प्रमाणवार्त्तिकटीका · अध्याय 40
। भावात्* तस्माद् अनश्वरात्मानं हेतुं जनयतीतीच्छता सर्वकालस्थापिनं जनयतीत्य् अङ्गीकर्तव्यम्* । तथाभूतं च कृतकं वस्तु नास्ति सर्वस्य कालान्तरेण
व्1 ॥। वद् बुद्धीन्द्रियदेहाः प्रवाहच्छेदि .. उपलभ्यन्ते .. .. श्. .. वृक्षादयः पर्वतादयो ऽपि तदाश्रितवृक्षादिविनाशाद् विनश्यन्त्य् एवान्यथाश्रितविनाशाभावात्* । तज्जातीयतयान्ये ऽपि अन्तशो विज्ञानकार्यस्यापि कदाचिद् अनुत्पादाद् वज्रादेर् अपि विनाशः सिद्धः । न हेतुकृतो नश्वरानश्वर्विभागः .. .. .. .. ।
। .. जन्मिस्वभावः स एव नास्तीति नश्वरः । एतद् उक्तं भवति ज .. एव कस्यचित् तादृशं येन कश्चिन् नश्वरो भवति अपरो नेति न वै जन्म नाशिस्वभावस्य हेतुः । न हि जन्म नाम किंचिद् व्यतिरिक्तम् अस्ति येन नाशिस्वभावं कंचित् कुर्यात्* स्वभाव एव हि पदार्थानां जन्म तस्यैव हेतुप्रविभागो निरूप्यते .. .. ।
। .. .. .. + .आशसिद्धिः नापि जन्म नाशिस्वभावस्य हेतुस् तस्मान् नात्र कृतकेषु सत्सु वा हेतोर् विनश्वराविनश्वरजनकत्वेन स्वभावविभागः तदभावाद् धेतुप्रविभागाभावात् फलस्य कृतकस्य सतो वा नश्वरानश्वरत्वेन विभागो नास्तीति असमानं यवबीजादिना । कृतकत्वापेक्ष .. .. ।
। .. .. .. .. .. .. .. .. तस्याभ्युपगतत्वात्* नैतद् अस्त्य् अकृतकस्य सत्वायोगात्* सर्वं हि सत्वं देशकालवस्तुप्रतिनियतं अहेतुत्वे तन्नियमायोगात्* परमाणूनाम् अणुमनसश् च मूर्तिमत्वाद् देशनियमः परेणाङ्गीकृतः तत्कृतोपकाराभावे ऽस्मिन् देशे परमाणुर् नान्यस्मिन्* तथा .. ।
। .. .. .. .. .. .. तस्माद् इत्यादिना ये यद्भावं प्रत्य् अनपेक्षा इत्यादेः प्रयोगस्यार्थम् उपसंहरति सेयं विनाशस्य निरपेक्षता क्वचिद् वस्तुनि कदाचित् काले विनाशस्य यो भावस् तेन विरोधिनी किं करोति । तदभावं तस्य केचित् कदाचिच् च विनाशभावस्याभावं स्वभावेन सत्तया साधयति ।
। .. ण .. .. .. + + + + + + + त्. यस्मिन् काले भवति यत्र वा द्रव्ये तं कालं द्रव्यं चापेक्षत इति निरपेक्ष एव न स्याद् इत्य् उक्तं प्राक्* । स तर्हीति परः । नेत्य् अचार्यः । सत्ताया यो हेतुभावस् तस्माद् एव तथोत्पत्तेः नश्वरस्वभावोत्पत्तेः । एतद् एव स्पष्टयन्न् आह सतो हीत्यादि । .. ।
मूल पाठ: Pramāṇavārttikaṭīkā · Edition: M. Inami, K. Matsuda und T. Tani: A study of the Pramāṇavārttikaṭīkā by Śākyabuddhi from the National Archives collection, Kathmandu, Tokyo 1992 (Studia Tibetica, 23) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0