भाषा

ENहिગુ
ग्रंथ पाठ

प्रमाणवार्त्तिकटीका · अध्याय 38

38.2

। .. विनाशहेतोर् असन्निधानात् कश्चिन् न विनश्येद् अपि । स .. .. हेतुसन्निधानेन नियतो विनाशो यतो न ह्य् अवश्यं हेतवः फलवन्तः विनाशाख्यकार्यवन्तः । कस्माद् वैकल्येत्यादि सहकारिसन्निधानवैकल्यं । विरुद्धोपनिपातः प्रतिबन्धः । एतेनेति सापेक्षस्य नावश्यंभावित्वे
इन् मर्गिन् (लिने 8) ॥। नाशहेतूनां नाशस्य लिङ्गत्वेन ये हे .. .. + + + + + + न्ते तेषां । कस्मात् कार्याव्यवस्थितेः नाशहेतोर् नाशस्वभावकार्योत्पत्तिनियमाभावात्* । केषां पुनर् वादिनाम् अयं प्रसंग इत्य् आह हेयुम .. त्यादि । हेतुमन्तं
7 ॥। .. । तद् इत्यादिनोपसंहारः । तद् इति तस्मात्* । + + + + + .इ .. शस्यायं भावः । कृतको ऽनपेक्षस् तद्भावं प्रति । विनाशभावं प्रति ।
व्1 ॥। .इनाशभावनियतः । अनेन साधनफलं । असंभव + + + + + .. .. अन्त्यायाः सामग्र्याः सा तथोक्ता । का पुनर् संभवत्प्रतिबन्धेत्य् आह सकलेति । सहकारिप्रत्ययेन सन्तानपरिणामेन च परिपूरणेत्य् अर्थः । अनेन दृष्टान्त उक्तः । प्रयोगस् तु । ये यद्भावं प्रत्य् अनपेक्षास् ते तद्भावनियतास् तद्यथासंभवत्प्रतिबन्धाकारण .. ।

38.3

। वो विनाश इति स्वभावहेतुः । नन्व् इत्यादिनानेकान्तम् आशंकते । क्वचित् कार्ये ऽनपेक्षाणाम् अपि केषांचित् कारणानां नावश्यं तद्भाव इति यत्रानपेक्षास् तद्भावनियमो नास्तीत्य् अर्थः । क्व पुनर् एतद् इत्य् आह भूमीत्यादि । सा हि कार्यजनने ऽनपेक्षा तथाभूतायां सत्याम् अपि कदाचित् प्रतिबन्धकाले ऽङ्कुरानुत्पत्तेः । एतच् च सन्तान ।

38.4

। .. नेकान्तस् त .. यथोक्तायां सामग्र्या सन्तानपरिणामो ऽपेक्षत्वात् कार्योत्पादनस्य ततो ऽनपेक्षत्वाद् इत्य् अस्य हेतोस् तत्रावृत्तिः कृतकस्याप्य् अस्ति विनाशं प्रति कालान्तरप्रतीक्षा ततो हेतुर् असिद्ध इत्य् आह नैवम् इत्यादि कृतकस्य भावस्य नाशे काचित् कालान्तरापेक्षा । यदि हि स्यात् स्वभावस्याविशेषात् प्राग्वत् पश्चाद् पि न .इ ।

38.5

। णामापेक्षत्वम् अतो व्यभिचार एव हेतोर् इत्य् आह तत्रापीत्यादि । न भूमिबीजादय एकस्वभावाः पश्चाद् इव प्राग् अपि कार्योत्पादप्रसंगात्* किंतूत्तरोत्तरपरिणामेन भिन्नाः । तत्रेति तस्यां सन्तानपरिणामेन भिन्नायां सामग्र्याम्* । अन्ते भावा अन्त्या पश्चाद् उत्पन्ना सामग्री या कार्योत्पादने क्ष ।

38.6

। .. अनन्तरोक्ता सामग्री परिणामेषु मध्ये । पूर्वस् तर्हि परिणामः किमर्थः कथं वा कारणम् इत्य् उच्यत इत्य् आह अन्यस् त्व् इत्यादि । तस्माज् जनकाभिमताद् अन्त्यात् परिणामाद् अन्यः ततो ऽन्यः परो ऽप्य् अस्तीत्य् आह । पूर्व इति तदर्थ इति समर्थक्षणार्थः । अतश् च कारणकारणत्वाद् उपचारेण कारणव्यपदेश इ .. ।

38.7

। दृष्टान्त इत्य् आह न चेत्यादि । ताम् इत्य् अन्त्यां सामग्रीम्* । तत्रेति कार्ये जन्ये एकत्र भाव इति कारणभूते ऽन्त्ये क्षणे विकारस्योत्पत्तौ वा तस्यान्त्यस्य क्षणस्य एकत्वहानेः पूर्वस्य प्रच्युतेर् विकाराख्यस्य च द्वितीयस्योत्पत्तेः । ततश् च नासाव् अन्त्यः स्यात्* अथ मा भूद् एष दोष इति त .. ।

मूल पाठ: Pramāṇavārttikaṭīkā · Edition: M. Inami, K. Matsuda und T. Tani: A study of the Pramāṇavārttikaṭīkā by Śākyabuddhi from the National Archives collection, Kathmandu, Tokyo 1992 (Studia Tibetica, 23) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc