प्रमाणवार्त्तिकटीका · अध्याय 41
। श्चित् कारणाद् भाव उत्पाद इति चेत्* अयम् अभिप्रायो न सर्वस्य सतः कारणायत्तता । केचिद् धि सन्तः कूटस्थनित्या एव दिक्कालपरमाण्वादयः ततश् च सत्वाद् इत्य् अस्य हेतोस् तैर् एवानेकान्त इति । आकस्मिकीत्य् अहेतुका .. ॥।
व् प्रमाणवार्त्तिकटीका
र्1 ॥। .. .. .. .. .. .. कस्माद् व्यवसायफलत्वान् निश्चयफलत्वात् प्रंआणानां प्रत्यक्षम् अपि हि प्रमाणं सर्वाकारग्रहणे ऽपि येष्व् एवाकारेषु निश्चयम् आ .. .. .. .. .. .. .. .. .. .. .. .. .. + + + न्. चेय्. .. .. .. .. .. .. .. .. .. ।
। परिच्छेदो यस्य चेतस इति विग्रहः । संशये सत्य् अवश्यं न प्रवर्तितव्यम् इत्य् एवं निश्चितं चेतो न करोतीत्य् अर्थः । संशयाद् अपि क्वचिल् लोकस्य कृषीवलादेः प्रवृत्तेः कथं तर्ह्य् अप्रवृत्तिफलत्वेनास्याः प्रामाण्यम् उक्तम् इत्य् अत आह । तथात्वे तद् इ + + + .. .. .. ।
। .. .य्. .. .. .र्. .. सेयम् अदृश्यविषयानुपलब्धिर् अप्रवृत्तिफलाप्रोक्ता । लिङ्गातिशयभाविनीति लिङ्गम् अनुपलब्धिस् तस्यातिशयो विशेष उपलब्धिलक्षणप्राप्तस्येति । तस्य भावः सत्वम्* । तद् यस्याम् अस्ति सा तथोक्ता । लिङ्गविशेषणवतीत्य् अर्थः । उपलब्धिलक्षण + + + + + + + यावत्* । ।
। प्राप्तस्येत्य् अस्माद् विशेषणाद् उत्पद्यते । अत्रेत्यादिना व्याचष्टे । अतेत्य् असद्व्यवहारे । यथोदाहृता प्राग् इति । असज्ज्ञानफला काचिद् धेतुभेदव्यपेक्षयेत्यादिना । यत् पुनर् उक्तम् अप्रमाणम् अनुपलब्धिर् इति । नाविशेषेण बोद्धव्यं किंतु स्वभावेत्यादि । देशादिविप्रकर्ष .. भावः ज्ञापकं लिङ्गं तयो ।
। साध्ये नस्ति प्रामाण्यम् इति स्वभावाज्ञानं प्रत्यक्षनिवृत्तिः । ज्ञापकाज्ञानम् अनुमाननिवृत्तिः । अदृश्यविषयायाः प्रत्यक्षानुमाननिवृत्तेर् अयं न्याय उदाहृत इति समुदायार्थः । यस्येत्यादिना व्याचष्टे । यस्य कस्यचिद् अर्थस्य विप्रकृष्टस्य स्वभावः प्रत्यक्षेण नोपलभ्यते देशादिविप्रकर्षात्* कारणात्* स स्वभावः । तद् अनु ।
। .. त्यक्षनिवृत्तिमात्रेणासन् नाम यथोक्तं प्राग् इति न च तथा विप्रक्षृटेषु स्वसामर्थ्योपादानाज् ज्ञानोत्पादनशक्तिर् अस्तीत्यादिना स्वभावाज्ञानस्येत्य् एतद् व्याख्याय । ज्ञापकाज्ञानस्येत्य् एतद् व्याख्यातुकाम आह यो ऽपीत्यादि । ज्ञापकस्येत्य् अस्य विवरणं लिङ्गस्येति । अतीन्द्रियः प्रतिक्षिप्यते ऽर्थः । सर्वथैव यथा नास्ति विरक्तं ।
। .. वा प्रतिक्षिप्यते । अत्र विशेषः प्रतिक्षिप्यते न धर्मिसत्तामात्रं यथा नास्ति दानेत्यादि । दानं च हिंसाविरतिश् चेति द्वन्द्वः । तद्विषयाश् चेतनास् तथोक्ता दानचेतनानां हिंसाविरतिचेतनां चेत्य् अर्थः । अभ्युदयहेतुता विशिष्टानागतफलहेतुता । अत्र चेतनानां न स्वरूपं प्रतिक्षिप्यते ता .. .. .. ।
मूल पाठ: Pramāṇavārttikaṭīkā · Edition: M. Inami, K. Matsuda und T. Tani: A study of the Pramāṇavārttikaṭīkā by Śākyabuddhi from the National Archives collection, Kathmandu, Tokyo 1992 (Studia Tibetica, 23) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0