīkā by Śākyabuddhi from the National Archives collection, Kathmandu, Tokyo 1992 (Studia Tibetica, 23) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc