भाषा

ENहिગુ
ग्रंथ पाठ

प्रमाणवार्त्तिकटीका · अध्याय 37

37.2

। .. .. .इ .. .. .. .. .. ..ः प्रमाणेन सिद्धः तस्मात् तन्निवृत्त्या निवर्तत इति सा चेत् सिध्यतीति नियमम् इत्य् उत्तरकालभाविनीति वृत्तिः तदात्मनियमं .. .. .. .. .. .. त्वम् इत्य् अर्थः ।
त् प्रमाणवार्त्तिकटीका
र्1 ॥। न्ये .. न्यथा व्याचक्षते साध्य एव साधनस्य भावे नियमः । प्रसाध्य शब्दश् चार्थाद् आक्षेपवचनस् तेनायम् अर्थस् तस्मान् नियमं प्रसाध्य । नियमम् अर्थाद् आक्षिप्य निवृत्तिर् वक्तव्येति तथाभूतेन वचनेन निवृत्तिर् वक्तव्या या सामर्थ्यान् नियमम् आक्षिपतीति अतत् एवाह सा चे .. ।

37.3

। .. तेन वचनेन प्रकाश्यते । तदात्मनियमं साध्यात्मनियमम् अर्थाद् उक्तिसामर्थ्याद् आक्षिपति इति हेतोः सिद्धो ऽन्वयः । कथम् इत्यादि । परो हि कृतकं विनाशनियतम् इच्छत्य् एव कालान्तरस्थापिनं तु तेनायं प्रश्नार्थः । कृतक उत्पादानन्तरविनाशित्वेनावश्यम् अनित्य इति । कथम् अवगन्तव्यं कालान्तरं ।

37.4

। ..ः कृतक उत्पादानन्तरविनाशीत्य् उच्यते च सिध्यतु नाम कृतकत्वाद् अनित्यत्वं क्षणिकत्वं न सिध्यतीति उत्तरम् आह यस्माद् इत्यादि । स्वभावाद् इति स्वस्य कृतकरूपस्य भावाद् उत्पादाद् एवानुबन्धिता कृतकस्वभावनिष्पत्ताव् एवानित्यतास्वभावनिष्पत्तेर् इत्य् अर्थः । तद्भाव इत्य् अनित्यत्वभा .. ।

37.5

। .. .. तोर् विनश्वराणाम् अनित्यस्वभावानां भावाद् उत्पादात्* एतच् च स्वभावाद् अनुबन्धितेत्य् अस्य विवरणं यत एवं तस्माद् इत्यादि । प्रकृत्यैवेत्य् स्वभावेनैव यदि तु सहेतुको विनाशः ततो ऽवश्यं भावी न स्यात्* तद् एव दर्शयन्न् आह सापेक्षाणाम् इत्यादि । तस्मान् निरपेक्षो भावो विनाशे चशब्दो ऽवधारण्. ।

37.6

। .. त्यता स्या .. षां विनाशकारणम् असन्निहितम्* बाहुल्याद् विनाशकारणानां न क्वचिद् असन्निधानम् इति चेद् आह येनेत्यादि । येनेति यस्मात्* । तद्धेतोर् इति विनाशहेतोः । तेषाम् अपि विनाशकारणानां नावश्यं सन्निधानम् इति संबन्धः । कस्मात् स्वप्रत्ययाधीनसन्निधित्वात्* स्वकारणाय तु सन्निधानत्वात्* न च विना .. ।

मूल पाठ: Pramāṇavārttikaṭīkā · Edition: M. Inami, K. Matsuda und T. Tani: A study of the Pramāṇavārttikaṭīkā by Śākyabuddhi from the National Archives collection, Kathmandu, Tokyo 1992 (Studia Tibetica, 23) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc