भाषा

ENहिગુ
ग्रंथ पाठ

प्रमाणवार्त्तिकटीका · अध्याय 35

35.2

। .. .. .. । अभाव एवेत्यादिना विपक्ष एव सत्वम्+ । तद् इति तस्मात्* अयं यथाविभक्तस् त्रिप्रकारो ऽपि हेतुः सत्तासाधने सत्तासिद्धौ यथाविभक्ताद् धेतुत्रयान् न दान्या गतिर् अस्ति । साधनत्वे लिङ्गत्वे । अस्याः सत्तायाः सामान्येनानुपात्तविशेषत्वेन सिद्धसत्ताके पक्षे धर्मिणि .. ॥।
स् प्रमाणवार्त्तिकटीका
र्1 ॥। .. .. .. .. तेनासिद्धतादोषः परिहृतः । विरुद्धत्वं अनिकान्तिकत्वं च परिहरन् आह । तेन चेत्यादि । तेन साध्याधर्मेण लिङ्गस्य व्याप्तिः । कथञ्चिद् इत्य् अन्वयमुखेन व्यतिरेकमुखेन वा यदि निश्चीयते न विरोधव्यभिचारौ । न विरुद्धम् अनैकान्तिकत्वं वा । नायं प्रसंगः सत्ता ।

35.3

। .. .. .. .. .. .. .. .. .. .. .. समाश्रये वा पक्षधर्मत्वे वा अनिश्चिते सति । तत्स्वभावतया निश्चितव्याप्तिधर्मिसमाश्रयस्वभावतया यो गमको ऽभिमतो न स कश्चिद् गमकः । अत एव हेतोः । स्वधर्मेण स्वेन साध्यधर्मेण व्याप्तो हेतुः । पक्षधर्मिणि सिद्धस्वभावो वाच्यः । निश्चितत्रैरूप्य्. वाच्य इत्य् अर्थः ।

35.4

। .. .. .. .. .. .. .. .. ..* उपलंभयन्* प्रदीपः स एवंभूतः कदाचिद् घटाद्युदरान्तर्वर्ती तद्रूपाप्रतिपत्तौ । सत्यां स्वाम् अर्थक्रियां स्तम्भादिप्रकाशनलक्षणं न हि करोति यादृशो गमकः स्वभावस् तथोक्तं गम्यस् तर्हि कीदृश इत्य् आह । व्यापकस् तस्येत्यादि । यो ऽसौ गमको व्याप्यः स्वभावस् तस्य व्यापको निश्चितो व्य्. ।

35.5

। धर्मो गम्यः । कीदृशस् तस्य गमकत्वेनाभिमतस्य व्यापकत्वेन निश्चितः कथं पुनर् व्यापकत्वेन निश्चितो भवतीत्य् आह । तद्धर्मनिश्चयाद् एवेति । तस्य धर्मस्य गमकधर्मतया स्वभावतया निश्चयः । तद्धर्मनिश्चयः साध्यस्य साधनस्वभावतया निश्चयाद् एवेत्य् अर्थः । इयतानुवर्त्यानुवर्त्तकभाव उक्तः । निर्वर्.. ।

35.6

। ः स्वयन्निवृत्तौ सत्यां तस्य व्याप्यस्य निवर्त्तकः तस्येत्यादिना व्याचष्टे । अयं व्यापको धर्मः स्वयं निवर्त्तमानः तस्य व्याप्यस्य निवर्त्तक इति संबन्धः । किं कारणं यस्माद् एवं ह्य् अस्यायं साध्यो धर्मो व्यापकः सिद्धो भवति । यद्य् अस्य व्यापकस्याभावे त्याप्यो न भवेत्* । तद् इति वाक्योपन्यासे । अनेनेत्य् अनन्तरोक्तेनानुवर्त्यानुव .. ।

35.7

। पीति साधर्म्यवतो वैधर्म्यवतश् च साधनप्रयोगस्य यथाक्रमं गमकलक्षणं साध्यसाधकत्वलक्षणम् उक्तं वेदितव्यम्* । तद् एव प्रयोगद्वैविध्यम् आह । द्विविधो हीत्यादि । यथाहुर् एक इति नैयायिकाः साधर्म्यवान् एव हि प्रयोगो ऽन्वयी वैधर्म्यवांश् च व्यतिरेकी । ननु चान्यथान्वयव्यतिरेकिणो व्यवस्थापितो यस्य विपक्षाभावां नास्ति व्यतिरेकः केवलं सपक्ष एव सत्वं सो ऽन्ययी यस्य तु विपक्षाद् एकान्तेन व्यव्. ..ः सपक्षाभावा .. .. .. .. ॥। .. न्वयस्यायोगात्* अन्वयम् अन्तरेण व्यतिरे ।

35.8

। .. गभेदाद् अन्वयी व्यतिरेकी चेति कथ्यते । इति । वस्तुबलात् तैर् अप्य् अङ्गीकर्तव्यं । एतद् एव साधयन्न् आह नानयोर् इत्यादि । अनयोर् इत्य् अन्वयव्यतिरेकिणोर् हेत्वो वस्तुतः स्वरूपतो न कश्चिद् भेदो द्वयोर् अप्य् अन्वयव्यतिरेकवत्वात्* अन्यत्र प्रयोगभेदाद् इति । ताव् एवान्वयव्यतिरेकौ कदाचिद् अन्वयवता प्रयोगेन प्रतिपा ।

मूल पाठ: Pramāṇavārttikaṭīkā · Edition: M. Inami, K. Matsuda und T. Tani: A study of the Pramāṇavārttikaṭīkā by Śākyabuddhi from the National Archives collection, Kathmandu, Tokyo 1992 (Studia Tibetica, 23) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc