प्रमाणवार्त्तिकटीका · अध्याय 3
। .. .. । .. .. .. पस्य व्यक्त्यन्तरे संभवाभावात्* याप्य् एका व्यक्तिः संकेतविषयत्वेनाभिमता तस्या अपि क्षणिकत्वात्* । कालान्तरे तेनैव रूपेणानुगमो नास्ति किम् उत देशकालभिन्ने व्यक्त्यन्तरे । तेन कारणेन तत्र स्वलक्षणे संकेतो न क्रियत इत्य् अध्याहारः न हीत्यादिना व्याचष्टे । प्राग् इति संकेतकाले कृ ॥।
ब् प्रमाणवार्त्तिकटीका
र्1 ॥। .. .. किञ्चिद् वस्तु .. .. .. .. .. अन्यत्रेति यत्र व्यक्तिभेदे तया आस्कन्तव्यं । एतच् चान्यत्र सत इति वस्तुभूतस्य सामान्यस्य न संभवतीति संबन्धः । किं कारणम् आश्रयाद् अनन्यत्र्वे ऽभ्युपगम्यमाने ऽन्वयाभावान् न ह्य् एकस्माद् अव्यतिरिक्तस् तदात्मभूतो .. .. .. .. ।
। .आश्रयभावस्य निषिद्धत्वात्* । यदि व्यतिरिक्तस्य सामान्यस्यासंबन्धान् न व्यक्त्यन्तरे स्वाकारज्ञानजननम् एवं तर्ह्य् आद्यायाम् अपि व्यक्तौ तत्तुल्यम् इति किम् उच्यते व्यक्तिष्व् अपूर्वास्व् इति । व्यक्तिष्व् इत्य् एव वक्तव्यं । तथा एकत्र दृष्टस्यान्यत्र दर्शनासंभवाद् इत्य् अपि न वक्तव्यम् एकत्रापि व्यक्तिभेदे .. ।
। .. .. सामान्यस्यान्यत्र दर्शनं न संभव्. .. .. व तत्वान्यत्वाभ्याम् अन्यः प्रकारः संभवतीत्य् आह स्वभावो हीत्यादि स्वभावात् तत्वम् अन्यत्वं वा न लंघयतीति संबन्धः । कस्माद् रूपस्य स्वभावस्यातद्भूतस्यातद्रूपस्यान्यत्वाव्यतिक्रमात्* । ततो ऽन्यत्वाद् इत्य् अर्थः । अस्त्व् अतद्रूपत्वम् अन्यत्वं तु कस्माद् इ .. .. .. ।
। द्. वान्यत्वलक्षणम् इत्य् अर्थः । आकारान्तरवत्* । षष्ठ्यर्थे वतिः । तथा हि सुखाद् दुःखस्यापि अन्यत्वम् असुखरूपम्* दुःखम् इत्य् एव कृत्वा इयता तद्रूपस्यान्यत्वलक्षणेन व्याप्तिर् उक्ता । अस्य चान्यत्वलक्षणस्याविशेषाद् अभिमते ऽपि सामान्ये एतेन धर्म उक्तः । प्रयोगस् तु यद् वस्तुत्वे सत्य् अतद्रूपं तस्य ततो ऽन्यत्वं यथा सुखाद्. ।
। .. .. त्वेनान्यत्वव्यवहारस्य साध्यत्वात् स्वहावहेतुः एवं तावद् अतद्रूपत्वे सामान्यस्यान्यत्वम् आपतितं । अथान्यत्वं नेष्यते तदा तत्वं प्राप्नोतीत्य् आह तच् चेत्यादि । व्यक्तेर् अनन्यत् तदा तद् एव व्यक्तिरूपम् एव तत् सामान्यं भवति । अतत्व इत्य् अव्यक्तिरूपत्वे वस्त्वन्तरवद् अन्यत्वप्रसंगाद् एतच् चानन्तरं एवोक्तं अस्त्व् अनन्यत्वं सामान्य .. .. .. .इ .. .. ।
। दि । एकव्यक्तिस्वभावस्य व्यक्त्यन्तरान्वावेशो ऽनुगमो व्यक्त्यन्तरस्वभावत्वम् इति यावत्* कस्मात् तस्माद् अननुगम्यमानस्याव्यक्त्यन्तरत्वप्रसंगात्* । यदि शाबलेयात्मकं सामान्यं बाहुलेयस्यात्मभूतं भवेत्* । तदा बाहुलेयः शाबलेय एव जातः । शाबलेयात्मकात् सामान्याद् अव्यतिरेकाच् छाबलेयवद् इति कुतो ऽस्य व्यक्त्यन्तरत्वं तत इति .. .. .. .. ।
। मान्यात् सकाशाद् अन्वयिनीत्य् अनुगामिनी नापि व्यतिरेकिणः । सामान्याद् अन्वयिनी बुद्धिर् इति प्रकृतं कस्मात् तस्य व्यतिरिक्तस्य सामान्यस्य क्वचिद् व्यक्तिभेदे अनाश्रयाद् अवृत्तेः संबन्धम् अन्तरेण वृत्त्ययोगात्* । वृत्तिर् आधेयता व्यक्तिर् इति तस्मिन्न् न युज्यत इत्यादिना च व्यंग्यव्यंजकस्याधाराधेयभावसंबन्धस्य च .इ ।
मूल पाठ: Pramāṇavārttikaṭīkā · Edition: M. Inami, K. Matsuda und T. Tani: A study of the Pramāṇavārttikaṭīkā by Śākyabuddhi from the National Archives collection, Kathmandu, Tokyo 1992 (Studia Tibetica, 23) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0