भाषा

ENहिગુ
ग्रंथ पाठ

प्रमाणवार्त्तिकटीका · अध्याय 39

39.2

। .. .. .. .. .आरण्. .. .. क्षणसंगृहीतस्य तदुत्पादनं कार्योत्पादनं प्रति वैगुण्यम् अकुर्वाणस्य
उ प्रमाणवार्त्तिकटीका
र्1 ॥। .. .कार्ये शाल्यङ्कुरे जन्ये । कस्मात् तदुत्पत्तिप्रत्ययानां भूम्युदकादीनां कदाचित् तत्रापि यवबीजादौ सन्निधानात्* । ते निरपेक्षा अपि न शाल्यङ्कुरं जनयन्ति । ततस् तदवस्थो ऽनेकान्त इति । कथम् इति सिद्धान्तवादी । सापेक्षा एवेत्य् अर्थः एषाम् इति ।

39.3

। .. त्. संबन्धः । तत्स्वभावापेक्षा इति शाल्यङ्कुरोत्पादनस्वभावापेक्षाः । तथा च न हेतोस् तत्र वृत्तिर् इति नानेकान्तः । एवं तर्हीति परः । उपाध्यपेक्षं शुद्धं च हेतुद्वयम् अप्य् अधिकृत्याह कृतकानां केषांचित् सतां वेति तत्रापि केषांचिद् इति संबन्धः । स एव स्वभावो नास्ति यो नश्वरः । प्रतिक्ष ।

39.4

। .. श्वरस्वभावापेक्षत्वात्* न विनश्वराः । अनेनानपेक्षत्वाद् इत्य् एतस्य हेतोर् असिद्धताम् आह । शालिबीजेत्यादिना परिहरति आदिशब्दाद् यवबीजादीनां स स्वभाव इति अभिमतेतरकार्यजननाजननस्वभावः । स्वहेतोर् इति कृत्वा यो यवबीजादिर् न तद्धेतुः स शालिबीजहेतुर् यस्य हेतुर् न भवतीत्य् . ।

39.5

। कत्वेन्. व्. .. वाद् धेतुप्रविभाग एव नास्तीति यो मन्यते तं प्रत्य् आह नियतशक्तिश् चेत्यादि । नियता प्रविभक्ता शक्तिर् आत्मातिशयलक्षणा यस्य स नियतशक्तिः । स हेतुर् इति शालियवबीजजननः । न हि भूतभौतिकत्वं नाम किंचिद् एकं रूपम् इष्यते प्रत्यक्षप्रतीतश् च हेतुप्रविभाग इत्य् आह .. .. ।

39.6

। नेना .इ .इ .. त इत्य् आह न चेत्यादि अर्थानां पदार्थानां स्वभावनियम इति प्रविभक्तस्वभावत्वम्* । आकस्मिक इत्य् अहेतुकः कस्मान् न युक्त इत्य् आह । अनपेक्षस्येत्यादि । हेतुनिरपेक्षस्य क्वचिद् एव देशे न सर्वत्र क्वचित् काले न सर्वदा क्वचिद् द्रव्ये यवभीजादौ न सर्वत्रेति । यो ऽयं .. ।

39.7

। .आद् देशा .. ..म् अपेक्ष्य भवन्* हेतुमान् इति गम्यते । एतावन्मात्रनिबन्धनत्वाद् धेतुमत्वव्यवहारस्येति स्वभावहेतुः । यथा शलिबीजादीनां हेतुभेदात् स्वभावनियमः तथात्रात्रापि कृतकेषु सत्सु वा नियमहेतुर् वक्तव्यो यतो नियामकाद् धेतोर् इमे कृतकाः सन्तो वा केचिन् नश्वरात्मनो जाता नान्ये ।

39.8

। .. येषां ते सर्वजन्मानः । कारणमात्राद् उत्पन्न .. .. विशेषेण नाशसिद्धेर् इत्य् अर्थः । एतच् च परप्रतीतम् एव कालान्तरविनाशं गृहीत्वोक्तम् इति प्रत्येतव्यम्* । न तु प्रतिक्षणविनाशं तस्यैव साधयितुं प्रस्तुतत्वात्* कालान्तरेणापि तु विनाशे सिद्धे । तस्य नश्वरात्मा सिध्यति अन्यथा प्राग्वत् पश्चाद् अपि ।

मूल पाठ: Pramāṇavārttikaṭīkā · Edition: M. Inami, K. Matsuda und T. Tani: A study of the Pramāṇavārttikaṭīkā by Śākyabuddhi from the National Archives collection, Kathmandu, Tokyo 1992 (Studia Tibetica, 23) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc