भाषा

ENहिગુ
ग्रंथ पाठ

प्रमाणवार्त्तिकटीका · अध्याय 42

42.2

। .. चेतनानां प्रत्यक्षत्वाद् अभ्युदयहेतुता । तदात्मभूता प्रत्यक्षैव तत् कुत इयं भ्रान्तिर् इत्य् आह । प्रत्यक्षे ऽप्य् अर्थ इत्यादि । प्रत्यक्षे ऽप्य् अर्थे विपर्यस्त इत्य् अनेन संबन्धः । अपवदेतापि प्रतिक्षिपेद् अपि ।
व्1 ॥। .त्. इत्य् आहातत्फलेत्यादि । अतत्फला अनभ्युदयफला ये दृष्टास् चेतनाविशेषाः । अव्याकृताः । तैः साधर्म्यात्* साधर्म्यम् एव कथम् इति चेद् आह । फलस्यानन्तर्याभावाद् इति या अन्या अतत्फलाश् चेतनाः याश् च तत्फलाः । उभयत्र तत्फलस्यानन्तर्यं न दृश्यते । न तावतेति फलस्यानन्तर्यद ।

42.3

। .. त् कालान्तरेणोत्तरोत्तरावस्थापरिणामलक्षणेन व्यवहितानां फलानां दर्शनात्* मूषिका चालर्कश् चेति द्वन्द्वः । अलर्क उन्मत्तः श्वा । मूषिकालर्कयोर् दंशकृतं यद्विषं तस्मात् पूर्वम् अदृष्ट्वा विकारात् कालान्तरेण मूर्च्छादिलक्षणस्य विकारस्य दर्शनात्* मूषिकाविषादौ पश्चाद् विकारदर्शनाद् युक्तं तत्फलसामर्थ्यानुमान्. ।

42.4

। सत्वम् एव न्याय्यम् इत्य् आह । तद् इत्यादि । तत्र दनादिचेतनाभ्य आयत्यां फलभावे विरोधाभावाद् बाधकप्रमाणाभावात्* अत्र फलदानसामर्थ्याभावे साध्ये ऽनुपलब्धिमात्रम् अप्रमाणं यदि बाधकं प्रमाणं नास्तीत्य् अप्रतिक्षेपो भावे ऽस्तित्वे किं प्रमाणं नैवास्ति प्रमाणं अतः सत्तानिश्चयो ऽपि न युक्त इति सत्यम् अत एव बाधकसा ।

42.5

। .. .. .. इति विरक्तचित्तसर्वज्ञत्वे भवेद् वा प्रमाणम् इत्य् अप्रतिक्षेपः । तच् च संभवत् प्रमाणं द्वितीये परिच्छेदे ऽभिधायिष्यते । स्याद् एतद् यदि हिंसाविरतिचेतनानाम् अभ्युदयहेतुतालक्षणः स्वभावो ऽस्ति तदा तासु गृह्यमाणासु सो ऽपि गृह्येत न च गृह्यते । न च यस्मिन् गृह्यमाणे य .. गृह्यते । स तस्य स्वभाव्. ।

42.6

। दृश्यते ततो ऽर्थक्रियाया अकरणाद् असत्वम् इत्य् एतद् बाधकं भविष्यतीत्य् आह तद् अत्रेत्यादि । तद् इति वाक्योपन्यासे । अत्रेति निर्धारणे एषु प्रक्रान्तेषु विप्रकृष्टेषु अर्थेषु मध्ये केषांचिद् अर्थानां स्वभावानां वेति .. .. .इ .. .. .. ..ः । तथापि .. ।

42.7

। .. तवाभावात् तद्विषयस्यानुभवस्य यथागृहीतस्वरूपनिश्चयोत्पादनसामर्थ्याभावात्* केषांचिद् अर्थानां स्वभावादिविप्रकृष्टानां कार्यं ज्ञापकं तस्याभावाद् भवेज् ज्ञापकासिद्धिः । कार्यस्यैव कस्माद् अभाव इत्य् आह । कारणानाम् इत्यादि । न हि कार .. + + + + मात्म .. ।

42.8

। अर्वाग्दर्शनाविषयभूतायाः कारणात्* । नेयतेति यथोक्तज्ञापकाभावमात्रेण । तदभाव इत्य् अतीन्द्रियानां देवताविशेषादीनां स्वभावविशेषाणां .. .. .. .. .. .. .. .. .. भावः । प्रत्यक्षानुमाननि .. .इ .. .. .. ।

मूल पाठ: Pramāṇavārttikaṭīkā · Edition: M. Inami, K. Matsuda und T. Tani: A study of the Pramāṇavārttikaṭīkā by Śākyabuddhi from the National Archives collection, Kathmandu, Tokyo 1992 (Studia Tibetica, 23) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc