भाषा

ENहिગુ
ग्रंथ पाठ

प्रमाणवार्त्तिकटीका · अध्याय 36

36.2

। वति प्रयोगे साधर्म्यम् एव प्रतीयते वैधर्म्यवति च वैधर्म्यम् एव ततो .. .. .. .. .. दाप्य् अस्तीति चेत् तन् न यस्मात् साधर्म्येणापि हि प्रयोगे ऽर्थात् सामर्थ्यात् साध्यविपक्षाद् धेतोर् व्यावृत्तिर् वैधर्म्यं तस्य गतिस् तद् एव सामर्थ्यम् आहासतीत्यादि । तस्मिन्न् इति वैधर्म्ये एवं हि साध्येन हेतुर् व्याप्तः स्याद् यदि साध्यविपक्षा
9 ॥। .. .. योगो वैधर्म्यशब्देनोक्तस् तस्मिन्न् अन्वयगतिः कथम् इत्य् आहासतीत्यादि ।
व्1 ॥। .य्. .. .. तुर् व्याप्तः स्याद् एवं तन्निवृत्या निवर्तेत । एतच् च व्यतिरेकिहेतुचिन्तायां विस्तरेण वक्ष्यामः । अनित्यत्वे यथा कार्यम् इति अनित्य एव कृतकत्वम् इत्य् अर्थः । एतच् चान्वयिन उदाहरणं । अकार्यं विनाशिनीति । कृतकत्वाभावो कार्यं विनाश्यभावश् चाविनाशी तेनायम् अर्थो भवति अविनाशि विनाशाभावे सति अकार्यं कृत .. ।

36.3

। त्यादि । अनयोर् इत्य् अन्वयिव्यतिरेकिणोः । यत्किंचिद् इति सर्वोप + + + + व्याप्तिकथनं ततश् चार्थान् नित्याद् व्यावृतिः कृतकत्वस्येति व्यतिरेकगतिः । एवं हि सर्वं कृतकम् अनित्यं स्याद् यदि न किंचिन् नित्यं भवेत्* यस्य नित्यम् एव नास्ति तस्य कथं ततो व्यतिरेक इति चेत्* तदा संदेह एव नास्ति तदभावात् तत्रावृत्तेः .. .. ।

36.4

। .. .. शंक्याह कृतकत्वस्येत्यादि शब्दस्य च । कृतकत्वे कथित इति अनित्यत्वेन व्याप्तं कृतकत्वं यदा शब्दे कथितं तत्र नियमेन स्वं व्यापकं सन्निधापयतीति सामर्थ्याद् एवानित्यः शब्द इति भवति । तस्मान् नावश्यम् इत्यादि । अवश्यं न निर्देश इति संबन्धः । इहेति साधर्म्यप्रयोगे । अविधर्म्यवन्तं प्रयोगम् आह । व्यतिरेक्य् अपी ।

36.5

। .. ..ं .. .इ .. .इनीत्य् अस्य विवरणं । कृतकश् च शब्द इति पक्षधर्मकथनं । इहापि न प्रतिज्ञावचनं । यस्मात् सिद्धतत्स्वभावतया सिद्धानित्यस्वभावतया करणभूतया तदभाव इति अनित्यत्वाभावे सति न भवतः कृतकत्वस्य शब्दे च भावख्यातौ सत्वप्रकाशने कृतकश् च शब्द इत्य् एवं कृते तदात्मनः सत ।

36.6

। .. .. .. .. त्यः शब्द इति सिद्धेः पूर्ववद् इति साधर्म्यप्रयोगात्* । नन्व् अनित्यत्वाभावे कृतकत्वं न भवतीति प्रयोगे वैधर्म्यमात्रम् उक्तम् अन्वयो नोक्त इत्य् आहान्वयस् त्व् इत्यादि । अन्वयम् अन्तरेण वैधर्म्यस्यानुपपत्तिर् अर्थापत्तिः ताम् एव न हीत्यादिनाह । अतदात्मनियतस्येति अनित्यस्वभा ।

36.7

। .. .. .. .. नियतस्यैव तन्निवृत्तौ निवृत्तिर् इति यावत्* । यत एवं तस्मान् नियमं तादात्म्यलक्षणं प्रतिबन्धं । प्रमाणेन प्रसाध्य साध्यनिवृत्त्या हेतोर् निवृत्तिर् वक्तव्या । ननु साध्यनिवृत्त्या निवृत्तिः कथ्यते नियमस्यैव प्रसाधनाय प्रमाणान्तरेण चेन् नियमः प्रसाधितः किं निष्फलेन निवृत्तिवच .. ।

36.8

। .. प्रसाध्य पश्चान् निवृत्तिर् अभिधीयेत । अत्रैको ब्रुवतो यत् तावद् उच्यते नियमप्रदर्शनाय निवृत्तिवचनम् इति तन् न यतो निवृत्तिवचनं विपक्षप्रचाराशंकानिवृत्त्यर्थं न तु तेन संबन्धः कथ्यते । साध्याभावे हेत्वभावस्य शब्दात् प्रतीतेः । अन्यद् एव तादात्म्यम् अन्यद् विपक्षासत्वं अस्ति कश्चिद् अविद्व ।

मूल पाठ: Pramāṇavārttikaṭīkā · Edition: M. Inami, K. Matsuda und T. Tani: A study of the Pramāṇavārttikaṭīkā by Śākyabuddhi from the National Archives collection, Kathmandu, Tokyo 1992 (Studia Tibetica, 23) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc